________________
२ अध्यायः ]
काव्यानुशासनम् ।
८१
-----
भासमानं परोन्मुखतात्मक सकलदुःखजालहीनं परमानन्दलाभ संविदेकधनं तथाविधहृदयसंवादवतो हृदयं विधत्ते । एतेन निर्वेदस्यामङ्गलप्रायत्वेऽपि व्यभिचारिषु यन्मुनिना प्रथममुपादानं कृतं तत्स्थायिताभिधानार्थमिति यदुक्तम्, तत्प्रतिक्षिप्तम् । तथाहि — कोऽयं निर्वेदो नाम, दारिद्र्यादिप्रभवस्तत्त्वज्ञानप्रभवो वा । तत्राद्यस्य शोकप्रवाहप्रसररूपचित्तवृत्तिविशेषस्य व्यभिचारित्वं वक्ष्यते । अथ तत्त्वज्ञानजो निर्वेदः स्थायी, तर्हि तत्त्वज्ञानमेवात्र विभावत्वेनोक्तं स्यात् । वैराग्यवीजादि ( ? ) षु कथं विभावः । तदुपायत्वादिति चेत्कारणकारणेऽयं विभावता व्यवहारः, स चातिप्रसङ्गावहः । किं च निर्वेदो नाम सर्वत्रानुपादेयता प्रत्ययो वैराग्यलक्षणः । स च तत्त्वज्ञानस्य प्रत्युतोपायः । विरक्तो हि तथा प्रयतते यथास्य तत्त्वज्ञानमुत्पद्यते । तत्त्वज्ञानाद्धि मोक्षो, न तु तत्त्वं ज्ञात्वा निविद्यते ॥ ननु तत्त्वज्ञानिनः सर्वत्र दृढतरं वैराग्यं दृष्टम् । भवत्येवं तादृशं तु वैराग्यं ज्ञानस्यैव पराकाष्ठेति न निर्वेदः स्थायीति ॥ यत्तु व्यभिचारिव्याख्यानावसरे 'वृथा दुग्धोऽनङ्गान्' इत्यादौ चिरकालविभ्रमविप्रलब्धस्योपादेयत्व निवृत्तये सम्यग्ज्ञानं वक्ष्यते, तन्निर्वेदस्य खेदरूपस्य विभावत्वेनेति तस्मात् शम एव स्थायी । न च शमशान्तयोः पर्यायत्वमाशङ्कनीयम् । हासहास्ययोरिव सिद्धसाध्यतया लौकिकालौकिकतया साधारणासाधारणतया च वैलक्षण्यात् । यथा च कामादिपु पुरुषार्थेषु समुचिताश्चित्तवृत्तयो रत्यादिशब्दवाच्याः कविनटव्यापारेणाखादयोग्यताप्रापणद्वारेण तथाविधहृदयसंवादवतः सामाजिकान् प्रति रसत्वं शृङ्गारादितया नीयते, तथा मोक्षाभिधानपरपुरुपार्थोपचितापि शमरूपा चित्तवृत्ती रसतां नीयत इति । तथा हि तत्त्वज्ञानस्वभावस्य शमस्य स्थायिनः समस्तोऽयं लौकिकालौकिकश्चित्तवृत्तिकलापो व्यभिचारितामभ्येति तदनुभावा एव च यमनियमाद्युपकृता अनुभावाः, विभावा अपि परमेश्वरानुग्रहप्रभृतयः, प्रक्षयोन्मुखाश्च रत्यादयोsaraाद्यन्ते । केवलं यथा विप्रलम्भे औत्सुक्यं संभोगेऽपि वा प्रेमासमाप्तोत्सवमिति । यथा च रौद्रे औम्यम्, यथा च करुणवीरभयानकाद्भुतेषु निर्वेदधृतित्रासहर्षा व्यभिचारिणोऽपि प्राधान्येन विभासन्ते, तथा शान्ते जुगुप्साद्याः सर्वथैव रागप्रतिपक्षत्वात् खात्मनि च कृतकृतस्य परार्थघटनायामेवोद्यम इत्युत्साहोऽस्य परोपकारविपयेच्छाप्रयत्नरूपो दयापरपर्यायोऽभ्यधिकोऽन्तरङ्गः । अत एव केचिद्दयावीर - त्वेन व्यपदिश्यंयन्ये धर्मवीरत्वेन ॥ ननूत्साहोऽहंकारप्राण: शान्तस्त्वहंकारशैथिल्यात्मकः । ननु किमतः (?) व्यभिचारित्वं हि विरुद्धस्यापि नानुचितं रताविव निर्वे - दादेः । शय्यां शाङ्गलम्' इत्यादौ हि परोपकारकरणे उत्साहस्यैव प्रकर्पो लक्ष्यते, नैनूत्साहशून्या काचिदप्यवस्था | इच्छाप्रयत्नव्यतिरेकेण पापाणतापत्तेः । यत एव च परिदृष्टपरम्परत्वेन स्वात्मोद्देशेन कर्तव्यान्तरं नावशिष्यते । अत एव शान्तहृदयानां
1
१. 'तु' स्यात्. २. 'निर्विद्यते' स्यात्. ३. 'कृत्यस्य' स्यात्. ४. ' न्तेऽन्ये' स्यात्. ५. 'नतू' स्यात्.
११