Page #1
--------------------------------------------------------------------------
________________
श्रीविजयमहोदयसूरिग्रंथमाला - १५
न्यायविशारद - न्यायाचार्य - महोपाध्याय श्रीयशोविजयगणिवरविरचितम्
अष्टसहस्त्रीतात्पर्यविवरणम्
१
श्री सम्पादक तपागच्छाधिराज पूज्यपादाचार्यदेव श्रीमद्विजयरामचन्द्रसूरिवराणां विनेयः मुनिवैराग्यरतिविजयः
* लाभार्थी
श्री तपगच्छ अमर जैन शाला,
टेकरी खंभात, गुजरात
Page #2
--------------------------------------------------------------------------
________________
श्रीविजयमहोदयसूरिग्रंथमाला-१५
ग्रन्थनाम
कर्ता
: अष्टसहस्त्रीतात्पर्यविवरणम् : महोपाध्याय श्रीयशोविजयजी गणिवर : मुनिश्री वैराग्यरतिविजयजी
सम्पादक
प्रकाशक
: प्रवचन प्रकाशन-पूना
आवृत्ति
: प्रथमा
मूल्य
:
रु. २००-००
:
३२+४२६
:
PRAVACHAN PRAKASHAN, 2004
(प्राप्तिस्थान)
पूना
: प्रवचन प्रकाशन
४८८, रविवार पेठ, पूना-४११००२ फोन : ०२०-३०९२२०६९, मो. ९८९००५५३१०
अहमदाबाद
सरस्वती पुस्तक भंडार हाथीखाना, रतनपोल, अहमदाबाद-३८०००१ फोन : २५३५६६९२
मुंबई
अशोकभाई घेलाभाई शाह २०१, ओएसीस, अंकुर स्कूल सामे, पालडी, अहमदाबाद-३८०००७
फोन : ०७९-२६६३३०८५, मो. ०७९-३१००७५७९ : हिन्दी ग्रंथ कार्यालय
हीराबाग, सी. पी. टेंक, मुंबई-४००००४ फोन : २३८२६७३९ Website - www.hindibooks.8m.com Email : manish.modi@bol.net.in विरति ग्राफिक्स, अहमदाबाद फोन : ०७९-२२६८१८१४
अक्षरांकन
Page #3
--------------------------------------------------------------------------
________________
પ્રકાશકીયમ
ન્યાયવિશારદ ન્યાયાચાર્ય મહોપાધ્યાય શ્રીયશોવિજયજી ગણિવર વિરચિત મઠ્ઠદસ્વીતા-વિવરન્ પ્રકાશિત કરતાં અમે અતીવ આનંદ અનુભવીએ છીએ.
આ ગ્રંથ જોકે પૂર્વ પ્રકાશિત હતો તેમ છતાં પણ અનેક વિદ્વાનો તેના વિશિષ્ટ સંપાદનની અપેક્ષા રાખતા હતા. ગહન દાર્શનિક વિષય હોવાથી તેના વાંચનાર જ જ્યાં ઓછા હોય ત્યાં સંપાદન કરવા કોણ તૈયાર થાય ? પૂજયપાદ આચાર્યદેવ શ્રીમદ્ વિજયરામચંદ્રસૂરીશ્વરજી મહારાજાના શિષ્યરત્ન પૂજય મુનિપ્રવર શ્રીવૈરાગ્યરતિવિજયજી મહારાજ સાહેબ-એ લગભગ એકાદ હજાર જેટલા જૈન-અજૈન સંદર્ભગ્રંથોનું અવલોકન-અવગાહન કરીને આ ગ્રંથનું સંપાદન કર્યું છે. સંપાદક મુનિપ્રવરશ્રીએ પ્રસ્તાવનામાં ગ્રંથનો વિસ્તૃત પરિચય આપ્યો છે અને અગિયાર પરિશિષ્ટો દ્વારા સંપાદનને સમૃદ્ધ બનાવ્યું છે.
દાર્શનિક ગ્રંથોમાં શિરમોર ગણી શકાય તેવા ‘મણુસહસ્ત્રીતાત્પર્યવિવરણમ્'ના પ્રકાશનનો લાભ, પૂજ્યપાદ તપાગચ્છાધિરાજ આચાર્યદેવ શ્રીમદ્ વિજયરામચંદ્રસૂરીશ્વરજી મહારાજાના પટ્ટાલંકાર, પૂજ્યપાદ સુવિશાલગચ્છાધિપતિ આચાર્યદેવ શ્રીમદ્ વિજયમહોદયસૂરીશ્વરજી મહારાજાની પાટને શોભાવનારા, સ્વાધ્યાયપ્રેમી પૂજયપાદ આચાર્યદેવ શ્રીમદ્ વિજયજિતમૃગાંકસૂરીશ્વરજી મહારાજાના શિષ્યરત્ન ગચ્છાધિપતિ પૂજ્યપાદ આચાર્યદેવેશ શ્રીમદ્ વિજયહમભૂષણસૂરીશ્વરજી મહારાજાની પ્રેરણાથી શ્રી તપગચ્છ અમર જૈન શાળા, ટેકરી ખંભાત, ગુજરાતના શ્રી સંઘે જ્ઞાનખાતાની ઉપજમાંથી લીધો છે. તેમની મૃતભક્તિની ખૂબ અનુમોદના કરીએ છીએ. સાથો સાથ શ્રી શ્રીપાળનગર જૈન શ્વેતામ્બર મૂર્તિપૂજક દેરાસર ઉપાશ્રય ટ્રસ્ટ, વાલકેશ્વર, મુંબઈ એ, આ મહાનું કાર્યમાં સાધારણ દ્રવ્યની અપેક્ષિત રકમ ફાળવીને ઉમદા લાભ લીધો છે. અમે તેમની શ્રુતભક્તિની પણ ભૂરિ ભૂરિ અનુમોદના કરીએ છીએ. પ્રાન્ત-જ્ઞાનદ્રવ્યમાંથી મુદ્રિત આ ગ્રંથનો ઉપયોગ ગૃહસ્થો યોગ્ય મૂલ્ય પ્રદાન કરીને જ કરે તેવી નમ્ર વિનંતિ કરીએ છીએ.
- પ્રવચન પ્રકાશન, પૂના
Page #4
--------------------------------------------------------------------------
________________
હાર્દિક અનુમોદના
XXXXX
ન્યાયવિશારદ ન્યાયાચાર્ય મહામહોપાધ્યાય શ્રી યશોવિજયજી ગણિવર વિરચિત
अष्टसहस्रीतात्पर्यविवरणम् મહાગ્રંથના પ્રકાશનનો સંપૂર્ણ લાભ શ્રી જિનશાસનના પરમ તેજસ્વી અધિનાયક
તપાગચ્છાધિરાજ આચાર્યદેવેશ શ્રીમદ્ વિજયરામચન્દ્રસૂરીશ્વરજી મહારાજાના
પટ્ટાલંકાર સમાધિસિંધુ સમતામૂર્તિ સુવિશાલ ગચ્છાધિપતિ પૂજ્યપાદ આચાર્યદેવેશ શ્રીમદ્ વિજયમહોદયસૂરીશ્વરજી મહારાજાની પાટને શોભાવતા
સુવિશાલ ગચ્છાધિપતિ પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ વિજયહેમભૂષણસૂરીશ્વરજી મહારાજાની
પાવન પ્રેરણાથી શ્રી તપગચ્છ અમર જૈન શાખા,
ટેકરી ખંભાત,
ગુજરાત
એ પ્રાપ્ત કર્યો છે. તેમની આ સુંદર શ્રુતભક્તિની અમે અનુમોદના કરીએ છીએ
R,
જx
પ્રવચન પ્રકાશન
Page #5
--------------------------------------------------------------------------
________________
आशीर्वचनम्
भगवतां श्रीमताम् अर्हतां शासने वैराग्यमार्ग एव महनीयः, दुःखगर्भ-मोहगर्भ-ज्ञानगर्भवैराग्येषु केवलं ज्ञानगर्भ एव वैराग्यो वास्तवः, नेतरौ । ज्ञानगर्भवैराग्यस्य निर्मितिः भवस्य प्रकृतिदर्शनेन, आत्मनः स्वभावदर्शनेन, धर्मस्य तत्त्वदर्शनेन भवति । तत्रापि धर्मस्य तत्त्वदर्शनं दर्शनशास्त्राणामवगाहनेन सुलभम् ।
सकलशास्त्रकारशिरोमणिभिः महामहोपाध्यायैः श्रीमद्यशोविजयैः दार्शनिकविचारधारानिर्बद्धा बहवो ग्रन्थाः प्रणीता वर्तन्ते, यैः ज्ञानगर्भो वैराग्यमार्गो लभ्यते । तेष्वेकतमः प्रशस्तो वृत्तिग्रन्थः श्रीअष्टसहस्त्रीतात्पर्यविवरणम् इत्याभिधामादधानोऽयं साम्प्रतं प्रकाश्यतां नीयते - 'श्रीमहोदयसूरिग्रन्थमालायाम्' इत्ययमानन्दावसरः ।
मनिवरेण श्रीवैराग्यरतिविजयेन दर्शनशास्त्रनिष्णातेन ग्रन्थस्यास्य सम्पादनमत्यन्तं परिष्कृतमाहितमित्येतत्तु नूनं भागद्वयविभक्तस्य परिशिष्टादिविशिष्टस्य ग्रन्थस्य समालोकनेन नितमामनुभूयते ।
महापुरुषाणां वचसां गौरवं विवर्धयन्नयं प्रयासो मम मनसि अभिलाषमेकं जनयति - यदयं मुनिराजो वितनोतु सदा सर्वदा एवंप्रकारामुत्तमां श्रुतसेवाम् ।
एतदेव किल आशीर्वचनम् ।
- विजयहेमभूषणसूरिः
वि. सं. २०६०, आषाढशुक्लतृतीया
श्रीपालनगरम् मुम्बापुरी
Page #6
--------------------------------------------------------------------------
________________
शुभाशंसनम्
परममाह्लादमनुभवत्यस्मन्मनोऽष्टसहस्रीतात्पर्यविवरणस्य दर्शनेन । वृत्तिग्रन्थस्यास्य विधातृपूज्याः श्रीमन्तो महामहोपाध्याय श्रीमद्यशोविजयगणिवर्या अस्माभिः परोक्षगुरुत्वेनाङ्गीकृताः सन्ति । एतैरेव पूज्यवरैः अपारपारस्य गम्भीरार्थावगमस्य श्रुतजलनिधेरवगाहनं कृत्वोपलब्धं वचनामृतं ग्रन्थरचनाद्वारेण कलिकालीयजडाल्पमेधसां सत्त्वानां कृते सुलभं विहितम् । तमेव निपीय निर्बलप्रज्ञा अपि वयं योगमार्गमवितथं यथामति विदितवन्तो यथाशक्त्याचरणेन च किञ्चिदवतीर्य तस्मिन्नाध्यात्मिकीं प्रसन्नतासम्पादकभूमिकामारुढवन्तश्च । ऐदंयुगीनानाम् आत्मनां महानयं पुण्योदयः यदमीषां साक्षात् श्रुतदेवीस्वरूपाणां न्यायाचार्यन्यायविशारदाद्यनेकपदवीसमलङ्कृतानां वचांसि अस्मिन् अज्ञानजडताकदाग्रहमिथ्यामतादिभिर्व्याप्ते कलिकाले दर्शनायावकल्पन्ते, अध्ययनायोपलभ्यन्ते, विरक्तये प्रभवन्ति, योगमार्गाधिगतये दीपमिव साहाय्यमाचरन्ति च ।
निजपञ्चाशद्वर्षप्रमितश्रुतसमुपासनाकाले पूज्यपादोपाध्यायप्रवरैः शताधिकानां न्याय - साहित्यमीमांसा-वेदान्त-बौद्ध-चार्वाकादिदर्शन- साहित्य-काव्यलङ्कारादिविषयाणां ग्रन्थानां लक्षाधिकश्लोकमितवृत्त्यादीनां च रचना कृता वर्तते । तथापि तेषां स्वर्गमनानन्तरं चतुःशतेष्वेव वर्षेसु प्रभूततराः तद्रचिताः ग्रन्थाः कालकवलिता इव लक्ष्यन्ते । विधर्मिणां आक्रमणतः, सधर्मिणामपि स्वधर्मशत्रुकल्पानां शिथिलाचारिणां द्वेषवशात्, सम्यक्सुरक्षादिप्रबन्धाभावाद्, व्यवहर्तॄणां च उपेक्षातः उपलब्धमपि ग्रन्थवृत्त्यादिसाहित्यमन्धकारयुगेऽस्मिन् कुत्र गतं वर्तते इति न ज्ञातमासीत् कतिपयेभ्यो वर्षेभ्यः पूर्वम् । विशकलितमालारनकल्पमिदं साहित्यं सङ्कलयितुं समुद्यतितं कैश्चित्श्रुतानुरागिभिः मुनिवरादिभिः । तेषामेव प्रयासेन पूज्यपादोपाध्यायप्रवराणामक्षरदेहस्य पुनः दर्शनेन इदानींतनकाले वयं नेत्राणि पवित्रीकुर्मः । अष्टसहस्त्रीतात्पर्यविवरणाख्यस्य प्रस्तुतसम्पादनस्य प्रकाशनकथाप्येतादृश्येव
रम्या ।
विक्रमात् २०५४ तमे वर्षे साभ्रमतीकूलिनीतटे तपागच्छाधिराजदीक्षायुगप्रवर्तक-सन्मार्गरक्षकपूज्यपादाचार्यवर्यश्रीमद्विजयरामचन्द्रसूरीश्वराणाम् अग्निसंस्कारभूमौ गुरुभक्तैर्विनिर्मिते विशालशिल्पकलाद्युपशोभिते देवविमानसदृशे महाप्रासादे गुरुस्मृतिमन्दिरोपशोभिते विश्वातिशायिमहिमाधिनाथस्य, श्रीशङ्खेश्वरचिन्तामणिपार्श्वप्रभोरस्मत्प्रगुरुप्रवराणां च सप्तविंशतिदिनमानमहामहोत्सवपुरःसरं मूर्तिप्रतिष्ठापनाविधिः सहस्राधिक श्रमण श्रमणीगणपरिपालनानुकृतसुधर्मस्वामिकल्पानां सहृदयताधिनाथानां महातेजोमूर्तिणां श्रीमतां विजयमहोदयसूरीश्वराणाम् वरदहस्तयोः सानन्दं सम्पन्नः ।
पूर्वमेव च तेषां प्रतिष्ठाचार्याणां देहः हृदयशूल - मधुप्रमेह - उच्चरक्तचाप - हृदयविस्तारादि
Page #7
--------------------------------------------------------------------------
________________
भिर्महारोगैः बाधते स्म । प्रतिष्ठानन्तरं हृदयमिव समुदायमनुशासतां तेषां देहोपचारनिमित्तं पालडीविस्तारेऽस्माकं विहारोऽभूत् । तत्रैव च परिचर्यारक्तान् अस्मान् प्रति एकदा संशोधनादिविद्याप्रवणैः विशेषतः पूज्योपाध्यायप्रवरं प्रति अनन्यां प्रीतिं वहद्भिः पूज्यैराचार्यवरैः श्रीमद्विजयप्रद्युम्नसूरीश्वरैः प्रेषित एक: सन्देशः । आश्चर्यमेकं दर्शयितुकामैस्तैराहूता वयं समुत्सुकमनसो गता आचार्याधिष्ठितां वसतौ । तत्र च तैः दशितमेकं ग्रन्थरत्नमस्मदाध्यात्मिकचेतनासञ्जीवकानामुपाध्यायप्रवराणां स्वहस्तलेखनपवित्रितपत्रं प्रतिकृतिरुपेणोपस्थितम् । अमूल्यं निधानमिव तदवलोक्य नेत्राभ्यां सहार्दीभूतमस्मच्चेतः । अक्षरदेहेन उपस्थितान् अस्मत्परोक्षगुरुनवलोक्य धन्यंमन्या शिरस्यारोप्य तद्ग्रन्थरत्नं निर्गलदश्रुभिः सह वन्दनाञ्जलिमर्पितवन्तो वयम् । स च ग्रन्थः नाम्ना आसीत् 'अष्टसहस्रीतात्पर्यविवरणम्' इति ।
इतः पूर्वमयं ग्रन्थः तपागच्छीयाचार्यवर्यश्रीविजयोदयसूरीश्वरैः सम्पाद्य उपलब्धसीमितसाधनानां साहाय्येन प्रकाशितोऽपि नूतनां सम्पादनविधामाश्रित्य प्रामाणिकप्रकाशनेषु स्थानं नालभत । बहुषु स्थानेषु पाठानां सन्दिग्धता, पठने दुरूहतापि बाधते स्माधिजिगमित्सूनामिति वन्दनाञ्जल्यर्पणक्षण एव अस्मच्चेतस्युत्पन्न आकूतः परिष्कृतसम्पादनविषयः । दार्शनिकग्रन्थेषु शिरोमणीयमानमिदमष्टसहस्रीतात्पर्यविवरणम् । प्रायः त्रिंशदधिकानि वादस्थानानि नव्यन्यायशैल्या मण्डितानि प्रकाण्डपाण्डित्यसूचकान्यस्मिन्नुपनिबद्धानि, विषयोऽपि चास्य द्रव्यानुयोगरूपः प्रथमत एव दुरूहोऽल्पमेधसामवधारयितुमिति अस्य सम्पादने न केवलं भाषापाण्डित्यमपि तु नव्यन्यायशैल्या अधिकारोऽप्यपेक्षितो, न केवलं तादृशोऽधिकारो किन्तु संशोधनसम्पादनविषया तान्त्रिकी (आधुनिकी) मतिरप्यपेक्षिता । एतादृशमेधारुच्यादिसम्पन्नानां वर्तमाने दुष्काल इति जानतामस्माकमाकूत विफल एवेति विषण्णहृदया एव प्रतिचलिता वयं स्ववसति प्रति ।
सन्ध्यासमये एकाकिनो विषादग्रस्तचित्ता वयमस्यैव मनोरथस्यास्मदस्तित्वावर्जकस्य चेतसि पुनः पुनरावर्तमानस्य परिपूर्तये योग्यसम्पादकगवेषणार्थं चिन्ताकुला उपविष्टाः स्म तदैव अस्मत्परोक्षगुरुप्रवराणां कृपयेव वन्दनार्थं उपस्थितोऽस्मत्प्रगुरुप्रवराणां सुशिष्यः न्यायादिविद्यावेदी दार्शनिकबोधसम्पन्नः संशोधनप्रवीणश्च वैराग्यरतिविजयाभिधो मुनिः । अविलम्बमेवास्मन्मुखेनाभिव्यञ्जितः स मनोरथरस्तेनापि तथैव स्वीकृत इति अकाले वृष्टिमिव प्रफुल्लितमस्मन्मनः ।
पूज्यपादोपाध्यायप्रवरैः स्वहस्तलिखिता प्रतिरधुना पुण्यपत्तन(पूणे)नगरीस्थितभाण्डारकर प्राच्यविद्यासंशोधनमन्दिरे सुरक्षिता वर्तते । सम्पादनकृतेऽपेक्षिता तस्य प्रतिकृतिः (Xerox) अस्माभिः लब्धसङ्केतेनानन्यगुरुभक्तिदत्तचित्तेन खेमचंददयालजीनामकविख्यातकूलप्रसूनेन श्रीयुता सुश्रावकेण भोगीलालेनाचिरेणैव प्रेषिता । शुभमुहूर्ते प्रदत्ता सा मुनिवराय । परमपूज्योपाध्यायप्रवराणां निजगुरूणां च प्रसादात् केवलं सानैकेनैव वर्षेण प्रकाशनार्थं सज्जीकृतः स ग्रन्थः सम्पादनकुशलेन मुनिवरेणेत्यहो तस्य श्रुतभक्तिरसिकता । परिशिष्टादिनिर्माणे प्रस्तावनादिलेखने च षण्मासी व्यतीता । एवं वर्षद्वयाणामन्तराले एवास्य ग्रन्थस्य सम्पादनं संशोधनं चाजनि । मन्यामहे खलु एष निजग्रन्थप्रकाशनकृते पूज्योपाध्यायप्रवराणामेव प्रासादः ।
Page #8
--------------------------------------------------------------------------
________________
८
तपागच्छाधीशा अस्मत्प्रगुरुप्रवराः सम्पादकमुनिवरस्य गुरूवर्या आचार्योत्तमाः भगवन्तः श्रीमद्विजयरामचन्द्रसूरीश्वराः पूज्यपादोपाध्यायप्रवराणां वचनेष्वतीव बहुमानं वहन्तः आसन् । लालायिता इव ते महोपाध्यायप्रवराणां वचांसि पीयमानाः, पदे पदे तद्वचनान्याश्रित्योपदेशधारां प्रवाहयन्तश्च दृष्टा अस्माभिर्नैकवारान् । यदि ते तेजोऽधिनाथाः सम्पादनमिदमदर्शिष्यत् तदा अपूर्वां मुदं वहन्तः सम्पादकमुनिवरमान्तरैराशिषैरभिप्लावयिष्यत् ।
सबाह्याभ्यन्तरस्यास्य ग्रन्थस्य परिचयः सम्पादकेनैव प्रस्तुत इति नात्र तद्विस्तरः प्रतन्यते । अङ्गुलिनिदर्शनमात्रेणापि श्रुतभक्तिभाजनभाग्यवन्तोऽभूमः तेनैव धन्यं मन्यामहे निजात्मानम् ।
भगवदुपदिष्टं श्रुतधरैः रक्षितं, सूरिवरैः प्रकाशितार्थं च श्रुतनिधिमवलम्ब्य निराग्रहा, निरहङ्कारा निरपेक्षाश्च सन्तः जिज्ञासवो ग्रन्थमिदम् अध्ययेयुः तद्द्वारा च सर्वाङ्गसुन्दरां कैवल्यलक्ष्मीमपवाप्नुयुरिति शुभमभिलषति तपागच्छशिरोमणीनां पूज्यपादाचार्यप्रवरश्रीमद्विजयरामचन्द्रसूरीश्वरविनेयाजीवनगुरुचरणरत-वर्धमानतपोनिधि- आचार्यदेव श्रीमद्विजयगुणयशसूरीश्वराणां विनेयः
श्री भोरोलतीर्थे उपधानतपोमालारोपणावसरे
विक्रमस्य द्विसहस्राधिकषष्ठितमे संवत्सरे माघमासस्य शुक्लपञ्चमीतिथौ
विजयकीर्तियशसूरिः
Page #9
--------------------------------------------------------------------------
________________
सम्पादकीयम्
॥ ॐ एँ सरस्वत्यै नमः ॥ नव्यन्यायशैलीकौशलाकलितस्याद्वादशासनपरिमण्डनसमुपाजितभूरियशसां निधानैायाचार्यन्यायविशारदमहोपाध्यायश्रीयशोविजयगणिवरैविरचितोऽष्टसहस्रीतात्पर्यविवरणाख्यो वृत्तिग्रन्थः प्रस्तुतसम्पादनविषयः । स च आचार्यश्रीसमन्तभद्रस्वामिप्रणीताऽऽप्तमीमांसास्तोत्रोपरिभट्टाऽकलङ्कदेवविहितभाष्यस्य आचार्यश्रीविद्यानन्दविरचिताऽष्टसहस्रीनामकव्याख्यायाः विवरणरूपः ।
सम्पादनेऽस्य प्राधान्यतः त्रिप्रकारा सामग्री प्रयोजिता । (१) विवरणकर्तृस्वहस्तलिखिता प्रतिः । (२) पूर्वमुद्रिता प्रतिः । (३) सन्दर्भग्रन्थाश्च ।
अष्टसहस्रीतात्पर्यविवरणस्यैकैव ग्रन्थकृता स्वयं लिखिता प्रतिरुपलभ्यते । सा च लेखिनीनिःसृतमष्यादिक्षेपजनिताक्षरक्षरणं, क्वचिदेव च पुनर्लेखनादिकं विना शुद्धप्राया, ग्रन्थकृता स्वयमेव तत्र तत्र संशोधितेत्यशुद्ध्यादीनां पाठभेदादीनाञ्चात्रानवकाश एव । पुण्यपत्तन(पुणे)स्थितभाण्डारकरप्राच्यविद्यासंशोधनसंस्थायां सुरक्षितायाः तस्याः (Sec. D New No. 27) प्रतिकृतिः (Xerox copy) अत्र समुपयोगिन्यभूत् । एतत्प्रत्याधारेणैव पूज्यपादाचार्यप्रवरश्रीमद्विजयोदयसूरीश्वरैरयं ग्रन्थः सम्पाद्य प्रत्याकारेण राजनगरस्थजैनग्रन्थप्रकाशकसभोपक्रमेण १९९३ तमे विक्रमाब्दे (ईसवीय १९३७) प्रकाशितः । मुद्रणेऽस्मिन् सन्दिग्धपाठादीनां दर्शनेनानुमीयते यत्पूर्वसम्पादकैरेषा प्रतिः तस्याः प्रतिकृतिर्वा साक्षान्नावलोकिता किन्तु प्रतिलिपिरेव दृष्टा भविष्यति । अत एव नैकेषु स्थलेषु सम्यग्लिप्यनवगमात्पाठभेदोऽजायत । वाचनसमये तान् स्थलान् प्रेक्ष्य परिष्कृतसम्पादनविषयोऽध्यवसायः प्रावर्तत मन्मनसि । हस्तप्रतौ अष्टसहस्री नास्ति । मुद्रितप्रतौ समूलाष्टसहस्री विद्यते, नवरं अष्टशतीभाष्यं अष्टसहस्री च समानैरेवाक्षरसंयोजनैर्मुद्रितौ स्तः । वाचकसौकर्यार्थमत्र सम्पादने दिगम्बरार्यिकाश्रीमतीज्ञानमतिगणिनीसम्पादिते सानुवादे पुस्तके मुद्रितस्तयोविविक्तपाठो मुद्रितः । भाष्यरूपेण गृहीतः पाठः पृथ्वक्षरैः (Bold type) (भा०) इति चिह्नपुरःसरं मुद्रितः । तत्र सम्पादने विषयावबोधार्थं न्यस्तानि शीर्षकाण्यप्यत्र समावेशितानि ।
तदित्थं मुद्रितसामग्रीसमाधारेण अष्टसहस्रयाः सम्पादनं कृतम् । अष्टसहस्रीतात्पर्यविवरणं पुनः हस्तप्रत्याधारेण सम्पादितम् । तत्सम्पादनक्रमश्चायम् -
Page #10
--------------------------------------------------------------------------
________________
(१)
(२)
(३)
(8)
(4)
(६)
(७)
(८)
(९)
१०
प्रथमं तावत् पाठशुद्धिर्विहिता । सन्दिग्धा अशुद्धा वा पाठा आदर्श (ह० प्र०) प्रत्यनुसारेण सुधारिताः । ते च सङ्ख्यया कियन्त इति न गणितम्, यतो न सम्मार्जितपाठानां सङ्ख्या परिष्कृतसम्पादनस्य मुख्यो मानदण्ड अपि तु सम्मार्जनमेव । अत एव सम्मार्जितपाठानां न पृथगुल्लेखः कृतः । क्वचिदनिर्णये सन्दिग्धपाठसमीपमेव ( ) पाठः अर्धवर्तुलाकारके कोष्ठके स्थापितः ।
मुद्रणाकृतिप्रारुपसङ्कल्पनानन्तरं (Layout Designing) पुनरपि द्वितीयवारं पाठसम्मार्जनं
कृतम् ।
ततो विवरणगतानां पूर्वोत्तरपक्षाणां व्यवस्थानं विहितम् । पूर्वपक्षीयम् 'अथ' 'ननु' 'स्याद्' इत्यादि पूर्वपदं 'चेद्' - इत्याद्यन्त्यपदं च पृथुवक्राक्षरसंयोजनेन ( Italic-Bold Font) आकारितम् । अवान्तरपूर्वपक्षसहितः पूर्वपक्षोऽधोरेखया (Underline) सहितेन पृथुवक्राक्षरसंयोजनेनाऽऽकारितः । यत्र पूर्वपक्षः नन्वादिपदं विनैवारभ्यते तत्रादौ कोष्ठके सङ्केतः न्यस्तः, (शं०) (समा० ) इत्यादिरूपः ।
द्वितीयमुद्रणादर्शसंशोधन (Proof Checking) समये विवरणकृदुपनिबद्धवादानां शीर्षकाणि समायोजितानि ।
आर्यिका श्रीज्ञानमतीगणिनीसम्पादितपुस्तकीयपाठात् विवरणकृत्सम्मतः भाष्याष्टसहस्त्रयोः पाठोऽनेकत्र विभिद्यते । स पाठटिप्पण्यां (Foot note) न्यस्तः ।
उद्धरणस्थलान्वेषणसमये उपलब्धानां समानविषयाणां सङ्केतोऽपि पादटिप्पण्यां निवेशितः नवमे पुनः परिशिष्टे विस्तरतः तुलनात्मिका टिप्पण्यो निवेशिताः सन्ति । मूलग्रन्थे ता: ( ) चिह्नेनोल्लिखिताः सन्ति ।
विवरणे ग्रन्थान्तरादुद्धृताः साक्षिपाठाः लघुपृथ्वक्षरसंयोजनेन ( Small Bold Font ) आकारिताः ।
मुद्रणादर्शसंशोधनसमये उपलब्धानां साक्षिस्थलानां निर्देशस्तत्रैव चतुरस्रकोष्ठके [ ] कृतः । अवशिष्टानां चतुर्थे परिशिष्टे । अष्टसहस्त्रयामप्येवमेव ।
सम्पाद्यमानग्रन्थेन सह संलग्नानां प्रसक्तानुप्रसक्तविषयाणामवगमार्थं अनेकविधां सन्दर्भसामग्रीं सङ्कलय्यैकादशपरिशिष्टान्यत्र सम्पादने समायोजितानि । तत्र प्रथमे परिशिष्टे त्रयाणां भाष्याष्टसहस्री - अष्टसहस्रीतात्पर्यविवरणानां वृत्तिग्रन्थानां मूलभूता शताधिकचतुर्दशकारिकाप्रमिता आप्तमीमांसा सङ्कलिता मूलमात्राभिरुचिसम्पन्नानां कृते ।
(१०) द्वितीये परिशिष्टे तस्या एव कारिकार्द्धानामकारादिक्रमेण कृता सूची सङ्कलिता । ग्रन्थान्तरोद्धृतानां कारिकाणां मूलान्वेषणार्थमियमुपयोगिनी ।
(११) तृतीये परिशिष्टे अष्टसहस्त्रीवृत्तौ आचार्यविद्यानन्देनोद्धृतानां ग्रन्थान्तरीयसाक्षिपाठानां सूची ।
Page #11
--------------------------------------------------------------------------
________________
(१२) चतुर्थेऽष्टसहस्रीतात्पर्यविवरणे उद्धृतानां साक्षिपाठानां सूची पृथक् सङ्कलिता । काल
व्यवधानजनितं वैविध्यमेवात्र पृथगुपन्यासे हेतुः । अत्र हि कालादिनिर्णये सौकर्यापादकत्वेन
ग्रन्थकर्तृणामपि समावेशः विहितः । (१३) पञ्चमे परिशिष्टेऽष्टसहस्रीतात्पर्यविवरणे उद्धृतसाक्षिपाठकर्तृरूपेण पूर्वपक्षिरूपेण वोल्लिखितानां
ग्रन्थकृन्नाम्नां सूची सङ्कलिता । केचित् व्यक्तिवाचकनामान्यपि अत्रैव समाविशन्ति ।
इतिहासरसिकाणां कृते उपयोगिनीयं सामग्री । (१४) षष्ठे परिशिष्टे विवरणे साक्षिरुपेण स्मृतानां ग्रन्थानां सूची सङ्कलिता । इयमपीतिहास
संसाधनरुपा । (१५) सप्तमे परिशिष्टे विवरणे प्रयुक्तानां लौकिकानां शास्त्रीयाणां वा न्यायानां सूची सङ्कलिता ।
केषाञ्चिन्न्यायानां यथोपलब्धं विवरणमपि अत्रैव न्यस्तम् । न्यायशास्त्रे प्रयुक्तानां लौकिकादिन्यायानां सङ्ग्रहोऽद्यावधिः अप्रकाशित एव, तत्सङ्कलनं भविष्यत्तमे कालेऽती
वोपकारी भविष्यति इत्येस्मिन् प्रयासार्थं विज्ञप्यन्ते विद्वांसः । (१६) अष्टमे परिशिष्टे तात्पर्यविवरणे विवृतानां वादानां विषयसूची सङ्कलिता । सा च विषयविशेष
प्रत्युत्सुकानामुपयोगिनी । (१७) नवमे परिशिष्टे तुलनात्मकटीप्पण्यः प्रस्तुताः सन्ति । विवरणकृद्भिः पूर्वपक्षादि
रूपेणोपस्थापितानां पक्षानां मूलस्थलान्यन्वेष्य तेषां स्थलनिर्देशः कृतोऽस्मिन् । विवरणे ।
चिह्नाङ्कितानि स्थानानि टीप्पणीसूचकानि दर्शितानि सन्ति । (१८) दशमे परिशिष्टे नवमपरिशिष्टप्रयुक्तग्रन्थलघुसङ्केतानां (Short Form) विवरणं सङ्कलितम् । (१९) एकादशे परिशिष्टेऽष्टसहस्रीतात्पर्यविवरणे प्रयुक्तानां दर्शनशास्त्रसम्बन्धिपारिभाषिकशब्दानां सूची
सङ्कलिता । इयं सूची अधुनातनजनानामतीवोपयुक्ततमं स्थानं बिभ्रति । ग्रन्थकृता मेकविषयाऽभिप्रायोपलब्धिसौकर्यं फलमस्याः ।
एवं महतायासेन सम्पादितेऽप्यस्मिन् ग्रन्थे क्षतयः मनुष्यछाास्थ्यभावानुभावजन्या सुलभा एव विशेषतो मादृशस्याल्पप्रज्ञस्य आकरग्रन्थसम्पादनविषये प्रथममेव प्रवृत्तस्य । विद्वांसः स्वपादलग्नकण्टकमिव ता उद्धृत्य मां निर्देक्ष्यन्ति इत्याशासे ।
ग्रन्थस्यास्य सस्नेहमुपकृतवन्तः मत्गुरुचरणा तपागच्छाधिनाथा आचार्यचन्द्रश्रीमद्विजयरामचन्द्रसूरीश्वराः, तत्पट्टालङ्कृतिकारकाः सर्वाधिक श्रमणश्रमणीसार्थवाहाः सौभाग्यनिधयः आचार्यवर्यश्रीमद्विजयमहोदयसूरीश्वराः, सम्पादन-संरचनादिक्षेत्रे निरन्तरं प्रेरणापीयूषसेचनेनास्मदुत्साहा भिवर्धकाः वर्तमानगच्छाधिपतयः आचार्यवर्याः श्रीमद्विजयहेमभूषणसूरीश्वराः, प्रस्तुतसम्पादनप्रेरकाः प्रवचनप्रभावकाः पूज्यपादाचार्यवर्याः श्रीमद्विजयकीर्तियशसूरयः, मत्पितृगुरुचरणाः स्वाध्यायदत्तैकचित्ताः मुनिप्रवरश्रीसंवेगरतिविजयाश्च ग्रन्थस्य यशस्वितायै समभ्यर्थयन्ते । वर्षद्वयावधिकालं स्वस्कन्धारोहितप्रवचनजनसम्पर्कादिबाह्यव्यवहारकार्यभारः प्रस्तुतकार्यसम्पादनार्थं निरन्तरं साहाय्यमाचरन्
Page #12
--------------------------------------------------------------------------
________________
१२
मद्बन्धुमुनिश्रीप्रशमरतिविजयस्तु वस्तुत एतत्कार्योपलब्धयशसोऽर्धभागाधिकारी वर्तते ।
परिशिष्टादिनिर्माणे श्रुतसंरक्षकाचार्यदेवश्रीपद्मसागरसूरीश्वरशिष्यैः परोपकारैकरसिकैः श्रीमद् अजयसागरैरनन्यलभ्यं मार्गदर्शनम् कृतमिति ।
मुद्रणादर्शसंशोधनादिषु पूज्यपादतपागच्छाधिनाथाचार्यदेव श्रीमद्विजयरामचन्द्रसूरीश्वराणामाज्ञावर्तिनीसाध्वी श्रीरोहिताश्रीशिष्याभिः विदुषीभिः साध्वी श्रीचन्दनबालाश्रीभिः, प्रस्तावनाप्रतिलिपिकरणे च साध्वी श्रीहर्षरेखा श्रीशिष्याभिः साध्वीश्रीजिनरत्नाश्रीभिः, संशोधनकार्ये च विद्यानुरागिणा पं. श्रीअमृतलालपटेलमहोदयेन साहाय्यमाचरितम् ।
षड्दर्शनाचार्याः पण्डिवर्य श्रीरजनीकान्तपरीखमहोदया : (M.A.) अत्रावसरे विशेषतः स्मृतिपथमवतरन्ति यदधीतविद्योऽहम् दार्शनिकशास्त्राणां बोधमुपलब्धवान् ।
सन्दर्भग्रन्थाश्चात्र सम्पादने उपयुक्ताः अधोलिखितज्ञानमन्दिरेभ्य उपलब्धाः ।
(१) आचार्यश्री कैलाससागरसूरिज्ञानमन्दिरम् (कोबा)
(२) गीतार्थगङ्गा ( पालडी)
(३) आचार्यश्रीविजयमित्रानन्दसूरीश्वरशास्त्रसङ्ग्रहः (पालडी)
(४) आचार्यश्रीविजयदानसूरीश्वरजीज्ञानमन्दिरम् (कालुपुर)
(५) पुखराजरायचंदशास्त्रसङ्ग्रहः (साबरमती)
(६) जैनप्राच्यविद्याभवनम् (पालडी)
सर्वैः ग्रन्थागारसञ्चालकैः निजश्रमादिकं अवगण्य सम्पादनेऽत्र साहाय्यमाचरितम् ।
ग्रन्थस्याक्षरसंयोजनं मुद्रणाकृतिप्रारुपसङ्कलना च श्रीअखिलेशमिश्रामहोदयेन (संचा० विरति ग्राफिक्स) विशेषप्रीतिपूर्वकं कृतम् । परिशिष्टानां मुद्रणं सङ्गणकयन्त्रे ( Computer) अकारादिक्रमनिर्माणं च श्रीकैलाससागरसूरिज्ञानमन्दिरमुद्रणालयविभागेन सहृदयतया कृतमिति सर्वेषां उपकतॄणां प्रति कृतज्ञताभावमभिव्यज्य, साहाय्यकानां श्रुतभक्तिमनुमोदयन् साधुवादांश्च समर्पयन् विरमति
विमलवसतिः कुम्भायाजतीर्थम् २०६०, चैत्रबहुला षष्ठी
वैराग्यरतिविजयः
Page #13
--------------------------------------------------------------------------
________________
॥ ॐ ऐं सरस्वत्यै नमः ॥
॥ न्यायविशारदन्यायाचार्यमहोपाध्यायश्रीयशोविजयगणिसद्गुरुभ्यो नमः ॥
प्रस्थानम्
आप्तमीमांसा :
इयम् आप्तमीमांसा । देवागमस्तोत्रम् - इत्यस्याः प्रसिद्धिः ।
आचार्यश्रीसमन्तभद्रस्वामिप्रणीता स्तुतिरेषा वस्तुतः अनेकान्तवादस्थापनोद्देशेन विहितः
परीक्षाग्रन्थः ।
द्विविधा खलु दार्शनिकशास्त्राणां प्रवृत्तिः, लक्षणशास्त्रं परीक्षाशास्त्रं च । तत्र लक्षणशास्त्रे निजनिजदर्शनाभिमतमूलतत्त्वानां स्वरूपावधारणाय विमर्शः क्रियते । परीक्षाशास्त्रे पूर्वोत्तरपक्षस्थापनद्वारा दर्शनान्तरीयाभिमततत्त्वानां विरोधमुद्भाव्य परीक्षा क्रियते । लक्षणशास्त्रे लक्षणानाम् अव्याप्त्यादिदोषराहित्यसम्पादकयुक्तीनां संयोजनेन स्वमतस्थापनमेव वर्तते प्राधान्येन । परीक्षाशास्त्रे पुनः परमतखण्डनमपि । तदियमाप्तमीमांसा स्तुतिव्याजेन रचितः परीक्षाग्रन्थः ।
विषयदर्शनम् :
विवादाध्यासितजिनधर्मिकाऽऽप्तत्वाऽनाप्तत्वप्रकारकसंशयजनकविप्रतिपत्तौ स्तुत्यत्वेनाभिमतः जिन एव आप्त इत्यन्ययोगव्यवच्छेदपूर्विका विधिकोटिरत्र परीक्ष्या । अस्यां कोटयै अन्ययोगव्यवच्छेदांशे प्रदर्शितानां व्यभिचाराणां निराकरणं कृतं स्तुतिकृद्भिः प्रथमश्लोकत्रयेण । चतुर्थपञ्चमश्लोकयोराप्तत्वधर्माश्रयस्य पुरुषविशेषस्य संसाधनद्वारेण सर्वज्ञत्वस्थापनं विहितम् । षष्ठे श्लोके निर्दोषत्वहेतुना अन्ययोगव्यवच्छेपूर्विकाया आप्तत्वप्रकारकनिश्चयजनिकाया जिनविषयिण्याः विधिकोटेः स्थापनम् । निर्दोषत्वहेतौ स्वरूपासिद्धिपरिहारार्थं च युक्तिशास्त्राऽविरोधिवाक्त्वरूपो हेतुरप्यत्रैवोपस्थापितः स्तुतिकारैः । इदमेव च परीक्षाशास्त्रस्यास्य मूलम् । सप्तमश्लोकादारभ्य शततमश्लोकपर्यन्तं दर्शनान्तरीयाणां वादानां युक्तिशास्त्रविरोधित्वं प्रदर्श्य निजार्हद्दर्शनस्य तदविरोधित्वमनेकान्तवादाश्रयेण साधितम् । अन्त्येषु चर्तुर्दशसु श्लोकेषु प्रमाणनयसप्तभङ्गीमुपपादयद्भिः स्याद्वादसंस्थितिः कृता स्तुतिकरैः ।
परीक्षाप्रधानेऽस्मिन् शास्त्रे अनेकान्तवादस्य निर्दोषत्वसिद्ध्यर्थं दशपरिच्छेदा उपकल्पिताः । प्रत्येकस्मिन् चतुर्णां कोटीनामुत्थापनं कृत्वा अनेकान्तवादाश्रयणपूर्वकं वस्तुतत्त्वे सप्तभङ्गीसङ्गतिः
Page #14
--------------------------------------------------------------------------
________________
१४
प्रदर्शिता । कोटिचतुष्टयं चैवम्
(१) विधिकोटिः (२) निषेधकोटि (३) उभयकोटिः (४) अनुभयकोटिश्च (अनुभयकोटिरवक्तव्यतारूपा बोद्धव्या) ।
तदेवं दशसु परिच्छेदेषु एकस्मिन् धर्मिणि विरुद्धयोरपि परस्परसापेक्षयोर्धर्मयोरवस्थापनं परीक्षितम् । एकान्ताश्रयणे तद् दुःशकमिति अनेकान्ताश्रयणमेव श्रेय इति स्तुतेरस्य मुख्यो ध्वनिः ।
अत्र प्रथमे परिच्छेदे भावाभावैकान्तपरीक्षा । तत्र पदार्थः भावरूप एवेति विधिकोटिर्भावैकान्तः साङ्ख्यादीनाम्, अभावरूप एवेति निषेधकोटिर्बोद्धादीनां तत्त्वोपप्लववादीनां च, परस्परनिरपेक्ष भावाभावोभयरूप इत्युभयकोटिर्मीमांसकादीनाम्, सर्वासां कोटीनां निर्वचनमशक्यमित्यवक्तव्यताकोटि र्वेदान्त्यादीनामिति एकैकस्याः कोटेरुदाहरणम् । एवं सर्वेष्वेव परिच्छेदेषु कोटिचतुष्टयोत्थापनं बोध्यम् । परिच्छेदेऽस्मिन् कारिका एकादश (९-२३) ।
द्वितीये एकत्वपृथक्त्वैकान्तपरीक्षा, कारिका अत्र त्रयोदश (२४-३६) । तृतीये नित्यानित्यैकान्तपरीक्षा, कारिका अत्र चतुर्विंशतयः ( ३७-६० ) । चतुर्थे भेदाभेदैकान्तपरीक्षा, कारिका अत्र द्वादश (६१-७२) । पञ्चमे अपेक्षानपेक्षैकान्तपरीक्षा, कारिका अत्र तिस्रः एव (७३-७५) । षष्ठे हेत्वागमवादैकान्तपरीक्षा, कारिका अत्रापि तिस्रः एव (७६-७८) । सप्तमेऽन्तर्बहिस्तत्वैकान्तपरीक्षा, कारिका अत्र नव ( ७९-८७) ।
अष्टमे दैवपुरुषार्थैकान्तपरीक्षा, कारिका अत्र चतस्रः (८८-९१) ।
नवमे पुण्यपापबन्धैकान्तपरीक्षा, अत्रापि कारिका चतस्रः एव (९१-७५) ।
दशमे बन्धमोक्षैकान्तपरीक्षा, कारिका अत्र पञ्च (९६ - १००)
अवशिष्टासु चतुर्दशसु कारिकासु प्रमाणस्य लक्षणं, तत्फलं, नयोपनयानां स्वरूपम्, सप्तभङ्गी संसाधनद्वारेण स्याद्वादसंस्थितिः दर्शिता स्तुतिकृद्भिरित्युक्तपूर्वम् ।
प्रवादस्य प्रामाण्यपरीक्षा :
अत्रायं दैगम्बरीयः प्रवादः 'श्रीसमन्तभद्राचार्यै र्भगवदुमास्वामिप्रणीततत्त्वार्थ सूत्रोपरि चतुरशीतिसहस्रश्लोकप्रमितं गन्धहस्तिमहाभाष्यं रचितम् । तत्त्वार्थमहाशास्त्रस्य मङ्गलाचरणरूपोऽयं श्लोक :
मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृताम् ।
ज्ञातारं विश्वतत्त्वानां वन्दे तद्गुणलब्धये ॥ इति
श्लोकस्यास्य व्याख्यानरूपेण गन्धहस्तिमहाभाष्यान्तर्गतामिमामाप्तमीमांसां श्रीसमन्तभद्रस्वामी
Page #15
--------------------------------------------------------------------------
________________
प्रणिनाय' इति । इदमत्र साधितम् दिगम्बरै:
१५
आमोक्ष० इत्यादि श्लोकः भगवदुमास्वामिरचितः ।
(ब) श्वेताम्बराम्नाये प्रचलितस्य तत्त्वार्थाधिगमभाष्यस्य कर्तृता नोमास्वामिभगवतः ।
अत्र प्रतिविधीयते-प्रथमं तावत्, श्रीसमन्तभद्रस्वामिभिः गन्धहस्तिभाष्यं रचितमित्यत्र न किमप्यैतिहासिकं प्रमाणम्, येन आप्तमीमांसायाः तदन्तर्गतत्वस्थापनं युज्येत ।
द्वितीयम्, मोक्ष॰ इत्यादि श्लोकस्य वाचक श्रीउमास्वातिकर्तृकतापि विरुद्धा । यद्ययं श्लोकः तत्त्वार्थसूत्रीयः स्यात् तर्हि पूज्यपाद - अकलङ्कदेवादिभिः सर्वार्थसिद्धितत्त्वार्थश्लोकवार्तिकादौ स्वीयव्याख्यानेऽवश्यं व्याख्यातः स्यात् । न हि व्याख्यातारः मङ्गलश्लोकमेव व्याख्याने विस्मरन्ति । वस्तुतः मोक्ष० इत्यादि श्लोकः पूज्यपादविरचिततत्त्वार्थसर्वार्थसिद्धिटीकायाः मङ्गलाचरणम्, अत एव पूज्यपादाकलङ्कदेवयोस्तदव्याख्यानमपि सङ्गच्छते । यद्यपि पं० श्रीदरबारीलाल कोठिया- पं० श्री उदयचन्द्र जैनप्रमुखाः दिगम्बरा विद्वांसः आ० श्री विद्यानन्दवचनानि प्रमाणरूपेणोपस्थापयन्ति ।
तद्यथा
शास्त्रवताररचितस्तुतिगोचराप्त
मीमांसितस्तुतिरलङ्क्रियते मया । (अष्टसहस्री)
इति तत्त्वार्थशास्त्रादौ मुनीन्द्रस्तुतिगोचरा । प्रणीताप्तपरीक्षेयं विवादविनिवृत्तये ॥ ( आप्तपरीक्षा) इति ।
तथापि तत्रापि बाधकप्रमाणं तदेव, आ० श्रीविद्यानन्दस्वामिनोऽर्वाग्वर्तिनो दिगम्बराचार्या नैनं श्लोकं तत्त्वार्थसूत्रीयं प्रतिपादयन्ति ।
एतेन तत्त्वार्थाधिगमभाष्यं नोमास्वामिप्रणीतमित्यपि प्रत्युक्तं, भाष्यकारिकाया एव पारिशेष्यात् सूत्रमङ्गलत्वसिद्धेः । बृहद्वृत्तिसहितसभाष्यतत्त्वार्थाधिगमसूत्रप्रस्तावनायां पं० हिरालाल कापडिया महोदयेन महता प्रबन्धेन भाष्यस्यैव प्राचीनत्वमपि साधितम् ।
श्रीसमन्तभद्रसमयः
आ० श्री समन्तभद्राणां समयनिर्णयेऽपि न मतैक्यम् । मा० लेविस राइस महोदयमतेन स्वामीसमन्तभद्रसमयः ईसवीया प्रथमा द्वितीया वा शताब्दी । पं० श्री जुगलकिशोरमुख्तारमतेन द्वितीया तृतीया वा ईसवीया शताब्दी । भारतीयदार्शनिकविश्वकोशे (Ensyclopedia of Indian Philosophy) कार्लपोट्टरमहोदयैः समन्तभद्राणां समयः बौद्धविदुषः धर्मकीर्तेरुत्तरं (ईसवीय ६३५) ईसवीयं ६५० तमं वर्षं प्रतिपादितः ।
पुरातत्त्वविद्यासमुद्राः प्रो० मधुसूदनढांकीमहोदयास्त्वेवमाचक्षते 1- आ० श्री समन्तभद्रस्वामिनः वाचकश्रीउमास्वाति-आचार्य श्रीसिद्धसेनदिवाकरसूरिप्रभृतेरनन्तराः आचार्य श्रीदेवनन्दिनः पूर्ववर्तिन
Page #16
--------------------------------------------------------------------------
________________
श्चासन् । एवं ईसवीय ५५० तमात् वर्षात् ईसवीय ६२५ तमवर्षपर्यन्तं तेषां सत्तासमयः ।
इतिहासविज्ञाः श्रीमद्-दर्शन-ज्ञान-न्यायविजयाः-जैनपरंपरायाः इतिहासवर्णने एवमाहुःकोटिकगणस्य वज्रीशाखायां विक्रमात् शताधिकषण्णवतितमे (वि०सं० १९६) संवत्सरे आ० श्रीवज्रसेनसूरिशिष्यैराचार्यश्रीचन्द्रसूरिभिः चान्द्रकुलस्थापनाकृता (अद्य विहरमानाः श्रमणाः चान्द्रकुलीयाः वर्तन्ते) तेषां जन्मादितिथय एवंरूपाः
वीरात् पञ्चशताधिकद्विनवतितमे वर्षे (वी० ५९२) दीक्षा, वीरात् षट्शताधिकषष्ठे (वी० ६०६) सूरिपदं, वीरात् षट्शताधिकविंशतितमे वर्षे (वी० ६२०) युगप्रधानपदम्, वीरात् षट्शताधिक पञ्चाशत्तमे (वी० ६५०) वर्षे निर्वाणं च । आचार्यश्रीचन्द्रसूरयः गुणभृत्श्रीसुधर्मस्वामिनां पञ्चदशपट्टमलङ्चक्रुः । तेषां पट्टे आचार्यश्रीसमन्तभद्रसूरयः सञ्जाताः । तेषाम् ऐतिह्यवृत्तं समयादिकं च न सम्प्रत्युपलभ्यते । आचार्यश्रीसमन्तभद्रसूरिभिः स्वीयपट्टे वीरात् षट्शताधिकत्रिपञ्चाशत्तमे वर्षे (वी० ६५३) श्रीदेवसूरीणां स्थापना कृता इत्युल्लेखः प्राप्यते । तेनानुमीयते यद् वीरात् षट्शताधिकपञ्चाशत्तमवर्षात् (वी० ६५०) षट्शताधिकत्रिपञ्चाशत्तमवर्षपर्यन्तः त्रिवर्षप्रमाणः समयः सूरीणामिति विक्रमस्य तृतीयं शतकं आचार्यश्रीसमन्तभद्रसूरीणां समय:२ ॥
इदं तु ज्ञेयम्-प्राचीनपट्टावलीषु आचार्यश्रीसमन्तभद्रसूरीणां षोडशपट्टाधिकारित्वं विविक्तदेशविहारित्वं वनवासीगच्छनामस्थापनाहेतुत्वं च प्रतिपादितम् किन्तु आप्तमीमांसाकर्तृत्वं कुत्रापि नोल्लिखितम् ।
अष्टशती अष्टसहस्त्री :
आचार्यश्रीसमन्तभद्रस्वामिना परीक्ष्य संस्थापितमनेकान्तमुद्दिश्य परवादिभिः कृतानाक्षेपान् पराहर्तुं दिगम्बराचार्यश्रीभट्टाकलङ्कदेवः आप्तमीमांसाव्याख्यानरूपं शब्दतः सङ्क्षिप्तमप्यर्थतोऽतिगम्भीरं भाष्यं प्रणिनाय । अष्टशतश्लोकमितेऽस्मिन् भाष्ये स भर्तृहरि (ई० ६००-६५०) कुमारिल (ई ६००६८०) धर्मकीर्ति (ई० ६२०-६९०) धर्मोत्तर (ई० ६५०-७२०) प्रज्ञाकर (ई० ६७०-७२५) कर्णकगोमि (ई० ६२०-७५०) शान्तरक्षित (ई० ७५०-७६२) प्रभृतिभिः उपस्थापितान् दोषान् उद्दधार । समयस्तस्य वैक्रमीयम् अष्टमं शतकम् (ई० ७२०-९८०) । भट्टाकलङ्कदेवस्य शैली अतीव प्रौढा लाघवमयी च । विशिष्टावबोधं विना तदीयरहस्यानामवगमोऽत्यन्तमशक्यः । अत एव अन्यग्रन्थवन्न सा प्रसिद्धि प्राप्ता । दुरूहत्वेनाध्ययनाद्यभावात् विलोपमभिगच्छन्तीम् अष्टशती पात्रकेसरीत्यपरनामदिगम्बराचार्यश्रीविद्यानन्दस्वामी पुनरुज्जीवितवान् । दिगम्बराचार्यश्रीवादिचन्द्रसूरिकृत ज्ञानसूर्योदयनाटकस्य चतुर्थेऽङ्के स्थितोऽयं संवाद एवात्रार्थे संवादकः ।
अष्टशती: 'देव ! ततोऽहमुत्तारितहृदया श्रीमत्पात्रकेसरिमुखकमलं गता । तेन
१. दृष्टव्य-निर्ग्रन्थऐतिहासिकलेखसमुच्चय-१ लेख स्वामी समन्तभद्रनो समय (पत्र २८-५८) २. ॐन ५२५२रानो तिहास भाग-१ पृ. ३४१-३४६
Page #17
--------------------------------------------------------------------------
________________
१७
साक्षात्कृतसकलस्याद्वादाभिप्रायेण लालिता पालिता अष्टसहस्त्रीतया पुष्टिं नीता । देव ! स यदि नापालयिष्यत् कथं त्वामद्राक्षम् ?' इति ।
आचार्यश्रीविद्यानन्दस्वामिनः शैली प्रौढापि विस्तृता । अष्टसहस्रीं विवृण्वन् स अष्टशती स्वीयवृत्तावेव समावेशयति, परमतकृताक्षेपखण्डनेऽकलङ्कदेवमनुसरति, अनेकान् प्रवादान् सूक्ष्मप्रज्ञया समालोचयति, परमतस्थितान् दोषान् उद्घाटयति, परोपस्थापितान् दोषान् तीक्ष्णेन तर्ककुठारेण निर्दयमवच्छिनत्ति । विषमेन युक्ति-प्रयुक्ति-प्रत्युक्तिजालेन च निबद्धेयमष्टसहस्री कष्टसहस्री एवेति विद्यानन्दस्वामी स्वयमेवोद्घोषयति । समयस्तस्य विक्रमस्य नवमं शतकम् (ई० ७७५-८४०) इत्यैतिह्यविदो विदुः ।
विषयदर्शनम् :
अष्टसहस्रयाः अतिविस्तृतो दुरूहश्च प्रथमः परिच्छेदो 'व्याघ्रमुखाः ग्रन्थाः' इत्यभियुक्तोक्ति स्मारयति । नैकेऽर्थगम्भीराः विषया अस्मिन् विमृष्टाः वृत्तिकारेण । आप्तमीमांसायाः प्रस्तावनाश्लोकेषु (श्लो० १-७) एव वृत्तेः विषयविस्तारः प्रवर्तते । तत्र नियोगवाद-भावनावाद-विधिवादानां खण्डनं मुख्यो विमर्शः । वेदैकप्रामाण्याभ्युपगन्तृणां मीमांसकानां मते 'यजेत' इत्यादि वाक्येषूपस्थितस्य लिङादिशब्दवाच्यस्याऽऽख्यातस्य प्रेरकत्वं स्वीक्रियते । तत्र विप्रतिपद्यन्ते मीमांसकाः । प्राभाकरा: आख्यातस्य अर्थरुपेण नियोगं स्वीकुर्वन्ति । भाट्टा भावनाम् अन्ये च विधिम् । अत्र वृत्तिकृता प्राभाकराभिमतनियोगपदस्यैकादशार्थाः प्रदर्शिताः । परस्परं च वादमाध्यमेन तेषां खण्डनं प्रस्तुतम् ।
चार्वाकाभिमतः तत्त्वोपप्लववादः प्रथमपरिच्छेदस्यान्यो ध्यानाकर्षको विमर्शः । शून्यवादसदृशोऽयं वादः प्रायो जयराशिभट्टकृततत्त्वोपप्लवसिंहनामके ग्रन्थे दृश्यते ।
मीमांसासूत्रश्लोकवार्तिके कुमारिलभट्टेन सर्वज्ञास्तित्वम् निराकृतम् । आचार्येण प्रबलाभियुक्तिभिः तन्मतं निर्लोठितम् । द्वितीये परिच्छेदे ब्रह्माद्वैत-शब्दाद्वैत-विज्ञानाद्वैत-चित्राद्वैतशून्याद्वैतरूपपञ्चविधाद्वैतवादस्य निराकरणं प्रस्तुतमाचार्येण ।
तृतीयादिषु च नित्यानित्यबैकान्तादिविषयपरीक्षणं महता कौशलेन कृतमिति वृत्तिदर्शनेनैवा वगमिष्यन्ति विद्वांस इत्यलमतिपल्लवितेन ।
अष्टसहस्त्रीतात्पर्यविवरणम् :
अष्टसहस्रयाः रचनानन्तरं नवशतवर्षेषु व्यतीतेषु वैक्रमीये अष्टादशशततमे शतके न्यायविशारदन्यायाचार्यमहोपाध्याय श्रीमद्यशोविजयगणिभिरष्टसहस्री पाण्डित्यपूर्णेन तात्पर्यविवरणेन विभूषिता । नव्यन्यायशैलीबद्धम् अष्टसहस्रीतात्पर्यविवरणम् श्लोकसङ्ख्यया अष्टसहस्रीतुल्यमेव । तदुक्तं विवरणप्रारम्भे
Page #18
--------------------------------------------------------------------------
________________
१८
विषमामष्टसहस्त्रीं अष्टसहस्रया विवेचयति । (पत्र-१)
तात्पर्यविवरणेन सहितेयमष्टसहस्री, तदुभयमण्डिता च आप्तमीमांसा, इति नव्यन्यायप्राचीनन्याययोरत्र प्रीतिसङ्गमः । अत एव ग्रन्थोऽयं परिपूर्णः तीर्थतुल्यः । महोपाध्यायश्रीयशोविजयजीगणिवरः
अष्टसहस्रीतात्पर्यविवरणकर्तृणामुपाध्यायप्रवराणां जन्मतिथिरद्यावधि न निश्चिता । जन्मवर्षं तु विक्रमात् अशीत्यधिकषोडशशतवर्षात् (वि० सं० १६८०) प्रागित्यैतिह्यविदामभिप्रायः । गुर्जरदेशस्याणहिलपुरपत्तन (पाटण) समीपवति 'कन्होडा' ग्रामे सौभाग्यदेवीकुक्षितः तेषां जन्म । विक्रमात् १६८८ तमे वर्षे निजाग्रजपद्मसिंहसमन्वितस्य जसवंतस्य श्रीनयविजयगुरुपादान्ते प्रव्रज्यास्वीकारः । वि० सं० १६९९ तमे वर्षे सभासमक्षमष्टावधानप्रयोगसम्पादनं विहितम् । तत्क्षयोपशमाकृष्ट धनजीसूराख्यश्रेष्ठिसाहाय्येन स्वगुरुभिः सह नव्यन्यायशास्त्राध्ययनार्थं काशी प्रति प्रस्थिताः तत्र च सप्तशताधिकविद्यार्थीगणपाठकानां भट्टाचार्याणां समीपे वर्षत्रयं यावद् नव्यन्यायस्याभ्यास: सम्पादितः, विशेषतः तत्वचिन्तामणिग्रन्थस्य । तदुक्तं तैरेव तृतीये परिच्छेदे
