________________
८२
काव्यमाला।
न चास्य विषयजुगुप्सारूपत्वात् बीभत्सेऽन्तर्भावो युक्तः । जुगुप्सा ह्यस्य व्यभिचारिणी भवति, न तु स्थायितामेति । पर्यन्तनिर्वाहे तस्या मूलत एवोच्छेदात् ॥ न च धर्मवीरे, तस्याभिमानमयत्वेन व्यवस्थानात्
परोपकाराय शरीरसर्वखादिदानं न शास्त्रविरोधि । 'आत्मानं (यो) गोपायेत्' इत्यादिना ह्यकृतकृत्यविषयं शरीररक्षणमुपदिश्यते, संन्यासिनां तद्रक्षादितात्पर्याभावात् । तथा हि-'धर्मार्थकाममोक्षाणां प्राणाः संस्थितिहेतवः । तानिन्नता किं न हतं रक्षता किं न रक्षितम् ॥' इत्यतिप्रसिद्धचतुर्वर्गसाधकत्वमेव देहरक्षायां निदानं दर्शितम् । कृतप्रेत्यस्य 'जलधौ श्वभ्रे वा पतेत्' इति संन्यासित्वेन श्रवणात् । तद्यथा कथंचित्त्याज्यं शरीरम् , यदि परमार्थमुत्पद्यते तत्किमिव न संपादितं भवति । जीमूतवाहादीनां नयतत्त्वमिति चेत्, किं तेन । तत्त्वज्ञानित्वं तावदस्त्येव, अन्यथा परमार्थे त्यागस्यासंभाव्यत्वात् । युद्धेऽपि हि न वीरस्य देहत्यागायोद्यमः परावजयोद्देशेनैव प्रवृत्तेः। भृगुपतनादावपि शुभतमदेहान्तरसंपिपादयिषैवाभिविजृम्भते। तत्वार्थानुद्देशेन परार्थसंपत्त्यै यद्यच्चेष्टितं देहत्यागपर्यन्तमुपदेशदानादि तत्तदलब्धात्मतत्त्वज्ञानानामसंभाव्यमेवेति । तेऽपि (?) तत्त्वज्ञानिनां सर्वेष्वाश्रमेषु मुक्तिरिति । स्मार्तश्रुतौ यथोक्तम्-'देवार्चनरतस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः । श्राद्धं कृत्वा ददद्व्यं गृहस्थोऽपि हि मुच्यते ॥' इति केवलं परार्थाभिसंधिजाद्धर्मात्परोपकारफलत्वेनैवाभिसंहतात्पुनरपि देहस्य तदुचितस्यैव प्रादुर्भावो बोधिसत्त्वानां तत्त्वज्ञानिनामपि । दृष्टश्चाङ्गेष्वपि विश्रान्तिलाभः स्वभावौचित्यात् । यथा रामस्य वीराङ्गे पितुराज्ञां परिपालयतः । एवं शृङ्गाराद्यङ्गेष्वपि मन्तव्यम् । अत एव शान्तस्य स्थायित्वेऽप्यप्राधान्यम् । जीमूतवाहने त्रिवर्गसंपत्तौ क्षयरोगकृतिप्रधानयोः फलत्वात् । तदत्र सिद्धं दयालक्षणोऽभ्युत्साहोऽत्र प्रधानम् । अन्ये तु व्यभिचारिणो यथायोगं भवन्तीति ॥ एवं यत्कैश्विजीमूतवाहनस्य धीरोदात्तत्वं प्रतिष्ठितं तत्प्रत्युक्तमेव । न च तदीया पर्यन्तावस्था व्यावर्णनीया येन सर्वथेष्टोपरमादनुभावाभावेनाप्रतीयमानता स्यात् । शृङ्गारादेरपि फलभूमावव्यावर्णनीयतैव । पूर्वभूमौ तु 'प्रशान्तवाहितासंस्कारात्तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः' इति सूत्रद्वयनीत्या चित्राकारा यमनियमादिचेष्टा वा राज्यधुरोद्वहनादिलक्षणा वा शान्तस्यापि जनकादेईष्टैवेत्यनुभावसद्भावादिमादिमध्यसंभाव्यमानभूयोव्य भिचारिसद्भावात्प्रतीयते एव (नै प्रतीयते) ॥ ननु प्रतीयते सर्वस्य तुलाध्यास्पदं न भवति । तर्हि वीतरागाणां शृङ्गारो श्लाघ्य इति । सोऽपि रसत्वाच्यवताम् । अयमर्थ:यदि नाम सर्वजनानुभवगोचरता तस्य नास्ति नैतावता, सा च लोकसामान्यमहानुभावचित्तवृत्तिविशेषवत्प्रतिक्षेप्तुं शक्या ॥ ननु धर्मप्रधानोऽसौ वीर एव संभाव्यते इत्याशङ्कयाह-अभिमानमयत्वेनेति । उत्साहो ह्यहमेवंविध इत्येवं प्राण इत्यर्थः॥
१. 'कृत्यस्य' स्यात. २. 'परविजयो' स्यात्. ३. लेखकप्रक्षिप्तं भवेतूः .