________________
१३६
काव्यमाला |
'भक्तया शब्दार्थयोर्दोषाः' इत्युक्तम् । तत्र च शब्दस्य पदवाक्यरू
पत्वात्प्रथमं द्वौ पददोषावाह
निरर्थकासाधुत्वे पदस्य ।
दोष इति वर्तते । कृतसमासयोर्भावप्रत्ययः । तेन निरर्थकत्वमसाधुत्वं च पदस्य दोषौ । एवमुत्तरत्रापि योज्यम् । तत्र चादीनां पूरणार्थत्वे निरर्थकत्वं यथा
―
'मुन्मुहुर्मुहुरहं चपलाकुलाक्षः
कृत्वा स्खलन्ति भवतोऽभिमुखं पदानि ।
स्वामिन्भवच्चरणयोः शरणं प्रपन्नः संसारदारुणदरेण हि कांदिशीकः ॥'
न च---
पदैकदेशः पदमेव, तन्निरर्थकत्वं यथा'आदावञ्जनपुञ्जलिप्तवपुषां श्वासानलोल्लासित
प्रोत्सर्पद्विरहानलेन च ततः संतापितानां दृशाम् । संप्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो भल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ||' अत्र ‘दृशाम्' इति बहुवचनमनर्थकम् । कुरङ्गेक्षणाया एकस्या एवो
पादानात् ॥
'अलसवलितैः प्रेमार्द्राद्वैर्मुहुर्मुकुलीकृतैः क्षणमभिमुखैर्लज्जालोलैर्निमेषपराङ्मुखैः । हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः
कथय सुकृती कोऽयं मुग्धे त्वयाद्य विलोक्यते ॥ ' इत्यादिवद्व्यापारभेदाद्बहुत्वम् । व्यापाराणामनुपात्तत्वात् । न च व्यापारेऽत्र दृक्शब्दो वर्तते ॥
| यमकादौ निरर्थकत्वं न दोष इति केचित् । यथा— 'योषितामतितरां नखलूनं गात्रमुज्ज्वलतया न खलूनम् ।'