कृत्वा यत्नमनेकपण्डितवतीमध्यास्य काशीमभूद् भट्टाचार्यपुरन्दरेभ्य इह यस्तर्केष्वधीतं भृशम् ॥ (पत्रम्-५२५) सिताम्बरशिरोमणिविदितचारुचिन्तामणिः । (पत्रम्-१)
तत्रैवोपस्थिते वादे लब्धविजयेभ्यः काशीस्थविद्वत्परिषदा 'न्यायविशारद पदम् समर्पितम्, अध्यापकभट्टाचार्यैश्च शताधिकनव्यन्यायपरिमण्डितग्रन्थरचनाकृष्टचित्तेन 'न्यायाचार्य' पदम् । तदुक्तम्
पूर्वं न्यायविशारदत्वबिरुदं काश्यां प्रदत्तं बुधैः ॥ न्यायाचार्यपदं ततः कृतशतग्रन्थस्य यस्यार्पितम् ॥
पूज्यानाममीषां काश्यामेव गङ्गानदीतीरे सरस्वतीबीजमन्त्रजापसाक्षात्कृतश्रुतदेवतावरप्राप्तिः । तदुक्तम्
ऎकारजापवरमाप्य कवित्ववित्त्व
वाञ्छासुरद्रुमुपगङ्गमभरङ्गम् । (महावीरस्तवः) काशी विहृत्याऽऽग्रानगरे वर्षचतुष्टयं विशेषाभ्यासं विधाय पुनरागतैरमदावादराजनगरे विक्रमात् १७१८ तमे वर्षे महोब्बतखां समक्षं (प्रा०जयंतकोठारीमहोदयमतेन साइस्तखांसमक्ष) अष्टादशावधानानां प्रयोगः सम्पादितः । अस्मिन्नेव वर्षे श्रीविजयप्रभसूरीश्वराज्ञया वाचकपदालङ्करणं सञ्जातं, विक्रमात् १७४२ तमे वर्षे दर्भावत्यां अनशनपूर्वकम् अलकापुरीम् अलङ्कृतवन्तः ।
स्वरचितग्रन्थप्रशस्तिषु ते स्वकीयां गुरुपरंपराम् एवं दर्शयन्ति । अकब्बरसुरत्राण प्रतिबोधकश्रीहीरविजयसूरीश्वराणां शिष्याः पण्डित श्रीकल्याणविजयाः, तच्छिष्याः पण्डितश्रीलाभविजयाः,
Page #19
--------------------------------------------------------------------------
________________
१९
तच्छिष्याः पण्डितश्रीनयविजयाः, तेषां शिष्याः महोपाध्यायश्रीयशोविजयगणिवराः ॥
सर्वतोमुखीप्रतिभासम्पन्नानां न्यायाचार्याणां मुख्यं जीवनकृत्यमासीत् ग्रन्थनिर्माणम् । प्रायः सर्वेषु प्रचलितेषु विषयेषु तेषां लेखिनी अप्रतिहतप्रसरा प्रवाहिनीवासीत् । विशेषतः नव्यन्यायशैलीमण्डिते दार्शनिकक्षेत्रे वादबहुलाः ग्रन्थाः तेषां सारस्वती कीर्तिं गायन्तो विराजन्ते । कानिचित् नामानि अत्र प्रस्तूयन्ते ।
(१) नयोपदेशः, (२-३) नयामृततत्त्वतरङ्गिणी टीकोपेतः, (४-५) महावीरस्तवः न्यायखण्डनखाद्यटीकोपेतः, (६) उत्पादादिसिद्धिटीका, (७) तत्त्वार्थसूत्रप्रथमाध्यायविवरणम्, (८-९-१०) स्याद्वादरहस्यम् लघुमध्यमबृहदितित्रयात्मकम्, (११) पातञ्जलयोगसूत्रटीका, (१२) काव्यप्रकाशवृत्तिः, (१३) न्यायसिद्धान्तमञ्जरीशब्दखण्डटीका, (१४) अनेकान्तव्यवस्थाप्रकरणम्, (१५) अस्पृशद्गतिवादः, (१६) आत्मख्यातिः, (१७) जैनतर्कभाषा, (१८) ज्ञानबिन्दुः, (१९) तिङन्वयोक्तिः, (२०) सप्तभङ्गीनयप्रदीपः, (२१) नयरहस्यम्, (२२) न्यायालोकः, (२३-२५) वादमालात्रयम्, (२६) विषयतावादः, (२७) स्याद्वादकल्पलता, (२८) अष्टसहस्रीतात्पर्यविवरणमित्यादि ।
पूज्यपादोपाध्यायप्रवरैः रचितानां बहुधा कालकवलितानां ग्रन्थानां सङ्ख्या इदानीं वक्तुमशक्या । सम्प्रत्युपलभ्यमानानां सङ्ख्या अशीत्यधिकम् वर्तते । दार्शनिकक्षेत्रे तद्विरचितेषु ग्रन्थेषु मूर्द्धाभिषिक्ताः त्रयो ग्रन्थाः । स्याद्वादकल्पलता, (शास्त्रवार्तासमुच्चयटीका) न्यायखण्डनखण्डखाद्यम् (महावीरस्तवटीका) अष्टसहस्रीतातात्पर्यविवरणं च । प्रशस्तिदर्शनेन अष्टसहस्रीतातात्पर्यविवरणं विक्रमात् १७१८ सङ्ख्यवर्षानन्तरं रचितमिति निःशङ्कम् । अष्टसहस्रीतात्पर्यविवरणे स्वरचित पञ्चदशानां ग्रन्थानामुल्लेखः श्रीमद्भिरुद्धरणरूपेण कृतः । तद्यथा
अध्यात्ममतपरीक्षा, अनेकान्तप्रवेशः (अमुद्रितः), अनेकान्तव्यवस्था, आत्मख्यातिः उपदेशामृततरङ्गिणी (अमुद्रिता), ज्ञानबिन्दुः, ज्ञानसारः, तत्त्वार्थसूत्रप्रथमाध्यायटीका, नयरहस्यम्, नयोपदेशः, नयामृततत्त्वतरङ्गिणी, भाषारहस्यम्, वादमाला, स्याद्वादकल्पलता, स्याद्वादरहस्यञ्च । (अनेकान्तप्रवेशः, उपदेशामृततरङ्गिणी च सम्प्रति नोपलभ्येते, द्वितीयस्य तु नामापि प्रथमवारमत्रैव प्राप्यते ।) एवम् अष्टसहस्रीतात्पर्यविवरणस्य रचना उपर्युल्लिखितग्रन्थरचनानन्तर्भाविनीति । प्रतिमाशतके च अष्टसहस्रीविवरणस्योल्लेखो दृश्यतेऽतः विवरणं तद्पूर्ववति इति ज्ञेयम् । तात्पर्यविवरणस्य वैशिष्ट्यम् : (१) अष्टसहस्रीतात्पर्यविवरणम् दिगम्बरग्रन्थोपरि रचिता प्रायः प्रथमैव टीका श्वेताम्बरसम्प्रदाये । स्वस्य दिगम्बरकर्तृकग्रन्थविवरणे हेतुश्च विवरणकारैः प्रस्तावनाश्लोकेष्वेव दर्शितः
स्याद्वादार्थः क्वापि कस्यापि शास्त्रे यः स्यात् कश्चिद् दृष्टिवादार्णवोत्थः । तद्व्याख्याने भारती सस्पृहा मे भक्तिव्यक्ते ग्रहोऽणौ पृथौ वा ॥ अम्भोराशेः प्रवेशे प्रविततसरितां सन्ति मार्गा इवोच्चैः स्याद्वादस्यानुयोगे कति कति न पृथक् सम्प्रदाया बुधानाम् ।
Page #20
--------------------------------------------------------------------------
________________
शक्यः स्वोत्प्रेक्षितार्थैररुचिविषयतां तत्र नैकोऽपि नेतुं
जेतुं दुर्वादिवृन्दं जिनसमयविदः किं न सर्वे सहायाः ॥ (२) अष्टसहस्रयां येषां विषयाणां विमर्शः नोपलभ्यते तात्पर्यविवरणे स उपलभ्यते । यथा
(i) अभावबुद्धौ प्रतियोगिबुद्धिकारणतावादः (पत्रं-२३७) (ii) अभावस्य सविकल्पनिर्विकल्पज्ञानवेद्यत्ववादः (पत्रं-४६) (iii) अभेदवादः (पत्रं-४३२) (iv) आरम्भवादः (पत्रं-१७२) (v) ऊहप्रमाणवादः (पत्रं-१०८) (vi) द्रव्यचाक्षुषहेतुतावादः (पत्रं-१३८) (vii) पक्षतावादः (पत्रं-७) (vii) पदानामुभयार्थप्राधान्यबोधकतावादः (पत्रं-३५४) (ix) प्रत्यक्षानुमितिसामग्रयोः प्रतिबध्यप्रतिबन्धकभाववादः (पत्रं-९) (x) भिन्नेन्द्रियप्रत्यक्षसामग्रीप्रतिबध्यप्रतिबन्धकभाववादः (पत्रं-१८) (xi) योग्यानुपलब्धिवादः (पत्रं-२१७) (xii) संशयकारणवादः (पत्रं-६१)
(xvii) सामान्यलक्षणाप्रत्यासत्तिवादश्चेत्यादि । (पत्रं-१०९) (३) एवमुपाध्यायप्रवरैः स्वयमन्यत्र ग्रन्थादिष्वस्पृष्टान् विषयानपि अष्टसहस्रीतात्पर्यविवरणं
परामृशति । यथा पक्षतावादः (पत्रं-७), वाक्यवादः (पत्रं-६६८), प्रत्यक्षानुमितिसामग्रयोः प्रतिबध्यप्रतबिन्धकभाववादः (पत्रं-९), आरम्भवादः (पत्रं-१०८), सामान्यलक्षणाप्रत्यासत्तिवादः
(पत्रं-१०९), अहेतोरगमकत्ववाद: (पत्रं-३९१) इत्यादि । (४) विषयाणां स्याद्वादनयसंस्कृतया दृष्ट्या सम्यग् विनियोगः अष्टसहस्रीतात्पर्यविवरणस्या
नन्यलभ्यं वैशिष्ट्यम् । अत्रोपाध्यायपूज्यैरयं विनियोगः द्विधा प्रयोजितः । क्वचित् सङ्गतिरूपेण, क्वचित् परिष्काररूपेण । दर्शनान्तरीयप्रवादेषु ये विषयाः स्याद्वाददृष्ट्या विनियोगमायान्ति तेषां नयविभागप्रदर्शनपूर्वं सङ्गतिं कुर्वन्ति ये च सर्वथैवेकान्तरूपाः विषयाः स्याद्वादविरुद्धगामित्वेन न कथमपि सङ्गतिं लभन्ते तान् परिष्कृत्य निर्दोषतामापादयन्ति चात्र
विवरणे न्यायविशारदाः । उदाहरणपूर्वकं सङ्गतिप्रकाराः प्रदर्श्यन्ते(अ) नैयायिकाः नामार्थविशेष्यकं शाब्दबोधमिच्छन्ति, वैयाकरणास्तु धात्वर्थविशेष्यकम् इति
Page #21
--------------------------------------------------------------------------
________________
२१
मतभेदः । अत्र नैयायिकमतं व्यवहारनयप्रधानं, वैयाकरणमतं च शब्दनयप्रधानमिति व्यवहारनयेन नामार्थविशेष्यक: शब्दनयेन च धात्वर्थविशेष्यक: शाब्दबोध अविरुद्ध इति
विवरणकृद्दर्शिता सङ्गतिः । (पत्रं-८३) (आ) प्रामाण्यं स्वतो ग्राह्यं परतो वा इति विप्रतिपत्तौ विधिकोटिर्मीमांसकानां निषेधकोटिर्नैयायिकानाम् । विवरणकृतः सम्प्रदायानुसारेण मतद्वयम् एवं सङ्गमयन्ति
तदभ्यासे स्वतो ज्ञेयं प्रामाण्यमितरत् तथा ।
अनभ्यासे नु परतो ज्ञप्तौ यत्नो यथोचितः ॥ (पत्रं-१०३) अभावोऽधिकरणरूपो न वा इति विप्रतिपत्तौ विधिकोटिः प्राभाकराणां निषेधकोटिनैयायिकानाम् । अत्र द्रव्याथिकनयादेशाद् अभावोऽधिकरणरूपः, पर्यायाथिकनयादेशात्तु भिन्न इति विवरणकृतां सङ्गतिः । (पत्रं-२३६) वैयाकरणैः शब्दस्यार्थाभिव्यक्तौ स्फोटः कारणत्वेन स्वीक्रियते । अष्टौ स्फोटाः सम्मताः वर्णस्फोटः, पदस्फोटः, वाक्यस्फोट: (एते त्रयो व्यक्तिस्फोटाः) अखण्डपदस्फोट:, अखण्डवाक्यस्फोटः, त्रयो जातिस्फोटाः-वर्णस्फोटः, पदस्फोटः, वाक्यस्फोटश्च । स्फोटवादे विवरणकृभिरष्टौ स्फोट नयदृष्ट्या विभज्य दर्शिताः- यथा त्रयः व्यक्तिस्फोटाः पर्यायाथिकनयदृष्टिमनुसरन्ति । अखण्डस्फोटद्वयं पर्यायानुगतद्रव्यार्थिकनयदृष्टिमनुसरतिः । जातिस्फोटाश्च तिर्यक्सामान्यरूपत्वात् द्रव्याथिकनयरूपां सङ्गहनयदृष्टिमनुसरन्ति । (पत्रं-२८०) वर्तमानायां क्रियायां प्रागभावध्वंसरूपयोः भूतभविष्यत्त्वयोविनष्टानुत्पन्नत्वेन कालत्रयवाचिप्रयोगो न भवतीति नैयायिकानामाग्रह: स्थूलव्यवहारनयदृष्टेराग्रह इति प्रदर्शितम् । आग्रहाभावे
तदपि मतं सम्यगित्याशयः (पत्रं-२९३) (ऊ) चादयो निपाता वाचकाः, प्रादयश्च द्योतका इति नैयायिकानामाशयः । वैयाकरणाः
उभयो?तकत्वं प्रतिपन्नाः । विवरणकृद्भिः वाक्यपदीय-हैमसूत्रवचनयोः साक्षिपूर्वकं पदानां वाक्यार्थे द्योतकत्वं, वाक्यस्य च वाचकत्वम् सिद्धान्तितम् । (पत्रं-३३१) नैयायिकानामीश्वरकर्तृत्ववादस्य परिष्कारपूर्विकां सङ्गतिं शिखरिण्या दर्शयन्ति तर्कशेखरा विवरणकारा:
ततो यो योगाङ्गैर्बहुभिरिह गाङ्गैरिव जलैविशुद्धैः शुद्धात्माऽलभत विरजाः सिद्धपदवीम् । निषेव्यो ध्येयोऽसौ निरुपधिविशुद्धिर्भगवतो ह्युपास्यत्वे तत्त्वं न तु विमतक.कविभुता ॥ (पत्रं-६४७)
(उ)
(ऐ) केवलिनाम् उपयोगद्वयं भवति न वेति विप्रतिपत्तौ आचार्याणां मतत्रयं नयभेदेन समर्थितम् ।
आचार्याणां मतभेदेन शासनं निन्दमानान् प्रति उपाध्यायप्रवरा कठोरवचनान्याहुः यथा
Page #22
--------------------------------------------------------------------------
________________
२२
ये तु बालिशा नयभेदेन प्रवृत्तेऽप्याचार्यदर्शने शङ्काव्याकुलितचेतसः शासनमेव निन्दन्ति तेऽभव्या दूरभव्या वा, अचारित्रिण एव चारित्रप्रतिपत्तिश्चारित्रिण एव वा इत्यादिनयभेदेनाप्येवं जातशासनसंशयसन्निपातस्य भगवद्भिषग्वरेणाप्यप्रतीकार्यत्वापत्तेः । इति (पत्रं-६६२) एवं उपाध्यायप्रवरैरस्मिन् विवरणे कृताः सङ्गतयो निश्चित्य सूक्ष्मबोधमपेक्षन्ने इत्यत्र न कस्याप्याशङ्कालेशोऽपि ।
अथाष्टसहस्रीतात्पर्यविवरणे न्यायाचार्यैः कृतानां परिष्काराणाम् उदाहरणानि प्रस्तूयन्ते(क) अनुमितौ पक्षतायाः हेतुत्वं नैयायिकाः स्वीकुर्वन्ति तत्र विवरणकृद्भिरेष परिष्कारः कृतः ।
अनुमितौ पक्षता न कारणं, किन्तु साध्यसन्देहसिषाधयिषाकालानुगतोऽनुमानोपयोगः कारणमिति (पत्रं-७) । अत एव प्रत्यक्षानुमितिसामग्र्योः प्रतिबध्यप्रतिबन्धकभावसङ्गत्यर्थं प्रत्यक्षसामग्रयां नैयायिकैः कृतः अनुमित्साविरहविशिष्टविशेषणनिवेशक्लेशोऽपि परिहतः भवति । अस्मिन् विषये रघुदेवभट्टाचार्य (समय ई० १६६०)मतस्य विस्तरेण परीक्षणं कृतं
विवरणकृद्भिः । (ख) सन्देहस्थले प्रत्यक्षसामग्रयां अनुमितिसामग्री कामिनीजिज्ञासावत् स्वातन्त्र्येण प्रतिबन्धिका इति
नैयायिकमतस्यायं परिष्कार:-प्रत्यक्षे चक्षुरादिसंयोगः न कारणं, किन्तु ईहात्मक उपयोगः । तथा च सामग्रयाः अकारणत्वेनैव प्रतिबन्धकत्वादिकल्पना व्यर्था तादृश उपयोगश्च च देशकालादिनियन्त्रितक्षयोपशमानुसारेणैव प्रवर्तते इति प्रत्यक्षानुमितीच्छयोः समानकालीनत्वे सूचिताः विविधाः परिष्कारा अपि निष्फलाः भवन्ति (पत्रं ८-१३१) तदुक्तंद्रव्यचाक्षुषादौ तत्प्रतिबन्धककर्मक्षयोपशमत्वादिना हेतुता वाच्या । तव प्रत्यासत्तिविशेषस्य मम तत्स्थले क्षयोपशमविशेषस्य च हेतुताया आवश्यकत्वात् । द्रव्यार्थतः चाक्षुषादेः सार्वत्रिकत्वेऽपि पर्यायार्थतः तत्तच्चाक्षुषविशेष क्षयोपशमविशेषस्य हेतुत्वमवश्यं वाच्यम् । प्रत्यासत्तीनां विशिष्य हेतुत्वमनतिप्रयोजनम् । चाक्षुषत्वावच्छिन्ने चक्षुराभिमुख्यस्यैकस्यैव प्रत्यासत्तिस्थलेऽभिषेकौचित्यादित्य
स्मत्सम्प्रदायानुगतः नवीनः पन्थाः । (पत्रं-१३९) (ग) ज्ञानस्य स्वप्रकाशरूपत्वेन ज्ञानमानसप्रत्यक्षे अन्या सामग्री प्रतिबन्धिका न भवतीति परिष्कारो
नैयायिकमतस्य ज्ञानस्य परप्रकाशकत्वाभ्युपगन्तुः । (पत्रं-१६) (घ) विधिवादे विवरणकृद्भिः प्रदर्शितोऽयं परिष्कारप्रकार:
विधिप्रत्ययस्य नियोगः, इष्टसाधनता इत्यादि विशेष एव अर्थो भवतीति अयुक्तम् ।
व्युत्पत्त्यनुसारेण विविधा बोधाः निराबाधं प्रवर्तन्ते (पत्रं-३५) (ङ्) दीधितिकारेण पण्डितश्रीरघुनाथतर्कशिरोमणिना (ई० १५३०) स्वकीय पदार्थतत्त्व
Page #23
--------------------------------------------------------------------------
________________
निरुपणाख्ये लघुनिबन्धे न्यायशास्त्रसम्मतपदार्थव्यवस्थायां युक्त्यनुकूलं परिवर्तनमादृतम् । तद्विचाराणामनेकत्रालोचनं कृतं विवरणकृद्भिः । परस्परविरुद्धकोटिद्वयधर्मप्रकारकत्वात् संशयत्वं कार्यतावच्छेदकं न भवतीति रघुनाथमतम्, अत्र परिष्कार:-पदार्थव्यवस्थानुसारेण धर्मव्यवस्था भवति नान्यथा, तेन बहु अबह्वादीनामिव कारणभेदाधारण प्रवृत्तस्य संशयत्वस्य
कार्यतावच्छेदकत्वे न किमपि बाधकम् । (पत्रं-६१) (च) रघुनाथः प्रागभावं न स्वीकुरुते । प्रागभावास्वीकारे सन्ततकार्योत्पत्त्यापत्ति प्रदर्शयन्त्यन्ये । अत्र
परिष्कुर्वन्ति विवरणकाराः-वस्तुतः तत्कालावच्छिन्नतत्तत्पटहेतुतत्तत्संयोगाभावकूटात्यन्ताभाव एक एव कालदेशनियामक इति दिक् । अत्र तत्कालावच्छिन्नतद्देशस्वरुपायास्तथाभवितव्यताया एव तत्कार्यदेशकालनियामकत्वम् इति । (पत्रं
१२५) (छ) दीधितिकारेण पृथक्त्वं न गुणः किन्तु अन्योन्याभावरूपमेव इत्युक्तम् । अत्र परिष्कार:
पृथक्त्वं नान्योन्याभावः किन्तु प्रविभक्तप्रदेशत्वम् । (पत्रं-४३६) (ज) योगिज्ञानं (अलौकिकसन्निकर्षजन्यं) मानसप्रत्यक्षमिति नैयायिकाः । आत्मप्रत्यक्षमिति
विवरणकृताः परिष्कारः तद्यथाएवं च योगजधर्मानुगृहीतात्मन एव साक्षात्सूक्ष्माद्यर्थदर्शित्वमिति जैनाभ्युपगम
एव श्रेयानिति । (पत्रं-१७३) (झ) सुखं ज्ञानविशेषरूपं स्वतो ग्राह्यं चेति मतस्य परिष्कार:-आत्मनः स्वतन्त्रगुणरुपं सुखं
ज्ञानान्तरग्राह्यं, विषयतया सुखज्ञाने च तादात्म्यसम्बन्धेन सुखमेव कारणमिति सुखवादे उक्तम् ।
(पत्रं-२०३) () अभावज्ञाने प्रतियोगिज्ञानं कारणं न वेत्यधिकृत्य प्राचीननवीननैयायिकानां महान् विवादः । अत्र
विवरणकाराणां निष्कृष्टः परिष्कार:भावत्ववदभावत्वमखण्डोपाधिः घटादिनिरुपिताभावत्वेन भूतलादेर्शाने च योग्यानुपलब्धिसहकृतचक्षुरादि प्रतियोगिज्ञानादि च हेतुः । तथाज्ञानाच्च तथाव्यवहारः, इत्थं च विशेषणतादिप्रत्यासत्यकल्पनाद् लाघवमपीति अस्मदेकपरिशीलितः
पन्थाः । (पत्रं-२४५) (ट) यद् द्रव्यं यद्रव्यध्वंसजन्यं तद् तदुपादानोपादेयमिति नैयायिकाभितो न्यायः । तस्य परिष्कार:
यद् द्रव्यम्....इत्यपेक्षया तद् तदुपादेयमिति व्याप्तिरेव लघीयसी । इयान् परं विशेषः-परेषां समवायसम्बन्धावच्छिन्नकार्यतानिरुपितकारणताशालित्वमुपादानकारणत्वम्, अस्माकं च तादात्म्यसम्बन्धावच्छिन्नकार्यतानिरुपितस्वध्वंसत्वसम्बन्धावच्छिन्नकारणताशालित्वं तदिति । (पत्रं-३४८)
Page #24
--------------------------------------------------------------------------
________________
२४
एवं विवरणकृद्भिः दर्शनान्तरीयाणां मतपरिष्कार: कृतो यथा तथैव शास्त्रीयाणामपि मताभासानां परिष्कार: दृश्यतेऽष्टसहस्रीतात्पर्यविवरणे । प्रस्तूयन्ते तदुदाहरणानि'अविधिना दत्तं दानं शुभाशुभयोग' इति कस्यचिन्मतं परिष्कुर्वन्ति शास्त्रविशारदाः-इदं वचनं व्यवहारनयदृष्ट्या सत्यं न तु निश्चयनयदृष्ट्या, यतोऽविधिदानं यदि शुभाशुभयोगः स्यात् तहि तज्जन्यकर्मबन्धोऽपि शुभाशुभरूपो मिश्रः स्यात् । न तु मिश्र कर्मबन्धः सम्भवति । तस्मात् अविधिपरिणाम-दानपरिणामयोर्यस्य परिणामस्योत्कटत्वं तदनुसारेणैव कर्मबन्धो भवतीति सूक्ष्म
विवेचनं विवरणकर्तृणामत्र दृश्यते । (पत्रं-२०५) (फ) सिद्धानां चारित्रं न भवतीति दिगम्बरैकदेशिमतम् अध्यात्ममतपरीक्षायां समालोचितं तस्यात्र
दिनिर्देशः वर्तते । (पत्रं-१८०) (ब) एवमेव मुक्तौ चारित्रं न स्वतन्त्रकारणमिति कथनमपि परिष्कृतम् । (पत्रं-१८५) (भ) सप्तभङ्ग्या दैगम्बरीयव्यवस्था श्रीमदकलङ्देवैरित्थमारचिता-सप्तभङ्ग्यां सदसदादिविवक्षा
परदर्शनाभिमतपदार्थस्वरूपाधारेण भवति, प्रथमभङ्गत्रये परमताभिमतं सत्त्वमसत्त्वं तदुभयं चोद्दिश्य चतुर्थे भङ्गेऽवक्तव्यताविधानं भवति, एवमेव शेषभङ्गत्रयसार्थक्यमुपपद्यते, नान्यथा उपाध्यायप्रवराः सम्मतिमहातांधारेण सूक्ष्मयुक्तिभिः अकलङ्ककृतां व्यवस्थां परिष्कुर्वन्तः प्रथमभङ्गत्रयं निरवयवद्रव्यविषयकसकलादेशरूपेणान्तिमभङ्गचतुष्ट्यं च सावयवद्रव्यविषयक
विकलादेशरूपेण व्यवस्थापयन्ति । (पत्रं-३८०) (म) प्राचीनप्रायश्चित्तशास्त्रे पडिचरणं. इत्यादि श्लोके उत्तरदशायां स्थितस्य मुनेः प्रतिक्रमणादि
क्रियाऽमृतकुम्भरूपा प्रतिपादिता । तदेतत्समालोचितं श्रीकुन्दकुन्दाचार्येण समयप्राभृते । तत्र तस्याः विषकुम्भत्वं प्रसाधितम् । निश्चयप्रधानमेतन्मतं महता प्रबन्धेन परीक्ष्य परिष्कृतं धीमद्भिः श्रीमद्भिः । उत्तरदशायां स्थितस्य मुनेः क्रियायाम् अष्टौ विकल्पानुत्थाप्य समयप्राभृतकारमतं निर्लोठितम् । पूर्वोत्तरावस्थयोः क्रियाभेदश्च वचनासङ्गानुष्ठानरूपेण सङ्गमनीय इत्यभिप्रायश्च प्रदर्शितः । अस्मिन्नेवार्थे 'उपकरणादिवस्त्रधारणं परिग्रह' इति दिगम्बरमत समालोचनमपि दशवैकालिकाद्यागमानुसारेण कृतं विवरणकारैः । (पत्रं-६२१) ।
एतैरुदाहरणैः विवरणकर्तृणां स्याद्वादन्यायगर्भितसूक्ष्मबुद्धिस्वामित्वं नितरामभिव्यज्यते । स्वकीयप्रज्ञावैभवस्य, तर्ककौशलस्य, विनियोगपाटवस्य च श्रेयः ते स्वगुरुभ्य एव समपर्यन्ति । विनयोऽप्यमीषां महत्तामेवाभिवर्धयति । तथोक्तम्
अमुष्मिन्नेतावत्यखिलनयसम्मर्दगहने महातर्के यस्य प्रभवति परिच्छेदधिषणा । तथाप्यन्तः श्रीमन्नयविजयविज्ञांहिभजने न भग्ना भक्तिश्चेत्कथय किमसाध्यं मम सखे ॥ (पत्रं-३८०)
Page #25
--------------------------------------------------------------------------
________________
२५
अधीताः तर्काः श्रीनयविजयविज्ञाहिभजनप्रसादाद् ये तेषां परिणतिफलं शासनरुचिः । इहांशेनाप्युच्चैरवगमफला या स्फुरति मे
तया धन्यं मन्ये जनुरखिलमन्यत् किमधिकम् ॥ (पत्रं-५२५) इत्यलमतिविस्तरेण ।
शास्त्रमिदं द्रव्यानुयोगविषयावगाहकं प्रवचनरुचिसम्पादनद्वारेण भावतः सम्यग्दर्शनस्य नैर्मल्यापादकम् आत्मपरिणतिसम्पादनद्वारेण च चरणकरणानुयोगस्याप्युकारकं अधीत्य प्रवचनरुच्यात्मपरिणतिप्राप्त्या कृतार्था भवन्तु अध्येतारः इति भावयन्, प्रस्थानेऽस्मिन् अनवधानादिदोषवशाद् अर्हद्वचनानां ग्रन्थकृतां वाऽऽशयविरुद्धाभिभाषणप्रयुक्तदोषपरिहारार्थं मिथ्यादुष्कृतं ददन् समापयति
- वैराग्यरतिविजयः
श्रीसीमन्धरस्वामीस्वामीतीर्थम् महेशानप्रान्तम् (महेसाणा) वि०सं० २०६०, ज्येष्ठबहुलापञ्चमी
Page #26
--------------------------------------------------------------------------
________________
अनुक्रमः
अ०
वि.
