________________
३२०
काव्यमाला |
'प्रकरणनाटकभेदादुत्पाद्यं वस्तु नायकं नृपतिम् । अन्तःपुरसंगीतककन्यामधिकृत्य कर्तव्या ॥ स्त्रीप्राया चतुरङ्का ललिताभिनयात्मिका सुविहिताङ्गी । बहुगीतनृत्यवाद्या रतिसंभोगात्मिका चैव ॥
राजोपचारयुक्ता प्रसादनक्रोधदम्भसंयुक्ता । नायकदेवीदूतीस परिजना नाटिका ज्ञेया ॥'
समवकारस्तु
'देवासुरबीजकृतः प्रख्यातोदात्तनायकश्चैव । त्र्यङ्कस्तथा त्रिकपटस्त्रिविद्रवः स्यात्रिशृङ्गारः । द्वादशनायकबहुलो ह्यष्टादशनालिकाप्रमाणश्च ' ॥ इति |
तम् । प्रकरणेति । बहुषु प्रकरणभेदेषु नाटकभेदेषु च स्त्रीप्राप्तिफलात्संभोगशृङ्गारप्रायात् कैशिकी प्रधानाच्च प्रकरणभेदान्नाटकभेदाच्च नाटिका ज्ञेयेति दूरेण संवन्धः ॥ उत्पाद्यं वस्तुचरितं नायकं च नृपतिमन्तःपुरकन्यां संगीतकशालाकन्यां वाधिकृत्य प्राप्यत्वेनाभिसंधाय कर्तव्या च। तेन स्त्रीप्राप्तिः संभोगशृङ्गारोऽभ्यन्तरः कैशिकी च वृत्तिः । तथावस्थासंध्यङ्गार्थ प्रकृतिपताकाप्रकरीयताकास्थानाविष्कम्भकप्रवेशकादीन्युभयभेदसाधारणानि नाटिकायां प्रयोज्यानि । यदपि किंचित्साधारणं तदपि योज्यते । अतश्च 'उत्पाद्यं वस्तु' इति प्रकरणधर्मः । ‘नायकं नृपतिम्' इति नाटकधर्मः । ' अन्तःपुरसंगीतककन्याम्' इति कन्यायोगे ईर्ष्याविप्रलम्भश्च नाटकधर्म एव ।। अथास्य विशेषलक्षणमाह-- स्त्रीप्रायेति । स्त्रियः प्रायेण बाहुल्येन यत्र । चत्वारोऽङ्का यस्याम् । कस्याश्चिदवस्थायाः सरसेऽवस्थान्तरे समावापः कर्तव्य इति यावत् । सुष्ठु पूर्णतया विहितानि चत्वार्यप कैशिक्यङ्गानि यत्र । एतेन स्त्रीप्रायेति ललितेति बहुनृत्येति च कैशिकीं वृत्तिं बाहुल्येन दर्शयति । रतिपुरःसरः संभोगो राज्यप्राप्त्यादिलक्षण आत्मा प्रधानभूतं फलं यस्याम् । अत एवाह – राजगतैरुपचारैर्व्यवहारैर्युक्ता । अन्यां चेदुद्दिश्य तत्र व्यवहारस्तदा पूर्वनायिकागतैः क्रोधप्रसादनवञ्चनैरवश्यं भाव्यमिति दर्शयति - प्रसादनेति । आर्यानुरोधात्कोधस्य पश्चात्पाठः । ननु यस्याः क्रोधो भवति सा न कदाचिदुक्तेत्याशङ्कयाह — नाय - केति । नायकस्य येयं देवी आद्यनायिका तथाभिलषितनायकान्तरविषया येयं दूती तत्कृतं सपरिजनं परिजनसमृद्धिर्यस्याम् ॥ देवासुरेति । देवासुरस्य यद्वीजं फलसंपादनोपायस्तेन कृतो विरचितः । देवासुरा अपि वा प्रख्याता वृहत्कथादौ श्रूयन्ते स्वयं वा केनचिदूह्यन्त इति तन्निरासार्थं प्रख्यातपदम् । यद्यपि देवाः पुरुषापेक्षया दूतास्तथापि स्त्रापेक्षया गाम्भीर्यप्रधानतयोदात्ता उच्यन्ते भगवत्रिपुररिपुप्रभृतयः, प्रशान्ता ब्रह्मादयः, उद्धता नृसिंहादयः । अर्थत्रयस्य तावत्येव समापन्ना (?) त्र्यङ्क इत्युक्तम् । कपटो वञ्चना