________________
काव्यमाला ।
येनाहृदयोऽपि हृदयवैमल्यप्राप्त्या सहृदयीक्रियते । किं च प्रतीत्युपायानामभावे कथं प्रतीतिभावः । अस्फुटप्रतीतिकारिशव्दलक्षणसंभवेऽपि न प्रतीतिर्विश्राम्यति स्फुट. प्रतीतिरूपः प्रत्यक्षोचितप्रत्ययसाकासत्वात् । यथाहुः-'सर्वा वेयं प्रमितिः प्रत्यक्षपरा' इति । खसाक्षात्कृते आगमानुमानशतैरप्यनन्यथाभावस्य स्वसंवेदनात् । अलातचक्रादौ साक्षात्कारान्तरेणैव बलवता तत्प्रमित्यपसारणादिति लौकिकस्तावदयं क्रमः । तस्मात्तदुभयविघ्नविघातेऽभिनयालोकधर्मिवृत्तिप्रवृत्त्युपस्कृताः समभिषिच्यन्ते । अभिनयनं हि शब्दलक्षणलिङ्गव्यापारसदृशमेव प्रत्यक्षव्यापारकल्पमिति । अप्रधाने च वस्तूनि संवित्कस्य विश्राम्यति । तस्यैव प्रत्ययस्य प्रधानान्तरं प्रत्यनुधावतः खात्मन्यविश्रान्तत्वात् । अतोऽप्रधानत्वं जडे विभावानुभाववर्ग व्यभिचारिनिचये च संविदा. त्मकेऽपि नियमेन नान्यसुखप्रेक्षिणि संभवतीति तदतिरिक्तः स्थाय्येव चर्वणापत्रम् । तत्र पुरुषार्थनिष्ठाः काश्चित्संविद इति प्रधानम् । तद्यथा--रतिः कामतदनुषङ्गिधर्मार्थनिष्ठा, क्रोधस्तत्प्रधानेष्वर्थनिष्टः कामधर्मपर्यवसितोऽप्युत्साहः समस्तधर्मादिपर्यवसितः शमश्च मोक्षोपाय इति तावत्तेषां प्राधान्यम् । यद्यपि चैषामन्योन्यं गुणभावोऽस्ति तथापि तत्तत्प्रधाने रूपके तत्प्रधानं भवतीति रूपकभेदपर्यायेण सर्वेषां प्राधान्यमेषां लक्ष्यते । अदूरभागाभिनिविष्टदृशा त्वेकस्मिन्नपि रूपके पृथक्प्राधान्यम् । तत्र सर्वेऽमी सुखप्रधानाः खसंविच्चर्वणरूपस्य एकघनस्य प्रकाशस्यानन्दसारत्वात् । तथा ह्येकघनशोकसंविच्चर्वणेऽपि लोके स्त्रीलोकस्य हृदयविश्रान्तिरन्तरायशून्यविश्रान्तिशून्यत्वात् । शरीरत्वात् (?) अविश्रान्तिरूपतयैव च दुःखम् । तत एव कापिलैर्दुःखस्य चाञ्चल्यमेव प्राणत्वेनोक्तं रजोवृत्तितां वदद्भिरित्यानन्दरूपता सर्वरसानाम् , किंतूपरञ्जकविषयवशात्केषामपि कटुपित्तास्पर्शोऽस्ति वीरस्येव । स हि क्लेशसहिष्णुतादि प्राण एव । एवं रत्यादीनां प्राधान्यम् । हासादीनां तु सातिशयं सकललोकसुलभविभावतयोपरञ्जकत्वमिति प्राधान्यम् । अत एवानुत्तमप्रकृतिषु बहुला न हासादयो भवन्ति । पामरप्रायः सर्वोऽपि हसति शोचति विभेति परनिन्दामाद्रियते। खल्पसुभाषितत्वेन च सर्वत्र विस्मयते । रत्याद्यङ्गतया तु पुमर्थोपयोगित्वमपि स्यात् स्थायित्वं चैतावतामेव । एवमप्रधानत्वनिरासः । स्थायिनिरूपणया स्थायिभावान् सत्त्वं नेष्यामः । इत्यनया सामान्यलक्षणशेषभूतया विशेषलक्षणनिष्ठया च मुनिना कृतः । तत्रानुभावानां विभावानां व्यभिचारिणां च पृथक् स्थायिनि नियमो नास्ति, बाष्पादेरानन्दार्तिरोगादिजत्त्वदर्शनात् । व्याघ्रादेश्च क्रोधभयादिहेतुत्वात् । श्रमचिन्तादेरुत्साहभयाद्यनेकसहचरत्वावलोकनात् । सामग्री वा तु न व्यभिचारिणी । तथा हि । वन्धुविनाशो यत्र विभावः परिदेविताश्रुपातादिश्चानुभावश्चिन्तादैन्यादिश्च व्यभिचारी, सोऽवश्यं शोक एवेत्येवं संशयोदये शङ्कात्मकविघ्नशमनाय संयोग उपात्तः । तत्र लोकव्यवहारे कार्यकारणसहचारात्मकलिङ्गदर्शनजस्थाय्यात्मपरचित्तवृत्त्यनुमानाभ्यास
१. 'रूपप्रत्य' स्यात्. २. 'वस्तुनि' स्यात्.