SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ ५ अध्यायः काव्यानुशासनम् । २१३ 'पदद्वयं कपालिनः पुनातु लोकपालिनः । अलीयते नतो हरिः स यत्र पङ्कजप्रभे ॥' एवमन्यान्यप्युदाहार्याणि ॥ त्रिधाविभक्ते द्वाचत्वारिंशत् । चतुर्धाविभक्ते षट्पञ्चाशत् । प्रथमपादादिगतान्त्यार्धादिभागे द्वितीयपादादिगताद्यार्धादिभागे यम्यन्त इत्याधन्वर्थतानुस्मरणेनानेकभेदमन्तादिकम् । अन्तादिकमाद्यन्तकं तत्समुच्चयः ।। तत्र पादद्वयगतत्वेन 'सरस्वति-' इत्यायुदाहरणमेकमेव प्रदर्शितम् । पादत्रयगतत्वेन च यमकं केषांचिन्नाभिमतमिति, लक्ष्यव्याप्तिदर्शनाय 'करण-' इत्यायुदाहरणचतुष्टयं दर्शितम् । एषु च प्रथमपादादिभागस्य द्वितीयपादादिभागेष्वावृत्तिर्दर्शिता। पादान्त्यभागस्य द्वितीयपादान्त्यभागेनावृत्तिप्रदर्शनार्थ तु पदद्वयमित्यायुदाहृतम् ॥ अन्यान्यपीति । तत्रोदाहृतशेषाण्याद्यभागजानि यथा-'सरस्वति यथा रत्नान्यनन्तानि स्फुरन्ति हि । सरस्वति तथा चित्ते शब्दार्थाः संस्फुरन्तु मे ॥', 'परमा या समृद्धिः स्यात्सुखदुःखविवर्जिता । तस्या हेतुं नमामीशं परमायाविनाशनम् ॥', 'योगिगम्यं गुणातीतं मधुकेतुं विभुं हरिम् । मधु केतुं नमाम्याचं दृप्तदैत्यविनाशनम् ॥' मधोः केतुरिव । मधु ब्रह्म केतुं ज्ञातुम् । 'कि कित ज्ञाने' इत्यस्य ॥ 'प्रणमामि सुरारिघ्नं शिवं सोमं भवान्तकम् । यो विभर्ति विपन्नेषु शिवं सोमं च मूर्धनि ।' सह उमया ॥ 'सुरासुरशिरोरत्नघृष्टपादनखांशवे । शंकराय नमस्तस्मै शंकराय जगत्रये ॥' सुखकराय ॥ 'पयोधरारवाः खराः पयोधरा जवान्विताः । पयोधरान्सरन्त्यतो पयोधरान्वियोगिनः।।' जलधारी आरवो येषाम् । दुःसहाः । मेघाः । कुचान् । असंजातस्तन्यात् ॥ 'माधवाय नमस्तस्मै धेनुकान्तविधायिने । धेनुकान्तवृषस्थायोमाधवाय नमोऽस्तु ते ॥ धेनुको नाम खररूपधारी विष्णुविघाताय कंसप्रयुक्तो दैत्यः। गोवल्लभवृषभासीनायै ॥ जग. देकगुरुर्यो हि जगदे कमलो वा । भवतः पातु देवोऽसौ भवतः पार्वतीप्रियः ॥' जगदेकगुरुरिति ब्रह्मणा यः कथितः । युष्मान् । संसारात् ॥ 'देवि त्वा ये गिराजस्रं सत्यसंधेत्युपासते । देवि त्वा ये भजन्ते ते सत्यसंधेयसंपदाम् ॥' एतानि वृत्त्युदाहरणपश्चकेन सहायभागजानि चतुर्दश । एवमन्यभागजान्यप्युदाहरणीयानि ॥ अन्तादिकमिति । दिङ्मात्रम् । यथा---'नारीणामलसं नाभि लसनाभि कदम्बकम् । परमास्त्र. मनङ्गस्य कस्य नो रमयेन्मनः ॥' अलसं क्रियासु सविलासम् । न अभि अपि त्वभयम्॥ आद्यन्तकं यथा-'पिनाकिने नमस्त्रातदैत्यभीवेपिनाकिने । नीलकण्ठमपीक्षन्ते योगिनो हंसमेव यम् ॥' भीवेपिनो भयकम्प्राः ॥ तत्समुच्चय इति । आद्यन्तकान्तादिक १. 'देवि' इत्यस्यामन्त्रितत्वेनाविद्यमानवत्त्वेन त्वादेशाप्राप्त्या 'त्वा' इति पाठेऽपि यमकनिर्वाहः, विसर्जनीयस्येवानुस्वारस्यापि यमकाविरोधित्वात्; यद्वा परसवर्णे कृते ध्यक्षरमेव यमकं स्यात्.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy