________________
६ अध्यायः] काव्यानुशासनम् ।
२३९ हे देवि, विगतरजोविकारे हृदि सत्त्वाख्यं गुणं प्रकाश्य. शोभसे । अरीणामखिन्नां सनायकां चमूमुत्कम्पितवती । अत्र 'भासि'-'विराजसे'इत्यादिशब्दाः सार्थकाः । 'उदकम्'-'पयः'-शब्दौ निरर्थको । इत्याचार्यश्रीहेमचन्द्रविरचितायामलंकारचूडामणिसंज्ञखोपज्ञकाव्यानुशासनवृत्ती
शब्दालंकारवर्णनः पञ्चमोऽध्यायः ।
षष्ठोऽध्यायः । अथार्थालंकाराणामेकोनत्रिंशतमाहहृद्यं साधर्म्यमुपमा ।
कार्यकारणयोरसंभवादुपमानोपमेययोरेव साधर्म्यं भवतीति तयोरेव समानेन धर्मेण संबन्ध उपमा । हृद्यं सहृदयहृदयालादकारि । तेन सत्त्वज्ञेयत्वप्रमेयत्वादिसाधर्म्य नोपमा । तथा 'कुम्भ इव मुखम्' इत्यादि शृङ्गारादौ । हास्यादौ तु न दोषः । हृद्यग्रहणं च प्रत्यलंकारमुपतिष्ठते । साधम्य च देशादिभिर्भिन्नानां गुणक्रियादिसाधारणधर्मवत्त्वम् । अभेदे ह्येकत्वमेव स्यात् । तेन 'पुरुष इव पुरुषः' इति सत्यपि पुरुषद्वयस्य पुरुषत्वानुगमनलक्षणे साम्ये नोपमा । यदा तु द्वितीयः पुरुषशब्दः शक्तिमूलव्यङ्गचपरतयावदातकर्मवचनः, तदानीं भिन्नत्वाद्भवत्येव ।
-
यथा--
'निघ्नन्नभिमुखः शूरोऽनेकशो बहुशः परान् ।
संग्रामे विचरत्येष पुरुषः पुरुषो यथा ॥ एवं च यत्रासाधारणताप्रतिपादनार्थमेकस्यापि भेदः कल्प्यते, तत्राप्युपमा भवति ।
एकोनत्रिंशतमिति । उपमोत्प्रेक्षारूपकनिदर्शनदीपकान्योक्तिपर्यायोक्तातिशयोतयाक्षेपविरोधसहोक्तिसमासोक्तिजातिव्याजस्तुतिश्लेषव्यतिरेकार्थान्तरन्यासससंदेहापदुतिपरिवृत्त्यनुमानस्मृतिभ्रान्तिविषमसमसमुच्चयपरिसंख्याकारणमालासंकरान् ॥ असाधारणताप्रतिपादनार्थमिति । एतत्सदृशमन्यं नास्तीत्यसाधारणता तत्प्रतिपादनार्थमित्यर्थः । यथा 'उभौ यदि व्योनि पृथक्प्रवाही' इत्यादौ कल्पितोपमायामन्यैरुत्पाद्योपमेत्यपरैरतिशयोक्तिरिति च व्यपदेश्यायां वर्णनीयस्य वस्तुनः प्राप्तोत्कर्षस्य