________________
२१४
काव्यमाला । मध्यादिकमादिमध्यमन्तमध्यं मध्यान्तकं तेषां समुच्चयाः । तथा तस्मिन्नेव पादे आद्यादिभागानां मध्यादिभागेष्वनियतेऽवस्थाने आवृत्तिरिति प्रभूततमभेदं यमकम् ॥
योर्योगः । यथा-'ससार साकं दर्पण कन्दर्पण ससारसा । शरं नवाना विभ्राणा नावि. भ्राणा शरनवा ॥' प्रववृते । सार्धम् । दर्पण कामेन च । लक्ष्मणाख्यपक्षियुक्ता। काण्डम् । नूतनशकटा । धारयन्ती । ........................... अपि तु पक्षिशब्दयुक्ता । ऋतुविशेषः । नूतना ॥ एवं मध्यादिक आदिमध्यः अन्तमध्यमध्यान्तकतत्समुच्चयतोऽत्रोदाहरणानि अभ्यूह्यानि । मध्यादिकादयो भेदाः संभविनोऽपि न हृद्या इति नोदाह्रियन्ते इति केचित् ॥ तस्मिन्नेव पादे इति । न तु पादान्तरे । तत्रादिभागस्य मध्यभागेनावृत्तिर्यथा-'स रणे सरणेन नृपो बलितावलितारिजनः। पदमाप दमानमतेरुचितं रुचितं च निजम् ॥' समं ग्रामे । प्रयाणेन हेतुना । बलवत्वेन वेष्टितारिजनः । पदं राज्यलक्षणम् । उपशमाद्धेतोः । अनुरूपमभीष्टं च ॥ आदिभागस्यान्तभागेन यथा-'घनाघ नायं न नभा घनाघनानुदीरयन्नेति मनोऽनुदारयन् । सखेऽदयं तामविलास खेदयन्नहीयसे गोरथवा न हीयसे ॥' एतत्पथिकस्य प्रावृषि सुहृदोच्यते-बहुपाप । श्रावणो मासो वार्षुकमेघान्विस्तारयन्न नायमेति । मनोऽर्थाद्विरहिणाम् । पश्चात् स्फोटयन् । तां कान्ताम् । निलील । उद्वेजयन् । सर्पवदाचरसि । यद्वा कियत्तवैतद्बलीवर्दान्यूनो न भवति ॥ मध्यस्यान्तेन यथा-'असतामहितो महितो युधि सारतया रतया । स तयोरुरुचे रुरुचे परमेभवते भवते ॥' अननुकूल: । अत एव पूजितः । उत्कृष्टतया वलवत्तया वा । तदेकसूक्तया । स कश्चिद्वीरः । प्रसिद्धतया । विस्तीर्णकान्तये । प्रीतिमुत्पादितवान् । प्रकृष्टगजयुक्ताय । तुल्यम् ॥ आदेमध्यान्ताभ्यां यथा-'स्तेनतास्तेनतास्ते नता मानवामा नवा मानवाः । दानवादानवा दा. नवा वा नरावा नरा वानराः ॥' चिरंतनस्य कस्यचिदनुचरस्य तत्कालीनानामनुजीविनामात्मसमर्पणेन केनचिनरपतिनापमानितस्य तमेव प्रतीयमुक्तिः-हे नरा नृपाश्च । प्रणताः। नूतनाः। पुरुषाः । स्तेनतया चौर्येण क्षिप्तखामिलक्ष्मीकाः । दर्पण प्रतिकूलाः । दानकथायामस्तुतिपराः । दानवा एव । नृपतयः । इत्यस्य(?) नरो न्यायस्तद्रहिता वा• नरा एवेति ॥ अनियतस्थाने आवृत्तिर्यथा-'कमलिनीमलिनी दयितं विना न सहते सह तेन निषेविताम् । तमधुना मधुना निहितं हृदि स्मरति सा रतिसारमहर्निशम् ॥' पद्मिनीम् । भ्रमरी । न क्षमते। तां दृष्ट्वा तप्यत इत्यर्थः । सार्धम् । तं प्रियम् । इदानीम् । वसन्तेन । क्रीडाप्रधानम् ॥ प्रभूततमभेदमिति । महाकविभिराहतस्यानियतदेशावयस्य
१. 'वीनां पक्षिणां प्राणो विभ्राणो न विद्यते विभ्राणो यस्यां साविभ्राणा नैवंविधा । इति रुद्रटालंकारटीकादर्शनेनात्र त्रुटिः प्रतीयते. २. 'दमात्' रुद्रटालंकारे. ३. 'सः । संग्रामे ।' स्यात्. ४. 'प्रसिद्धया' रुद्रटव्याख्याने. ५. 'तुभ्यम्' स्यात्. ६. 'ते' स्यात्.