________________
२१०
काव्यमाला ।
अवलम्बनं पाणिग्रहाक्रन्दासारादि । प्रपातपानीयास्वादैः पानीयानि तनूकुर्वत् | अबलं सैन्यरहितम् । वनं काननम् । अत्रैकत्र - चवौ दन्त्यौ - ष्ठौष्ठयौ, अपरत्र - ओष्ठयदन्त्यौष्ठयौ । अपश्यदित्यत्रैकः शकारः, अपरत्र द्वौ । तथा—
'भवानि ये निरन्तरं तव प्रणामलालसाः । मनस्तमो लालसा भवन्ति नैव ते क्वचित् ॥'
चित्तमोहमलेन जडाः । अत्र लालसेति प्रथमलकारोऽलघुप्रयत्नतरः । मलालसेत्यत्र लघुप्रयत्नतरः ।
तथा नकार - णकारयोरखरमकार - नकारयोर्विसर्जनीयस्य भावाभावयोरपि न विरोध इति केचित् । यथा
'वेगं हे तुरगाणां जयन्नसावेति भङ्ग हेतुरगानाम् ।' 'पातयाशु रथं धीर समीरसमरंहसम् । द्विषतां जहि निःशेषं पृतनाः समरं हसन् ॥' 'द्विषतां मूलमुच्छेत्तुं राजवंशादजायथाः । द्विषयस्यति कथं वृकयूथादजा यथा ॥' मैक्यग्रहणात्स रस इत्यादौ
'प्रवणः प्रणवो यत्र प्रथमः प्रमथेषु यः । रणवान्वारणमुखः स वः पातु विनायकः ॥'
इत्यादौ च यमकत्वं मा भूत् ॥
तत्पादे भागे वा ।
तद्यमकं पादे तस्य च भागे भवति । तत्र पादजं पञ्चदशधा । तथा हि - प्रथम द्वितीयादावावर्तते । द्वितीयस्तृतीयादौ । तृतीयश्चतुर्थ इति षट् । प्रथमो द्वितीयतृतीययोः द्वितीयचतुर्थयोः, तृतीयचतुर्थयोः, द्वितीयस्तृतीयचतुर्थयोरिति चत्वारः । प्रथमस्त्रिष्वपीत्येकः । प्रथम द्वितीये ।
१. अत्र विसर्जनीयपदम् ' यमक श्लेषचित्रेषु ववयोर्डलयोर्न भित् । नानुखारविसग च चित्रभङ्गाय संगतौ ॥' इति वाग्भटालंकारीयश्लोकोत्तरार्धस्थचित्रपदस्य यमकाद्युपलक्षणत्वं सूचयन्ननुखारपदमप्यत्र स्मारयति. २. 'भङ्गहेतु' स्यात्.