________________
३ अध्यायः]
काव्यानुशासनम् ।
यथा
'दलत्कंदलभाग्भूमिः सनवाम्बुदमम्बरम् । - वाप्यः फुल्लाम्बुजयुजो जाता दृष्टिविषं मम ॥' अत्र भजिः सहशब्दो यजिश्चाधिकाः । तथा-'विसकिसलयच्छेदपाथेयवन्तः' इति ।
'त्वगुत्तरा सद्भवतीमधीतिनीम्' इति च मत्त्व यस्याधिक्यम् । बहुबीहिसमाश्रयेणैव तदर्थावगतिसिद्धेः । यदाहुः—'कर्मधारयमत्त्वर्थीयाभ्यां ? बहुव्रीहिर्लघुत्वात्प्रक्रमस्य' ।
तथा-'वासो जाम्बवपल्लवानि जघने गुञ्जास्रजोभूषणम्' इति, 'तदी.. यमातङ्गघटाविघट्टितैः' इति, येनाकुम्भनिमगवन्यकरिणां यूथैः पयः पीयते' इत्यत्र तद्धितप्रत्ययस्याधिक्यम् । षष्ठीसमासाश्रयेणैव तदर्थावगतेः ।
. यत्र त्वर्थान्तरे तद्धितस्योत्पत्तिः न तत्र समासात्प्रतीतिरिति न तस्या'. धिक्यम् । . यथा
'अथ भूतानिवार्तनशरेभ्यस्तत्र तत्रसुः ।' इति.। अत्र हि अपत्यार्थे तद्धितो नेदमर्थे इति । तथा''किं पुनरीदृशे दुर्जाते जातामर्षनिभेरे च मनसि नास्त्येवावकाशः शोकक्रियाकरणस्य । . इत्यत्र क्रियाकरणयोः । यथा वा उपमायाम्
'अहिणवमणहरविरइयवलयविहूसा विहाइ नववहुया । __कुन्दलयच्चसमुप्फुल्लगुच्छपरिच्छित्तभमरगणा ॥'
अत्रोपमेयस्य नीलरत्नादेरनिर्देशे भ्रमरगणपदमतिरिच्यते इत्यधिकपदत्वम् ।