________________
१७८
काव्यमाला।
यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः ॥' रामेणेति रामस्य कर्तृभावेन करणं प्रति यद्विशेषणत्वं तत्तस्य दारुणतातिरेकात्मकमुत्कर्ष रौद्ररसपरिपोषपर्यवसायिनं. समर्पयति । तस्य निरतिशयशौर्यशौण्डीर्यशालित्वेन घोरतरनैघण्यनिन्नतया च प्रसिद्धः। तेन तत्प्राधान्यान्न विशेष्येण सह समासे गुणतां नीतं कर्नादेः कारकस्यानेकस्य समशीर्षकया विशेषणभावेन यदुपादानं स द्वन्द्वस्य विषय इति तत्स्वरूपनिरूपणावसर एव तस्य प्राधान्यमप्राधान्यं चाभिधास्यत इति न तदुदाहरणमिहोपदर्शितम् । नापि विध्यनुवादभावोदाहरणं तस्य विशेषणविशेष्यभावतुल्यफलतया तत्समानवृत्तान्तत्वोपपादनात् । प्रत्युदाहरणं यथा-'यस्यावमत्स गुरुदत्तमिमं कुठारं डिम्भोऽपि राम इति नाम पदस्य हन्ता।' इति । कर्मणो यथा-'कृतककुपितष्पाम्भोभिः सदैन्यविलोकितैर्वनमसि गता यस्य प्रीत्या मृतापि तथा स्वया । नवजलधरश्यामाः पश्यन्दिशो भवती विना कठिनहृदयो जीवत्येव प्रिये स तव प्रियः ॥' अत्र वनमिति यद्गमनक्रियायाः सीताविशेषणभूतायाः कर्मभावेन विशेषणं तत्तस्या रामप्रीतिप्रकर्षयुक्ताया अन्यकुलमहेलादुर्लभं दुष्करकारित्वं नामोत्कर्षमर्पयति । वनवासदुःखस्यातिकष्टत्वात् । स चोत्कर्षों रामस्य रतेरुद्दीपनतां प्रतिपद्यत इति प्रधानं न गतेत्यनेन सह समासे कविना तिरस्कृतम् । यथा च-गुर्वर्थमर्थी श्रुतपारदृश्वा रघोः सकाशा. दनवाप्य कामम् ।' इत्यत्र गुर्वर्थमित्यर्थिनोऽर्थक्रियामुखेन यद्विशेषणं तत्तस्य श्लाध्यतातिशयाधानद्वारेण रघोरुत्साहपरिपोषे पर्यवस्यतीति प्राधान्येन विवक्षितत्वानार्थिना सह समासे सताममतामवमतां गमितम् । संवर्धितानां सुतनिर्विशेषमिति । प्रत्युदाहरणं यथा-'प्रदक्षिणक्रियातीतस्तस्याः कोपमजीजनत् ।' इति । 'तमभ्यनन्दप्रथम प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः।' इति । यथा-'कामार्चितार्थिनाम्' इति । यथा--'कालप्रबोधिनाम्' इति च । करणस्य यथा-'आलोकमार्ग सहसा' इति । अत्र करणेति यत्केशहस्तकर्मकस्य संभाविता........"स्पारोधानस्य करणभावेन विशेषणं तत्तस्याः कस्याश्चिद्रभसौत्सुक्यप्रहर्षप्रकर्षरूपमतिशयं प्रतिपादयद्वधूवरयोरुपसंपदम. साधारणीमभिव्यनक्ति । यदवलोकनाधानव्यवधानाधायिनी तावतीमपि कालकलां विघ्नायमानां मन्यमानया सततस्वाधीनेनैकेन करकमलेन रोधोऽप्यस्य न कृतस्तेन तत्प्रधानमिति न रुद्ध इत्यनेन समासेऽस्तमुपनीतम् । यथा च कर्तुमक्षमया मानं प्राणेशः प्रत्यभेदि यत् । सोऽयं सखि स्वहस्तेन समाकृष्टस्त्वयानलः॥ इति । प्रत्युदाहरणं यथा-'धाना खहस्तलिखितानि ललाटपट्टे को वाक्षराणि परिमार्जयितुं समर्थः ।' इति । संप्रदानस्य यथा---'पौलस्त्यः स्वयमेव याचत इति श्रुला मनो मोदते देयो नैष हरप्रसादपरशुस्तेनाधिकं ताम्यति । तद्वाच्यः स दशाननो मम गिरा दत्त्वा द्विजेभ्यो महीं तुभ्यं ब्रूहि रसातलत्रिदिवयोनिर्जित्य किं दीयताम् ॥' अत्र द्विजेभ्य इति निर्जयपूर्वकस्य भार्गवकर्तृकस्य महीदानस्य संप्रदानत्वेन यद्विशेषणं तन्मयाः पात्रसाकरणेनोत्कर्षमादधद्भार्गवशौर्यातिरेकाभिव्यञ्जनेन दशाननस्य क्रोधोद्दीपनपर्यवसायि