________________
१७६
काव्यमाला। णविशेष्योभयांशसंस्पर्शत्वेऽपि यदा विशेषणांशः स्वाश्रयोत्कर्षाधानमुखेन वाक्यार्थचमत्कारकारणतया प्राधान्येन विवक्षितौ विधेयधुरामधिरोहे दितरस्त्वनूद्यमानकल्पतया न्यग्भावमिव भजते तदासौ न वृत्तर्विषयो भवितुमर्हति । तस्यां हि स प्रधानेतरभावस्तयोरस्तमियात् । तच्चैतद्विशेषणमेकमनेकं वास्तु नानयोर्विशेषः कश्चित् । नन्वत्र विशेषणत्वमवच्छेदकत्वाद्गुणभावो विधेयत्वं च विवक्षितत्वाप्राधान्यं तत्कथं तयोर्भावाभावयोरिवान्योन्यविरोधादेकत्र समावेश उपपद्यते येनैकत्र नियमेन समासो निषिध्येतान्यत्र च विकल्प्येत । नैष दोषः । विरोधस्योभयवस्तुनिष्ठत्वात् शीतोष्णा दिवत् । न चेह वस्तुत्वमुभयोः संभवति । एकस्यैव वास्तवत्वादन्यस्य वैवक्षकत्वेन विपर्ययात् । न च वस्तुवस्तुनोविरोधः । न हि सत्यहस्तिनः कल्पना केसरिणश्च कश्चिदन्योन्यं विरोधमवगच्छति । फलभेदस्त्वनयोर्निर्विवाद एव । एकस्य हि सकलजगद्गम्यं शाब्दिकैकविषयपदार्थसंबन्धमात्रम् । अपरस्य पुनः कतिपयसहृदयसंवेदनीयः सत्कवीनामेव गोचरो वाक्यार्थचमत्कारातिशय इति । अत्र क्रमेणोदाहरणानि । तत्र कर्मधारये यथा-'उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारमंसं वहन्त्याः । भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्गय नीतं वपुरलसलसद्वाहुलक्ष्म्याः पुनातु ॥' अत्र विगलितकवरीभारत्वमलसलसद्वाहुत्वं चांसवपुषोर्विशेषणे रतेरुद्दीपनविभावतापादनेन वाक्यार्थस्य काममपि कमनीयतामा• वहत इति प्राधान्येन विवक्षितत्वान ताभ्यां सह समासे कविना न्यग्भावं गमिते । यथा चात्रैव तत्कालकान्तिद्विगुणितसुरतप्रीतित्वं हेतुभावगर्भ विशेषणं शौरेरुचिताचरणलक्षणमतिशयमादधद्विधेयतया प्राधान्येन विवक्षितमिति न तेन सह समासे निमी. लितम् । ‘पदमेकमनेकं वा यद्विधेयतार्थतां गतम् । न तत्समासमन्येन न चाप्यन्योन्यमर्हति ॥ तत्रैकमुदाहृतमेव । अनेकं यथा-'अवन्तिनाथोऽयमुदग्रबाहुर्विशालवक्षास्तनुवृत्तमध्यः । आरोप्य चक्रभ्रममुष्णतेजास्त्वष्ट्रेव यन्त्रोल्लिखितो विभाति ॥ यथा च'विद्वान्दारसखः परं परिणतो नीवारमुष्टिंपचा सत्यज्ञाननिधिर्दधत्प्रहरणं होमार्जनी. हेतुतः । रे दुःक्षत्रिय किं त्वया मम पिता शान्तं मया पुत्रवानीतः कीर्त्यविशेषतां तदिह ते धिक् धिक् सहस्रं भुजाम् ॥ यथा वा-'राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः प्रत्यक्षं कुरुवान्धवस्य मिषतः कर्णस्य शल्यस्य च । पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसग्वक्षसः ॥' यथा च–'हे हस्त दक्षिण मृतस्य शिशोद्विजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम् । भो रामपाणिरसनिर्भरगर्भखिन्नदेवीप्रवासनपटोः करुणा कुतस्ते॥' एवम् –'अङ्गराजसेनापते राजवल्लभ द्रोणापहासिन् , रक्ष भीमाहुःशासनम्' इत्यादौ द्रष्टव्यम् । विशेषणविशेष्यभा. वतुल्यफलो विध्यनुवादोऽपीति । तत्रापि तद्वदेव समासाभावोऽवगन्तव्यः । यथा'चापाचार्यस्त्रिपुरविजयी' इति । प्रत्युदाहरणं त्वेतेषामेव कृतसमासवै... ... कल्पनीयम् । बहुव्रीहौ यथा-'येन स्थलीकृतो विन्ध्यो येनाचान्तः पयोनिधिः । वातापिस्तापितो येन स मुनिः श्रेयसेऽस्तु वः ॥' अत्रापि विन्ध्यादिविषयत्वेन स्थलीकरणादि यद्विशेष