________________
काव्यमाला। चोपजीवनम् , आदिशब्दात्पदपादादीनां च काव्यान्तराद्यथौचित्यमुप जीवनम् । पुनरादिपदात्समस्यापूरणाद्याः शिक्षाः । तत्र
वाक्चौर्य न विशीर्यते ॥' इत्याशङ्कयाह-यथौचित्यमिति । अयमप्रसिद्धः प्रसिद्धि । मानहम् , अयमप्रतिष्ठः प्रतिष्ठावानहम् , अप्रक्रान्तमिदम् अस्य संविधानकं प्रक्रान्तम्व, मम, गुडूचीवचनोऽयं मृद्वीकावचनोऽहम् , अनादृतभाषाविशेषोऽयम् आदृतभाषाविशेषोऽहम् , प्रशान्तज्ञातृकमिदं देशान्तरकर्तृकमिदम् , उत्सन्ननिवन्धनमूलमिदं म्लेच्छि . तकोपनिबद्ध मिदम् , इत्येवमादिभिः कारणैः शब्दहरणार्थहरणे चाभिरमेत्येवन्तिसुन्दरी (?) । आहुश्च-'नास्त्यचौरः कविजनो नास्त्यचौरो वणिग्जनः । स नन्दति . विना वाच्यं यो जानाति निगुहितुम् ॥ उत्पादकः कविः कश्चित्कश्चित्तु परिवर्तकः । आच्छादकस्तथा चान्यस्तथा संवर्धकोऽपरः ॥ शब्दार्थोक्तिषु यः पश्येदिह किंचना नूतनम् । उल्लिखेत्किचन प्राच्यं दृश्यतां स महाकविः ॥' समस्यापूरणाद्या इति। तत्र पादसमस्या यथा-'मृगासिंहः पलायते' इति, 'समुद्राद्धूलिकच्छिते' इति चैतौ चतुर्थौ पादौ । यथाक्रममन्यत्पादत्रयं यथा-'मदमन्थरमातङ्गकुम्भपाटनलम्पटः । दैवे पराङ्मुखे कष्टं मृगात्सिहः पलायते ॥' 'सीतासमागमोत्कण्ठाकर्णान्ताकृष्टधन्वनः । राघवस्य शराङ्गारैः समुद्राद्धूलिकच्छिते ॥' ॥ पादद्वयसमस्या यथा-'चव्यचित्रकनागरैः,' 'लङ्कायां रावणो हतः' इति द्वितीयचतुर्थौ पादौ । प्रथमतृतीयौ तु–'मुमूर्षो किं तवाद्यापि चव्यचित्रकनागरैः । स्मर नारायणं येन लङ्कायां रावणो हतः॥ 'किमपि किमिह दृष्टं स्थानमस्ति श्रुतं वा व्रजति दिनकरोऽयं यत्र नास्तं कदाचित् । भ्रमति विहगसार्थानित्थमापृच्छ्यमानो रजनिविरहभीतश्चक्रवाको वराकः ॥' यथा च-'जयति सितविलोलव्यालयज्ञोपवीती घनकपिलजटान्तर्धान्तगङ्गाजलौघः । अविदितमृगचिह्नामिन्दुलेखां दधानो परिणतशितिकण्ठश्यामकण्ठः पिनाकी ॥' यथा च-'कुमुदवनमपनि श्रीमदम्भोजखण्डं त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः । उदयमहिमरश्मियोति शीतांशुरस्तं हतविधिललितानां ही विचित्रो विपाकः ॥ इति वृत्तः यात्प्रथमद्वितीयचतुर्थपादत्रयसमस्यायास्तृतीयपादेन पूरणं यथा-'किमपि किमि दृष्टं स्थानमस्ति श्रुतं वा घनकपिलजटान्तन्तिगङ्गाजलौघः । निवसति: पिनाकी यत्र यायात्तदस्मिन् हतविधिललितानां ही विचित्रो विपाकः॥' ) धग्रहणाद्वाक्यार्थशून्यवृत्ताभ्यासो यथा-'आनन्दसंदोहपदारविन्दकुन्देन्दुकन्दोदित विन्दुवृन्दम् । इन्दिन्दिरान्दोलितमन्दमन्दनिष्पन्दनन्दन्मकरन्दवृन्दम् ॥' पुरातनवृत्ते पदपरावृत्त्याभ्यासो यथा-वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये। जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥' 'वाण्यर्थाविव संपृक्तौ वाण्यर्थप्रतिपत्तये । जगतो जनकौ वन्ते शर्वाणीशशिशेखरौ ॥' एवं महाकाव्यार्थचर्वणपरकृतकाव्यपाठाद्याः शिक्षा अप्यूह्य किं च-'स्वास्थ्यं प्रतिभाभ्यासो भक्तिर्विद्वत्कथा बहुश्रुतता । स्मृतिदायमनि: