________________
२४०
काव्यमाला।
यथा'न केवलं भाति नितान्तकान्तिनितम्बिनी सैव नितम्बिनीव । .
यावद्विलासायुधलासवासास्ते तद्विलासा इव तद्विलासाः ॥' तत्र देशेनोपमानोपमेययोर्भेदो यथा-'मधुरेव पाटलिपुत्रमाढ्यजनपदम्।
कालेन यथा-'वसन्त इव हेमन्तः कामिनीसुखहेतुः' । क्रियया यथा-'नृत्यमिव गमनमस्याः सविलासम्' । गुणेन यथा-'गौरीव श्यामा सुभगा' । जात्या यथा--'विप्र इव क्षत्रियः श्रोत्रियः' । द्रव्येण यथा-'तीर्थकर इव गणधरः पूज्यः । समवायेन यथा-'विषाणित्वमिव दंष्ट्रित्वं हिंस्रम् । अभावेन यथा-'मोक्ष इव समाधौ दुःखाभावः' ।
धर्मस्य च साम्यसमन्वयसमुद्भवसातिशयत्वविरहात्सर्वेषां पुराणानां पदार्थानां नूतनम. सद्भूतं किमपि काल्पनिकमुपमानं धर्मान्तरं वा विवक्षितसातिशयत्वसंपत्तये कवयः समुल्लिखन्ति तथानन्वयेऽपि वर्ण्यमानसौकुमार्यमाहात्म्यात्काल्पनिकमप्युपमानमुपपनम् ॥ ननु वास्तवस्य द्वित्वस्याविद्यमानत्वात् उभयनिष्टत्वाच्चोपमानोपमेयभावव्यवस्थितरुपमया सह लक्षणानन्यत्वमनन्वयस्य न संभवतीत्याशङ्कयाह-एकस्यापि भेदः कल्प्यत इति । अयमभिप्रायः-समारोपितरूपस्य द्विलस्याभ्युपगमादपमानो. पमेयभावसंबन्धनिबन्धनत्वमुपमाया लक्षणं विद्यत एवेति नान्वयः पृथगलंकारत्वेन वाच्य इति ॥ विलासायुधः कामः । अत्र सैव नितम्बिनीवेत्येतत्तद्विलासा इवेत्येतच्चोपमानतया विश्रान्तिमलभमानमन्यव्यावृत्तौ लक्षणयावतिष्ठते ॥ विषाणित्वमिव दंष्ट्रित्वमिति । अत्र 'समासकृत्तद्धितेषु संवन्धाभिधानम्' इति वचनात्संयोगस्य चाभावादर्थात्समवायस्य संभवाद्यस्य गुणस्य हि भावाद्रव्ये शब्दनिवेशस्तदभिधाने 'त्वतलौ' इति त्वप्रत्ययेन समवायस्याभिधानम् । तस्य च सत्यप्येकत्वे उपाधिनिबन्धनं भेदकल्पनं न्याय्यम् । ततश्च विषाणोपाधिक: समवाय उपमानं दंष्ट्रोपाधिकस्तूपमेय इति ॥ मोक्ष इवेति । मोक्षे दुःखाभाव इव समाधौ दुःखाभाव इति भावः ॥ नित्यसमास
१. 'नानन्वयः' स्यात्. २. 'इत्यर्थः' ख. ३. अयं कोष्टकान्तर्गतः पाठोऽत्र लेखकप्रमादात्पतितो भवेत्. अग्रे 'नेरिवो-' इत्येतच्छोकप्रकरणे 'इवेन नित्यस. मासः' इत्यस्य व्याख्यारूपो भवेत्.