________________
३ अध्यायः
काव्यानुशासनम् ।
१७७
णतयोपात्तं तत्कर्तुर्मुनेरतिदुष्करकारितया कमपि तपःप्रभावप्रकर्षमेव द्योतयति ।।। विन्ध्यस्य प्रतिदिवसमुच्छ्याच्छादितार्कप्रकाशस्य जगदान्ध्यविधायित्वात्पयोनिधेरगाधत्वादपारत्वाच्च वातापेश्च मायापरिग्रहग्रस्तसमस्तलोकत्वात्ततस्तत्प्राधान्येन विवक्षितमिति न तैः सह समासे निजींवीकृतम् । प्रत्युदाहरणं यथा-'यः स्थलीकृतविन्ध्योऽदिराचान्तापारवारिधिः । यश्च तापितवातापिः स मुनिः श्रेयसेऽस्तु वः ॥' केचित्पुनरनयोरुदाहरणप्रत्युदाहरणयोरर्थस्योत्कर्पापकर्पप्रतीतिभेदो न कश्चिदुपलभ्यत इति मन्यन्ते । ते इदं(एवं) प्रष्टव्याः-'किं भोः, सर्वेष्वेव समासेपु इयं तदप्रतीतिरुत वहुव्रीहावेवायं शापः' इति । तत्र यदि सर्वेष्वेवेत्यभ्युपगमस्तहि सहृदयाः साक्षिणः पृच्छ्यन्ताम् । वयं तावन्महदन्तरमेतयोः प्रतीत्योः पश्यामः । अथ बहुव्रीहावेवे. त्युच्यते, तदयुक्तम् । न हि प्रतीतिभेदहेतौ प्रतीतसामर्थे सत्यकस्मात्तदसंभवो भवितुं न्याय्यः । एवं हि क्षित्यादिसामग्र्यामविकलायामरादिकार्योत्पादाभावाभ्युपगमोऽपि प्रसज्यते । सर्वत्रैवायं प्रतीतिभेदोऽभ्युपगन्तव्यो नैव वा कुत्रचिन्न पुनरिदमर्धजरतीयं लभ्यते । इह प्रतीतिवैचित्र्यं स्पष्टमवधारयतु मतिमान् । यत्र विध्यनुवादभावाभिधित्सयैव पदार्थानामुपनिवन्धस्तत्रापि हि प्रधानेतरभावविवक्षानिवन्धनौ समासस्य भावाभावावुपगतावेव । यथा-'सूर्याचन्द्रमसौ यस्य मातामहपितामहौ । खयं वृतः पतिभ्यामुर्वश्यावनुवाचयः ॥' अत्र हि त्रैलोक्यालंकारभू तौ . चराचरस्य जगतो जीवितायमानौ भगवन्तौ सूर्याचन्द्रमसौ प्रसिद्धावनूद्य यन्मातामहपितामहभावो विहितस्तत्तस्य पुरूरवसस्तो लोकोत्तरभयाभिजनजनितमभिमानं कामपि काष्ठामधिरोपयतो विशेपणविशेष्यभावाभिहितेनैव नयेनानाप्यनूद्यमानगतोऽतिशयो विधीयमानाकारसंक्रमणक्रमेण तत्संवन्धिनः पर्यवस्यति । तयोहि खरूपमानं भिन्नं फलं पुनः पारम्पर्येण वाक्यार्थोत्कर्पलक्षणमेकमेवेति प्राधान्येन विवक्षितत्वान्न तौ ताभ्यां सह समासे म्लानिमानीतौ । इह च–'जनको जनको यस्या याता तस्योचिता वधूः ।.आर्यस्य गृहिणी या च स्तुतिस्तस्यानपास्पदम् ॥' इति । द्विगौ यथा-'उपपन्नं ननु शिवं सप्तखनेयु यस्य मे । दैवीनां मानुपीणां च प्रतिकर्ता त्वमापदाम् ॥' इत्यत्र संख्यायाः संख्येयेष्वङ्गेषु निरवशेषताप्रतिपत्तिफलमतिशयमादधानायाः प्राधान्येन विवक्षा । तत एव हि तेषु द्विविधापत्प्रतीकारेण राज्ञः शिवोपपत्तिः परिपुष्यतीति तस्यास्तैः सह समासो न विहितः । यथा च-'निग्रहात्खसुराप्तानां वधाच्च धनदानुजः। रामेण निहितं मेनं पदं दशसु मूर्धसु ॥' प्रत्युदाहरणमेतदेवोदाहरणम् , कृतसमासवैशसं(पम्यं) द्रष्टव्यम् । नञ्समासविषयस्तु पूर्वमेव वितत्योपदर्शित उपपादितश्च । तत्पुरुपे कर्तुर्यथा-'देशः सोऽयमरातिशोणितजलैयस्मिन्हदाः पूरिताः क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः । तान्येवाहितशास्त्रघस्मरगुरूण्यत्राणि भाखन्ति नो
१'शस्त्र प्रकाशे. २'मे' प्रकाशे.