________________
७ अध्यायः ]
नायकभेदानाह
काव्यानुशासनम् ।
२९९
धीरोदात्तललितशान्तोद्धतभेदात्स चतुर्धा ।
स इति नायकः । धीरशब्दः प्रत्येकमभिसंबध्यते । तेन धीरोदात्तः, धीरललितः, धीरशान्तः, धीरोद्धत इति ।
दक्षिणघृष्टानुकूलशठभेदादेकैकश्चतुर्धा ।
एते शृङ्गाररसाश्रयिणो भेदाः । इति षोडश भेदा नायकस्य । धीरोदात्तादींल्लक्षयति
गूढगर्वः स्थिरो धीरः क्षमावान् अविकत्थनः महासत्त्वो दृढव्रतो धीरोदात्तः ।
गूढगर्यो विनयच्छन्नावलेपः । अविकत्थनोऽनात्मश्लाघापरः । महासत्त्वः क्रोधाद्यनभिभूतान्तःसत्त्वः । दृढव्रतोऽङ्गीकृतनिर्वाहकः । यथा – रामादिः । कलासक्तः सुखी शृङ्गारी मृदुर् निश्चिन्तो धीरललितः ।
कलासु गीताद्यास्वासक्तः । सुखी भोगप्रवणः । शृङ्गारप्रधानः सुकुमाराकारः । सचिवादिसंविहितयोगक्षेमत्वाच्चिन्तारहितः । यथा – वत्सराजः । विनयोपशमवान् धीरशान्तः ।
---
यथा मालतीमाधव-मृच्छकटिकादौ – माधव - चारुदत्तादिः । शूरो मत्सरी मायी विकत्थनश् छद्मवान् रौद्रोऽवलिप्तो धीरोद्धतः ।
मत्सरी असहनः । मन्त्रादिवलेनाविद्यमानवस्तुप्रकाशको मायी । छद्म वञ्चनमात्रम्। रौद्रश्चण्डः। अवलिप्तः शौर्यादिमदवान्। यथा —– जामदग्न्यरावणादिः ।
'देवा धीरोद्धता ज्ञेयाः स्युर्धीरललिता नृपाः । सेनापतिरमात्यश्च धीरोदात्तौ प्रकीर्तितौ ॥
देवा धीरोद्धता इति । अत्र हि 'धीरोदात्तं जयति चरितं रामनाम्नश्च विष्णोः ' इत्यादेर्दर्शनाज्जनकप्रभृतीनां रामादीनां च न धीरललितत्वानुचितत्वमिति धीरललितत्वं राज्ञ एव वर्णनीयं नान्यस्य । सेनापत्यमात्ययोधीरोदात्तत्वमेव । देवानां धीरोद्धतत्वमेव । द्वि