________________
७४
काव्यमाला।
तद्गीतं गुरुबाष्पगद्गदगलत्तारखरं राधया
येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम् ॥' शापहेतुकप्रवासे मेघदूतकाव्यमेवोदाहरणम् ॥ , संभ्रमो दिव्यमानुषविद्वरादुत्पातवातादिविप्लवात् परचक्रादिविप्लवाद्वा व्याकुलत्वम् ।
यथा मकरन्दयुद्धसाहाय्यं कर्तुं गतस्य माधवस्य'हा प्रिये, हा मालति, किमपि किमपि शङ्के मङ्गलेभ्यो यदन्य
द्विरमतु परिहासश्चण्डि पर्युत्सुकोऽस्मि । . कलयसि कलितोऽहं वल्लभे देहि वाचं
भ्रमति हृदयमन्तर्विह्वलं निर्दयासि ॥' हास्यमाहविकृतवेषादिविभावो नासास्पन्दनायनुभावो निद्रादिव्यभिचारी हासो हास्यः। - देशकालवयोवर्णवैपरीत्याद्विकृताः केशबन्धादयो वेषाः, आदिशब्दान्न। र्तनान्यगत्याद्यनुकरणासत्प्रलापभूषणादीनि विभावा यस्य सः, तथा नासौ. ष्ठकपोलस्पन्दनदृष्टिव्याकोशाकुञ्चनखेदास्यरागपार्श्वग्रहणाद्यनुभावो निद्रावहित्थत्रपालस्यादि व्यभिचारी हासः स्थायी चर्वणीयत्वमागतो हास्यः ।
स चात्मस्थः परस्थश्च । तत्रात्मस्थमाहउत्तममध्यमाधमेषु स्मितविहसितापहसितैः स आत्मस्थस्त्रेधा । स इति हासः । यद्भरतः
'ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः । अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत् ॥ आकुञ्चिताक्षिगण्डं यत्सखनं मधुरं तथा ।
कालागतं सास्यरागं तद्वै विहसितं भवेत् ॥ १. भरतमुनिना वाग्भटेन च तन्द्राप्यभिहिता.