________________
१६८
काव्यमाला । 'पातालमिव नाभिस्ते स्तनौ क्षतिधरोपमौ। .
वेणीदण्डः पुनरयं कालिन्दीपातसंनिभः ।।" एषु श्वाद्युपमानानां जातिप्रमाणगता हीनताधिता चेत्यनुचितार्थत्वम् । निन्दायां प्रोत्साहने च न दोषः । यथा
'चतुरसखीजनवचनैरतिवाहितवासरा विनोदेन ।
निशि चण्डाल इवायं मारयति वियोगिनीश्चन्द्रः ॥' इति ।
___ 'विशन्तु वृष्णयः शीघ्रं रुद्रा इव महौजसः ।। इति च। यथा वा उत्प्रेक्षायाम्'दिवाकराद्रक्षति यो गुहासु लीनं दिवा भीतमिवान्धकारम् ।
क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैःशिरसां सतीव ॥' अत्राचेतनस्य तमसस्तात्विकेन रूपेण दिवाकरात्रास एव न संभवति, कुत एव तत्प्रयोजितमद्विपरित्राणम् । संभावितेन तु रूपेण प्रतिभासमानस्य न काचिदनुपपत्तिरवतरतीत्यनुचितैव तत्समर्थना । वाक्यस्य यथा'कुविन्दस्त्वं तावत्पटयसि गुणग्राममभितो ___ यशो गायन्त्येते दिशि दिशि वनस्थास्तव विभो । जरज्योत्स्नागौरस्फुटविकटसर्वाङ्गसुभगा
तथापि त्वत्कीर्तिभ्रंमति विगताच्छादनमिह ।' अत्र कुविन्दादिशब्दास्तन्तुवायादिमभिदधाना उपश्लोक्यमानस्य तिरस्कारं व्यञ्जयन्तीत्यनुचितार्थम् ! .
परुषवर्णत्वं श्रुतिकटुत्वम् । पदस्य यथा
'अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितैः।
आलिङ्गितः स तन्वङ्गया कार्तार्थ्यं लभते कदा॥ अत्र कार्यमिति । १. 'क्षिति' प्रकाशोतं स्यात्.