________________
काव्यमाला।
'शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः । अर्थे तत्त्वेन युक्ते तु वदन्त्याख्यानमेतयोः ।
द्वयोर्गुणत्वे व्यापारप्राधान्ये काव्यगीभवेत् ॥' इति । धनमनैकान्तिकं व्यवहारकौशलं शास्त्रेभ्योऽप्यनर्थनिवारणं प्रकारान्तरेणापीति न काव्यप्रयोजनतयास्माभिरुक्तम् ॥
प्रयोजनमुक्त्वा काव्यस्य कारणमाह--- प्रतिभास्य हेतुः।
प्रतिभा नवनवोल्लेखशालिनी प्रज्ञा । अस्य काव्यस्य । इदं प्रधान कारणम् । व्युत्पत्त्यभ्यासौ तु प्रतिभाया एव संस्कारकाविति वक्ष्यते ॥
सा च सहजौपाधिकी चेति द्विधा । तत्र सहजामाहसावरणक्षयोपशममात्रात्सहजा ॥
सवितुरिव प्रकाशस्वभावस्यात्मनोऽभ्रपटलमिव ज्ञानावरणीयाद्याचरणं तस्योदितस्य क्षयेऽनुदितस्योपशमे च यः प्रकाशाविर्भावः सा सहजा प्र
पुत्रप्रायास्तेषां जायासंमितत्वेन परमप्रीतिकारिण: काव्यात् [सहृदयानुप्रवेशमुखेन चतुर्वर्णोपायव्युत्पत्तिराधेया । हृदयानुप्रवेशश्च रसास्वादमय एवासवरसश्चतुर्वर्गोपायव्युत्पत्तिनान्तरीयकविभावादिसंयोगप्रसादोऽपनत इत्येवं रसोचितविभावाद्युपनिवन्धे रसास्वादवैवस्य(श्य)मेव स्वरसभाविन्यां व्युत्पत्तौ प्रयोजकमिति प्रीतिरेव व्युत्पत्तेः प्रयोजिकेत्यर्थः । ननु-'चरां बाल्येडिस्तां(?) तरुणिमनि यूनः परिणतावपीप्सामो वृद्धान्परिणयविधिस्तु स्थितिरियम् । त्वयारब्धं जन्म क्षपयितुममार्गेण किमिदं न नो गोत्रेषु त्रिः कचिदपि सतीलाञ्छनमभूत् ॥' इत्यादिकाव्यमसदुपदेशकं दृश्यते । व्युत्पत्तिरपि च तस्मात्तादृग्विषया संभाव्यते। ततश्च तदनुपदेश्यमित्यायातम् । सत्यम् ।। अस्त्ययमुपदेशः । किं तु निषेध्यत्वेन, न विधेयत्वेन । य एवंविधा विधयः परस्त्रीषु पुंसां संभवन्ति तानवबुध्य परिहरेदिति कवीनां भावः ॥ एवमानन्दयशश्चतुर्वर्गोपायव्युत्पत्तीनां काव्यप्रयोजनतामसाधारणी प्रतिपाद्य यत् कैश्चित् 'श्रीहर्षादेर्धावकादीनामिव धनं राजादिगतोचिताचारपरिज्ञानमित्यादेर्मयूरादीनामिवानर्थनिवारणं च' प्रयोजनत्रयमुपन्यस्तम्, तत्प्रतिक्षिपति-धनमनैकान्तिकमिति । न हि काव्याद्धनं भवत्येवेत्यनैकान्तिकमित्यर्थः । तथा चाह-उपशमफलाद्विद्यावीजात्फलं धनमिच्छतो भवति विफलो यद्यायासस्तदत्र किमद्भुतम् । न नियतफलाः कर्तुर्भावाः फलान्तरमीशते जनयति खलु व्रीहेबीजं न जातु यवाङ्कुरम् ॥' इति ॥ शास्त्रेभ्य इति । चाण