________________
५ अध्यायः ]
काव्यानुशासनम् ।
२११
तृतीयश्चतुर्थे इति । प्रथमश्चतुर्थे द्वितीयस्तृतीय इति द्वौ । अर्धा वृत्तिः श्लोकावृत्तिश्चेति । द्वे इति । यथा
-
'चक्रं दहतारं चक्रन्द हतारम् । खड्गेन तवाजौ राजन्नरिनारी ॥'
केश्चिद्राजानमाह – समूहम् । नता । अरिसंबन्धि । रुरोद | भग्नाशा
अत्यर्थम् ॥
'संयतं याचमानेन यस्याः प्रापि द्विपा वधः । संयतं याच मानेन युनक्ति प्रेणताञ्जनम् ॥' रणम् । देव्याः । जितेन्द्रियम् । पूजया ज्ञानेन वा ॥ 'प्रभावतोsनाम न वासवस्य प्रभावतो नाम नवासवस्य ।
प्रभावतो नाम नवा सवस्य विच्छित्तिरासीत्त्वयि विष्टपस्य || ' प्रभावात् । शक्रस्य । तेजखिनः । नामः नमतेः कारकः । अनाम नमनरहितः । अतश्च विष्टपस्य प्रभौ स्वामिनि त्वयि नवसोमरसस्य सवस्य यज्ञस्य नवा विच्छित्तिरासीत् । नवेत्येक एव निपातः प्रतिपेधार्थः । नामेत्यभ्युपगमे निपातः । इत्यादि ॥
अर्धावृत्तिर्यथा---
'सा रक्षतादपारा ते रसकृद्गौर वाधिका । सारक्षतादपारातेरसकृद्गौरवाधिका ॥'
I
सा देवी । त्रायताम् । अनन्ता । तव । रागकृदभिमतं वस्त्वित्यर्थः । वाग्रूपा । पालिनी । उत्कृष्टक्षतेः । अपगतविपक्षात् । अविरतम् । गौरवेणाधिका सर्वेषां गुरुरित्यर्थः ॥ श्लोकावृत्तिर्यथा
' स त्वारं भरतो वश्यमवलं विततारवम् । सर्वदा रणमानैपीवानलसमस्थितः ||
१. कश्चिन्नृपमाह - हे राजन् तव संबन्धिना खड्गेनाजी रणे आरं रिपुसंबन्धि चक्रं समृहं अरं शीघ्रं दहता नता अरिनारी रिपुस्त्री हता भर्तृवधेन ताडिता सती चक्रन्द कन्दितवतीत्यर्थः' इति रुद्रटालंकारव्याख्या. २. 'प्रणतं जनम्' स्यात्.