मङ्गलाचरणम्
मङ्गलवादः
आ०३ आप्तपरीक्षा (का० १-२ )
पक्षतावादः
वि०
वि०
अ.
वि०
वि०
अ०
अ०
वि०
वि०
अ०
वि०
अ.
वि०
अ.
अ०
अ०
वि०
वि०
प्रथमः परिच्छेदः
अ०
भावाभावैकान्तपरीक्षा
प्रत्यक्षानुमितिसामग्र्योः प्रतिबध्यप्रतिबन्धकभाववादः ( पूर्वपक्ष )
आप्तसिद्धिः
प्रत्यक्षानुमितिसामग्रयोः प्रतिबध्यप्रतिबन्धकभाववादः ( उत्तरपक्षः)
भिन्नेन्द्रियप्रत्यक्षसामग्रीप्रतिबध्यप्रतिबन्धकभाववादः
नियोगवादः (प्राभाकर) नियोगस्यैकादशार्थाः
कार्यान्वितशक्तिवादः
नियोगवादः
नियोगवादखण्डनम् (भट्ट) विध्यर्थवादः
मण्डनमिश्राभिमतविधिवादखण्डनम् (भट्ट)
प्रतिभासाद्वैतखण्डनम्
जैनमतमाश्रित्य विधिवादखण्डनम् (भट्ट)
ब्रह्माद्वैतवादः तत्खण्डनञ्च
सौगतमतमाश्रित्य विधिवादखण्डनम्
अभावस्य सविकल्पनिर्विकल्पज्ञानवेद्यत्ववादः
शाब्दीभावनानिरुपणम्
शाब्दीभावनारूपनियोगखण्डनम्
१. अ० = अष्टसहस्त्री । २. वि० = अष्टसहस्रीतात्पर्यविवरणम् । ३. आ० = आप्तमीमांसा |
पृष्ठाङ्क
१-२
३
४
७
९
१०
१५
१८
२२
२३
* 2 2 30 30 50 50
२३
२४
२६
३२
३६
३८
४१
४४
४५
४६
५०
४८
Page #27
--------------------------------------------------------------------------
________________
प्रज्ञाकर(बौद्ध)मतखण्डनम् (भट्ट) संशयलक्षणविचारः संशयकारणवादः भावनावादप्रतिविधानम् (जैन) शाब्दीभावनानिराकरणम् (जैन) आर्थीभावनानिराकरणम् (जैन) सामान्यप्रकारकप्रत्यक्षस्य परापेक्षत्वनिराकरणम् एकानेकत्वयोः मुख्यगौणभाववादः नवीनवैयाकरणानां भावनाधात्वर्थवादः तदुत्तरपक्षश्च वेदापौरुषेयत्वप्रतिविधानम् (जैन) न हिंस्यात् सर्वाभूतानीतिवाक्यस्य विमर्श: वेदान्ताभिमतकर्मकाण्डप्रामाण्यविमर्श: वेदापौरुषेयत्वविमर्शः चार्वाकाभिमतसर्वज्ञाभावनिराकरणम् (जैन) योग्यानुपलब्धेरभावग्राहकत्वम् संवादकहेतुप्रामाण्यानुमितिविमर्श: तत्त्वोपप्लववादः प्रामाण्यवादे विमर्शलेश: तत्त्वोपप्लववादिकृतं प्रमाणतत्त्वखण्डनम् तत्त्वोपप्लववादप्रतिविधानम् प्रमाणतत्त्वसाधनम् प्रामाण्यवादविमर्शलेश: प्रामाण्यवादः तीर्थान्तराणां अनाप्ततासाधनम् ऊहप्रमाणवादः सामान्यलक्षणाप्रत्यासत्तिवाद: सामान्यलक्षणाप्रत्यासत्तिवादः (उत्तरपक्षः) तीर्थान्तरीयवचनेषु विरोधदोषप्रदर्शनम् सर्वज्ञसिद्धिः प्रत्यक्षज्ञाने इन्द्रियव्यापारस्य विमर्श: सर्वज्ञाभावसाधनम् (मीमांसकः) सर्वज्ञाभावप्रतिविधानम् (जैन)
अ.
१२३
१२४
१२६ १३१
अ.
Page #28
--------------------------------------------------------------------------
________________
२८
अ..
१३५
१३८
१४२
वि.
१४३
वि. वि.
१४४ १४६ १४९
१५०
१५३ १५४ १५५
१५७
१५८
१५९
१६०
वि.
आत्मनि ज्ञानाभावं प्रतिपादयतो मीमांसकमतस्य खण्डनम् द्रव्यचाक्षुषहेतुतावादः आत्यन्तिकदोषावरणहानिप्रयुक्तस्तुतिविषयत्वप्रतिपादनम् (का. ४) अज्ञानादीनां स्वपरोभयहेतुकत्वविमर्शः दोषावरणाभावस्य प्रध्वंसरुपत्वसाधनम् ध्वंसप्रागभावविषयकनैयायिकमतखण्डनम् नियतपर्यायारम्भवादसमर्थनम् आत्मनः स्वाभाविकागन्तुकस्वभावद्वयप्रतिपादनम् सर्वज्ञसिद्धिः (का. ५) कर्तृत्वकृतित्वयोः कार्यकारणभावविषयकविमर्शः सर्वज्ञसाधकानुमानेऽसिद्धिप्रदर्शनम्, तत्खण्डनम् सर्वज्ञसाधनकानुमाने भागासिद्धिपरिहार: सर्वज्ञसाधकानुमाने बाधपरिहार: सर्वज्ञसिद्धौ दिङ्नागमतनिराकरणम् सर्वज्ञनिराकरणम् (मीमांसक) योगजधर्मानुगृहीतमानससामग्रीसकलसाक्षात्कार कारणमिति न्यायमतनिराकरणम् इन्द्रियनिरपेक्षप्रत्यक्षज्ञानस्य साक्षात्कारकरणत्वसाधनम्, मीमांसकमतखण्डनञ्च अर्हत एव सर्वज्ञत्वम् नान्येषां (का. ६) चार्वाकमतप्रतिविधानम् (जैन) ज्ञानस्य स्वसंविदितत्वसाधनम् (जैन)
आरम्भवादः साङ्ख्याभिमतमोक्षस्य निराकरणम् (जैन) वैशषिकाभिमतमोक्षस्य निराकरणम् (जैन) चित्रज्ञानविचारः सिद्धे क्षायिकचारित्रविचार: वेदान्ताभिमतमोक्षस्य निराकरणम् (जैन) बौद्धाभिमतमोक्षस्यनिराकरणम् (जैन) साङ्ख्याभिमतमोक्षोपाय निराकरणम् (जैन) न्यायाभिमतमोक्षस्य निराकरणम् ज्ञानचारित्रयोः मोक्षकारणत्वसाधनम् साङ्ख्याभिमतसंसारकारणनिराकरणम्
१६२
१६३
अ. आ.
१६६
१६७ १७० १७२
१७६
१७८ १७८
१८०
१८३
१८४
१८५
१८६
Page #29
--------------------------------------------------------------------------
________________
२९
१८७
१९५ १९५
१९६
१९८
o
r
r
२०४
n
२०७
शरीरित्वहेतुना व्यभिचारप्रदर्शनम् सर्वज्ञसिद्धिः (बौद्ध) तत्खण्डनञ्च (जैन) सर्वज्ञवचने विवक्षाहेतुत्वनिराकरणम् सर्वज्ञवचनस्य प्रमाणेनाबाधः व्यवसायात्मकतर्कज्ञानस्य प्रामाण्यम् बौद्धाभिमतनिर्विकल्पस्याप्रामाण्यसाधनम् एकान्तवादिनाम् वचःसु विरोधः (का. ७) संवेदनाद्वैतवादप्रतिविधानम् (जैन) साङ्ख्यभिमताचेतनसुखादिधर्मनिराकरणम् सुखवादः आत्मनः चेतनत्वविषये योगमतनिराकरणम् (जैन) बौद्धाभिमतसङ्घातवादनिराकरणम् (जैन) साङ्ख्याभिमत-अवयविवादनिराकरणम् (जैन) अनुमानात् प्रत्यक्षस्य ज्येष्ठत्वस्थापनम् वादकाले अन्वयव्यतिरेकोभयप्रयोगे निग्रहस्थानमिति धर्मकीर्तिमतखण्डनम् वादकाले प्रतिज्ञाप्रयोगो निग्रहस्थानमिति मतस्य खण्डनम् प्रत्येकान्वयव्यतिरेकस्य प्रत्येककारणताग्रहप्रयोजकत्ववादः
योग्यानुपलब्धिवादः आ. शून्यवादाद्वैतवादयोः पुण्यपापव्यवस्थाविचारणा (का. ८)
योगाचारसौत्रान्तिकमतयोः अन्तर्बहिस्तत्त्ववादस्थलविचारणा क्षणिकपक्षे कार्यकारणभावविचारणा क्षणिकत्वे कार्यकारणभावस्य विमर्श: भावैकान्तप्रतिविधानम् (का. ९) साङ्ख्यमतनिराकरणम् वेदान्ताभिमताद्वैतनिराकरणम् वेदान्तमते इतरेतराभावसिद्धिः अभावबुद्धौ प्रतियोगिज्ञानस्य कारणतावादः (पूर्वपक्षः) अभावबुद्धौ प्रतियोगिज्ञानस्य कारणतावादः (उत्तरपक्षः) सत्ताद्वैतवादनिराकरणम् प्रागभावप्रध्वंसाभावव्यवस्थापनम् (का. १०) प्रागभावग्राहकज्ञानविमर्शः
चार्वाकमतनिराकरणम् (जैन) वि. प्रागभावानतिरिक्ततावादः
२१७ २२२ २२५
२३७
२४८
२५०
Page #30
--------------------------------------------------------------------------
________________
वि०
२७८ २८१
अ..प्रध्वंसाभावसाधनम्
मीमांसकाभिमतशब्दनित्यत्वस्य निराकरणम्
वर्णानां व्यङ्ग्यत्ववादः अ.
अभिव्यक्तिमतम् (साङ्ख्य)
अभिव्यक्तिनिराकरणम् अ. मीमांसकाभिमतशब्दस्यावारकवायोनिराकरणम् वि. शब्दश्रावणप्रतिबन्धकवायुकल्पानाया निराकरणम्
शब्दोत्पत्तिपक्षसाधनम् नैयायिकाभिमतशब्दामूर्तत्वनिरास: स्फोटवादः (पूर्वपक्षः) स्फोटवादः ( उत्तरपक्षः)
इतरेतरात्यन्ताभावसाधनम् (का. ११) अ. इतरेतराभावसाधनम्
विज्ञानवादिनिराकरणम् चित्रैकज्ञानवादनिराकरणम् बौद्धभिमतसम्बन्धाभावनिराकरणम् कार्यकारणयोः परतन्त्रता पदार्थानामुत्पादव्ययध्रौव्यलक्षणस्वरूपसाधनम् अत्यन्ताभावसाधनम् बौद्धनिराकरणम्
अभावैकान्तपक्षप्रतिविधानम् (का. १२) अ. नैरात्म्यवादः, तत्र दोषारोपणम्
परस्परनिरपेक्षभावाभावैकान्तपक्षप्रतिविधानम् (का. १३) मीमांसकाभिमतोभयैकात्म्यनिराकरणम् साङ्ख्याभिमतोभयैकात्म्यनिराकरणम् बोद्धाभिमतावाच्यतैकान्तनिराकरणम् बौद्धमते निर्विकल्पज्ञानविचारः बौद्धमते स्मृतिविचारः सामान्यविशेषविचारः ज्ञानस्य सविकल्पकत्वसाधनम्
संस्कारसविषयकत्ववादः वि. वेदान्तिमते प्रपञ्चानिर्वाच्यत्वैकान्तविचारः
२९४
२९५
२९८
२९८ ३०२
३०३
३०३
mmmmmmmmm ०००
३२३
Page #31
--------------------------------------------------------------------------
________________
आ.
सप्तभङ्गीसिद्धिः (का० १४ )
सप्तभङ्गीविमर्शः
अ० प्रत्यक्षादिविरुद्धापि सप्तभङ्गी सम्भवति न वा ?
वि०
अ०
अ०
अ०
अ०
वि०
अ०
अ०
अ०
अ०
अ०
आ.
अ.
वि०
अ०
अ०
अ०
आ.
अ.
अ.
वि०
वि०
अ०
अ०
अ०
वि०
वि०
अ०
वि०
अ०
३१
सप्ताधिकभङ्गानां निषेधः
सप्तभङ्गयामपेक्षा
अष्टमभङ्गनिराकरणम्
प्रथमभङ्गो बौद्धाभिमतासदेकान्तवादनिराकरणम् निपातार्थनिर्णयवादः
सावधारणनिरवधारणप्रयोगविमर्श:
द्वितीयभङ्गो साङ्ख्याभिमतसदेकान्तवादनिराकरणम्
तृतीयभङ्गो मीमांसकाभिमतपरस्परनिरपेक्षसदसदुभयैकान्तवादनिराकरणम्
चतुर्थभङ्गे बोद्धाभिमतावाच्यतैकान्तनिराकरणम् शब्दाद्वैतवादनिराकरणम्
प्रथमद्वितीयभङ्गयोः नययोगः (का० १५ )
जीवादिवस्तुनः स्वरूपम्
सत्त्वस्यानवच्छेदकत्वमिति पशुपालमतनिराकरणम्
जीवादिवस्तुनः स्वपरद्रव्यम् भावभावयोर्वैलक्षण्यविमर्शः
एकस्मिन् वस्तुनि सत्त्वासत्त्वव्यस्थापनम् तृतीयादिभङ्गेषु नययोग: (का० १६ ) सर्वस्य वस्तुनः सदसदुभयात्मकतासिद्धिः सर्वस्य वस्तुनः अवक्तव्यत्वसाधनम् पदानामुभयार्थप्राधान्यबोधकतावादः
शक्तिवादः
वाक्यस्य गुणप्रधानार्थकत्वव्यवस्था प्रमाणवाक्यव्यवस्था
पञ्चमषष्ठसप्तमभङ्गानां स्पष्टीकरणम्
पदानामनेकार्थवाचकताशक्तिविचारः
सामान्यविशेषभेदाभेदवादः
सदवक्तव्यभङ्गी सत्सामान्यवादनिराकरणम्
अतिरिक्तसामान्यवादनिरासः
सदवक्तव्यभङ्गी विशेषैकान्तवादनिराकरणम्
३२४
३२४
३२५
३२६
३२८
३२८
३२९
३३०
३३४
३३६
३३७
३३९
३४०
३४३
३४४
३४४
३४५
३४६
३४७
३५१
३५१
३५३
३५४
३५६
३५८
३६१
३६२
३६२
३६४
३६५
३६७
३६८
Page #32
--------------------------------------------------------------------------
________________
३६९ ३६९
३७२
३८० ३८८
३९०
३९१
अ. अन्यापोहनिराकरणम्
विकल्पहेतुताविचारः श्वेताम्बराभिमतसप्तभङ्गीस्वरूपविमर्श:
अस्तित्वस्य नास्तित्वाविनाभावित्वप्रसाधनम् (का. १७) आ. नास्तित्वस्यास्तित्वाविनाभावित्वप्रसाधनम् (का. १८) आ. अस्तित्वं नास्तित्वं चात्मनः स्वभावभूतम् (का. १९)
अहेतोरगमकत्ववादः अ. विधिनिषेधयोधर्मिप्रतिपादनम् आ. शेषभङ्गेष्वतिदेशः (का. २०) आ. सप्तभङ्ग्युपसंहारः (का. २१)
असत्कार्यवादखण्डनम् वि. अर्थक्रियाकारितावच्छेदकविचारः
धर्मिधर्मभावव्यवस्था (का. २२) अ.. बौद्धाभिमतव्यावृत्तिकल्पनानिराकरणम् आ. एकानेकविषया सप्तभङ्गी (का. २३) अ.
प्रथमो भङ्गः वि. सङ्ग्रहनयबुद्धिकतस्यैकत्वादेर्विचार:
वेदान्तमतखण्डनम् अ.
द्वितीयो भङ्गः तृतीयादिभङ्गाः
३९८ ३९९
४००
४०३
४०६ ४०९
४११
४११ ४११
४१२
४१३ ४१३
अ..
Page #33
--------------------------------------------------------------------------
________________
प्रवचन प्रकाशन
संस्कृत साहित्य सूची
आचार्यश्रीविजयमहोदयसूरि-ग्रंथमाला ग्रंथ
सम्पादक स्याद्वादमञ्जरी
मुनिश्रीप्रशमरतिविजयजी पातंजलयोगसूत्राणि
मुनिश्रीवैराग्यरतिविजयजी ३. कारिकावली ४. नयामृतम्
मुनिश्रीवैराग्यरतिविजयजी षड्दर्शनसमुच्चयः-सटीकः
मुनिश्रीवैराग्यरतिविजयजी ६. समरादित्यसंक्षेपः
मुनिश्रीप्रशमरतिविजयजी ७. काव्यानुशासनम्-सटीकम्
सुरसुंदरीचरियं ९. त्रिपुराभारतीस्तवः
मुनिश्रीवैराग्यरतिविजयजी १०. षड्दर्शनसमुच्चय (अनुवाद) मुनिश्रीवैराग्यरतिविजयजी ११. योगदृष्टिसंग्रह
मुनिश्रीप्रशमरतिविजयजी १२. योगशास्त्रबालावबोध
मुनिश्रीप्रशमरतिविजयजी १३. शमामृतम्
मुनिश्रीप्रशमरतिविजयजी १४. तर्कसंग्रहफक्किका
मुनिश्रीवैराग्यरतिविजयजी १५. अष्टसहस्त्रीतात्पर्यविवरणम् भाग १-२ मुनिश्रीवैराग्यरतिविजयजी
१६. श्रीकल्पसूत्रम् (प्रत) १७. आचारोपदेश हिन्दी-अनुवाद १८. रत्नाकरावतारिका १९. सभाष्यतत्त्वार्थाधिगमसूत्रम् २०. षोडशाधिकारप्रकरणम् सटीकम् २१. षोडशाधिकारप्रकरणम् मूलमात्रम् २२. नरनारायणानन्दमहाकाव्यम् २३. श्रावकधर्मविधिप्रकरणम् २४. श्रीस्मृतिमंदिरप्रशस्तिकाव्यम् २५. श्रीस्मृतिमंदिरप्रशस्तिकाव्यम्
गुजराती-अनुवाद
अन्य साहित्य
मुनिश्रीवैराग्यरतिविजयजी, मुनिश्रीप्रशमरतिविजयजी मुनिश्रीवैराग्यरतिविजयजी
(अप्राप्य) मुनिश्रीप्रशमरतिविजयजी (अप्राप्य ) मुनिश्रीवैराग्यरतिविजयजी (अप्राप्य) मुनिश्रीवैराग्यरतिविजयजी (अप्राप्य) मुनिश्रीप्रशमरतिविजयजी (अप्राप्य)
(अप्राप्य) मुनिश्रीप्रशमरतिविजयजी
मुनिश्रीप्रशमरतिविजयजी
Page #34
--------------------------------------------------------------------------
________________
प्रवचन प्रकाशन आज्ञाधर्मथी अनुबद्ध अने शब्दश्रीथी समृद्ध साहित्य, प्रकाशन करवानो मुद्रालेख धरावतां प्रवचन प्रकाशनने समुदार सहयोग आपनार
प्रवचन स्तम्भ श्री हेमतलाल छगनलाल महेता परिवार - कलकत्ता श्रीमती प्रभाबेन नंदलाल शेठ - मुंबई युवा संस्कार ग्रूप - नागपुर
प्रवचन प्रेमी श्री सुधीरभाई के. भणशाली - कलकत्ता
श्री कुमारपाल दिनेशकुमार समदडिया - मंचर श्री शांतिलाल गमनाजी रांका (मंडारवाला) - साबरमती, अमदावाद
आरटेक्स एपरल्स - साबरमती, अमदावाद प्रेमचंद रवचंद शाह (कुणघेरवाला) - अमदावाद छगनलाल तिलोकचंद संघवी - साबरमती, अमदावाद
प्रवचन भक्त श्री चंदुलाल नेमचंद महेता - कलकत्ता श्री छोटालाल देवचंद महेता - कलकत्ता श्री खुशालचंद वनेचंद शाह - कलकत्ता श्री रसीकलाल वाडीलाल शाह - कलकत्ता श्री कस्तूरचंद नानचंद शाह - कलकत्ता श्री मंछालाल शामजी जोगाणी - कलकत्ता श्री गुलाबचंद ताराचंदजी कोचर - नागपुर श्रीमती समजुबेन मणीलाल दोशी परिवार - नागपुर उंझानिवासी श्री नटवरलाल पोपटलाल महेता - नागपुर श्री प्रवीणचंद्र वालचंदजी शेठ (डीसावाला) - नासिक श्री चंद्रशेखर नरेंद्रकुमार चोपडा - वरोरा श्री सुभाषकुमार वाडीलाल शाह - कराड श्री प्रकाश बाबुलाल, देवेन्द्र, पराग, प्रितम शाह - मंचर श्रीमती हसमुखन जयंतीलाल शाह (पृथ्वी) - वापी श्री विनोदभाई मणिलाल शाह - अमदावाद स्व. रंभाबेन त्रिकमलाल संघवी, हस्ते - महेन्द्रभाई - साणंद पुखराज रायचंद परिवार - साबरमती, अमदावाद श्री शेफाली मूर्तिपूजक जैन संघना आराधको - अमदावाद एक सद्गृहस्थ, हरजी (राजस्थान) वोरा नागरदास केवळदास रिलि. ट्रस्ट - अमदावाद श्री लांबडिया जैन संघ श्री नथमलजी प्रतापचंदजी (बेडावाला)- साबरमती
आ धर्मानुरागी महानुभावोनी अमे हार्दिक अनुमोदना करीओ छीओ.
