________________
---
९६
काव्यमाला |
रोगादेर्निर्वेदो रुदितादिकृत् । रोगाधिक्षेपताडनदारिद्येष्टवियोगावमानतत्त्वज्ञानादिभ्यः खावमानना - रूपो निर्वेदः । स रुदितश्वसितानुपादेयतादिभिर्वर्ण्यः ।
यथा
'किं करोमि क्व गच्छामि कमुपैमि दुरात्मना । दुर्भरणोदरेणाहं प्राणैरपि विडम्बितः ॥'
उत्पातादिभ्य आवेगो विस्मयादिकृत् ।
उत्पातवातवर्षाग्निर्गर्जाप्रियाप्रियश्रवणव्यसनादिभ्यः संभ्रम आवेगः । तं विस्मयावगुण्ठनच्छेन्नश्रयणधूमान्ध्यत्वरितापसर्पणपुलकविलापसंनहनादिभिर्यथासंख्यं वर्णयेत् ।
तत्रोत्पातावेगो यथा -
'किं किं सिंहस्ततः किं नरसदृशवपुर्देव चित्रं गृहीतो नैवेदृक्कोऽपि जीवो द्रुतमुपनिपतन्पश्य संप्राप्त एव ।
·
तत्त्वज्ञानादिभ्य इति । चिरकालविभ्रमविप्रलब्धस्य उपादेयत्वनिवृत्तये यत्सम्यग्ज्ञानं तन्निर्वेदं जनयति, न त्वात्मस्वभावः, तस्य शान्तस्थायित्वेनोक्तत्वात् । यथा'वृथा दुग्धोऽनड्वान्स्तनभरनता गौरिति चिरं परिष्विक्तः षण्ढो युवतिरिति लावण्यरहितः । कृता वैडूर्याशा विकचकिरणे काचशकले नयामूढेन त्वां कृपणमगुणज्ञं प्रणमता ॥' इति । अयं च निर्वेदः स्वयं पुरुषार्थसिद्धये वोत्साहरत्यादि वदत्यन्तानु'रञ्जनाय वा हास विस्मयादिवन्न प्रभवतीत्यन्यमुखप्रेक्षितत्वाद्यभिचार्येवेति ॥ उत्पातवातेति । आदिशब्दः प्रत्येकमभिसंबध्यते । ततश्चोत्पाता देवतादेर्वर्षादेरभ्यादेर्ग1 / जादेः प्रियश्रवणादेरप्रियश्रवणादेर्व्यसनादेश्च विभावादित्यर्थः । एवं विस्मयादिना अवगुणनादिच्छन्नश्रयणादिना धूमाझ्यादिना त्वरितापसर्पणादिना पुलकादिना विलापादिना संहननादिना चानुभावेनेति प्रतिपत्तव्यम् ॥ तत्र उत्पातावेगः 'किं किं सिंह: '
१. 'कुञ्जरोद्रमण' इति भरतसंवादात् 'गजो(द्रमण ) ' इति भवेत्. टीकायां तु 'गजादेः' इत्थं व्याख्यातं तस्माद् 'गज' इत्येव स्यात्. २. 'छत्राश्रयण' इति भरते पाठात् 'छत्रश्रयण' इति भवेत्.
१. 'अवगुण्ठनादिना छन्त्राश्रयणा' स्यात्.
2