________________
५ अध्यायः] काव्यानुशासनम् ।
२३३ अर्थैक्ये यादिभाषाणां च । द्वित्रिचतुःपञ्चषण्णां भाषाणामर्थाभेदे युगपदुक्तिर्यादिभाषाश्लेषः।
तत्र संस्कृतप्राकृतमागधपिशाचशूरसेनापभ्रंशभाषाणां द्वियोगे पञ्चदश, त्रियोगे विंशतिः, चतुर्योगे पञ्चदश, पञ्चयोगे षट्, षड्योगे एकः । सर्वमीलने भाषाश्लेषस्य सप्तपञ्चाशद्भेदाः । एते च पूर्वोक्तभाषाश्लेषे भिन्नार्थत्वेऽपि द्रष्टव्याः ॥ संस्कृतप्राकृतयोर्योगो यथा'सरले साहसरागं परिहर रम्भोरु मुञ्च संरम्भम् ।
विरसं विरहायासं वोढुं तव चित्तमसहं मे ॥' संस्कृतमागध्योर्यथा
'शूलं शलन्तु शं वा विशन्तु शबला वशं विशङ्का वा । __ अशमदशं दुःशीला दिशन्ति काले खला अशिवम् ॥'
शलन्तु गच्छन्तु । अधिरोहन्त्वित्यर्थः । शं शुभं वा यान्तु । संकीर्णाः पापकारिण इति यावत् । विशङ्काः सन्तो वशं बन्धनं वा विशन्तु । यतोऽविद्यमानोपशमावस्थं यथा भवत्येवमेते खला अकल्याणं दिशन्त्येव । संस्कृतपैशाच्योर्यथा'चम्पककलिकाकोमलकान्तिकलापाथ दीपिकानगी ।
इच्छति गजपतिगमना चपलायतलोचनालपितुम् ॥ संस्कृतशूरसेन्योर्यथा_ 'अधरदलं ते तरुणा मदिरामदमधुरवाणि सामोदम् । . साधु पिबन्तु सुपीवरपरिणाहपयोधरारम्भे ॥' सुपीवरेत्याद्यपि संबोधनपदम् । संस्कृतापभ्रंशयोर्यथा
'क्रीडन्ति प्रसरन्ति मधु कमलप्रणयि लिहन्ति ।
भ्रमरा मित्र सुविभ्रमा मत्ता भूरि रसन्ति ॥' एवं द्वियोगान्तरे त्रिचतुर्णा च योगेषु चोदाहार्यम् । १. 'कपोला' रुद्रटे. २. परिणाहि' रुद्रटे.