Page #35
--------------------------------------------------------------------------
________________
॥ प्रथमः परिच्छेदः ॥
(श्रीमद्भट्टाकलङ्कदेवविरचित अष्टशतीभाष्यस्य मङ्गलाचरणम्) उद्दीपीकृतधर्मतीर्थमचलज्योतिर्ज्वलत्केवलालोकालोकितलोकलोकमखिलैरिन्द्रादिभिर्वन्दितम् ॥ वन्दित्वा परमार्हतां समुदयं गां सप्तभङ्गीविधिं । स्याद्वादामृतगर्भिणीं प्रतिहतैकान्तान्धकारोदयाम् ॥१॥
तीर्थं सर्वपदार्थतत्त्वविषयस्याद्वादपुण्योदधे, र्भव्यानामकलङ्कभावकृतये प्राभावि काले कलौ । येनाचार्यसमन्तभद्रयतिना तस्मै नमः सन्ततं,
कृत्वा विव्रियते स्तवो भगवतां देवागमस्तत्कृतिः ॥२॥ ( शार्दूल०)
अष्टसहस्त्रीतात्पर्यविवरणम्
(मङ्गलाचरणम् )
ऐन्द्रमहः प्रणिधाय न्यायविशारदयतिर्यशोविजयः । विषमामष्टसहस्त्रीमष्टसहस्त्रया विवेचयति ॥ १ ॥
सिताम्बरशिरोमणिर्विदितचारुचिन्तामणिविधाय हृदि रुच्यतामिह समानतन्त्रे नये । अनर्गलसमुच्छलद्बहलतर्कवर्णोदकच्छटाभिरयमुत्सवं वितनुते विपश्चित्कुले ॥२॥ (पृथ्वी)
Page #36
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम्
(श्रीमद्विद्यानन्द आचार्य-विरचित-अष्टसहस्रीटीकायाः मङ्गलाचरणम्)
श्रीवर्द्धमानमभिवन्द्य समन्तभद्रमुद्भूतबोधमहिमानमनिन्द्यवाचम् । शास्त्रावताररचितस्तुतिगोचराप्त
मीमांसितं कृतिरलक्रियते मयाऽस्य ॥१॥ (वसन्ततिलका) श्रेयः श्रीवर्धमानस्य परमजिनेश्वरसमुदयस्य समन्तभद्रस्य तदमलवाचश्च
- अष्टसहस्त्रीतात्पर्यविवरणम्
स्याद्वादार्थः क्वापि कस्यापि शास्त्रे यः स्यात्कश्चिद् दृष्टिवादार्णवोत्थः । तद्व्याख्याने भारती सस्पृहा मे भक्तिव्यक्ते ग्रहोऽणौ पृथौ वा ॥३॥ (शालिनी)
अम्भोराशेः प्रवेशे प्रविततसरितां सन्ति मार्गा इवोच्चैः स्याद्वादस्यानुयोगे कति कति न पृथक् सम्प्रदाया बुधानाम् । शक्यः स्वोत्प्रेक्षिताथै ररुचिविषयतां तत्र नैकोऽपि नेतुं जेतुं दुर्वादिवृन्दं जिनसमयविदः किं न सर्वे सहायाः ॥४॥ (स्रग्धरा)
समन्तभद्रोऽत्र हि कारिकाणां कर्त्तानुवक्ता त्वकलङ्कदेवः ।
व्याख्याति भाष्यानुगमेन विद्यानन्दोऽप्यमन्दोद्यमतः स्फुटं ताः ॥५॥ (उपजाति:) श्रेय इति अलङ्करणे इत्यत्रान्वयि, श्रीवर्द्धमानस्येति अत्र श्रिया आर्हन्त्यलक्षणया वर्द्धमानस्येति व्युत्पत्त्या श्रीवर्द्धमानपदेन तीर्थकरसामान्योपस्थितिसम्भवेऽपि 'योगाढिबलवती' इति न्यायाद् व्यक्तिविशेष एव विश्रामे निश्चयनयेनैकभक्तौ सकलभक्तिसिद्धावपि व्यवहारनयमते विषयबहुत्व एव तदतिशयसिद्धेस्तत्र तत्र व्यवस्थापितत्वात् सकलजिनस्तुतेरेवात्र तात्पर्यविषयत्वात् तात्पर्यविषयान्वयानुपपत्त्यास्य पदस्य तीर्थकरसमुदाये लक्षणेत्यभिप्रेत्य विवृणोति-परमजिनेश्वरसमुदयस्येति, तेन समुदयस्य पदार्थतया वाक्यार्थतया वा कथं लाभः ? इत्याशङ्काया नावकाशः । शाब्दबोधे लक्ष्यस्य भानं च लक्ष्यतावच्छेदकरूपेण शक्यतावच्छेदकरूपेण वेति पुनरन्यदेतत् । जिनेश्वरसमुदयसमन्तभद्रयोः स्तुत्य-स्तोत्रोः स्तवनमावृत्त्या विशेषणविशेष्यभावकामचारेण, तदमलवाचश्च तद्विशेषणतयेति बोध्यम् । स्वातन्त्र्येण तदभिवन्दनविवक्षायां तु, अनिन्द्यवाचमित्यत्रानिन्द्या चासौ वाक् चानिन्द्यवाक् तामिति कर्मधारयः ।
समन्तेत्यादि समन्ततो भद्रं यस्यां तादृशी, या मुत्, तद्भूतस्तत्स्वरूपो यो बोधस्तस्य महिमा यस्याः सकाशात् सा तथा तामिति तद्विशेषणम्, अनुच्छिद्यमाना
Page #37
--------------------------------------------------------------------------
________________
प्रथमो भागः संस्तवनमाप्तमीमांसितस्यालङ्करणे, तदाश्रयत्वादन्यतमासम्भवे तदघटनात् । तवृत्तिकारैरपि तत एव उद्दीपीकृतेत्यादिना तत्संस्तवनविधानात् ।
__(भा० ) देवागमेत्यादिमङ्गलपुरस्सरस्तवविषयपरमाप्तगुणातिशयपरीक्षामुपक्षिपतैव स्वयं श्रद्धागुणज्ञतालक्षणं प्रयोजनमाक्षिप्तं लक्ष्यते । तदन्यतरापायेऽर्थस्यानुपपत्तेः । शास्त्रन्यायानुसारितया तथैवोपन्यासात् ।
- अष्टसहस्रीतात्पर्यविवरणम् नन्दमयनिरुपप्लवज्ञानधारास्वभावपरमब्रह्मप्रापिकामित्यर्थः । श्रीवर्द्धमानमिति च श्रिया भक्तिसमृद्ध्या वर्द्धमानं यथा स्यात्तथेति क्रियाविशेषणमिति व्याख्येयम् । नन्वलङ्कार्यालङ्करणयोर्व्याख्येयव्याख्यानरूपतयैकानुबन्धचतुष्टयवत्त्वेन प्रकृतालङ्करणग्रन्थस्यालङ्कार्यवदनुबन्धसिद्धिसम्पादनद्वारा स्तुत्यस्तोतृस्तुतिनिमित्तकत्वेऽपि तत्समाप्तिहेतोः श्रेयसस्तत्त्रयापेक्षायां किं प्रयोजकमत आह—तदाश्रयत्वादिति । तस्येति शेषः । तस्य श्रेयसः संस्तवनस्योक्तत्रयविषयकसमहालम्बनरूपत्वादित्यर्थः । तदेकतरविषयकमेव श्रेयः किं नाद्रियतेऽत आह-'तदन्यतमेत्यादि । प्रचितस्यास्यैव बलवत्तरविघ्नवारणेऽपि कारणत्वाद् इत्यभिधानाद्बलवत्तरविघ्नवारणाय प्रचितश्रेयस एवात्र चिकीषितत्वात् तस्य चान्यतरापायेऽसम्भवात् श्रेयसः प्रचितत्वसिद्ध्यर्थमुक्तत्रयविषयत्वाश्रयणमावश्यकमिति भावः । ननु ग्रन्थादौ ग्रन्थसमाप्त्यर्थं मङ्गलमाचरन्ति प्रेक्षावन्तः, प्रकृते च सम्पूर्णो ग्रन्थ एव स्तुतिरूपत्वान्मङ्गलमिति किं मङ्गलान्तरोपादानेन ? अन्यथा तत्रापि मङ्गलान्तरोपादानेऽनवस्थाप्रसङ्गादिति चेत्, अत्र वदन्ति, अन्योऽपि ग्रन्थः स्वाध्यायरूपत्वान्मङ्गलमेव मङ्गलबुद्धिपरिग्रहार्थं च पृथङ्मङ्गलोपादानम्, अतादृशधीविषयस्य साध्वादेर्मङ्गलस्याप्यमङ्गलत्वादिति । इत्थं चाश्रयतया समाप्तौ स्वैकवाक्यत्वबुद्धिविषयतासम्बन्धेन मङ्गलस्य हेतुत्वमित्युक्तं भवति, तच्च प्रकृते व्याख्याने पृथङ्मङ्गलस्य व्याख्येये चादिवाक्यस्यैवेति न काचिदनुपपत्तिः, मङ्गलेऽमङ्गलत्वबुद्धिस्तु स्वसमानाधिकरणदुरितजननी न तु स्वसमाप्तिप्रतिबन्धकदुरितजननीति विचारणीयं सूक्ष्मदृशा । उक्तहेतुहेतुमद्भाव एव च व्यधिकरणसमाप्तिप्रसङ्गवारणं कृतं भवति, समाप्तावन्वयव्यतिरेकाभ्यां मङ्गलस्य व्यभिचारस्तु स्वान्यूनसङ्ख्यविघ्नस्थलीयसमाप्तित्वादेः कार्यतावच्छेदकस्योक्त्या निरसनीय इति दिक ।
श्रद्धागुणज्ञताभ्यामिति, श्रद्धागुणज्ञते नयस्याद्वादपरीक्षाजन्यज्ञानविशेषौ दर्शनशब्दवाच्यौ । तदुक्तं सम्मतौ
१. अन्यतमेति अष्टसहस्रीसम्मतः पाठः ।
Page #38
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम् इत्यनेन ग्रन्थकारस्य श्रद्धागुणज्ञतालक्षणे प्रयोजने साध्ये शास्त्रारम्भस्तवविषयाप्तगुणातिशयपरीक्षोपक्षेपस्य साधनत्वसमर्थनात् । शास्त्रावताररचितस्तुतिगोचराप्तमीमांसितमिदं शास्त्रं देवागमाभिधानमिति निर्णयः । मङ्गलपुरस्सरस्तवो हि शास्त्रावताररचितस्तुतिरुच्यते । मङ्गलं पुरस्सरमस्येति मङ्गलपुरस्सरः शास्त्रावतारकालस्तत्र रचितः स्तवो मङ्गलपुरस्सरस्तवः इति व्याख्यानात् । तद्विषयो यः परमाप्तस्तद्गुणातिशयपरीक्षा तद्विषयाप्तमीमांसितमेवोक्तम् ।
तदेवं निःश्रेयसशास्त्रस्यादौ तन्निबन्धनतया मङ्गलार्थतया च मुनिभिः संस्तुतेन निरतिशयगुणेन भगवताप्तेन श्रेयोमार्गमात्महितमिच्छतां सम्यमिथ्योपदेशार्थविशेषप्रतिपत्त्यर्थमाप्तमीमांसां विदधानाः, श्रद्धागुणज्ञताभ्यां प्रयुक्तमनसः, कस्माद् देवागमादिविभूतितोऽहं महान्नाभिष्टुत इति स्फुटं पृष्टा इव स्वामिसमन्तभद्राचार्याः प्राहुः
॥ श्रीसमन्तभद्राचार्यविरचिता आप्तमीमांसा ॥
देवागमनभोयानचामरादिविभूतयः ।। मायाविष्वपि दृश्यन्ते नातस्त्वमसि नो महान् ॥१॥
देवागमादीनाम् आदिशब्देन प्रत्येकमभिसम्बन्धनाद्देवागमादयो नभोयानादयश्चामरादयश्च विभूतयः परिगृह्यन्ते, ताश्च भगवतीव मायाविष्वपि 'मस्करिप्रभृतिषु
अष्टसहस्रीतात्पर्यविवरणम्
"एवं जिणपन्नत्ते, सद्दहमाणस्य भावओ भावे ।
पुरिसस्साभिणिबोहे, दंसणसद्दो हवइ जुत्तो ॥ [सम्म० २.३२] त्ति । प्रयोजनत्वं च तयोर्मुख्यप्रयोजनाङ्गतया गौणमित्यभिप्रेत्याह—ताभ्यां प्रयुक्तमनस इति । महान्न स्तुत्योऽसीति, प्रश्नानुरूपत्वादुत्तरस्य न महत्त्वप्रकारकस्तुतिविषयोऽसीत्यर्थः । तथा च सूत्रे महत्पदं महत्त्वेन स्तुत्येऽर्थान्तरसङ्क्रमितवाच्यम्, वस्तुतो महत्पदं स्तुत्यार्थकमेव, अतिशयप्रतीति: प्रयोजनमित्युक्तविभूत्या निश्चयरूपातिशयेन न स्तुत्यः, व्यवहारतस्तु स्तुत्यत्वे न विरोध इत्यर्थः सम्मुखीन आभाति ।
१. मस्करि नियतिवादिनो गोशालकस्य नाम्ना । २. एवं जिनप्रज्ञप्तान्, श्रद्दधानस्य भावतो भावान् । पुरुषस्याभिनिबोधे दर्शनशब्दो भवति युक्तः ॥१॥
Page #39
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि० १-का. १] दृश्यन्ते इति तद्वत्तया भगवन्नोऽस्माकं परीक्षाप्रधानानां महान्न स्तुत्योऽसि ।
___ (भा०) आज्ञाप्रधाना हि त्रिदशादिकं परमेष्ठिनः परमात्मचिह्न प्रतिपद्येरन् नास्मदादयस्तादृशो मायाविष्वपि भावादित्यागमाश्रयोऽयं स्तवः ।
श्रेयोमार्गस्य प्रणेता भगवान् स्तुत्यो महान् देवागमनभोयानचामरादिविभूतिमत्त्वाद्यन्यथानुपपत्तेरिति हेतोरप्यागमाश्रयत्वात् । तस्य च प्रतिवादिनः प्रमाणत्वेनासिद्धेः, तदागमप्रामाण्यवादिनामपि विपक्षवृत्तितया गमकत्वायोगात् । तदागमादेव हेतोविपक्षवृत्तित्वप्रसिद्धेः ।
[विभूतिमत्त्वहेतोर्निर्दोषत्वसाधने युक्ति:] परमार्थपथप्रस्थायियथोदितविभूतिमत्त्वस्य हेतोर्मायोपदर्शिततद्विभूतिमद्भिर्मायाविभिर्न व्यभिचारः, सत्यधूमवत्त्वादेः पावकादौ साध्ये स्वप्नोपलब्धधूमादिमता देशादिनानैकान्तिकत्वप्रसङ्गात्, सर्वानुमानोच्छेदात् ।
[तटस्थजैनेन समाधानजनकं प्रत्युत्तरं कारिकाया द्वितीयोऽर्थश्च] तर्हि मा भूदस्य हेतोर्व्यभिचारः, पारमार्थिक्यः पुरन्दरभेरीनिनादादिकृतप्रतिघातागोचरचारिण्यो यथोदितविभूतयस्तीर्थकरे भगवति त्वयि तादृश्यो मायाविष्वपि नेत्यतस्त्वं महानस्माकमसीति व्याख्यानाद् ग्रन्थविरोधाभावादिति कश्चित् ।
[पुनरप्याचार्यास्तर्केण हेतोर्व्यभिचारं साधयन्ति] सोऽपि कुतः प्रमाणात्प्रकृतहेतुं विपक्षासम्भविनं प्रतीयात् ? न ताव
- अष्टसहस्त्रीतात्पर्यविवरणम्
भाष्ये तादृश इति तादृशस्य देवागमादेरित्यर्थः । परमार्थेत्यादि कश्चिदित्यन्तः पूर्वपक्षः, सोऽपीत्यारभ्य ग्रन्थकृतः सिद्धान्तः । प्रकृतहेतुमिति पारमार्थिकविभूतिमत्त्वहेतुमित्यर्थः । यद्यपि असत्यहेतुना साध्यस्य न व्यभिचारोऽज्ञानजनितविलक्षणधूमादेरनभ्युपगमादन्यथा प्रतिनियतकार्यकारणभावाधुच्छेदेन सर्वत्रानाश्वासप्रसङ्गात्, हेतुज्ञानासत्यत्वं च न व्यभिचारे प्रयोजकं, किन्तु कदाचित्साध्यज्ञानासत्यत्व इति न ततोऽनुमितिप्रतिबन्धः, तथापि व्यभिचारवारकविशेषणविशिष्टत्वरूपं सत्यत्वमभिप्रेत्याक्षुद्रदेवागमादिहेतुमुपन्यस्येदं खण्डनमिति मन्तव्यम् ॥१॥
Page #40
--------------------------------------------------------------------------
________________
६
अष्टसहस्त्रीतात्पर्यविवरणम्
त्प्रत्यक्षादनुमानाद्वा, तस्य तदविषयत्वात् नाप्यागमादसिद्धप्रामाण्यात्तत्प्रतिपत्तिरतिप्रसङ्गात् । प्रमाणतः सिद्धप्रामाण्यादागमात्तत्प्रतिपत्तौ ततः साध्यप्रतिपत्तिरेवास्तु परम्परापरिश्रमपरिहारश्चैवं प्रतिपत्तुः स्यात् । ततः सूक्तं सर्वथा नातो हेतोस्त्वमसि नो महांस्तस्यागमाश्रयत्वादिति ॥१॥
तर्ह्यन्तरङ्गबहिरङ्गविग्रहादिमहोदयेनान्यजनातिशायिना सत्येन स्तोतव्योऽहं महानिति भगवत्पर्यनुयोगे सतीव प्राहु:
अध्यात्मं बहिरण्येष विग्रहादिमहोदयः ।
दिव्यः सत्यो दिवौकस्स्वप्यस्ति रागादिमत्सु सः ॥२॥
आत्मानमधिश्रित्य वर्त्तमानोऽध्यात्ममन्तरङ्गो विग्रहादिमहोदयः शश्वन् निःस्वेदत्वादिः परानपेक्षत्वात् । ततो बहिर्गन्धोदकवृष्ट्यादिर्बहिरङ्गो देवोपनीतत्वात् । स च सत्यो मायाविष्वसत्त्वात् । दिव्यश्च मनुजेन्द्राणामप्यभावात् । स एषः
(भा०) बहिरन्तःशरीरादिमहोदयोऽपि पूरणादिष्वसम्भवी व्यभिचारी स्वर्गिषु भावादक्षीणकषायेषु ततोऽपि न भवान् परमात्मेति स्तूयते । [अत्र कश्चित्तटस्थजैन: महोदयत्वहेतुं निर्दोषं साधयति ]
अथ यादृशो घातिक्षयजः स भगवति न तादृशो देवेषु येनानैकान्तिकः स्यात्, दिवौकस्स्वप्यस्ति, रागादिमत्सु स नैवाऽस्तीति व्याख्यानादभिधीयते ।
[ पुनरपि आचार्या हेतुं सदोषं साधयन्ति ]
तथाप्यागमाश्रयत्वादहेतुः पूर्ववत् । ननु प्रमाणसंप्लववादिनां प्रमाणप्रसिद्धप्रामाण्यादागमात्साध्यसिद्धावपि तत्प्रसिद्धसाधनजनितानुमानात्पुनस्तत्प्रतिपत्तिरविरुद्धैवेति चेत्, उपयोगविशेषस्याऽभावे प्रमाणसंप्लवस्याऽनभ्युपगमात् । सति प्रतिपत्तुरुपयोगविशेषे देशादिविशेषसमवधानादागमात्प्रतिपन्नमपि हिरण्यरेतसं स
अष्टसहस्त्रीतात्पर्यविवरणम्
आगमाश्रयेणापि हेतुना हेतुवादरसिकानामनुमानात् साध्यसिद्धौ परितोषः किं न स्यादित्याशयवान् शङ्कते - नन्विति । प्रमाणसंप्लववादिनामिति प्रमाणसंप्लवः =एकत्रार्थे
Page #41
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि०१-का. २] पुनरनुमानात्प्रतिपित्सते, तत्प्रतिबद्धधूमादिसाक्षात्करणात्प्रतिपत्तिविशेषघटनात् पुनस्तमेव प्रत्यक्षतो बुभुत्सते, तत्करणसम्बन्धात्तद्विशेषप्रतिभाससिद्धेः । न चैवमागममात्रगम्ये साध्ये साधने च तत्प्रतिपत्तिविशेषोऽस्तीति किमकारणमत्र प्रमाणसंप्लवोऽभ्युपगम्यते ? प्रत्यक्षनिश्चितेऽग्नौ धूमे च तदभ्युपगमप्रसङ्गात् । सर्वथा
- अष्टसहस्त्रीतात्पर्यविवरणम् प्रवृत्तिरनेकप्रमाणस्य । प्रत्यक्षनिश्चितेऽग्नाविति । प्राचीनप्रणयानुरोधिप्रसङ्गमात्रमेतत् । प्रत्यक्षनिश्चितेऽग्नौ 'धूमेऽपि च पर्वते वक़्यनुमित्सायां तदनुमितेरप्यभ्युपगमात् शब्दादवगतस्य च वह्नः पर्वते तत्प्रतिबद्धधूमसाक्षात्कारादनुमितेस्त्वयापि स्वीकारात् सिद्धिमात्रस्य प्रतिबन्धकत्वानिष्टेः, यत्करणकं हेतुज्ञानं तत्करणसाध्यनिश्चयत्वेनानुमितिप्रतिबन्धकत्वेऽप्रमाणिकमहागौरवप्रसङ्गात्, सिद्धिप्रतिबन्धकतायां सिसाधयिषाया उत्तेजकत्वमात्रस्यैव युक्तत्वात् । अत एव सिसाधयिषातदभावाभ्यां 'शतशः प्रत्यक्षपरिकलितमप्यर्थमनुमिमीषन्त्यनुमानरसिकाः । न हि करिणि दृष्टे चीत्कारेण तमनुमिमितेऽनुमातार' [ ] इति वाचस्पतिवचनयोरविरोधमुपपादयन्ति नैयायिकाः ।।
॥ पक्षतावादः ॥ Tवदन्ति च सिसाधयिषाविरहविशिष्टसिद्ध्यभावं पक्षताया लक्षणम् । न हि सिसाधयिषामात्रं पक्षता, विनापि सिसाधयिषां घनगजितेन मेघानुमानात्, नापि साध्यसन्देहो, विनापि सन्देहं घनगजितेन मेघानुमानादिति यथोक्तं युक्तम् । यत्र सिद्धिर्नास्ति तत्र सिसाधयिषायां सत्यामसत्यामपि, यत्र च सिसाधयिषास्ति तत्र सिद्धौ सत्यामसत्यामपि पक्षतायाः, यत्र च सिद्धिरस्ति सिसाधयिषा च नास्ति तत्र पक्षताभावस्येत्थमुपपत्तेः । यद्यपि सिसाधयिषासिद्धिपरामर्शानां नैककाले सम्भवो, योग्यविभुविशेषगुणानां यौगपद्यनिषेधात्, परामर्शानन्तरं सिद्धौ ततः सिसाधयिषायां च सिसाधयिषाकाले परामर्शनाशादेव नानमितिः, सिद्धिपरामर्शसिसाधयिषाणां क्रमेण भावे च सिसाधयिषाकाले सिद्धिनाशात्प्रतिबन्धकाभावादेवानुमितिरिति सिसाधयिषाविरहविशिष्टत्वं सिद्धेविशेषणं न युज्यते तथापि यत्र परामर्शः सिद्धिश्चोभयं युगपदेव वह्निव्याप्यधूमवान् पर्वतो वह्निमाँश्चेति ततः सिसाधयिषा ततोऽनुमितिस्तत्र पक्षतासम्पत्तये तद्विशेषणावश्यकत्वमिति ।
वयं तु ब्रूमः-तदाकारानुमितौ तदाकारानुमानोपयोगस्यैव साध्यसन्देहसिसाधयिषाकालानुगतस्य हेतुत्वं । तदाकारत्वं चानुमानोपयोगे तदाकारानुमितिजनकतावच्छेदको जातिविशेषः, पटजनकतावच्छेदक इव तन्तौ । अत एव पटाकारपरिणततन्तुत्वेन पटोपादानत्वं न तु तन्तुत्वमात्रेणेति स्फुटीभविष्यत्युपरिष्टात् । इत्थं चोक्तोपयोगहेतुतयैवानतिप्रसङ्गे
१. धूमे च इति अष्टसहस्रीसम्मतः पाठः ।
Page #42
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम् विशेषाभावात् । ततो देवागमनभोयानचामरादिविभूतिभिरिवान्तरङ्गबहिरङ्गविग्रहादिमहोदयेनापि न स्तोत्रं भगवान् परमात्माऽर्हति ॥२॥
- अष्टसहस्त्रीतात्पर्यविवरणम् नोक्तपक्षतात्वेन हेतुत्वं, सिद्धिसिसाधयिषाविरहयोविशेषणविशेष्यभावे विनिगमनाविरहेण गुरुतरानन्तकार्यकारणभावप्रसङ्गात्, सत्यां सिसाधयिषायां त्रिचतुरक्षणव्यवधानेन सिद्धिपरामर्शसद्भावेऽनुमित्यनुदयप्रसङ्गाच्च, तदा सिसाधयिषाविरहविशिष्टसिद्धिसत्त्वादुपयोगस्य तु दीर्घकालिकस्यानुगतस्याभ्युपगमान्नानुभूयमानानुमित्यपलाप इति ।
एतेन सिद्धिपरामर्शसत्त्वे यत्किञ्चिज्ज्ञानं जायतामितीच्छायामप्यननुमितेः प्रत्यक्षातिरिक्तज्ञानं जायतामितीच्छायां चानुमितेः सिसाधयिषाविशेषविरहनिवेशक्लेशोऽपि निरस्तः । यथाकार्यदर्शनं विलक्षणोपयोगस्य कल्पनेनानतिप्रसङ्गात, तल्लिङकानमितौ तल्लिङ्गकोपयोगस्य विशिष्य हेतुत्वाच्च न धूमपरामर्शसत्त्वे आलोकेन वह्निमनमिनुयामितीच्छायामप्यनुमितिः । अथ पर्वतो वह्निमानित्यनुमितौ सत्यां पर्वते वक़्यनुमानोपयोगस्याभावात् तत्र सिद्धेः प्रतिबन्धकत्वापेक्षयानुमितावेव तत्कल्पनं न्याय्यमिति चेत्, न, साध्यसन्देहसिसाधयिषान्यतरानुगतस्यैवानुमानोपयोगस्य कल्पनात्, घनगजितेन मेघानुमानस्थलेऽप्यव्यक्तसाध्यसंशयकल्पनात्, अस्तु वा गजितेन मेघज्ञानं प्रातिभमेव, अप्रतिभस्य किं गर्जतीति संशयस्यैवोदयात्, अन्यथानुपपत्तिग्रहापेक्षत्वे तु तस्य तत्स्थलीयस्य केवलान्यथानुपपत्तिग्रहस्यैवानुमानोपयोगत्वम्, क्वचित् सिसाधयिषाविघटकत्वेऽपि सिद्धेरनुमानोपयोगप्रतिबन्धकत्वे तु मानाभावः । तेन पर्वतस्तेजस्वी पाषाणमयो वह्निमानिति ज्ञानसत्त्वेऽप्यनुमितेर्न विरोधः, अतदाकारसिद्ध्या तदाकारसिसाधयिषाया अविघटनात्, यत्रायं पुरुषो नवेति संशयानन्तरं पुरुषत्वव्याप्यकरादिमानिति ज्ञानं तत्र विनानुमित्सां प्रत्यक्षमेवोत्पद्यते नानुमितिरित्यनुमितावनुमित्साविरहविशिष्टसमानविषयकप्रत्यक्षसामग्र्याः कामिनीजिज्ञासावत् स्वातन्त्र्येण प्रतिबन्धकत्वं कल्प्यत इत्यप्ययुक्तम्, करादिमत्त्वादनेन पुरुषेण भाव्यमितीहात्मकप्रत्यक्षोपयोगसत्त्वेऽनुमितेरापत्त्ययोगात्, भ्रमसंशयोत्तरप्रत्यक्षत्वावच्छिन्नं प्रति विशेषदर्शनस्य कारणत्वकल्पनापेक्षया प्रत्यक्षत्वावच्छिन्ने ईहात्वेन हेतुतायामेव लाघवमित्यस्यार्थस्यास्माभिः ज्ञानबिन्द्वादौ विवेचितत्वात् । यत्र च करादिमत्त्वावच्छेदेनोहात्मकप्रमाणेन पुरुषत्वव्याप्तिग्रहस्तत्रानुमानोपयोगेन करादिमत्त्वान्यथानुपपत्त्या पुरुषत्वानुमितेरेवाभ्युपगमात् ।
एतेन भिन्नविषयकप्रत्यक्षेऽनुमितिसामग्रीप्रतिबन्धकत्वकल्पनमपि अपास्तम् । परामर्शानन्तरं पक्षादिप्रत्यक्षस्यावग्रहाद्यात्मकप्रत्यक्षोपयोगाभावादेवानापत्तेः, तत्तदुपयोगव्यक्तौ
Page #43
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि० १-का. २]
तर्हि तीर्थकृत्सम्प्रदायेन स्तुत्योऽहं महानिति भगवदाक्षेपप्रवृताविव साक्षादाहुः
अष्टसहस्त्रीतात्पर्यविवरणम्
च तत्तददृष्टोद्बोधादिकं हेतुरिति न किञ्चिदनुपपन्नम् ।
॥ प्रत्यक्षानुमितिसामग्रयोः प्रतिबध्यप्रतिबन्धकभाववादः ॥ वादक्रीडाविसामग्रीव्रीडां त्यजत पण्डिताः ।
सामग्रीवादमादाय, न्यायकेलिविधीयताम् । अथ केन रूपेणानमितिप्रत्यक्षसामग्रयोः प्रतिबध्यप्रतिबन्धकभावः ? न तावदनुमितित्वावच्छिन्ने लौकिकप्रत्यक्षसामग्रीत्वेन प्रतिबन्धकता, भिन्नविषयेऽनुमितेरेवोत्पत्त्या व्यभिचारात्, न च समानविषयकानुमितित्वावच्छिन्ने समानविषयकलौकिकप्रत्यक्षसामग्रीत्वेन प्रतिबन्धकता, समानविषयत्वस्य निर्वक्तुमशक्यत्वादिति चेत् ।
