________________
काव्यानुशासनम् |
तत्र शब्दशक्तिमूलमाह - नानार्थस्य मुख्यस्य शब्दस्य संसर्गादिभिरमुख्यस्य च मुख्यार्थवाधादिभिर्नियमिते व्यापारे वस्त्वलंकारयोर्वस्तुनश्च व्यञ्जकत्वे शब्दशक्तिमूलः पदवाक्ययोः ।
अनेकार्थस्य मुख्यस्य शब्दस्याभिधालक्षणे व्यापारे संसर्गादिभिर्नियन्त्रितेऽमुख्यस्य च गौणलाक्षणिकरूपस्य शब्दस्य मुख्यार्थबाधनिमित्तप्रयोजनैर्गौणीलक्षणारूपे व्यापारे नियन्त्रिते मुख्यस्य शब्दस्य वस्त्वलंकारव्यञ्जकत्वेऽमुख्यस्य च वस्तुव्यञ्जकत्वे सति शब्दशक्तिमूलो व्यङ्गयः ॥ स च प्रत्येकं द्विधा । पदे वाक्ये च ॥ संसर्गादयमे भर्तृहरिणा प्रोक्ताः
'संसर्गे विप्रयोगश्च साहचर्य विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः || सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यान वच्छेदे विशेषस्मृतिहेतवः ॥'
यथा-
३९.
'वनमिदमभयमिदानीं यत्रास्ते लक्ष्मणान्वितो रामः' इति । 'विना सीतां रामः प्रविशति महामोहसरणिम्' इति । संसर्गाद्विप्रयोगाच्च दाशरथैौ । 'बुधो भौमश्च तस्योच्चैरनुकूलत्वमागतौ' इति साहचर्याद्रहविशेषे । 'रामार्जुनव्यतिकरः सांप्रतं वर्तते तयोः' इति विरोधाद्भार्गवकार्तवीर्ययोः । 'सैन्धवमानय, मृगयां चरिष्यामि' इत्यर्था प्रयोजनादश्वे । ‘अस्मद्भाग्यविपर्ययाद्यदि परं देवो न जानाति तम्' इति प्रकरणाद्युष्मदर्थे । प्रकरणमशब्दमर्थस्तु शब्दवानित्यनयोर्भेदः ।
'कोदण्डं यस्य गाण्डीवं स्पर्धेते कस्तमर्जुनम्' इति लिङ्गाच्चिह्नात्पार्थे । 'किं साक्षादुपदेशयष्टिरथ वा देवस्य शृङ्गारिणः' इति शब्दान्तरसंनिधानात्कामे ।
'कणति मधुना मत्तश्चेतोहरं प्रियकोकिलः' इति सामर्थ्याद्वसन्ते । 'तन्व्या यत्सुरतान्ततान्तनयनं वक्रं रतव्यत्यये तत्त्वां पातु चिराय ' इत्यौचित्यात्प्रसादसांमुख्यपालने ।