________________
२९२
काव्यमाला। रूपकस्य, 'ज्योत्स्नेव हासद्युतिराननेन्दोः' इत्यादौ मुख्यतयावगम्यमाना हसितद्युतिर्वक्र एवानुकूल्यं भजत इत्युपमायाः साधकं प्रमाणमस्ति, 'स्मरन्ति ज्योत्स्नायाः शशिमुखि चकोरास्तव दृशि' इत्यादौ तत्वारोपे स्मरणानुपपत्ते रूपकस्य, 'राजनारायणं लक्ष्मीस्त्वामालिङ्गति निर्भरम्' इत्यादौ सदृशं प्रति प्रेयसीप्रयुक्तस्यालिङ्गनस्यासंभवादुपमायाश्च बाधकं प्रमाणमस्ति, न तत्र संशयः । ऐकपद्येन संकरो यथा---
'मेरूरुकेसरमुदारदिगन्तपत्र
मामूललम्बिचलशेषशरीरनालम् । येनोद्धृतं कुवलयं ललना सलील
.. मुत्तंसकार्थमिव पातु स वो वराहः ।।' अत्रैकपदानुप्रविष्टौ रूपकानुप्रासौ । यद्यप्यनेकविषयमिदं रूपकमखिलपाक्पट्यापि (?), तथापि प्रतिपदं रूपकसद्भावादकपदानुप्रवेशो न विरुध्यते ॥ इत्युक्ताः शब्दार्थालंकाराः ॥ । कः पुनरङ्गाश्रितत्वान्निःशेषेऽप्ययं शब्दस्यालंकारोऽयमर्थस्येति विशेषः । उच्यते-दोषगुणालंकाराणां शब्दार्थोभयगतत्वव्यवस्थायामन्वयव्यतिरेकावेव निमित्तम् । निमित्तान्तरस्याभावात् । ततश्च योऽलंकारो यदीयौ भावाभावावनुविधत्ते स तदलंकारो व्यवस्थाप्यते इति ॥ यद्यपि पुनरुक्त- . वदाभासार्थान्तरन्यासादयः केचिदुभयान्वयव्यतिरेकानुविधायिनोऽपि दृश्यन्ते, तथापि तत्र शब्दस्यार्थस्य वा वैचित्र्यमुत्कटमिति उभयालंकारत्वमनपेक्ष्यैव नाष्टालंकारत्वेन नार्थालंकारत्वेन चोक्ताः । इह वापुष्टार्थत्वलक्षणदोषाभावमात्रं साभिप्रायविशेषणोक्तिरूपः परिकरो भन्नप्रक्रमतादोषागारोऽपि । दण्डश्चतुर्थोपायोऽपि ॥ निर्गण्डेति । कठिनदुरारोहम् ॥ साभिप्रायविशेषणोक्तिरूप इति । तथा च 'विशेषणैर्यत्लाकूतैरुक्तिः परिकरस्तु सः' इति । यथा-'कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः । राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं वास्ते दुर्योधनोऽसौ कथयत न रुषा द्रष्टुमभ्यागतौ खः ॥ इति । अत्र हि द्यूतच्छलकर्तृत्वादीनां विशेषणानां क्रोधोद्दीपनविभावतया साभिप्रायत्वमित्यपुष्टार्थत्वदोषाभाव एवा