(१) अत्र रघुदेवभट्टाचार्यप्रभृतयः१ पर्वतोद्देश्यकवह्निविधेयकसंयोगसंसर्गकानुमिति प्रति पर्वतविशेष्यकवह्निप्रकारकसंयोगसंसर्गकलौकिकप्रत्यक्षसामग्रीत्वादिना विशिष्य प्रतिबध्यप्रतिबन्धकभावो वाच्यः, वह्निमान् पर्वतो घटवानित्यनुमितौ व्यभिचारवारणाय प्रतिबध्यतावच्छेदककोटौ प्रकारकत्वं विहाय विधेयकत्वनिवेशः, प्रत्यक्षसामग्रयाः प्रतिबन्धकतायां भिन्नविषयकानुमितिसामग्रयभावविशेषणनिवेशे तु विधेयता न निवेश्या, प्रयोजनाभावात्, उक्तस्थले विशेषणाभावेनैवादोषात् । न च पर्वतो वह्निमानिति लौकिकचाक्षुषसामग्रीसत्त्वेऽपि पर्वतो वह्निमानित्यनुमित्यापत्तिः, सामग्रयाः कारणसमूहात्मकतया तदानीमतीतानागतचक्षुस्त्वक्संयोगाद्यसत्त्वेनोक्तलौकिकचाक्षुषसामग्य भावादिति वाच्यम्, स्वाश्रयसंयुक्तवृत्तित्वसम्बन्धेन पर्वतवृत्तिचक्षुःसंयोगविशिष्टवह्निवृत्तिचक्षुःसंयोगादेरेव प्रकृते पर्वतो वह्निमानिति लौकिकप्रत्यक्षसामग्रीपदार्थत्वात् । न च पर्वते वह्निसंयोगानवच्छेदकावच्छेदेन, वह्नौ च पर्वतसंयोगानवच्छेदकावयवावच्छेदेन चक्षुःसंयोगे पर्वतो वह्निमानिति अनुमित्यनुत्पादापत्तिः, स्वावच्छेदकावच्छिन्नसंयोगाश्रयवह्निवृत्तिपर्वतसंयोगावच्छेदकावच्छिन्नत्वसम्बन्धेन पर्वतचक्षुःसंयोगविशिष्टवह्निचक्षुः संयोगत्वादिनैव प्रतिबन्धकत्वात् । न च भिन्नभिन्नपुरुषीयपर्वतचक्षुःसंयोगविशिष्टवह्निचक्षुःसंयोगकाले अनुमित्यनुत्पादापत्तिः, स्वाश्रयवृत्तित्वरूपसामानाधिकरण्योपदर्शित
१. अस्य 'अनुमित्यनुत्पादापत्तेः इत्याहुः' पदेन अन्वयः । पत्र ११ पं० २२ ।
Page #44
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम्
तीर्थकृत्समयानां च परस्परविरोधतः ।। सर्वेषामाप्तता नास्ति कश्चिदेव भवेद् गुरुः ॥३॥
अष्टसहस्त्रीतात्पर्यविवरणम्
सम्बन्धाभ्यां वैशिष्ट्यनिवेशात् । स्वाश्रयत्वं वृत्तित्वं च स्वाश्रयीभूतचक्षुःसंयुक्तमन:प्रतियोगिकविजातीयसंयोगसम्बन्धेन ग्राह्यम्, तेन पुरुषान्तरीयवह्निचक्षुःसंयोगे पुरुषान्तरीयपर्वतचक्षुःसंयोगवैशिष्ट्यविरहान्नानुपपत्तिः । प्रतिबध्यतावच्छेदकः सम्बन्धः समवायः, प्रतिबन्धकतावच्छेदकः स्वाश्रयसंयुक्तमनःप्रतियोगिकविजातीयसंयोगः, निरुक्तसंयोगविशिष्टात्ममन:संयोगस्यैव प्रकृतसामग्रीत्वे समवाय एव वा । न तु प्रतिबध्यतावच्छेदकः सम्बन्धी विधेयता, प्रतिबन्धकतावच्छेदकश्च समवायः, तथा सत्येकपुरुषस्य तथाविधलौकिकप्रत्यक्षसामग्रीसत्त्वे पुरुषान्तरस्य तथाविधानुमित्युत्पादानापत्तिवारणाय तत्पुरुषीयत्वं निवेश्य कार्यकारणभावकल्पने गौरवप्रसङ्गात् ।
अथ पर्वतो वह्निमानिति लौकिकप्रत्यक्षसामग्रीसत्त्वे पर्वते घटानुमितेर्वह्नयनुमितेश्च सामग्रीसत्त्वे पर्वतो वह्निमानित्यनुमित्यनुत्पत्त्यापत्तिः । न चेष्टापत्तिः, भिन्नविषयेऽनुमितिसामग्रया बलवत्त्वात्तदा वह्निघटोभयसमूहालम्बनानुमित्युत्पत्तौ बाधकाभावेनेष्टापत्तेः कर्तुमशक्यत्वात् । न च पर्वतो वह्निमानित्यनुमिति प्रति भिन्नविषयकानुमितिसामग्रयभावविशिष्टायाः पर्वतो वह्निमानिति लौकिकप्रत्यक्षसामग्रयाः प्रतिबन्धकत्वान्नोक्तानुपपत्तिः, एवं सति वह्नयादिप्रत्यक्षे घटाद्यनुमितिसामग्र्याः प्रतिबन्धकत्वाद् घटादिलौकिकप्रत्यक्षसामग्रीकाले वह्निप्रत्यक्षनिहाय भिन्नविषयकानुमितिसामग्रीप्रतिबन्धकतायामपि समानविषयकलौकिकप्रत्यक्षसामग्र्या उत्तेजकत्वावश्यकत्वात् । यदा घटलौकिकप्रत्यक्षसामग्री तदनुमितिसामग्री च वह्निलौकिकप्रत्यक्षसामग्री तदनुमितिसामग्री च तदा भिन्नविषयकानुमितिसामग्र्यभावविशिष्टवह्निलौकिकप्रत्यक्षसामग्र्यभावसत्त्वात् पर्वतो वह्निमानित्यनुमितेः समानविषयकलौकिकप्रत्यक्षसामग्रयभावविशिष्टघटानुमितिसामग्र्यभावसत्त्वात् पर्वतो वह्निमानिति प्रत्यक्षस्य चापत्तेरिति चेत्, मैवम्, सामग्रीचतुष्टयमेलनदशायां ज्ञानद्वययौगपद्यापत्तिभिया पर्वतो वह्निमानिति लौकिकप्रत्यक्षसामग्रीप्रतिबन्धकतावच्छेदककोटिनिविष्टाभावप्रतियोगिभिन्नविषयकानुमितिसामग्रयां समानविषयकप्रत्यक्षसामग्रयभावस्यापि विशेषणस्य निवेशात् । न चैवं समानविषयकप्रत्यक्षसामग्रयामपि भिन्नविषयकानुमितिसामग्रयभावनिवेशे अनवस्था, तन्निवेशे प्रयोजना
Page #45
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का० ३]
इति भगवतो महत्त्वे साध्ये तीर्थकरत्त्वं साधनं कुतः प्रमाणात् सिद्धम् ? न तावदध्यक्षात्तस्य तदविषयत्वात्साध्यवत् । नाप्यनुमानात् तदविनाभाविलिङ्गा
अष्टसहस्रीतात्पर्यविवरणम् भावेन तत्रैव विश्रान्तेरनवस्थापत्त्ययोगात् । वस्तुतः पर्वतो वह्निमानिति लौकिकप्रत्यक्षसामग्रीकालीनघटाद्यनुमितिकाले वह्नयनुमित्यनभ्युपगमात्कामपि सामग्रीमनुत्तेजकीकृत्य वह्निलौकिकप्रत्यक्षसामग्रीत्वेनैव वह्नयनुमितौ प्रतिबन्धकत्वकल्पनान्न दोषः ।
अथ वह्नयादिविषयकलौकिकप्रत्यक्षसामग्रीकाले वन्यनुमित्सासत्त्वे वह्नयनुमित्युत्पत्तेस्तत्प्रतिबन्धकतावच्छेदककोटौ वढ्यनुमित्साया उत्तेजकत्वं स्वीकार्यम्, तच्च केन रूपेण ? (१) न तावदनुमित्सात्वेन, वह्निलौकिकप्रत्यक्षसामग्रीसत्त्वे घटानुमित्सयापि वढ्यनुमित्युत्पादापत्तेः । (२) नापि पर्वतोद्देश्यकवह्निविधेयकानुमितिविषयकेच्छात्वेन, घटानुमित्साया अपि पर्वतोद्देश्यकवह्निघटोभयविधेयकसमूहालम्बनानुमितिविषयकत्वेनोक्तदोषानुद्धारात् । (३) नापि पर्वतोद्देश्यकत्वप्रकारतानिरूपितवह्निविधेयकत्वत्वावच्छिन्नप्रकारताभिन्नयत्किञ्चिद्विधेयकत्वप्रकारत्वानिरूपितानुमितिनिष्ठविशेष्यताशालीच्छात्वेन तथापि पर्वतोद्देश्यकघटप्रकारकानमितिर्जायतामितीच्छासत्त्वे वह्निप्रत्यक्षसामग्रीसत्त्वे वढ्यनुमित्यापत्तेः, तादृशेच्छाया उक्तधर्माक्रान्तत्वादिति, चेद्, उच्यते, पर्वतोद्देश्यकवह्निविधेयकानुमिति प्रति पर्वतत्वावच्छिन्नोद्देश्यकत्वप्रकारतानिरूपितवह्निविधेयकत्वप्रकारताभिन्नयत्किञ्चिद्विधेयकत्वप्रकारत्वानिरूपितत्वे सति या पर्वतविशेष्यकत्वप्रकारतानिरूपितवह्निप्रकारकत्वप्रकारताभिन्नयत्किञ्चित्प्रकारकत्वप्रकारत्वानिरूपिताऽनुमितिनिष्ठविशेष्यता तच्छालीच्छाभावविशिष्टवह्निलौकिकप्रत्यक्षसामग्रीत्वेन प्रतिबन्धकत्वकल्पनान्न दोषः । एवमिच्छान्तरसङ्ग्रहायेच्छीयानुमितिनिष्ठविशेष्यतायां विशेषणान्तरमपि विचिन्त्य सुधीभिर्देयम्, ज्ञानं जायतामितीच्छावारणायानुमितिनिष्ठविशेष्यतायां प्रत्यक्षावृत्तिधर्मनिष्ठप्रकारतानिरूपितत्वं निवेश्यम्, न त्वनुमितिमात्रवृत्तिधर्मनिष्ठप्रकारतानिरूपितत्वम्, प्रत्यक्षान्यज्ञानं जायतामितीच्छासत्त्वेऽनुमित्यनुत्पादापत्तेः इत्याहुः ।
तत्र ब्रूमः, एवमनन्तानुमित्साविरहविशिष्टतत्तल्लौकिकप्रत्यक्षसामग्रीणामनन्ताभावानामनुमितिहेतुत्वे गौरवात्तावदन्यतमत्वावच्छिन्नाभावस्याखण्डस्य हेतुत्वे वाच्ये तत्स्थानाभिषिक्ताखण्डानुमानोपयोगस्यैवानुमितिहेतुत्वौचित्यात्, तदभावादेव न पर्वते वह्निलौकिकप्रत्यक्षसामग्रीकाले वह्यनुमितिः । किञ्च पर्वतचक्षुःसंयोगविशिष्टवह्निचक्षुःसंयोगस्य
१. 'अत्र रघुदेवभट्टाचार्यप्रभृतयः' इत्यनेन प्रारब्धः पूर्वपक्षः अत्र समाप्तः ।
Page #46
--------------------------------------------------------------------------
________________
१२
अष्टसहस्त्रीतात्पर्यविवरणम् भावात् । समयात्सिद्धमिति चेत्, पूर्ववदागमाश्रयत्वादगमकत्वमस्य व्यभिचारश्च ।
- अष्टसहस्त्रीतात्पर्यविवरणम् नोक्तसामग्रीत्वं प्रतिबन्धकतावच्छेदकसम्बन्धगौरवादिति तद्विशिष्टात्ममन:संयोगस्यैव त्वया तत्त्वं वाच्यम्, तदपेक्षयापि लाघवाद्विशिष्टात्मन एव तत्त्वमुचितं, स च प्रत्यक्षोपयोग एव, उपयोगात्मनोऽप्यष्टस्वात्मसु पारमर्षे प्रतिपादनात्, स चानुमानोपयोगप्रतिबन्धको द्रव्यार्थिकनयमते, पर्यायार्थिकनयमते च सुषुप्तौ ज्ञानानुत्पादनिर्वाहार्थमुपयोगसिद्धेर्यत्सामान्ययो रित्यादिन्यायात्प्रत्यक्षहेतुत्वेन सिद्ध आत्मधर्म उपयोगविशेषः, तथा प्रत्यक्षोपयोगेनात्मस्थानुमानोपयोगोत्पादानुकूलशक्तिविघटनात् तस्य तत्त्ववृत्त्या तत्प्रतिबन्धकत्वोपपत्तेः इति न तदानुमितिः, अनुमित्साया अपि तदुपयोगनिवृत्तिकाले एवाभ्युपगमादिति किमधिकेनाकाण्डताण्डत्वेन ।
किञ्च न्यायनयेऽप्यनुमितौ प्रत्यक्षसामग्र्याः प्रतिबन्धकत्वं न कल्प्यते, किन्तु कार्यकालवृत्तितया प्रत्यक्षाभावस्य हेतुत्वमित्यस्मिन्नेव पक्षे लाघवम्, निर्णयत्वेन सिद्धेः प्रतिबन्धकत्वाकल्पनात्, पर्वतो वह्निव्याप्यवान् वह्निव्याप्यव्याप्यवानित्यादिपरामर्शादनुमितिधारावारणायानुमितावनुमितित्वेनैव परं तत्कल्पनात्, प्रत्यक्षसामग्रयभावस्यानुमितौ हेतुत्वे तु विनश्यदवस्थप्रत्यक्षसामग्रीजन्यप्रत्यक्षोत्तरमनुमित्यापत्तिवारणायानुमितौ प्रत्यक्षसाधारणतथाविधनिर्णयत्वेनैव प्रतिबन्धकत्वं कल्पनीयं स्यात्, अन्यथाऽनिर्वाहात् । न चैवं भाविवह्निप्रत्यक्षमप्रमेत्यप्रामाण्यग्रहकालीनविनश्यदवस्थवह्निप्रत्यक्षसामग्र्युत्पादितवह्निप्रत्यक्षद्वितीयादिक्षणेऽनुमितिसामग्रीतोऽनुमित्यनुत्पाद प्रसङ्गः अप्रामाण्यग्रहाभावविशिष्टवह्निप्रत्यक्षत्वेन प्रतिबन्धकत्वकल्पनात् । न चैवं सत्युपदर्शितस्थले प्रत्यक्षोत्पादकाले वक़्यनुमित्यापत्तेः दुरित्वम्, तत्रानायत्या तत्क्षणविशिष्टाप्रामाण्यग्रहस्यैवोत्तेजकत्वस्वीकारात्, उक्तोपदर्शितस्थलेऽनुमित्यनुत्पत्ताविष्टापत्तेर्वा । न च उपदर्शितसामग्रीचतुष्टयमेलनदशायां परस्परप्रतिबन्धकवशात् कस्यापि फलस्यानुदयेन तदा प्रत्यक्षाभावकारणबलादनुमित्यापत्तिवारणं समानविषये प्रत्यक्षसामग्रयाः प्रतिबन्धकत्वकल्पनं विना दुष्करमिति वाच्यम्, तदानीं परमते चक्षुर्मनोयोगादिविगमकल्पनेनास्मन्मते चान्यतरोपयोगविगमकल्पनेन सामग्रीचतुष्टयमेलनस्यैवासिद्धेः, अन्यथा स्वाभ्युपगममात्रेणोक्तानवस्थोद्धारायोगाद्विपर्ययस्यापि कल्पयितुं शक्यत्वात् ।
एतेन समानविषयेऽनुमितिसामग्रीकाले प्रत्यक्षसामग्रीसत्त्वे पर्वते वक़्यनुमित्सायां वह्निप्रत्यक्षेच्छायां च सत्यां पर्वतो वह्निमानित्यनुमित्यापत्तिः । न चेष्टापत्तिः, स्वभावतो बल
१. द्रव्य-कषाय-योगोपयोग-ज्ञान-दर्शन-चारित्र-तीर्थरूपेषु (व्याख्याप्रज्ञप्तिः-१२.१०.१)
Page #47
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि. १-का. ३]
१३ (भा०) न हि तीर्थकरत्वमाप्ततां साधयति, शक्रादिष्वसम्भवि सुगतादौ दर्शनात् ।
- अष्टसहस्रीतात्पर्यविवरणम्
वती यस्य सामग्री तद्विषयेच्छासत्त्वे तस्यैवोत्पत्त्यभ्युपगमादिति पर्वतोद्देश्यकवह्निविधेयकानुमितौ तथाविधप्रत्यक्षान्यज्ञानत्वावच्छिन्ने वा तथाविधप्रत्यक्षेच्छाविशिष्टायाः पर्वतो वह्निमानिति प्रत्यक्षसामग्र्या अपि प्रतिबन्धकत्वान्तरं कल्पनीयम् । न च अनुमित्सायां प्रत्यक्षेच्छाया उत्तेजकत्वस्वीकारेणैव निर्वाहः, प्रत्यक्षेच्छाभावानुमित्सयोर्विशेषणविशेष्यभावे विनिगमकाभावेनानन्तप्रतिबध्यप्रतिबन्धकभावकल्पनाबाहुल्यात्, प्रतिबन्धकतावच्छेदकगौरवाच्च । एवं प्रत्यक्षेच्छाभावकालेऽनुमित्सादशायामनुमितिसामग्रीसत्त्वे प्रत्यक्षसामग्रीबलात् प्रत्यक्षापत्तिवारणाय समानविषयकप्रत्यक्षं प्रति समानविषयकप्रत्यक्षेच्छाभावविशिष्टसमानविषयकानुमित्साविशिष्टानुमितिसामग्रया अपि स्वातन्त्र्येण प्रतिबन्धकत्वं कल्पनीयमित्यादि अपास्तम्, प्रत्यक्षानुमितीच्छयोभिन्नोपयोगरूपयोरेकदाऽजायमानत्वेनोक्तकल्पनाया निर्मूलत्वात् । एतेनैव भिन्नविषयान्तर्भावेणानुमितिसामग्रीप्रतिबन्धकत्वकल्पनाजालम्
अपास्तम्, एवं हि तद्भिन्नविषये प्रत्यक्षानुमितिसामग्रीद्वयदशायामनुमितिरेवोत्पद्यते न प्रत्यक्षम् तदुत्तरमनुमिनोमीत्यनुव्यवसायादिति तत्र प्रत्यक्षं प्रत्यनुमितिसामग्रयाः प्रतिबन्धकत्वं कल्पनीयम्, पक्षपरामर्शादिप्रत्यक्षानुत्पत्तेरन्यथानुपपत्तेश्च । तत्र च न सामान्यतः प्रत्यक्षत्वावच्छिन्नेऽनुमितिसामग्रीत्वेन प्रतिबन्धकता, समानविषयेऽनुमितिसामग्रीकाले प्रत्यक्षानुत्पत्तिप्रसङ्गात्, नापि वह्निभिन्नप्रत्यक्षं प्रति वह्नयनुमितिसामग्रीत्वेन प्रतिबन्धकता, अवच्छेदककोटौ प्रत्यक्षेच्छाया उत्तेजकत्वावश्यकत्वेन घटपटादिप्रत्यक्षेच्छाभावकूटस्यैकत्र निवेशे पटप्रत्यक्षसामग्र्यभावदशायां पटप्रत्यक्षेच्छाबलाद्विरोधिसामग्रीकाले घटादिप्रत्यक्षापत्तेः, किन्तु घटप्रत्यक्षं प्रति घटप्रत्यक्षेच्छाभावविशिष्टवल्यनुमितिसामग्रीत्वादिना विशिष्य प्रतिबध्यप्रतिबन्धकभावः स्वीकर्तव्यः । न च तथापि घटस्पार्शनेच्छादिबलाद घटचाक्षषाद्यापत्तिः, घटत्वप्रकारतानिरूपितघटविशेष्यताशालिचाक्षुषादौ तादृशचाक्षुषादिविषयके च्छाभावविशिष्टवन्यनुमितिसामग्रीत्वादिना प्रतिबन्धकत्वान्तरस्यापि कल्पनात् । न चैवं वक़्यनुमितिसामग्रीसत्त्वे यत्किञ्चिज्ज्ञानं जायतामितीच्छाकाले घटादिचाक्षुषापत्तिः, घटत्वप्रकारकत्वनिष्ठप्रकारतानिरूपिता या घटविशेष्यकत्वप्रकारता तद्भिन्नयत्किञ्चिद्विशेष्यकत्वनिष्ठप्रकारत्वानिरूपितत्वे सति घटत्वप्रकारकत्वावच्छिन्नघटविशेष्यकत्वप्रकारतानिरूपिता या चाक्षुषविशेष्यता तच्छालीच्छात्वेनोत्तेजकत्वस्वीकारात्, उपदर्शितेच्छायास्तथाविध
Page #48
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम् यथैव हि भगवति तीर्थकरत्वसमयोऽस्ति तथा सुगतादिष्वपि ।
- अष्टसहस्त्रीतात्पर्यविवरणम् विषयत्वाभावेन दोषाभावात् । न च वक़्यनुमितिसामग्रीकाले चाक्षुषं जायतामितीच्छासत्त्वेऽपि घटचाक्षुषानुपपत्तिस्तादृशेच्छायास्तथाविधविषयत्वाभावेन तादृशविषयताशालीच्छाविरहविशिष्टवयनुमितिसामग्रीसत्त्वादिति वाच्यम्, तादृशेच्छायामप्यनुमित्यवृत्तिधर्मनिष्ठप्रकारतानिरूपिता सती या यत्किञ्चिद्विशेष्यकत्वनिष्ठप्रकारत्वानिरूपिता चाक्षुषविशेष्यता तच्छालीच्छात्वेन स्वातन्त्र्येणोत्तेजकत्वाभ्युपगमात्, वह्निभिन्नविषयकानुमित्यन्यज्ञानत्वावच्छिन्न एव वह्नयनुमित्साविशिष्टवल्यनुमितिसामग्र्या अपि स्वातन्त्र्येण प्रतिबन्धकत्वाच्च न वढ्यनुमित्साविशिष्टवढ्यनुमितिसामग्रीकाले घटादिचाक्षुषेच्छासत्त्वे घटादिचाक्षुषापत्तिः । घटादिचाक्षुषेच्छायां वयनुमित्साया उत्तेजकत्वं तु न वाच्यम्, विशेषणविशेष्यभावे विनिगमकाभावेन महागौरवात् । वह्निभिन्नविषयकत्वं च वह्नित्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यताभिन्नमुख्यविशेष्यतावत्त्वम्, तेन पर्वतो वह्निमानिति प्रत्यक्षस्यापि वह्निभिन्नवह्नित्वादिविषयकत्वेन न व्यभिचारः, मुख्यविशेष्यतात्वं च प्रकारताभिन्नविषयतात्वम्, अतो न घटघटत्वादिनिर्विकल्पकासङ्ग्रहः, अनुमित्साविशिष्टानुमितिसामग्रीकाले वह्निवह्नित्वादिनिर्विकल्पकानङ्गीकारे च नानुपपत्तिः । न च तथाऽप्यनुमित्साविशिष्टानुमितिसामग्रीकाले पर्वतो वह्निमानित्युपनीतभानापत्तिः, वह्निनिष्ठलौकिकविषयतानिरूपितपर्वतविशेष्यताभिन्नमुख्यविशेष्यतानिवेशे च पर्वतो वह्निमानिति शाब्दे व्यभिचारो दुर्वार इति वाच्यम् । तथाविधोपनीतभानं प्रत्यप्यनुमित्साविशिष्टानुमितिसामग्र्याः स्वातन्त्र्येण प्रतिबन्धकत्वान्तरकल्पनात् ।
(२) केचित्तु पर्वतो वह्निमानिति लौकिकप्रत्यक्षे व्यभिचारवारणायानुमित्साविशिष्टानुमितिसामग्रीप्रतिबध्यतावच्छेदकं पर्वतत्वावच्छिन्नविशेष्यतानिरूपितवह्नित्वावच्छिन्नप्रकारताशून्यज्ञानत्वमेव वाच्यम्, इत्थमनुमित्यन्यत्वाप्रवेशे पूर्वमतापेक्षया लाघवाद् वल्यनुमित्साविशिष्टवन्यनुमितिसामग्रीकाले घटानुमितिसामग्रीसत्त्वे वह्निघटोभयसमूहालम्बनानुमित्युदयाभ्युपगमेन तत्र व्यभिचाराभावात्, तथाविधानुमितिसामग्रीकाले वह्निप्रत्यक्षेच्छाविशिष्टवह्निप्रत्यक्षसामग्रयां घटप्रत्यक्षसामग्रयां च सत्यां पर्वतो वह्निमान घटवांश्चेति समूहालम्बनप्रत्यक्षस्य च तदानमित्यनुदयेन ज्ञानायौगपद्यार्थमभ्युपगमाद इत्याहः, तन्न, अनुमित्साविशिष्टानुमितिसामग्र्यभावदशायां पर्वतो वह्निमान् घटवांश्चेति समूहालम्बनात्मकप्रत्यक्षसामग्रीकाले विरोधिसामग्रयभावरूपकारणबलात् पर्वतत्वावच्छिन्नविशेष्यतानिरूपितवह्नित्वावच्छिन्नप्रकारताशून्यज्ञानत्वावच्छिन्नापत्तेर्दुर्वारत्वात् वह्निप्रत्यक्षसामग्र्यादेस्तत्र
Page #49
--------------------------------------------------------------------------
________________
१५
प्रथमो भागः [परि०१-का. ३] सुगतस्तीर्थकरः, कपिलस्तीर्थकर इत्यादिसमयाः सन्तीति सर्वे महान्तः स्तुत्याः
- अष्टसहस्त्रीतात्पर्यविवरणम् प्रतिबन्धकत्वकल्पने च गौरवात् ।
(३) पर्वतत्वावच्छिन्नविशेष्यतानिरूपितवह्नित्वावच्छिन्नविधेयताभिन्नविधेयताया एवानुमित्साविशिष्टानुमितिसामग्रीप्रतिबध्यतावच्छेदकत्वम्, विधेयत्वं चोद्देश्यतावच्छेदकविधेयतावच्छेदकव्यावृत्तविलक्षणविषयत्वमिति अपरे, तदपि न, प्रत्यक्षादिसाधारणविधेयत्वाख्यविलक्षणविषयतायां प्रमाणाभावात्, एवं वक़्यनुमितिसामग्रीकाले घटादिप्रत्यक्षेच्छाविशिष्टघटादिप्रत्यक्षसामग्रीदशायामनुमित्यनुदयेन तादृशानुमितौ तथाविधानुमित्साविरहविशिष्टघटादिप्रत्यक्षेच्छाविशिष्टघटादिप्रत्यक्षसामग्रया अपि प्रतिबन्धकत्वान्तरं कल्पनीयम्, एवं भिन्ने विषये शाब्दबोधसामग्रीसत्त्वे प्रत्यक्षसामग्रीसत्त्वे च प्रत्यक्षानुत्पादाद्भिन्नविषयकप्रत्यक्ष प्रति तथाविधप्रत्यक्षेच्छाभावविशिष्टशाब्दसामग्रया अपि प्रतिबन्धकत्वं कल्पनीयमेवमन्यदप्यूह्यमिति ।
___॥ प्रत्यक्षानुमितिसामग्रयोः प्रतिबध्यप्रतिबन्धकभाववादः उत्तरपक्षः ॥ अत्र ब्रूमः-परामर्शादेः स्वसंविदितत्वादेव नानुमितिसामग्रीकाले प्रत्यक्षापत्तिः, ज्ञानमानसे मानसाऽन्यज्ञानसामग्रयाः प्रतिबन्धकत्वाकल्पनलाघवेनैव ज्ञानस्वसंविदितत्वस्य लतायामस्माभिः समर्थितत्वात् । पक्षादिप्रत्यक्षस्य च तथोपयोगाभावादेव नापत्तिः, तत्सत्त्वे पर्वतप्रत्यक्षोत्तरमाशुभाविनानुमानोपयोगेन वढ्यनुमित्युत्पत्त्या क्रमिकफलद्वयेनैव पर्वतं पश्यामि वह्नि चानुमिनोमीति व्यवहारोपपत्तेः, व्यवहारतोऽपि प्रत्यक्षत्वपरोक्षत्वयोविषयताविशेषेणानेकान्ते चानुपपत्तिलेशस्याप्यभावात् । उपयोगासाङ्कर्यस्य गौणमुख्यभावेनैव प्रतिनियमादिति किं भिन्नविषयेऽनुमितिसामग्रीप्रतिबन्धकत्वेन ? यथाक्षयोपशमं प्रतिनियतोपयोगप्रवृत्त्यैव सर्वसामञ्जस्यात्, अन्यथा वयनुमित्साविशिष्टवल्यनुमितिसामग्रीकाले वह्निप्रत्यक्षेच्छाविशिष्टवह्निप्रत्यक्षसामग्रीबलात्पर्वतो वह्निमानिति प्रत्यक्षं जायते न तु पर्वतवह्निसंयोगा इति समूहालम्बनं वह्निवह्नित्वादिनिर्विकल्पकं वेत्यर्द्धजरतीयाश्रयणस्याशक्यत्वेनोक्तवह्निभिन्नविषयत्वस्याव्यवस्थितेः । वढ्यनुमित्साविशिष्टवल्यनुमितिसामग्रीकालीनवह्निप्रत्यक्षेच्छाविशिष्टवह्निप्रत्यक्षसामग्रीकाले घटप्रत्यक्षसामग्रीदशायां पर्वतो वह्निमान् घटवांश्चेति प्रत्यक्षस्य दुरपलापत्वेन तत्र व्यभिचाराच्चोक्तवह्निभिन्नविषयकानुमितौ निरुक्तसामग्रीत्वेन प्रतिबन्धकताया दुर्वचत्वाच्चोक्तसामग्रया घटप्रत्यक्षप्रतिबन्धकत्वकल्पने तु
१. स्याद्वाद कल्पलता स्तबक-१ श्लोक-८४ ।
Page #50
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम्
स्युः ।
अष्टसहस्त्रीतात्पर्यविवरणम् महागौरवम्, केवलं बहुबहुविधादिसूत्र [तत्त्वार्थ० १.१६]मध्यपठितनिश्रितप्रत्यक्षहेतुक्षयोपशमवतां समानेऽपि विषये प्रथममनुमितेरेवोत्पत्तेः प्रत्यक्षसामग्र्यपेक्षयानुमितिसामग्र्या बलवत्त्वं न्याय्यम्, श्रुतेनेव लिङ्गेन निश्चितत्वस्य स्वजनितप्रमाहितक्षयोपशमसाचिव्येन सिद्धेः । अत एव नैयायिकैकदेशिनोऽपि तत्र साक्षात्कारित्वग्रहे क्षणविलम्बं कल्पयन्ति, तादृशसामग्रीद्वितीयक्षणेऽनुमित्युत्पत्त्याऽनन्तरं सिद्धिप्रतिबन्धादनुमित्यन्तरानुत्पादेन तृतीयक्षणे प्रत्यक्षोत्पादात् तत्र साक्षात्कारित्वग्रहोपपत्तेः। एवं हि भिन्नविषयस्थलीयप्रतिबध्यप्रतिबन्धकभावेनैव निर्वाहेऽनुमितौ प्रत्यक्षसामग्र्या अतिरिक्तप्रतिबध्यप्रतिबन्धकभावाकल्पनलाघवम् ।
