________________
२९०
अर्थालंकारयोर्यथा—
काव्यमाला |
'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ॥
अत्रोत्प्रेक्षोपमयोः । शब्दार्थालंकारयोर्यथा
'सो नत्थि एत्थ गामे जो एयं महमहन्तलायण्णम् । तरुणाण हिययलूडिं परिसेकन्ति निवारे ॥' अत्रानुप्रासरूपकयोः ।
अङ्गत्वेन संकरो यथा - 'कर्कन्धूफलमुच्चिनोति शबरी मुक्ताफलाकाङ्क्षया क्रुद्धोलूककदम्बकस्य पुरतः काकोऽपि हंसायते । कीर्त्या ते धवलीकृते त्रिभुवने क्ष्मापाल लक्ष्मीः पुनः कृष्णं वीक्ष्य बलोऽयमित्युपहितत्रीडं शनैर्जल्पति ||' अत्रातिशयोक्तिमपेक्ष्य भ्रान्तिरुद्भूता । तदाश्रयेण चातिशयोक्तिश्चमत्कारहेतुरित्यवयवयोरङ्गाङ्गिभावः ।
‘त्वं समुद्रश्च दुर्वारौ ँ महासत्त्वौ सतेजसा । इयता युवयोर्भेदः स जडात्मा पटुर्भवान् ॥' अत्र श्लेषो व्यतिरेकस्याङ्गम् । 'कृष्णार्जुनानुरक्तापि दृष्टिः कर्णावलम्बिनी । याति विश्वसनीयत्वं कस्य ते कलभाषिणि ॥' अत्र श्लेषो विरोधस्याङ्गम् ।
तदसुन्दरमपि काव्यस्य मध्यमत्वनिबन्धनं भवति । तथाप्यलंकारचिन्ताया: प्रक्रान्तत्वादपहुत्यैव हेतोरलंकारत्वं निराक्रियते ॥ दुर्वाराविति । दुर्वारोऽव्याहतप्रसरः, दुष्टं क्षारं वार्जलं च यस्य दुर्वाः । सत्त्वं धैर्यम्, सत्त्वाश्च प्राणिनः । तेजः प्रभावः, वडवानलश्च । जडात्मेति, उदकस्वभावोऽपि ॥ कृष्णार्जुनेति । कृष्णा असिताः । अर्जुनाः शुक्काः ।
१.
'स नास्त्यत्र ग्रामे य एतां स्फुरल्लावण्याम् ।
तरुणानां हृदयलुण्ठनं परिसर्पन्तीं निवारयति ॥ ' [ इति संस्कृतम् . ] २. ''सप्पन्ति' का० प्र०. ३. वार्वारशब्दयोरेकशेषस्तु दुःशक इति ध्येयम्.