________________
३२४
काव्यमाला ।
स्त्रीपरिदेवितबहुलो निर्वेदितभाषितश्चैव ॥ नानाव्याकुलचेष्टः सात्वत्यारभटिकैशिकीहीनम् । कार्यः काव्यविधिज्ञैः सततं द्युत्सृष्टिकाङ्कस्तु ॥' 'प्रहसनमपि विज्ञेयं द्विविधं शुद्धं तथा च संकीर्णम् । वक्ष्यामि तयोर्युक्त्या पृथक्पृथग्लक्षणविशेषम् ॥ भगवत्तापस विप्रैरन्यैरपि हासवादसंबद्धम् । कापुरुषसंप्रयुक्तं परिहासाभाषणप्रायम् ॥ अधिकृतभाषाचारं विशेषभावोपपन्नचरितमिदम् । नियतगतिवस्तुविषयं शुद्धं ज्ञेयं प्रहसनं तु ॥ वेश्याचेटनपुंसक विटधूर्ता बन्धकी च यत्र स्युः । अनियतवेषपरिच्छदचेष्टितकरणं च संकीर्णम् !' 'आत्मानुभूतशंसी परसंशयवर्णनाप्रयुक्तश्च ।
विविधाश्रयो हि भाणो विज्ञेयस्त्वेकहार्यश्च ॥
देवोपालम्भात्मनिन्दादिरूपमनुशोचनं यत्र । निर्वेदितानि येषु श्रुतेषु निर्वेदो जायते तादृशि भाषितानि यत्र । व्याकुलाश्चेष्टा भूमिनिपातविवर्तिताद्याः । सात्वत्यारभरिकैशिकीहीनमिति । समाहारद्वन्द्वगर्भद्वन्द्वान्तरगर्भस्तृतीयासमासः । उत्क्रमणोन्मुखा दृष्टिजीवितं प्राणा यासां ता उत्सृष्टिकाः शोचन्त्यः स्त्रियस्ताभिरङ्कित इति तथोक्तः ॥ प्रहसनमपीति । अपिशब्दो भिन्नक्रमः । तथेति । सामान्ये लक्षणम् । तदयमर्थः । द्विविधमपि ग्रहसनरूपं हास्यरसप्रधानमित्यर्थः । लक्षणविशेषं विशेषलक्षणम् । भगवत्तापसविप्रा यतिवानप्रस्थगृहस्थाः । अन्ये शाक्तादयस्तैरुपलक्षितं हास्यप्रधानवचनसंबद्धं शीला - दिना कुत्सितैः पुरुषैः अत एव प्रहस्यमानैः सामर्थ्यात्तैरेव भगवदादिभिर्युक्तम् । तथापि च भाषाचारौ यत्र न विकृतावसत्याश्लीलरूपौ तथा विशेषेण भावैर्व्यभिचारिभिरुपपन्नानि पदानि कथाखण्डानि यस्मिन् । नियतगति एकप्रकारं यद्वस्तु तद्विषयः प्रहसनीय - लक्षणोऽर्थो यत्र तच्छुद्धं प्रहसनम् । अत्र निर्वचनं यतः परिहासप्रधानान्याभाषणान्यत्र वाहुल्येन भवन्ति । तेन यत्रैकस्यैव कस्यचिचरितं दुष्टत्वात्प्राधान्येन प्रहस्यते तच्छुद्धमित्यर्थः । यत्र तु वेश्यादिभिर्योगोऽत्युल्बणं वा कल्पादि तदेकद्वारेणानेकवेदयादिचरितेन हसनीयेन संकीर्णत्वात्संकीर्णम् । आत्मानुभूतशंसीति । एकेन पात्रेण हरणीयः सामाजिकहृदयं प्रापयितव्योऽर्थो यत्र स भाणः । एकमुखेनैव भण्यन्ते उक्तिमन्तः क्रियन्ते अप्रविष्टा अपि पात्रविशेषा यत्रेति स भाणः । तत्र स प्रविष्टपात्रविशेष आत्मा
1
१. 'सृष्टि' स्यात्.