सम्प्रदायविदा हि भिन्ने विषये वयनमित्साविशिष्टवयनमितिसामग्रीसत्त्वे घटप्रत्यक्षेच्छाविशिष्टघटप्रत्यक्षसामग्रीसत्त्वे च वक़्यन मितेरेवोत्पत्त्या तत्र घटप्रत्यक्षत्वावच्छिन्नं प्रति भिन्नविषयकानमित्यन्यज्ञानत्वावच्छिन्नं प्रति वा वह्नयन मित्साविशिष्टवढ्यनुमितिसामग्रयाः प्रतिबन्धकत्वं, समाने च विषये वह्निप्रत्यक्षेच्छाविशिष्टवह्निप्रत्यक्षसामग्रीकाले वक़्यनमित्साविशिष्टवयनुमितिसामग्रीदशायां वयनमित्यापत्तिवारणाय वयनुमिति प्रति वह्निप्रत्यक्षेच्छाविशिष्टवह्निप्रत्यक्षसामग्रयाः प्रतिबन्धकत्वं कल्पनीयम् । अस्माकं तु प्रत्यक्षत्वावच्छिन्नं प्रत्यनुमित्यन्यज्ञानत्वावच्छिन्नं प्रति वानुमित्साविशिष्टानुमितिसामग्रया एकमेव प्रतिबन्धकत्वमिति भिन्नविषयत्वानिवेशद्वितीयप्रतिबन्धकत्वाकल्पनाभ्यां लाघवस्य स्फुटत्वात् ।
न च वढ्यनुमितिसामग्रीप्रतिबध्यतावच्छेदककोटौ वह्निभिन्नविषयकत्वानिवेशे समानविषये स्वस्वेच्छाविशिष्टवल्यनुमितिशाब्दसामग्रीद्वयसमाजे वह्निशाब्दस्यैवोत्पत्तेरनुमित्यन्यज्ञानेऽनुमितिसामग्र्याः प्रतिबन्धकत्वे व्यभिचार इति शङ्कनीयम्, तत्रानुमितिसामग्र्यपेक्षया प्रत्यक्षसामग्र्या इव शाब्दसामग्र्या अपि दुर्बलत्वस्वीकारात् । (शङ्का) तथापि द्वितीयप्रतिबन्धकत्वाकल्पनप्रयुक्तं लाघवमयुक्तम्, समाने विषये शाब्दसामग्रयपेक्षया प्रत्यक्षसामग्रया बलवत्त्वात्, पर्वतो वह्निमानिति शाब्दबुद्धौ वह्निप्रत्यक्षेच्छाविशिष्टवह्निप्रत्यक्षसामग्रयाः प्रतिबन्धकत्वे कल्पनीये तत्रैवानुमित्यादिसाधारणप्रत्यक्षान्यवह्निज्ञानत्वस्य प्रतिबध्यतावच्छेदकत्वेन निर्वाहे तस्याः स्वातन्त्र्येण प्रतिबन्धकत्वानङ्गीकारादिति चेत्, न प्रत्यक्षान्यत्वज्ञानत्वयोविशेषणविशेष्यभावे विनिगमनाविरहेण गुरुतरानन्तप्रतिबध्यप्रतिबन्धकभावप्रसङ्गात्, पर्वतो वह्निमानिति शाब्दत्वस्यैव लाघवेन
Page #51
--------------------------------------------------------------------------
________________
प्रथमो भाग: [ परि० १ - का० ३]
१७
अष्टसहस्त्रीतात्पर्यविवरणम्
प्रतिबध्यतावच्छेदकत्वौचित्यात्, द्वितीयगौरवस्य सम्प्रदायिमते दुष्परिहरत्वात् । वस्तुतः समाने विषये प्रत्यक्षसामग्र्यपेक्षयानुमितिसामग्र्या बलवत्त्वस्वीकर्त्तारः शाब्दबोधसामग्र्या अपि तथात्वं स्वीकुर्वत इति नोपदर्शितकल्पनया निर्वाहः ।
एतेन पर्वतविशेष्यकवह्निप्रकारकपरोक्षत्वस्यैव तादृशसामग्रीप्रतिबध्यतावच्छेदकत्वे सम्प्रदायिमते न गौरवम्, परोक्षत्वं चैतत्सामग्रीप्रतिबध्यतावच्छेदककोटिप्रविष्टतया पर्वतो न वह्निमानित्यादिबाधप्रतिबध्यतावच्छेदककोटिप्रविष्टतया च सिद्धो जातिविशेष इत्युक्तावपि न क्षति:, उक्तदिशा तादृशजात्यन्तर्भावेन शाब्दबोधप्रतिबन्धकताया एवायोगादिति ।
अथ तथापि भिन्ने विषये घटादिप्रत्यक्षेच्छाविशिष्टतत्सामग्रीदशायां पर्वतविशेष्यकवह्निप्रकारकज्ञानं जायतामित्यनुमितिविषयकेच्छाकालीनानुमितिसामग्रीकाले तदुत्तरं घटादिप्रत्यक्षानुत्पत्तये वह्निभिन्नविषयकप्रत्यक्षत्वावच्छिन्नं प्रति तथाविधानुमित्यन्यज्ञानत्वावच्छिन्नं प्रति वा वहन्यनुमितिविषयके च्छाविशिष्टवहन्यनुमितिसामग्रीत्वेन प्रतिबन्धकत्वकल्पनमावश्यकम् । न च भिन्नविषयकत्वनिवेशे प्रयोजनाभावः, तदनिवेशे पर्वतो वह्निमानिति प्रत्यक्षेच्छाविशिष्टप्रत्यक्षसामग्रीकाले पर्वते वह्निज्ञानं जायतामित्यनुमितिविषयकेच्छाविशिष्टतदनुमितिसामग्रीदशायां पर्वतो वह्निमानिति प्रत्यक्षानुत्पत्त्यापत्तेः, यस्य सामग्रीमपेक्ष्य स्वभावतो बलवती यस्य सामग्री तदवृत्तिधर्मप्रकारकतद्विषयकेच्छासत्त्वे तस्यैवोत्पादनियमेन तत्र तादृशेच्छाकालेऽनुमितेरनुत्पत्त्या प्रत्यक्षस्यैवोत्पादसम्भवेन पर्वतो वह्निमानिति प्रत्यक्षानुत्पत्ताविष्टापत्तेः कर्त्तुमशक्यत्वात् । एवं वह्निप्रत्यक्षेच्छाविशिष्टतत्प्रत्यक्षसामग्रीकालेऽनुमितित्वप्रकारकवन्यनुमित्साविशिष्टवत्यनुमितिसामग्रीदशायां तदुत्तरं
तत्प्रत्यक्षापत्तिवारणाय वह्निप्रत्यक्षं प्रत्यनुमितित्वप्रकारकतदनुमित्साविशिष्टतदनुमितिसामग्र्याः प्रतिबन्धकत्वमेकदेशिभिरपि स्वीकर्त्तव्यमिति सम्प्रदायमतापेक्षया क्व लाघवावकाश ? इति चेत्, न तथापि सम्प्रदायमते वन्याद्यनुमित्साविशिष्टवन्याद्यनुमितिसामग्रीकाले वह्न्यादिप्रत्यक्षापत्तिवारणाय पर्वतो वह्निमानिति प्रत्यक्षे तादृशानुमित्साविशिष्टवत्यादिप्रत्यक्षेच्छाविरहविशिष्टवन्याद्यनुमितिसामग्र्याः प्रतिबन्धकत्वे कल्पनीयेऽनुमित्साप्रत्यक्षेच्छाभावयोरेकत्रनिवेशप्रयुक्तप्रतिबन्धकतावच्छेदकशरीरगौरवात्, एकदेशिमते प्रत्यक्षं प्रति प्रत्यक्षेच्छाभावानुमित्सावैशिष्ट्यान्तर्भावेनानुमितिसामग्र्याः पृथक् प्रतिबन्धकताद्वसाम्
तदभावात् ।
अथ तन्मतेऽपि वन्यादिप्रत्यक्षेच्छाविशिष्टवह्न्यादिप्रत्यक्षसामग्रीकाले वहन्याद्यनु
Page #52
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम्
अष्टसहस्त्रीतात्पर्यविवरणम् मितिवारणाय वयाद्यनुमितिं प्रति वह्याद्यनुमित्साविरहविशिष्टवल्यादिप्रत्यक्षेच्छाविशिष्टवल्यादिप्रत्यक्षसामग्र्याः प्रतिबन्धकत्वे कल्पनीयेऽनुमित्साभावप्रत्यक्षेच्छयोरेकत्रनिवेशप्रयुक्तशरीरगौरवाधिक्यं तुल्यमेवेति चेत्, न प्रत्यक्षसामग्र्यपेक्षयाऽनुमितिसामग्र्या बाधाभावतदभावव्याप्यवत्तानिर्णयाभावादिघटिततया गुरुत्वेन प्रत्यक्षेच्छाभावानुमित्सोभयविशिष्टायास्तस्याः प्रतिबन्धकतावच्छेदकशरीरस्यानुमित्साभावप्रत्यक्षेच्छो भयविशिष्टप्रत्यक्षसामग्रीप्रतिबन्धकतावच्छेदकशरीरापेक्षया तुल्यत्वाभावात् । न च लौकिकप्रत्यक्ष प्रत्यपि तदिन्द्रियजन्यबाधबुद्धेः प्रतिबन्धकत्वात्प्रत्यक्षसामग्रया अपि बाधाभावघटितत्वेन लाघवानवकाशः, बाधधीकालीनलौकिक प्रत्यक्षसामग्रीकाले तया प्रतिबन्धादनुमितेरप्यनुदयेन व्यभिचाराभावात्सर्वत्रानुमितौ प्रत्यक्षसामग्रीप्रतिबन्धकतावच्छेदककोटौ बाधाभावस्य निवेशे प्रयोजनाभावात् । (शङ्का) तथापि एकदेशिमते समानविषये वयादिप्रत्यक्षं प्रति वह्यादिप्रत्यक्षेच्छाविरहविशिष्टवयाद्यनुमितिसामग्र्या अननुगतेच्छाभावकूटानुगतेच्छाभावविशिष्टसिद्ध्यभावघटितायाः प्रतिबन्धकत्वमावश्यकम्, अन्यथा सिद्धिकाले परामर्शादीतरानुमितिकारणसमूहसत्त्वे वह्निप्रत्यक्षानुत्पत्त्यापत्तेः, तथा चाननुगतेच्छाभावकूटादीनां विशेषणविशेष्यभावाननुगमप्रयुक्तं गौरवं दुरुद्धरम्, सम्प्रदायमते तु नैतत्, प्रत्यक्षेच्छाविरहविशिष्टानुमित्साविशिष्टानुमितिसामग्रीप्रतिबन्धकतावच्छेदककोटौ सिद्ध्यभावनिवेशे प्रयोजनाभावात्, उक्तसामग्रीदशायां सिद्धिकालेऽनुमितेरेवोत्पत्त्या प्रत्यक्षानुदयेन व्यभिचाराभावादिति चेत्, न यादृशयादृशप्रत्यक्षेच्छासत्त्वे यादृशयादृशसिद्धिसत्त्वे च न तथाविधानुमितिस्तावदन्यतमत्वावच्छिन्नप्रतियोगिताकस्याभावस्याखण्डस्यैव निवेशादेकैकपरामर्शादनुमितिद्वयाभ्युपगमेन सिद्धेरप्रतिबन्धकत्वाद्वा । अस्माकं तु तदानुमानोपयोगाविरामादेव न प्रत्यक्षम्, उपयोगक्रमे तु देशकालादिनियन्त्रितक्षयोपशमक्रम एव नियामक इति किमानेडितेन ? ।
॥ भिन्नेन्द्रियप्रत्यक्षसामग्रीप्रतिबध्यप्रतिबन्धकभाववादः ॥ एतेन 'समाने विषये भिन्ने विषये वा स्पार्शनसामग्रीदशायां चाक्षुषसामग्रीसत्त्वे चाक्षुषस्यैवोत्पत्तेः स्पार्शनत्वावच्छिन्नं प्रति स्पार्शनेच्छाविरहविशिष्टचाक्षुषसामग्रयाः प्रतिबन्धकत्वं कल्पनीयम्, तत्र (A) न सामान्यतस्तत्त्वेन प्रतिबन्धकत्वम्, घटचाक्षुषसामग्रीकाले घटस्पार्शनेच्छासत्त्वे तत्सामग्रयां घटस्पार्शनेच्छायां चासत्यां घटस्पार्शनापत्तेः । (B) नापि घटादिस्पार्शनं प्रति घटादिस्पार्शनविषयकेच्छाविरहविशिष्टचाक्षुषसामग्रीत्वेन प्रतिबन्धकत्वम्, घटचाक्षुषसामग्रीकाले घटस्पार्शनसामग्रीदशायां घटज्ञानं जायतामितीच्छा
१. अस्य कल्पनीयौ इत्यादि निरस्तम् इति अनेन पदेन सह अन्वयः । (पृ० २० पं० ९)
Page #53
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का३]
- अष्टसहस्रीतात्पर्यविवरणम् सत्त्वे घटस्पार्शनापत्तेः, न चेष्टापत्तिः, स्वभावतो बलवती यस्य सामग्री तद्विषयकेच्छासत्त्वे तस्यैवोत्पादनियमात् । (C) नापि तथाविधस्पार्शनं प्रति तथाविधस्पार्शनत्वप्रकारेच्छाविरहविशिष्टचाक्षुषसामग्रीत्वेन, पटचाक्षुषसामग्रीकाले घटस्पार्शनसामग्रीसत्त्वे घटज्ञानं जायतामितीच्छायां घटस्पार्शनानुपपत्तेः, किन्तु घटादिस्पार्शनं प्रति घटादिस्पार्शनत्वप्रकारके च्छाविरहविशिष्टघटादिचाक्षुषसामग्रीत्वेन घटादिस्पार्शनविषयके च्छाविरहविशिष्टपटादिचाक्षुषसामग्रीत्वेन च प्रतिबन्धकत्वं कल्पनीयम् । चाक्षुषसामग्री तूद्भूतरूपादिविशिष्टविजातीयसंयोगरूपा, वैशिष्ट्यं च स्वाश्रयसमवेतत्वेन, चाक्षुषसामग्रयां स्वसमवायिसमवेतविजातीयसंयोगवन्मन:संयुक्तचक्षुर्वृत्तित्वसम्बन्धावच्छिन्नप्रतियोगिताकस्य स्पार्शनेच्छाभावस्य च वैशिष्ट्यं विशेषणताविशेषेण ग्राह्यमतो नानुपपत्तिः ।
(१) यद्वा सामान्यतः स्पार्शनत्वावच्छिन्नं प्रति स्वीयस्पार्शननिष्ठविशेष्यतानिरूपितविषयितासम्बन्धावच्छिन्नप्रकारताश्रयसमवेतत्वरूपपरम्परासम्बन्धावच्छिन्नप्रतियोगिताकस्पार्शनत्वप्रकारकेच्छाविरहविशिष्टचाक्षुषसामग्रीत्वेनैकम्, अपरं च स्पार्शनं प्रति चाक्षुषसामग्रीविशिष्टोपदर्शितपरम्परासम्बन्धावच्छिन्नप्रतियोगिताकस्पार्शनविषयकेच्छाभावत्वेन प्रतिबन्धकत्वं कल्पनीयम्, अतो न विषयभेदेन प्रतिबध्यप्रतिबन्धकभावबाहुल्यम् । एवं चाक्षुषेच्छाविशिष्टचाक्षुषसामग्रीकाले स्पार्शनेच्छादशायां स्पार्शनवारणाय घटादिस्पार्शनं प्रति घटादिचाक्षुषत्वप्रकारके च्छाविशिष्टचाक्षुषसामग्रयाः प्रतिबन्धकत्वमेकम्, अपरं च घटादिस्पार्शनं प्रति घटादिचाक्षुषविषयकेच्छाविशिष्टचाक्षुषसामग्रीत्वेन कल्पनीयम् ।
(२) अथवा तत्रापि विषयमनिवेश्य स्पार्शनत्वावच्छिन्नं प्रति स्वीयचाक्षुषनिष्ठविशेष्यतानिरूपितविषयतासम्बन्धावच्छिन्नप्रकारताश्रयसमवेतत्वस्वसमवायिनिरूपितोपदशितस्वाश्रयीभूतचक्षःसंयुक्तत्वादिघटितपरम्परासम्बन्धावच्छिन्नवृत्तित्वोभयसम्बन्धेन चाक्षुषत्वप्रकारकेच्छाविशिष्टचाक्षुषसामग्री प्रतिबन्धिका, प्रतिबध्यतावच्छेदकः सम्बन्धः समवायः, प्रतिबन्धकतावच्छेदकः स्वाश्रयीभूतचक्षुःसंयुक्तमनःप्रतियोगिकविजातीयसंयोगवत्त्वम, नातो विषयपुरुषभेदेन प्रतिबध्यप्रतिबन्धकभावबाहुल्यम् ।
__ (३) एवं स्पार्शनत्वावच्छिन्नं प्रति चाक्षुषविषयकेच्छाविशिष्टचाक्षुषसामग्रया अपि प्रतिबन्धकता बोध्या, नातो भिन्नविषये चाक्षुषविषयकेच्छाविशिष्टचाक्षुषसामग्रीकाले स्पार्शनेच्छादशायां स्पार्शनापत्तिः । अत्र चाक्षुषसामग्रयां चाक्षुषेच्छावैशिष्ट्यं च स्वीयचाक्षुषनिष्ठविशेष्यतानिरूपितविषयतासम्बन्धावच्छिन्नप्रकारताश्रयीभूतत्वक्संयोगाद्यभाववत्समवेतत्व-स्वसमवायिनिरूपितोपदर्शितपरम्परासम्बन्धावच्छिन्नवृत्तित्वोभयसम्बन्धेन निवेशनीयम्, नातः समानविषये घटज्ञानं जायतां घटस्पार्शनं च जायतामितीच्छासत्त्वे
Page #54
--------------------------------------------------------------------------
________________
२०
अष्टसहस्त्रीतात्पर्यविवरणम्
अष्टसहस्त्रीतात्पर्यविवरणम्
घटचाक्षुषसामग्रीकाले तत्स्पार्शनानुपपत्तिः, न वैकपुरुषस्य चाक्षुषेच्छासत्त्वे पुरुषान्तरस्य चाक्षुषसामग्रीकाले स्पार्शनेच्छाविशिष्टस्पार्शनसामग्रीदशायां स्पार्शनानुपपत्तिः । अत्र प्रतिबन्धकतावच्छेदकः सम्बन्ध उपदर्शितपरम्परारूप:, प्रतिबध्यतावच्छेदकश्च समवायः, नातः पुरुषभेदेन प्रतिबध्यप्रतिबन्धकभाववृद्धिः ।
(४) एवं घटादिस्पार्शनेच्छाविशिष्टघटादिस्पार्शनसामग्रीकाले घटादिचाक्षुषेच्छाभावदशायां घटादिचाक्षुषवारणाय घटादिचाक्षुषं प्रति घटादिचाक्षुषेच्छाविरहविशिष्टस्पार्शनेच्छाविशिष्टस्पार्शनसामग्रया अपि प्रतिबन्धकत्वं बोध्यम्, अत्रापि समानभिन्नविषयभेदेन विषयनिवेशानिवेशाभ्यां द्वौ द्वौ प्रतिबध्यप्रतिबन्धकभावौ कल्पनीयावित्यादि निरस्तम् ।
क्षयोपशमानुसारेणाशुवाहिन्युपयोगद्वयनियतचाक्षुषसामग्र्यादिबलवत्त्वकल्पनाया
अयोगाद् भावप्रत्यासत्तिरूपेच्छा भेदैरिव द्रव्यक्षेत्रकालप्रत्यासत्तिभेदैरपि क्वचित्कदाचित्कस्यचित्प्रधानोपसर्जनभावसम्भवात् तावद्विशेषणानां चासर्वज्ञैर्दुर्ज्ञेयत्वेन यथास्थितबलवत्त्वापरिज्ञानादुभयसमाजाभिमतस्थले च पश्यामीत्यस्येव स्पृशामीत्यस्याप्यनुभवस्य सर्वसिद्धत्वात् । अत एव चाक्षुषस्पार्शनसामग्रीद्वयस्थले स्पार्शनमेव जायते, न चाक्षुषं, चाक्षुषसामग्र्या आलोकसंयोगादिघटिताया गुरुत्वाल्लघुभूतायास्त्वक्संयोगादिघटितस्पार्शनसामग्र्या एव प्रतिबन्धकत्वौचित्यादिति नैयायिकैकदेशिनः । न चैवं चाक्षुषेच्छाविशिष्टचाक्षुषसामग्रीकाले स्पार्शनेच्छाभावदशायां स्पार्शनापत्तिवारणाय स्पार्शनेच्छाविरहविशिष्टचाक्षुषेच्छाविशिष्टचाक्षुषसामग्र्याः प्रतिबन्धकत्वकल्पने स्पार्शनेच्छाभावचाक्षुषेच्छयोविशेषणविशेष्यभावे विनिगमनाविरहेण प्रतिबध्यप्रतिबन्धकभावद्वयं प्रतिबध्यतावच्छेदकशरीरगौरवं चेति दूषणप्रसङ्गः, सम्प्रदायिमते स्पार्शनेच्छाऽभावचाक्षुषेच्छयोर्विभिन्नप्रतिबन्धकतावच्छेदककोटौ निवेशेनैकत्र निवेशप्रयुक्तशरीरगौरवाधिक्याभावादिति शङ्कनीयम् । सम्प्रदायिमतेऽपि स्पार्शनेच्छाविशिष्टस्पार्शनसामग्रीकाले चाक्षुषेच्छाभावदशायां चाक्षुषापत्तिवारणायावश्यं चाक्षुषं प्रति चाक्षुषेच्छाविरहविशिष्टस्पार्शनेच्छाविशिष्टस्पार्शनसामग्र्याः प्रतिबन्धकत्वं कल्पनीयमिति प्रतिबध्यप्रतिबन्धकभावद्वयस्य प्रतिबन्धकतावच्छेदकशरीरगौरवस्य च तौल्यात् । न च तथापि चाक्षुषसामग्र्या आलोकसंयोगादिघटितत्वेन स्पार्शनसामग्रीमपेक्ष्य गुरुत्वादेकदेशिमते प्रतिबन्धकतावच्छेदकशरीर गौरवम्, (A) नव्यमते आलोकासंयुक्तादिव्यावृत्तविजातीयचक्षुःसंयोगस्यैव, (B) अस्मन्मते तु योग्यताविशेषस्यैव चाक्षुषसामग्रीत्वात्तत्रालोकसंयोगाद्यनिवेशनेनोक्त
Page #55
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि. १-का. ३]
- अष्टसहस्रीतात्पर्यविवरणम्
गौरवाभावात् । (C) स्वविशिष्टचाक्षुषेच्छाविशिष्टचाक्षुषसामग्रीसम्बन्धेन स्पार्शनेच्छाभावस्य प्रतिबन्धकत्वे दोषाभावः, सम्बन्धगौरवस्यादोषत्वादित्यपरे ।
यत्त त्वङमनोयोगस्य जन्यज्ञानत्वावच्छिन्नं प्रति हेतृत्वाच्चाक्षषसामग्रीदशायां स्पार्शनसामग्र्यास्तन्मात्रापगमेन विघटयितुमशक्यत्वादवश्यं स्पार्शनं प्रति चाक्षुषसामग्रया: प्रतिबन्धकत्वं कल्पनीयमिति, तन्न, सुषुप्तौ ज्ञानाभावस्य विजातीयमनःसंयोगस्थानीयोपयोगाभावेनैवोपपत्ती जन्यज्ञानसामान्ये त्वङ्मनोयोगस्य हेतुत्वे मानाभावात्, अन्यथा स्पार्शनं प्रति चाक्षुषरासनादिनानासामग्रीप्रतिबन्धकत्वकल्पने गौरवापातात्, समवायेन जन्यज्ञानत्वावच्छिन्नं प्रति त्वङ्मनोयोगस्य स्वाश्रयीभूतमनःप्रतियोगिकविजातीयसंयोगवत्त्वरूपपरम्परासम्बन्धेन कारणत्वकल्पनापेक्षया समवायसम्बन्धेनोपयोगहेतुत्वे एव लाघवाच्च ।
एतेन द्रव्यस्पार्शनेऽवच्छेदकतासम्बन्धेन त्वङ्मनोयोगस्य हेतुत्वात् सामग्रीद्वयसमाजेऽतीन्द्रियत्वेन फलबलकल्प्यस्य तस्यावच्छेदकतासम्बन्धेन विषयेऽनभ्युपगमादेवोपपत्तौ न स्पार्शने चाक्षुषसामग्रीप्रतिबन्धकत्वमित्यपि अपास्तम् । विषयतासम्बन्धेन प्रत्यक्षं प्रत्यवच्छेदकतासम्बधेनेन्द्रियमनोयोगस्य हेतुत्वे प्रत्यक्षं प्रति विषयेन्द्रियसन्निकर्षस्य हेतुत्वोच्छेदापत्तेविषयसन्निकर्षविरहदशायां विषयेऽवच्छेदकतयेन्द्रियमनोयोगाभावाभ्युपगमेनैवोपपत्तेः । तस्मात् सामान्यतो विशेषतश्चोपयोगहेतुतयैव सर्वसामञ्जस्यमिति मन्तव्यम् । अत्र श्लोकाः
भिन्नप्रमाणावरणक्षयोपशमसम्भवाः । उपयोगाः फलं कुर्युभिन्नमेव प्रमातृषु ॥१॥ ईहापोहादिरूपाणां, तेषां भिन्नतया फले । न सामग्रीद्वयावेशादेकैकप्रतिबन्धनम् ॥२॥ तद्देशकालावच्छिन्नकार्येऽन्यापादनं तु न । तथाभव्यतयाऽऽक्षेपात्, कारणानां नियोगतः ॥३॥ कल्प्ये फलबलादेवोपयोगस्योचिते बले ।
भिन्नेऽर्थे चासमावेशे, न दोषः कश्चिदीक्ष्यते ॥४॥ इति । परस्परविरुद्धसमयाभिधायिन इति भाष्ये हेतुगर्भ विशेषणं, परस्परविरुद्ध
Page #56
--------------------------------------------------------------------------
________________
२ २
अष्टसहस्त्रीतात्पर्यविवरणम्
( भा० ) न च सर्वे सर्वदर्शिनः परस्परविरुद्धसमयाभिधायिनः ।
तदुक्तम्
सुगतो यदि सर्वज्ञो कपिलो नेति का प्रमा ।
तावुभौ यदि सर्वज्ञौ मतभेदः कथं तयोः ? || (
) इति ।
( भा० ) ततोऽनैकान्तिको हेतुः
तीर्थकरत्वाख्यो न कस्यचित् महत्त्वं साधयतीति कश्चिदेव गुरुर्महान् भवेत् ? नैव भवेदित्यायातम् ।
( भा० ) अत एव न कश्चित्पुरुषः सर्वज्ञः
स्तुत्यः श्रेयोऽर्थिनां श्रुतेरेव श्रेयः साधनोपदेशप्रसिद्धेरित्यपरः । तं प्रत्यपीयमेव कारिका योज्या । तीर्थं कृन्तन्तीति तीर्थकृतो मीमांसकाः सर्वज्ञागमनिराकरणवादित्वात् । तेषां समयास्तीर्थकृत्समयास्तीर्थच्छेदसम्प्रदाया भावनादिवाक्यार्थप्रवादा इत्यर्थः । तेषां च परस्परविरोधादाप्तता संवादकता नास्तीति कश्चिदेव सम्प्रदायो भवेद् गुरुः संवादको नैव भवेदिति व्याख्यानात् । तदेवं वक्तव्यम्
भावना यदि वाक्यार्थो नियोगो नेति का प्रमा ।
तावुभौ यदि वाक्यार्थो हतौ भट्टप्रभाकरौ ॥ १ ॥ इति (प्रमाणवार्तिकालङ्कार)
कार्येऽर्थे चोदनाज्ञानं स्वरूपे किन्न तत्प्रमा ।
द्वयोश्चेद्धन्त तौ नष्टौ भट्टवेदान्तवादिनौ ॥२॥ इति (तत्त्वा० श्लो० वा० १.६९)
अष्टसहस्त्रीतात्पर्यविवरणम्
समयाभिधायित्वान्न सर्वे सर्वदर्शिन इत्यर्थः । न कस्यचिदिति सुगताद्येकं पक्षीकृत्य महत्त्वे साध्ये तीर्थकरत्वहेतोः कपिलादिना व्यभिचारादित्यर्थः । नैव भवेदित्यायातमिति काक्वेति शेषः । अत एवेत्यादि लब्धावकाशस्य मीमांसकस्य शङ्केयं । श्रुतेरेवेति अपौरुषेयत्वेन तस्याः प्रमाजनकत्वनिश्चयात्, पौरुषेयत्वे भ्रमादिसम्भवादप्रामाण्यशङ्काया अनिरासादिति भावः । इत्यपर इति मीमांसकः शङ्कत इत्यर्थः । तस्यापि निराकरणमावृत्त्यानयैव कारिकयेत्याशयवानाह - तं प्रत्यपीयमेवेत्यादि । भावना यदीति वाक्यार्थो== विधिवाक्यार्थः । अत्र भावना वाक्यार्थो भाट्टानां, नियोगः प्राभाकराणाम् । कार्येऽर्थे इि चोदनाज्ञानं=विधिप्रत्ययघटितवाक्यार्थज्ञानम्, स्वरूपे = कार्यतानुपरक्ते ।
Page #57
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि. १-का. ३]
२३
[अत्र भाट्टो नियोगवादनिराकरणार्थं तस्य पूर्वपक्षं स्पष्टयति] ननु च भावनावाक्यार्थ इति सम्प्रदायः श्रेयान् नियोगो न, नियोगे बाधकसद्भावात् । नियुक्तोऽहमनेनाग्निष्टोमादिवाक्येनेति निरवशेषो योगो हि नियोगस्तत्र मनागप्ययोगस्य सम्भवाभावात्, स चानेकविधः प्रवक्तृमतभेदात् ।
[एकादशधा नियोगस्य क्रमशः वर्णनम् ।]
अष्टसहस्त्रीतात्पर्यविवरणम्
