________________
८ अध्यायः
काव्यानुशासनम् ।
३२३
'व्यायामस्तु विधिज्ञैः कार्यः प्रख्यातनायकशरीरः ।
अल्पस्त्रीजनयुक्तस्त्वेकाहकृतस्तथा चैव ॥ बहवश्च तत्र पुरुषा व्यायच्छन्ते यथा समवकारे । न तु तत्प्रमाणयुक्तः कार्यस्त्वेकाङ्क एवायम् ॥ न च दिव्यनायककृतः कार्यो राजर्षिनायकनिबद्धः । युद्धनियुद्धाधर्षणसंघर्षकृतश्च कर्तव्यः ।। एवंविधस्तु कार्यों व्यायोगो दीप्तकाव्यरसयोनिः ॥' 'वक्ष्याम्यतः परमहं लक्षणमुत्सृष्टिकाङ्कस्यः । प्रख्यातवस्तुविषयस्त्वप्रख्यातः कदाचिदेव स्यात् । दिव्यपुरुर्वियुक्तः शेषैरन्यैर्भवेत्पुंभिः ॥
करुणरसप्रायकृतो निवृत्तयुद्धोद्धतप्रहारश्च । वैचित्र्यमानोपदिशन्ति । व्यायोगस्त्विति । व्यायोगः पुनर्डिमस्यैव शेषभूतो दिव्यनायकाभावात् केवलमत्रोदात्तस्य राजादेन नायकता, अपि समात्यसेनापतिप्रभृतेर्दीप्तरसस्य । अत एव प्रख्यातनायकेल्यत्र उदात्तग्रहणं न कृतम् । शरीरमितिवृत्तम् । प्रख्यातो नायकः शरीरं च यत्र स तथा । अल्पश्च स्त्रीजनश्च तेन युक्तः । चेट्यादिना न तु नायिकादूत्यादिभिः कौशिकीहीनखात् । एकाहःकृत इति । एकदिवसनिर्वयं यत्कार्य तत्कृतम् ॥ यथा समवकार इति । द्वादशेत्यर्थः । तावदङ्कपरिमाणाशङ्कामिति देशात्प्रत्यासत्त्या वा प्रसक्तां वारयितुमाह-एकाङ्क एवेति । एवकारेण एकाहचरितविषयखान्यायप्राप्तमेवात्रैकाङ्कलमित्याह-ननु प्रख्यातनायकशब्देन किमत्र गृहीतमित्यतिप्रसङ्गं शमयति-न चेति । चो भिन्नक्रमः । दिव्यैर्देवैर्नृपैर्ऋषिभिश्च नायकैर्न निबद्धोऽयं भवतीत्यर्थः । ननु कस्मादयं व्यायोग इत्याह युद्धनियुद्धति । व्यायोगे युद्धनियुद्धप्राये युज्यन्ते पुरुषा यत्रेति-व्यायोग इत्यर्थः । संघर्षः शौर्यविद्याकुलधनरूपादिकृता स्पर्धा । दीप्तं काव्यमोजोगुणयुक्तम्, दीप्ता रसा वीररौद्राद्याः, तदुभयं योनिः कारणमस्य । प्रख्यातेति । प्रख्याते भारतादियुद्धे विषये निमित्ते सति यत्तत्करुणबहुलं चेष्टितं वर्ण्यते तत्ख्यातम् । श्रीपर्ववृत्तान्तवद्भवतु मा वा भूदित्यप्रख्यातग्रहणेनोक्तम् । तेनोभयोपादानस्य परस्परविरुद्धार्थत्वादकिंचित्करलं नाशङ्कनीयम् । दिव्यपुरुषैर्वियुक्त इति । दुःखात्मकत्वात् । शेषैरन्यैरिति । अर्थापत्तिफलम् । करुणो रसः प्रायो यत्रेति काव्यशरीरमुच्यते । तत्र कृतः । निवृत्तयुद्धा उद्धतप्रहाराः पुरुषा यस्मिन् । परिदेवितं १..'व्यायोगस्तु' भरते विवेके च. १. सविसर्गपाठः प्रामादिकः. २. 'मतिदेशा' स्यात्.