________________
४ अध्यायः काव्यानुशासनम् ।
२०५ क्वचिद्वक्तप्रबन्धानपेक्षया वाच्यौचित्यादेव । यथा'प्रौढच्छेदानुरूपोच्छलनरयभवत्सँहिकेयोपघात
त्रासाकृष्टाश्च तिर्यग्वलितरविरथेनारुणेनेक्ष्यमाणम् । कुर्वत्काकुत्स्थवीर्यस्तुतिमिव मरुतां कन्धरारन्ध्रभाजां
भाङ्कारैर्भीममेतन्निपतति वियतः कुम्भकर्णोत्तमाङ्गम् ॥' __ क्वचिद्वक्तृवाच्यानपेक्षाः प्रवन्धोचिता एव । यथा आख्यायिकायां शृङ्गारेऽपि न मैसृणा वर्णादयः । कथायां रौद्रेऽपि नात्यन्तमुद्धताः । नाटकादौ रौद्रेऽपि न दीर्घसमासादयः । एवमन्यदप्यौचित्यमनुसतव्यम् ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायामलंकारचूडामणिसंज्ञखोपज्ञकाव्यानुशासनवृत्ती
गुणविवेचनश्चतुर्थोऽध्यायः ।
उपपन्नाः । अतो वक्रौचित्यादेव रचनादीनामप्यन्यथालमत्रेत्यर्थः ॥न मसृणा इति। गद्यस्य विकटनिवन्धाश्रयेण छायावत्त्वात् ॥नाटकादौ रौद्रेऽपीति । न केवलं करुणविप्रलम्भयोः । रौद्रेऽपि न दीर्चसमासादयो निबन्धनीयाः ॥ कथमिति चेत्, उच्यते-रसो यदा प्राधान्येन प्रतिपाद्यस्तदा तत्प्रतिपत्ती व्यवधायिका विरोधिनश्च सर्वात्मनैव परिहार्याः । एवं च दीर्घसमासः। समासानामनेकप्रकारसंभावनया रसप्रतीतिं कदाचिद्यवदधातीति तस्मिन्नात्यन्तमभिनिवेशः शोभते विशेपतोऽभिनेयार्थे काव्ये । तत्रापि करुणविप्रलम्भयोः । तयोहिं सुकुमारत्वात् खल्पायामप्यखच्छतायां शब्दार्थयोः प्रतीतिर्मन्थरीभवति । रसान्तरे पुनः प्रतिपाद्यो रौद्रादौ मध्यमसमासोऽपि । कदाचिद्धीरोद्धतनायकसंवद्धव्यापाराश्रयेण दीर्घसमासोऽपि वा तदाक्षेपाविनाभावि रसोचितवाच्यापेक्षया न विगुणो भवतीति । सोऽपि नात्यन्तपरिहार्यः । सर्वत्र प्रसादाख्यो गुणो व्यापी।स हि सर्वरससाधारण इत्युक्तम् । प्रसादातिकमे हि असमासोऽपि करुणविप्रलम्भशृङ्गारौ न व्यनक्ति । तदपरित्यागे मध्यसमासोऽपि न प्रकाशयति । तस्मात्सर्वत्र प्रसादोऽनुसर्तव्यः । अत एव च–'यो यः शस्त्रं विभर्ति खभुजगुरुमदात्पाण्डवीनां चमूनां यो यः पश्चालगोने शिशुरधिकवयां गर्भशय्यां गतो वा । यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपं क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोऽहम् ॥' इत्यादौ प्रसादाख्य एव गुणो न माधुर्य नाप्योजः समासाभावात् । न चाचारुत्वमभिप्रेतरसप्रकाशनात् ॥ एवमन्यदपीति । मुक्तकेषु रस
१. 'एव ते । तथाहि' का० प्रका०. २. 'मसणव' का० प्रका०.