________________
२ अध्यायः ]
यथा
काव्यानुशासनम् ।
'पश्यामि तामित इतः पुरतश्च पश्चादन्तर्बहिः परित एव विवर्तमानाम् ।
उद्बुद्धमुग्धकनकाब्जनिभं वहन्तीमासज्य तिर्यगपवर्तितदृष्टि वक्रम् ॥'
आक्षेपादेरमर्पः स्वेदादिकृत् । विधैश्वर्यबलाधिककृतेभ्यः आक्षेपावमानादिभ्यः प्रतिचिकीर्षारूपोऽमर्षः। स च स्वेदध्यानोपायान्वेषणशिरः कम्पाधोमुखविचिन्तनादिभिर्वर्ण्यते ।
यथा
लाक्षागृहानलविषान्नसभाप्रवेशैः
- प्राणेषु चित्तनिचयेषु च नः प्रहृत्य ।
आकृष्टपाण्डववधूपरिधानकेशाः
स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः ॥'
निर्घातादेखासोऽङ्गसंक्षेपादिकृत् ।
यथा
निर्घातगर्जितभूपर्वत कम्पशिलोल्काशनिविद्युत्पातरक्षःस्थूलप्रभूतकुष्ठादिभ्यश्चेतश्चमत्कृतिरूपस्त्रासो भयात्पूर्वापर विचारवतो भिन्न एव । सोऽङ्गसंक्षेपस्तम्भरोमोनमगद्गदप्रलयोत्कम्पनिः स्यन्दवीक्षितैर्वर्ण्यः ।
९५
यथा
‘परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः । उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् ॥' ग्रहादेरपस्मारः कम्पादिकृत् ।
ग्रहभूतदेवयक्षपिशाचब्रह्मराक्षसशून्यारण्यश्मशानसे वनोच्छिष्टगमनधातुवैषम्यादेरावेशरूपोऽपस्मारः । तं कम्पितस्फुरितखिन्नधावितश्वसितभूमिपतनारावमुखफेनादिभिर्वर्णयेत् । अयं च प्राय आभासेष्वेव शोभते ।
'आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्भुजाकारवृहत्तरङ्गम् । फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ॥'