________________
२७०
काव्यमाला। द्रव्येण यथा'क्रौञ्चाद्रिद्दामदृषदृढोऽसौ यन्मार्गणानर्गलशातपाते ।
अभून्नवाम्भोजदलाभिजातः स भार्गवः सत्यमपूर्वसर्गः ॥' क्रियायाः क्रियया यथा--- 'बालमृगलोचनायाश्चरितमिदं चित्रमत्र यदसौ माम् ।
जडयति संतापयति च दूरे हृदये च मे वसति ॥' द्रव्येण यथा
'सीतां ददाह नैवामिहिमं दहति भूरुहः ।
ताप्यन्ते शशिना चित्रं विरहे कामिनो भृशम् ॥' द्रव्यस्य द्रव्येण यथा'समदमतगजमदजलनिःसङ्गतरङ्गिणीपरिष्वङ्गात् ।
क्षितितिलक त्वयि जटजुषि शंकरजूटापगापि कालिन्दी ॥' एवं दश भेदाः । एषु परस्परप्रतिबन्धो विरोधः । व्याघातो यथा
'अप्यसज्जनसांगत्ये न वसत्येव वैकृतम् ।
अक्षालितविशुद्धेषु हृदयेषु मनीषिणाम् ।। अत्र क्षालनाभावे विशुद्धिाहन्यते । यथा वा
'महर्धिनि कुले जन्म रूपं स्मरसुहृद्धयः ।।
तथापि न सुखप्राप्तिः कस्य चित्रीयते न धीः ॥ तथा
‘स एकस्त्रीणि जयति जगन्ति कुसुमायुधः। हरतापि तनुं यस्य शंभुना न हृतं बलम् ॥'
विमलः ॥ विभावनेति । 'अप्यसज्जनसांगत्ये' इत्यादौ विभावना, 'महर्धिनि' इति
१. 'निस्पन्द' का० प्र०.