________________
३ अध्यायः]
काव्यानुशासनम् ।
१२९
चतस्रो दिश इत्येके । यथा--'चतसृष्वपि दिक्षु राणद्विषतः प्रति येन चित्रचरितेन । विहितमपूर्वमदक्षिणमपश्चिममनुत्तरं कर्म ॥' ऐन्याग्नेयी याम्या नैत्रती वारुणी वायवी कौवेर्थेशानी चाष्टौ दिश इत्यन्ये । यथा-'एकं ज्योतिर्दृशौ द्वे त्रिजगति गदितान्यद्गजास्यैश्चतुर्भिभूतानां पञ्चमं यान्यलमृतुषु तथा षण्मुनीनां विधानि । युष्माकं तानि सप्तत्रिदशमुनिनुतान्यष्टदिग्भौजि भानोर्यान्ति प्राढ़े नवत्वं दश दधतु शिवं दीधितीनां शतानि ॥' ब्राह्मी नागीया च द्वे, ताभ्यां सह दशेत्यपरे । यथा--'दशदिक्कूटपर्यन्तसी. मसंकटभूमिके । विषमास्थूलनक्षस्य(?) ब्रह्माण्डग्रामके स्थितिः ॥' सर्वमस्तु विवक्षापरतन्त्रा हि दिशामियत्ता । तत्र चित्रास्वात्यन्तरे प्राची । तदनुसारेण प्रतीची । ध्रुवेण उदीची । तदनुसारेणापाची । अन्तरेषु विदिशः । ऊर्ध्वं ब्राह्मी। अधस्तानागीया चेति । द्विधा च दिग्व्यवहारः कवीनां प्राक् सिद्धो विशिष्टस्थानावधिसाध्यः । तत्र प्राक् सिद्धे प्राची-'द्वित्रैॉम्नि पुराणमौक्तिकमणिच्छायैः स्थितं तारकैोत्स्नापानभरालसेन वपुषा सुप्ताश्चकोराङ्गनाः । यातोऽस्ताचलचूलमुद्वसमधुच्छत्रच्छविश्चन्द्रमाः प्राची वालविडाललोचनरुचां जाता च पात्रं ककुप् ॥' दक्षिणा-'दक्षिणो दक्षिणा. माशां जिज्ञासन्सोऽधिकं बभौ । जिहासन्दक्षिणामाशां भगवानिव भास्करः ॥' पश्चिमा-'यस्य पश्चिमदिगन्तलम्बिना निर्मितं मितकषे विवखता । दीर्घया प्रतिमया सरोम्भसस्तापनीयमिव सेतुवन्धनम् ॥' उत्तरा--'अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥' विशिष्ट स्थानावधौ तु दिग्विभागे पूर्वपश्चिमौ–'यादांसि हे चरत संगतगोत्रतन्त्रं पूर्वेण चन्दनगिरेरुत पश्चिमेन । नो चेनिरन्तरधराधरसेतुसूतिराकल्पमेष न विरंस्यति वा वियोगः ॥' दक्षिणोत्तरौ यथा-काझ्याः पुरो दक्षिणदिग्विभागे तथोत्तरस्यां दिशि वारिराशेः । कर्णान्तवक्रीकृतपुष्पचापो रत्या समं साधु वसत्यनङ्गः ॥' उत्तरादावप्युत्तरदिगभिधानमनुत्तरादावप्युत्तरदिगभिधानं च । तयोः प्रथमम्-'तनागारं धनपतिगृहानुत्तरेणास्मदीयं दूरालक्ष्यं सुरपतिधनुश्वारुणा तोरणेन । यस्योद्याने कृतकतनयः कान्तया वर्धितो मे हस्तप्राप्यस्तवकविनतो बालमन्दारवृक्षः ॥' द्वितीयम्सह्याद्रेरुत्तरे भागे यत्र गोदावरी नदी । पृथिव्यामिह कृत्स्नायां स प्रदेशो मनोरमः ॥'
एवं दिगन्तरेष्वपि । तत्र देशपर्वतनद्यादीनां दिशां च यः क्रमस्तं तथैव निवनीयात् । .. साधारणं तूभयत्र लोकप्रसिद्धितश्च । तद्वद्वर्णनियमः । तत्र प्राच्यानां श्यामो वर्ण:'श्यामेष्वङ्गेषु गौडीनां सूत्रहारैकहारिषु । वक्रीकृत्य धनुः पौष्पमनको वल्गु वल्गति ॥' दाक्षिणात्यानां कृष्णो यथा-'इदं भासां भर्तु तकनकगोलप्रतिकृतिकमान्मन्दज्योतिर्गलति नभसो विम्बवलयम् । अथैष प्राचीन: सरति मुरलीगण्डमलिनस्तरुच्छाया· चकैः स्तबकित इव ध्वान्तविसरः ॥' पाश्चात्यानां पाण्डुर्यथा-'शाखास्मेरं मधुकवलना
१. 'राग' इति स्यात्. २. 'षट्सुननावि' वा० का०. ३. 'भाञ्जि' वा० का०. ४. 'गल्ल' वा० का०.