________________
५ अध्यायः]
काव्यानुशासनम् ।
२३१
_ 'विषं निजगले येन बने च भुजगप्रभुः ।
देहे येनाङ्गजो दधे जाया च स जयत्यजः ॥' अत्र गिलितं, निजे गले ।दग्धो वपुषि चेति स्यादित्यादिविभक्त्योर्भङ्गः॥
'प्राज्यप्रभावः प्रभवो धर्मस्यास्तरजस्तमाः ।
ददतां निर्वृतात्मान आद्योऽन्येऽपि मुदं जिनाः ॥' अत्रैकवचनबहुवचनयोर्भङ्गः ॥ एषामेव वर्णादीनामभङ्गाद्यथा
'असावुदयमारूढः कान्तिमानक्तमण्डलः ।
राजा हरति लोकस्य हृदयं मृदुभिः करैः ॥' उदयः शत्त्युपचयो गिरिविशेषश्च । रक्तमण्डलोऽनुरक्तप्रकृतिररुणविम्बश्च । राजा नृपतिश्चन्द्रश्च । मृदुभिरखेदावहैः करैर्दण्डादिभिः किरणैश्चेत्यभङ्गः शब्दश्लेषः ॥ ___ अत्र प्रकरणादिनियमाभावात् द्वावप्यर्थो वाच्यौ ॥ न चायमर्थालंकार इति वाच्यम् । अन्वयव्यतिरेकाभ्यां शब्दगतत्वेन प्रतीयमानत्वात् । तथा हि-उदयादिशब्दप्रयोगेऽलंकारः, तदर्थशक्त्युपचयगिर्यादिप्रयोगे तु नेति तद्भावतदभावानुविधायित्वात् शब्दालंकार एवायम् ॥
'स्वयं च पल्लवाताम्रभाखत्करविराजिनी ।
प्रभातसंध्येवाखापफललुब्धेहितप्रदा ॥' __ इत्यादौ तु संकरत्वमेव युक्तम् । अथ वा न्यायपरीक्षायामुपमात्वमेव । तथा हि-यथा गुणक्रियासाम्ये उपमा, तथा शब्दमात्रसाम्येऽपि दृश्यते--
'सर्कलकलं पुरमेतज्जातं संप्रति सितांशुबिम्बमिव ।' इत्यादौ । न च तत्र शब्दश्लेषत्वं युक्तम् । पूर्णोपमाया निर्विषयत्वासितं तत्तस्येति वाक्यार्थः ॥ ननु खरितादिगुणभेदाद्भिन्नप्रयत्नोच्चार्याणां तदभेदादभिनप्रयत्नोच्चार्याणां च शब्दानां बन्धेऽलंकारान्तरप्रतिभोत्पत्तिहेतुः शब्दश्लेषोऽर्थश्लेषश्चेति द्विविधाप्ययमर्थालंकारमध्ये गणितोऽन्यरित्याशङ्कयाह-न चायमर्थालंकार इति॥ स्वयं चेति । गौरीपक्षे-किसलयवद्दीप्यमानाभ्यां शोभते सुखेनाप्तुं यंन शक्यं फलं तत्र लुब्धानामीहितं प्रददाति । संध्यापक्षे-उज्वलस्तया मरीचिभिः शोभिता खाप
१. 'कराभ्यां' त्रुटितं. स्यात्. २. 'उज्ज्वलसूर्यमरी' स्यात.