SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ हेमचन्द्रः। अयं श्वेताम्बरजैनाचार्यश्रीहेमचन्द्रः कदा कतमं भूमिमण्डलं मण्डयामासेति जिज्ञासायामनेकग्रन्थपर्यालोचने प्रवृत्ते Dr. P. Peterson महाशयानां Fifth Report पुस्तके 'तत्पट्टपूर्वाद्रिसहस्ररदिमः सोमप्रभाचार्य इति प्रसिद्धः । श्रीहेमसूरेश्च कुमारपालदेवस्य चेदं न्यगदच्चरित्रम् ॥' इति सोमप्रभाचार्यविरचितहेमकुमारचरित्रकाव्यतः, 'स्तुमस्त्रिसंध्यं प्रभुहेमसूररनन्यतुल्यामुपदेशशक्तिम् । अतीन्द्रियज्ञानविवर्जितोऽपि यः क्षोणिभर्तुळधित प्रयोधम् ॥ सत्त्वानुकम्पा न महीभुजां स्यादित्येप कुप्तो वितथः प्रवादः । जिनेन्द्रधर्म प्रतिपद्य येन श्लाघ्यः स केपां न कुमारपालः॥ इति सोमप्रभकथिते कुमारनृप-हेमचन्द्रसंवादे । जिनधर्मप्रतिवोधे प्रस्तावः पञ्चमः प्रोक्तः ॥' इति सोमप्रभविरचितकुमारपालप्रतिवोधकाव्यतः, 'शिष्यो जम्बुमहामुनेः प्रभव इत्यासीदमुष्यापि च श्रीशय्यंभव इत्यमुष्य च यशोभद्राभिधानो मुनिः । संभूतो मुनिभद्रबाहुरिव · द्वौ तस्य शिष्योत्तमौ संभूतस्य च पादपद्ममधुलिश्रीस्थूलभद्रायः ॥ वंशक्रमागतचतुर्दशपूर्वरत्नकोशस्य तस्य दशपूर्वधरो महर्षिः । नाना महागिरिरिति स्थिरतागिरीन्द्रो ज्येष्टान्तिपत्समजनिष्ट विशिष्टलब्धिः । शिष्योऽन्यो दशपूर्वभृन्मुनिवृपो नाम्ना सुहस्तीत्यरुटू यत्पादाम्बुजसेवनात्समुदिते राज्ये प्रवोधर्धिकाः । चक्रे संप्रतिपार्थिवः प्रतिपुरग्रामाकरं भारते__ऽस्मिन्नधै जिनचैत्यमण्डितमिलापृष्टं समन्दादपि ॥ अजनि सुस्थित-सुप्रतिवुद्ध इत्यभिधयायसुहस्तिमहामुनेः । शमधनो दशपूर्वधरान्तिपद्भवमहातरुभञ्जनकुञ्जरः ॥ १. अस्य जिनधर्मप्रतिबोधकाव्यस्य निर्माणसमयस्तु-'शशिजलधिसूर्यवर्षे शुचिमासे रविदिने सिताटम्याम् । जिनधर्मप्रतिवोधः कुप्तोऽयं गुर्जरेन्द्रपुरे ॥' इति वदता ग्रन्थक व १२४१ (A. D. 1184) विक्रमसंवत्सरात्मक उक्तः. २. 'इति च' इति भवेत्. '३. सुस्थितः, सुप्रतिवद्धः, इति मुनिद्वयम्.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy