SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ ५ श्रीमद्दुर्लभराजनामनृपतिभ्रातास्य राज्यं दधे शृङ्गारेऽपि निषण्णधीः परवधूवर्गस्य यो दुर्लभः । यस्य क्रोधपरायणस्य किमपि भ्रूवल्लरी भगुरा सद्यो दर्शयति स्म लाटवसुधाभङ्गस्वरूपं फलम् ॥ भीमोऽपि द्विषतां सदा प्रणयिनां भोग्यत्वमासेदिवान्क्षोणीभारमिदं(मं) बभार नृपतिः श्री भीमदेवो नृपः । धारापञ्चकसाधनैकचतुरैस्तद्वाजिभिः साधिता क्षिप्रं मालवचक्रवर्तिनगरी धारेति को विस्मयः ॥ तस्माद्भूमिपतिर्बभूव वसुधाकर्णावतंसः स्फुर त्कीर्तिप्रीणितविश्वकर्णविवरः श्री कर्णदेवाह्वयः । येन ज्याप्रथितखनं च्युतशरं धर्म पुरस्कुर्वता न्यायज्ञेन न केवलं रिपुगणः कालोऽपि विद्धः कलिः ॥ दृप्यन्मालवभूपवन्धनविधित्रस्ताखिलक्ष्मापति र्भक्त्याकृष्टवितीर्णदर्शनशिवो मूर्तः प्रभावोदयः । सद्यः सिद्धरसानृणीकृतजगद्गीतोपमा(तावदा)नस्थिति - र्जज्ञे श्रीजयसिंहदेवनृपतिः सिद्धादिराजस्ततः ॥ वश्या वेश्म रसातलं च विलसद्भोगि ........ ........ भोक्तुम क्षत्राणि रक्षांसि च । यः क्षोणीधरयागिनीं च सुमहाभोगां सिषिवे चिरं हेलासिद्धरसाः सदा क्षितिभुजः ... संख्यातीतवितीर्णदाननिवहैः संपन्न पुण्योच्चयः क्रीडाक्रान्तदिगन्तराल "रे ॥ ॥ । वलाम्ब • कुलभूप क्रीडाकोड इवोद्दधार वसुधां देवाधिदेवाज्ञया । देवः सोऽथ कुमारपालनृपतिः श्रीराज्यचूडामणिर्यः खर्गादवतीर्णवान्हरिरिति ज्ञातः प्रभावाज्जनैः ॥ . ? 1 १. दुर्लभराजराज्यम् — वि० सं० १०६६- १०७८. २. भीमदेवराज्यम् - वि० सं० १०७८ - ११२०. ३. कर्णदेवराज्यम् - वि० सं० ११२० - ११५०. ४. सिद्धराजापरपर्यायजयसिंहराज्यम् - वि० सं० ११५० - ११९९. ५. कुमारपालराज्यम् - वि० सं० ११९९ - १२३०. '".
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy