________________
११४
काव्यमाला |
यथा नागानन्दे शान्तरसस्य — 'अहो गीतमहो वादितम्' इत्यद्भुतमन्तरे निवेश्य जीमूतवाहनस्य मलयवतीं प्रति शृङ्गारो निबद्धः ।
न केवलं प्रबन्धे, यावदेकस्मिन्नपि वाक्ये रसान्तरव्यवधानाद्विरोघो निवर्तते ।
यथा
-
'भूरेणुदिग्धान्नवपारिजातमालारजोवासितबाहुमध्याः ।
गाढं शिवाभिः परिरम्यमाणान्सुराङ्गनाश्लिष्टभुजान्तरालाः ॥ सशोणितैः क्रव्यभुजां स्फुरद्भिः पक्षैः खगानामुपवीज्यमानान् । संवीजिताश्चन्दनवारिसेकसुगन्धिभिः कल्पलतादुकूलैः ॥ विमानपर्यङ्कतले निषण्णाः कुतूहलाविष्टतया तदानीम् । निर्देश्यमानांल्ललनाङ्गुलीभिर्वीराः स्वदेहान्पतितानपश्यन् ॥'
अत्र बीभत्सशृङ्गारयोरन्तरा वीररसनिवेशान्न विरोधः । वीराः खदेहानित्यादिना उत्साहाद्यवगत्या कर्तृकर्मणोः समस्तवाक्यार्थानुयायितया प्रतीतिरिति मध्यपाठाभावेऽपि सुतरां वीरस्य व्यवधायिकता । खदेहानि - त्यनेन चैकत्वाभिमानादाश्रयैक्यम् ।
अनङ्गत्वमिति । द्वयोर्विरुद्धयोरङ्गित्वे दोष:, नाङ्गभावप्राप्तौ । सा हि नैसर्गिकी, समारोपकृता वा ।
/ तत्र येषां नैसर्गिकी तेषां तावदुक्तावविरोध एव । यथा विप्रलम्भे तदङ्गानां व्याध्यादीनाम् । ते हि निरपेक्षभावतया सापेक्षभावविरोधिन्यपि करुणे सर्वथाङ्गत्वेन दृष्टा । यथा - ' भ्रमिमरतिमलसहृदयताम्' इत्यादि ।
शान्तरसस्येति । 'रागस्यास्पदमित्यवैमि न हि मे ध्वंसीति न प्रत्ययः कृत्याकृत्यविचारणासु विमुखं को वा न वेति क्षितौ । इत्थं निन्दमपीदमिन्द्रियवशं प्रीत्यै भनेद्यौवनं भक्त्या याति यदीत्थमेव पितरौ शुश्रूषमाणस्य मे ॥' इत्यादिना उपक्षेपात्प्रभृ• तिपरार्थं शरीरवितरणात्मक निर्वहणपर्यन्तं प्रतिपादितस्य ॥ एकत्वाभिमानादिति ।
१. 'वादित्रम्' काव्यप्रकाशे. २. 'यकता' इति ध्वन्यालोकलोचने पाठः. ३. 'अनङ्गत्वे चेति' स्यात्. ४. दृष्टां: । 'यथा' स्यात्.
१. 'निन्द्य' स्यात्.