॥ कार्यान्वितशक्तिवादः ॥ Tअत्र हि कार्यान्वितशक्तिवादिनः-प्रवृत्तौ कार्यत्वविशिष्टज्ञानस्य हेतुत्वावधारणात् प्रयोजकवृद्धवाक्यश्रवणानन्तरं प्रयोज्यवृद्धप्रवृत्तौ हेत्वाकाङ्क्षायामुपस्थितत्वाच्छब्दमेव तथाऽवधारयंस्तटस्थस्तन्निर्वाहिकां कार्यत्वान्विते शब्दत्वावच्छेदेन शक्तिं कल्पयति, तदन चावापोद्वापाभ्यां घटादिपदे शक्तिं गण्हन्नाद्यकल्पनानुरोधात्कार्यान्वितघटादावेव तां कल्पयति न तु केवलघटादावेव, आद्यव्युत्पत्तिविरोधादिति, कार्यतावाचकपदसमभिव्याहाराभावे सर्वं वाक्यं मूकमेव, व्यवहारस्त्वसंसर्गाग्रहात् । न च सर्वस्य पदस्य कार्यान्विते शक्तेस्तद्वाचकपदासमभिव्याहारो दुर्वचः, शक्तिद्विविधाऽनुभाविका स्मारिका च, आद्या कार्यत्वान्विते, द्वितीया च जाताविति व्यवस्थितेः, तथा च घटादिपदात्कार्यत्वानुपस्थितेन तदन्वयबोधः, कार्यत्वान्वयबोधे तदपस्थितेरपि हेतुत्वादिति नार्थवादस्य प्रामाण्यम् इत्याहः, तन्न आवापोद्वापाभ्यां लाघवाद् घटादिमात्र एव घटादिपदशक्तिग्रहात् कार्यत्वान्वयस्य चान्यलभ्यत्वात् प्रथमं शब्दत्वावच्छेदेन कार्यत्वान्वितशक्तिग्रहेऽपि यदा कार्यत्वस्यान्यलभ्यत्वोपस्थितिस्तदा तदंशत्यागेन शुद्धघटादौ घटादिपदशक्तिग्रहौचित्यात् प्रथमप्रवृत्तकल्पनायाश्चरमप्रवृत्तकल्पनया लाघवतर्कसध्रीचीनया बाधात् । अत एव स्वरूपपरकाव्यादिभ्योऽनुभवसिद्धोऽन्वयानुभव उपपद्यते तत्रासंसर्गाग्रहमात्रेण व्यवहारस्वीकारेऽन्यत्रापि तथोपपत्तौ शब्दप्रामाण्यप्रत्याशाया अप्यभावापत्तेरिति नैयायिकादयः ।
द्वयोश्चेदिति । अत्र कार्यान्वितव्युत्पन्नीयबोधे कार्यविषयकत्वेन स्वरूपव्युत्पन्नीयबोधे च स्वरूपविषयकत्वेन वाक्यस्य प्रामाण्यमिति स्याद्वादाश्रयणे एकान्तपक्षद्वयनिरासो द्रष्टव्यः । 'कुब्जशक्तिवादस्तु सर्वस्य सर्वार्थत्वे व्युत्पत्तिकुब्जत्व एव सङ्गच्छते, अन्यथार्थवादेऽपि शक्तिग्रहाधीनकार्यत्वोपस्थितेः शाब्दबोधे तत्प्रवेशध्रौव्यप्रसङ्गात, नयविशेषाधीने तु प्रामाण्याप्रामाण्ये तत्र तत्रापेक्षिकत्वादेवाविरुद्ध इति दिक ।
Page #58
--------------------------------------------------------------------------
________________
२ ४
अष्टसहस्त्रीतात्पर्यविवरणम्
(१) केषाञ्चिल्लिङादिप्रत्ययार्थः शुद्धोऽन्यनिरपेक्षः कार्यरूपो नियोगः ।
प्रत्ययार्थो नियोगश्च यतः शुद्धः प्रतीयते । कार्यरूपश्च तेनात्र शुद्धं कार्यमसौ मतः ॥१॥
विशेषणं तु यत्तस्य किञ्चिदन्यत् प्रतीयते । प्रत्ययार्थो न तद्युक्तं धात्वर्थः स्वर्गकामवत् ॥२॥
प्रेरकत्वं तु यत्तस्य विशेषणमिष्यते ।
तस्याप्रत्ययवाच्यत्वाच्छुद्धेः कार्ये नियोगता ॥३॥ [ प्रमाणवार्तिकालङ्कार २.८७.८८.८९]
इति वचनात् ।
(२) परेषां शुद्धा प्रेरणा नियोग इत्याशयः ।
प्रेरणैव नियोगोऽत्र शुद्धः सर्वत्र गम्यते ।
नाऽप्रेरितो यतः कश्चिन्नियुक्तं स्वं प्रबुध्यते ॥४॥ [ प्रमाणवार्तिकालङ्कार २.९०]
(३) प्रेरणासहितं कार्यं नियोग इति केचिन्मन्यन्ते ।
ममेदं कार्यमित्येवं ज्ञातं पूर्वं यदा भवेत् ।
स्वसिद्धौ प्रेरकं तत्स्यादन्यथा तन्न सिद्ध्यति ॥५॥ [ प्रमाणवार्तिकालङ्कार २.९१]
(४) कार्यसहिता प्रेरणा नियोग इत्यपरे ।
प्रेर्यते पुरुषो नैव कार्येणेह विना क्वचित् ।
ततश्च प्रेरणा प्रोक्ता नियोगः कार्यसङ्गता ॥६॥ [ प्रमाणवार्तिकालङ्कार २.९२] (५) कार्यस्यैवोपचारतः प्रवर्त्तकत्वं नियोग इत्यन्ये ।
अष्टसहस्त्रीतात्पर्यविवरणम्
T॥ नियोगवादः ॥
(१) लिङादिप्रत्ययार्थ इति आदिना लोट्-तव्यग्रहणम् । अन्यनिरपेक्षो नियोजकत्वादिनाऽविशिष्टस्तस्यान्यलभ्यत्वेन तदन्तर्भावेन विधिशक्यत्वाप्रतिपादनात् ।
'अत्रेयं प्राभाकराणां मूलप्रक्रिया स्वर्गकामो यजेतेत्यत्र स्वर्गकामस्येष्टसाधनं याग इति तावन्नार्थः, प्रकृते इष्टस्य स्वर्गस्य साधनताया यागे विधिना बोधयितुमशक्यत्वात्,
Page #59
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. ३]
प्रेरणाविषयः कार्यं न तु तत्प्रेरकं स्वतः । व्यापारस्तु प्रमाणस्य प्रमेय उपचर्यते ॥७॥ [प्रमाणवार्तिकालङ्कार २.९३] (६) कार्यप्रेरणयोः सम्बन्धो नियोग इत्यपरे । प्रेरणा हि विना कार्य प्रेरिका नैव कस्यचित् । कार्यं वा प्रेरणायोगो नियोगस्तेन सम्मतः ॥८॥ [प्रमाणवार्तिकालङ्कार २.९४] (७) तत्समुदायो नियोग इति चापरे । परस्पराविनाभूतं द्वयमेतत्प्रतीयते । नियोगः समुदायोऽस्मात् कार्यप्रेरणयोर्मतः ॥९॥ [प्रमाणवार्तिकालङ्कार २.९५] (८) तदुभयस्वभावविनिर्मुक्तो नियोग इति चान्ये । सिद्धमेकं यतो ब्रह्मगतमाम्नायतः सदा । सिद्धत्वेन न तत्कार्यं प्रेरकं कुत एव तत् ॥१०॥ [प्रमाणवार्तिकालङ्कार २.९६] (९) यन्त्रारूढो नियोग इति कश्चित् । कामी यत्रैव यः कश्चिन्नियोगे सति तत्र सः । विषयारूढमात्मानं मन्यमानः प्रवर्तते ॥११॥ [प्रमाणवार्तिकालङ्कार २.९७] (१०) भोग्यरूपो नियोग इत्यपरः । ममेदं भोग्यमित्येवं भोग्यरूपं प्रतीयते । ममत्वेन च विज्ञानं भोक्तर्येव व्यवस्थितम् ॥१२॥ [प्रमाणवार्तिकालङ्कार २.९८] स्वामित्वेनाऽभिमानो हि भोक्तुर्यत्र भवेदयम् । भोग्यं तदेव विज्ञेयं तदेवं स्वं निरुच्यते ॥१३॥ [प्रमाणवार्तिकालङ्कार २.९९]
अष्टसहस्त्रीतात्पर्यविवरणम्
आशुविनाशिनो यागस्य कालान्तरभाविस्वर्गं प्रति साक्षात् साधनताया बाधितत्वात्, परम्परया तत्साधनत्वस्य च परम्पराघटकापूर्वानुपस्थित्यैवानुपस्थितेः, कार्यत्वमपि नात्र विधिना बोधयितुं शक्यम्, योग्यताभावात्, शाब्दे च योग्यताज्ञानस्य हेतुत्वात्, प्रकृते हि कामिकार्यत्वान्वये इष्टसाधनत्वमन्वयप्रयोजकं रूपं योग्यता, तच्च दुर्ग्रहमिति । तस्मात्कार्यमपूर्वमेव विध्यर्थस्तस्मिन् यागस्य विषयतयान्वयः, कार्यत्वेन कार्यसामान्य एव शक्तिग्रहेऽपि च योग्यताबलादपूर्वव्यक्तेर्लाभः, न हि यागविषयकमन्यत् कार्यं सम्भवति ।
Page #60
--------------------------------------------------------------------------
________________
२६
अष्टसहस्त्रीतात्पर्यविवरणम् साध्यरूपतया येन ममेदमिति गम्यते । तत्प्रसाध्येन रुपेण भोग्यं स्वं व्यपदिश्यते ॥१४॥ [प्रमाणवार्तिकालङ्कार २.१००] सिद्धरूपं हि यद्भोग्यं न नियोगः स तावता । साध्यत्वेनेह भोग्यस्य प्रेरकत्वान्नियोगता ॥१५॥ [प्रमाणवार्तिकालङ्कार २.१०१] (११) पुरुष एव नियोग इत्यन्यः । ममेदं कार्यमित्येवं मन्यते पुरुषः सदा । पुंसः कार्यविशिष्टत्वं नियोगोऽस्य च वाच्यता ॥१६॥ [प्रमाणवार्तिकालङ्कार २.१०२] कार्यस्य सिद्धौ जातायां तद्युक्तः पुरुषस्तदा । भवेत्साधित इत्येवं पुमान् वाक्यार्थ उच्यते ॥१७॥ [प्रमाणवार्तिकालङ्कार पृ० २.१०३]
[अत्रत्यात् भाट्टः नियोगं निराकरोति] सोऽयमेकादशप्रकारोऽपि नियोगो विचार्यमाणो बाध्यते । प्रमाणद्यष्टविकल्पानतिक्रमात् ।
तदुक्तम्प्रमाणं किं नियोग: स्यात् प्रमेयमथवा पुनः । उभयेन विहीनो वा द्वयरूपोऽथवा पुनः ॥१॥ [प्रमा० वा० अल० २.१०४-१०५] शब्दव्यापाररूपो वा व्यापारः पुरुषस्य वा । द्वयव्यापाररूपो वा द्वयाव्यापार एव वा ॥२॥ [तत्त्वार्थ श्लो० वा० १.३२ ११२-११३]
अष्टसहस्त्रीतात्पर्यविवरणम्
(शङ्का) स्वज्ञानादिकं सम्भवतीति चेत्, न तत्र स्वर्गकामस्यान्वयासम्भवात्, स हि नियोज्यनियोजकभावलक्षणस्तत्र स्वर्गकामो नियोज्यः, कार्यं च नियोजकं, नियोजकत्वं च तत्कामिकार्यतया प्रतीयमानत्वम्, तत्र चान्वयप्रयोजकं काम्यसाधनत्वम्, न च काम्यस्वर्गसाधनत्वं यागविषयकज्ञानादौ सम्भवतीति योग्यताबलाद् यागविषयकं कार्य स्वर्गकामीयं स्वर्गकामो यागविषयककार्यवानित्येव वानुभवो भवन् योग्यतयापूर्वमालम्बते । एवं च काम्ये क्लृप्तशक्तिलिङ् नित्यनिषेधविधिस्थलेऽप्यपूर्वमाह लोके च पचेद् इत्यादावपूर्वे तात्पर्याभावात् कार्यत्वे लक्षणेति ।
शुद्धप्रेरणादयो नियोगा एकदेशिनां भ्रान्तानां वा मते । (२) तत्र शुद्धा प्रेरणा नियोग इति पक्षे प्रेरणाया नियोज्यतारूपत्वात् यागनिरूपितनियोज्यतावान् स्वर्गकाम इत्ययमाद्यो
Page #61
--------------------------------------------------------------------------
________________
प्रथमो भाग: [ परि० १ - का० ३]
२७
[नियोगस्य प्रमाणप्रमेयादिरूपाभ्युपगमे दोषारोपणम् ]
(१) तत्रैकादशभेदोऽपि नियोगो यदि प्रमाणं तदा विधिरेव वाक्यार्थ इति वेदान्तवादप्रवेशः प्रभाकरस्य स्यात् प्रमाणस्य चिदात्मकत्वात्, चिदात्मनः प्रतिभासमात्रत्वात्, तस्य च परब्रह्मत्वात् । प्रतिभासमात्राद्धि पृथग् विधिः कार्यरूपतया न प्रतीयते घटादिवत् । प्रेरकतया वा नानुभूयते वचनादिवत् । कर्मकरणसाधनतया हि तत्प्रतीतौ कार्यताप्रेरकताप्रत्ययो युक्तो नान्यथा । किं तर्हि द्रष्टव्यो रेऽयमात्मा श्रोतव्योऽनुमन्तव्यो निदिध्यासितव्यः [बृहदा० ४.५.६]
इत्यादिशब्दश्रवणादवस्थान्तरविलक्षणेन प्रेरितोऽहमिति जाताकूतेनाहङ्कारेण स्वयमात्मैव प्रतिभाति स एव विधिरिति वेदान्तवादिभिरभिधानात् ।
(२) प्रमेयत्वं तर्हि नियोगस्याऽस्तु प्रमाणत्वे दोषाभिधानाद् इत्यप्यसत्, प्रमाणाभावात् । प्रमेयत्वे हि तस्य प्रमाणमन्यद्वाच्यम्, तदभावे प्रमेयत्वायोगाद् । श्रुतिवाक्यं प्रमाणमिति चेत्, तस्याचिदात्मकत्वे प्रमाणत्वाघटनादन्यत्रोपचारात् । संविदात्मकत्वे श्रुतिवाक्यस्य पुरुष एव श्रुतिवाक्यमिति स एव प्रमाणम् । तत्संवेदनविवर्तस्तु नियुक्तोऽहमित्यभिमानरूपो नियोगः प्रमेयत्वमिति नायं पुरुषादन्यः प्रतीयते यतो वेदान्तवादिमतप्रवेशोऽस्मिन्नपि पक्षे न भवेत् ।
(३) तर्हि प्रमाणप्रमेयरूपो नियोगो भवतु इत्यप्ययुक्तम् संविद्विवर्तत्वापत्तेः, अन्यथा प्रमाणप्रमेयरूपतानुपपत्तेः । तथा च स एव चिदात्मोभयस्वभावतयात्मानमादर्शयन्नियोग इति सिद्धो ब्रह्मवादः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
बोधः, ततो नियोज्येन नियोजकाक्षेपात् यागविषयकं स्वर्गकामीयं नियोजकमित्यौपादानिकोऽपूर्वविषयो द्वितीय इत्यादि बोध्यम् । (३) प्रेरणासहितं कार्यं नियोग इति पक्षे प्रेरणा नियोजकत्वं तद्विशिष्टे कार्ये लिङः शक्तिः, तन्न कार्ये यागस्य विषयतया नियोजकत्वे चैकदेशेऽपि स्वर्गकामस्य निरूपकतया व्युत्पत्तिविशेषादन्वय इति द्रष्टव्यम् ।
(४) तुर्यः पक्षोऽप्यनयैव दिशा व्याख्येयः । परं प्रेरणाविशेष्यकानुभवानुरोधाद्भेदः । (५) कार्यस्यैवापूर्वस्य सम्बन्धितया तत्त्ववृत्त्या शब्दप्रमाणनिष्ठमप्युपचारत
Page #62
--------------------------------------------------------------------------
________________
२८
अष्टसहस्त्रीतात्पर्यविवरणम् (४) अनुभयस्वभावो नियोग इति चेत्, तर्हि संवेदनमात्रमेव पारमार्थिकं, तस्य कदाचिदप्यहेयत्वादनुभयस्वभावत्वसम्भवात् । प्रमाणप्रमेयत्वव्यवस्थाभेदविकलस्य सन्मात्रदेहतया तस्य वेदान्तवादिभिर्निरूपितत्वात्तन्मतप्रवेश एव ।
(५) यदि पुनः शब्दव्यापारो नियोग इति मतं तदा भट्टमतानुसरणमस्य दुर्निवारम्, शब्दव्यापारस्य शब्दभावनारूपत्वात् ।।
(६) अथ पुरुषव्यापारो नियोगस्तदापि परमतानुसरणम्, पुरुषव्यापारस्यापि भावनास्वभावत्वात्, शब्दात्मव्यापारभेदेन भावनायाः परेण द्वैविध्याभिधानात् ।
(७) तदुभयरूपो नियोग इति चेत्, तर्हि पर्यायेण युगपद्वा ? यदि पर्यायेण स एव दोषः क्वचित्कदाचिच्छब्दव्यापारस्य पुरुषव्यापारस्य च भावनास्वभावस्य नियोग इति नामकरणात् । युगपदुभयस्वभावत्वं पुनरेकत्र विरुद्धं न शक्यं व्यवस्थापयितुम् ।
(८) तर्हि तदनुभयव्यापाररूपो नियोगोऽङ्गीकर्त्तव्य इति चेत्, सोऽपि विषयस्वभावो वा स्यात् फलस्वभावो वा स्यान्निस्स्वभावो वा ? गत्यन्तराभावात् । विषयस्वभाव इति चेत्, कः पुनरसौ विषयः ? 'अग्निष्टोमेन यजेत स्वर्गकाम' इत्यादिवाक्यस्याऽर्थो यागादिविषय इति चेत ? स तदाक्यकाले स्वयमविद्यमानो विद्यमानो वा ? यद्यविद्यमानस्तदा तत्स्वभावो नियोगोऽप्यविद्यमान एवेति कथमसौ वाक्यार्थः खपुष्पवत् ? बुद्ध्यारूढस्य भाविनस्तस्य वाक्यार्थत्वे सौगतमतानुसरणप्रसङ्गः । अथ तद्वाक्यकाले विद्यमानोऽसौ तर्हि न नियोगो वाक्यस्यार्थः, तस्य यागादिनिष्पादनार्थत्वात्, निष्पन्नस्य च यागादेः पुननिष्पाद
- अष्टसहस्रीतात्पर्यविवरणम्
आरोप्यमाणं ज्ञानगतप्रत्यक्षत्वमिव विषयनिष्ठतया प्रवर्तकत्वं नियोग इति पञ्चमः ।
(६) सम्बन्धमुख्यविशेष्यकनियोगानुभवानुरोधेन कार्यप्रेरणयोः सम्बन्धो नियोगः कल्प्यत इति षष्ठः ।
(७) विशेषणविशेष्यभावे विनिगमकाभावात् स्वातन्त्र्ययोगानुभूयमानत्वाच्च तेषां कार्यप्रेरणासम्बन्धानां समुदायो नियोगः, खण्डशः त्रिषु शक्तिकल्पनादिति सप्तमः ।
Page #63
--------------------------------------------------------------------------
________________
२९
प्रथमो भागः [ परि. १-का. ३] नायोगात्, पुरुषादिवत् । अथ तस्य किञ्चिदनिष्पन्नं रूपं तदा तन्निष्पादनार्थो नियोग इति मतम्, तर्हि तत्स्वभावो नियोगोऽप्यनिष्पन्न इति कथं वाक्यार्थः ? स्वयमसन्निहितस्य कल्पनारूढस्य वाक्यार्थत्वे स एव सौगतमतप्रवेशः ।
(९) फलस्वभावो नियोग इत्ययमपि पक्षो न कक्षीकर्तव्यः, तस्य नियोगत्वाघटनात् । न हि स्वर्गादिफलं नियोगः, फलान्तरपरिकल्पनप्रसङ्गात्, निष्फलस्य नियोगस्याऽयोगात्, फलान्तरस्य च फलस्वभावनियोगवादिनां नियोगत्वापत्तौ तदन्यफलपरिकल्पनेऽनवस्थाप्रसङ्गः । फलस्य वाक्यकाले स्वयमसन्निहितत्वाच्च तत्स्वभावो नियोगोऽप्यसन्निहित एवेति कथं वाक्यार्थः ? तस्य वाक्यार्थत्वे निरालम्बनशब्दवादाश्रयणात् कुतः प्रभाकरमतसिद्धिः ? । निःस्वभावो नियोग इत्ययमपि पक्षोऽनेनैव प्रतिक्षिप्तः ।
[नियोगस्य सदसदादिरूपस्वीकारे दोषारोपणम्] किञ्च सन्नेव वा नियोगः स्यादसन्नेव वोभयरूपो वानुभयरूपो वा ? प्रथमपक्षे विधिवाद एव । द्वितीयपक्षे निरालम्बनवादः । तृतीयपक्षे तूभयदोषानुषङ्गः । चतुर्थपक्षे व्याघातः, सत्त्वासत्त्वयोः परव्यवच्छेदरूपयोरेकतरस्य निषेधेऽन्यतरस्य विधानप्रसक्तेः, सकृदेकत्र प्रतिषेधायोगात् । सर्वथा सदसत्त्वयोः प्रतिषेधेऽपि कथञ्चित्सदसत्त्वाविरोधाददोष इति चेत् ? स्याद्वादाश्रयणप्रसङ्गः प्रभाकरस्य ।
[नियोगः प्रवर्तकोऽप्रवर्तकोवेत्युभयपक्षे दोषारोपणम्]
अष्टसहस्त्रीतात्पर्यविवरणम्
(८) तदुभयस्वभावविनिर्मुक्तो घटादिवदकार्यत्वाद्वचनादिवदप्रेरकत्वाच्च कार्यप्रेरणोभयस्वभावरहितो ब्रह्मात्मैव नियोगस्तद्विवर्त्तस्यैवावस्थाविशेषस्य वेदवाक्यात् प्रतीतेरखण्डमेव हि वाक्यमखण्ड एव च वाक्यार्थ इति सिद्धान्तादित्यष्टमः ।
(९) यन्त्रारूढो दृष्टान्ततया यत्र स यन्त्रारूढो विषयारूढत्वाभिमानो नियोग इत्यर्थः । अत्र चाऽऽरूढत्वेऽभिमाने च लिङः शक्तिः, आरूढत्वे निरूपितत्वेन विषयस्य, तस्य च स्वरूपसम्बन्धेनाभिमाने, तस्य च समवायेन कामिन्यन्वय इति यजेत स्वर्गकाम इत्यतो यागारूढत्वाभिमानवान् स्वर्गकाम इति बोध इति नवमः ।
Page #64
--------------------------------------------------------------------------
________________
३०
अष्टसहस्रीतात्पर्यविवरणम् किञ्च नियोगः सकलोऽपि प्रवर्तकस्वभावो वा स्यादप्रवर्तकस्वभावो वा ? प्रवर्तकस्वभावश्चेत् ? प्राभाकराणामिव ताथागतादीनामपि प्रवर्तकः स्यात्, तस्य सर्वथा प्रवर्तकत्वात् । तेषां विपर्यासादप्रवर्तक इति चेत्, परेषामपि
अष्टसहस्रीतात्पर्यविवरणम्
(१०) भोग्यरूपो नियोग इति दशमः, अत्र लिङो भोग्ये शक्तिस्तस्य भोगसम्बन्धेन स्वर्गकामान्वितस्य तादात्म्येन यागेऽन्वय इति स्वर्गकामभोग्यो याग इति बोधः । यद्यपि भोग्यत्वं फलनिष्ठं तथापि विषयनिष्ठतया तज्ज्ञानं प्रवर्तकमित्येतत्प्रकारानुसरणम् ।
(११) पुरुष एव नियोग इत्येकादशः. अत्र कार्यत्वेन कार्ये कार्यविशिष्टत्वेन कार्यविशिष्टे वा शक्तेः स्वर्गकामो यागकार्यो यागकार्यविशिष्ट इति वा बोधः ।
किञ्च नियोगः सकलोऽपीत्यादि निश्चिताप्रामाण्यकत्वाविशेषितनियोगाश्रयणेऽयं दोषः, अन्यथा नियोगातिरिक्तविधिवाक्यार्थवादेऽप्येतत्पक्षद्वयकृतदोषानतिवृत्तेर्माध्यमिकमताश्रयणेन चैतदोषाभिधानमिति द्रष्टव्यम् ।
अभ्रान्तप्रवृत्तौ नियोगहेतुत्वे न दोष इत्याशयवान् शङ्कते-तेषामित्यादि, तेषां =ताथागतादीनाम्, अभ्रान्तत्वस्य प्रवृत्तिविशेषणत्वे नियोगप्रामाण्यस्य सर्वप्रवृत्त्यविशेषे तस्या अभ्रान्तत्वं सर्वं प्रत्यविशिष्टं बलादापततीति पुरुषविशेषणत्वं वाच्यम्, तत्र च नोक्तदोषोद्धारः, परस्परापेक्षया द्वयोरपि भ्रान्तत्वादित्याशयवानुत्तरयति-परेषामपीत्यादि । न च वेदप्रामाण्यांशमात्रेऽभ्रान्तत्वोपादानाद् अदोषो, गुरूणामिव वेदान्तिनां नियोगस्य प्रवर्तकत्वप्रसङ्गात्, यत्किञ्चिद्यावद्वेदप्रामाण्यविकल्पकृतदोषस्य दुरुद्धरत्वाच्च, तदा फलार्थितैव प्रवर्तिका न नियोग इति । यद्यपि फलार्थितामात्रान्न प्रवृत्तिः, किन्तु फलार्थितया स्वर्गादेरिष्टत्वसम्पत्तौ तत्साधनताज्ञानाद् यागादौ चिकीर्षाद्वारा प्रवृत्तिस्तत्साधनता च साक्षाद् बाधिता सती परंपरयैव सुग्रहेति तद्घटकापूर्वोपस्थित्यर्थं शुद्धकार्यरूपनियोगे लिङ: शक्तिकल्पनान्नियोगस्य प्रवर्तकत्वमावश्यकम्, तथापि लिङ शक्तिर्न कार्यत्वविशिष्टे गौरवात्, किन्तु कार्यत्व एव लाघवात्, एवं हि लिङ्पदत्वेनैव कार्यत्वानुभावकता न तु लौकिकलिङ्पदत्वेनेति । न च यागेऽन्वयप्रयोजकेष्टसाधनत्वस्वरूपयोग्यताज्ञानासम्भवात् स्वर्गकामकार्यत्वान्वयबोधा सम्भवः, अन्वयप्रयोजकरूपवत्त्वस्य भेकानन्वयितोयेऽपि सत्त्वेन योग्यतात्वनिरासादेकपदार्थेऽपरपदार्थसंसर्गवत्त्वस्यैव योग्यतात्वव्यवस्थापनात्, तस्य च ज्ञानं संशयनिश्चयसाधारणं हेतुरिति यागे स्वर्गकामकार्यत्वसंशयसम्भवात् कथं न योग्यताज्ञानम् ? । न च इष्टसाधनत्वमपि लिङा बोधयितुम् अशक्यं, रूपवांश्चैत्र इत्यत्र रूपपदेन
Page #65
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का० ३]
३१ विपर्यासादप्रवर्तकोऽस्तु । शक्यं हि वक्तुं, प्राभाकरा विपर्यस्तत्वाच्छब्दनियोगात्प्रवर्त्तन्ते नेतरे, तेषामविपर्यस्तत्वादिति । सौगतादयो विपर्यस्तास्तन्मतस्य प्रमाणबाधितत्वात्, न पुनः प्राभाकरा इत्यपि पक्षपातमात्रम्, तन्मतस्याऽपि प्रमाणबाधितत्वाऽविशेषात् । यथैव हि प्रतिक्षणविनश्वरसकलार्थकथनं प्रत्यक्षादिविरुद्धं तथा नियोक्तृनियोगतद्विषयादिभेदपरिकल्पनमपि, सर्वप्रमाणानां विधिविषयताव्यवस्थापनेन तद्बाधकत्वोपपत्तेः । यदि पुनरप्रवर्तकस्वभावः शब्दनियोगस्तदा सिद्ध एव तस्य प्रवृत्तिहेतुत्वायोगः, स च वाक्यार्थत्वाभावं साधयति ।
[नियोगः फलरहितः फलसहितो वेत्युभयपक्षे दोषारोपणम्] किञ्च नियोगः फलरहितो वा स्यात् फलसहितो वा ? फलरहितश्चेत्, न ततः प्रेक्षावतां प्रवृत्तिः अपेक्षावत्त्वप्रसङ्गात्, प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्त्तते [मीमांसाश्लोकवार्तिकम्-सम्बन्धाक्षेपपरिहारः-५५] इति प्रसिद्धेश्च । प्रसिद्धचण्डनरपतिवचननियोगादफलादपि प्रवर्त्तनदर्शनाददोष इति चेत्, तस्याऽपायपरिरक्षणफलत्वात् । तन्नियोगादप्रवर्त्तने तदाज्ञोल्लङ्घनकृतामपायोऽवश्यं सम्भवतीति । तर्हि वेदवचनादपि नियुक्तः प्रत्यवायपरिहाराय प्रवर्त्तताम्, नित्यनैमित्तिके कुर्यात्प्रत्यवायजिहासया इति वचनात् [मी० श्लो० सं० २१०] । कथमिदानी स्वर्गकाम इति वचनमवतिष्ठते, जुहुयाज्जुहोतु होतव्यमिति लिङ्लोट्तव्यप्रत्ययान्तनिर्देशमात्रादेव नियोगमात्रस्य सिद्धेस्तत एव च प्रवृत्तिसम्भवात् ।
यदि पुनः फलसहितो नियोग इति पक्षस्तदा फलार्थितैव प्रवर्तिका न नियोगः, तमन्तरेणापि फलार्थिनां प्रवृत्तिदर्शनात् । पुरुषवचनान्नियोगेऽयमुपालम्भो
अष्टसहस्त्रीतात्पर्यविवरणम्
नीलत्वादीन्यदस्य रूपसामान्यस्येव साक्षात्परम्परात्वमुदस्य साधनतासामान्यस्य लिङा बोधने बाधकाभावात् । न च एकविशेषबाधे शाब्दसामान्यज्ञानस्य तदितरविशेषप्रकारतानियतत्वात् घटेन जलमाहरेत्यत्र छिद्रबाधे छिद्रेतरत्वेन घटज्ञानवत् प्रकृते साक्षात्त्वबाधे परम्परात्वप्रकारकं ज्ञानमाश्रयणीयं तच्च न सम्भवति द्वारानुपस्थितेरित्यपि शनीयम, घटेन जलमाहरेत्यत्र योग्यतया वस्तुतश्च्छिद्रेतरघटान्वयेऽपि छिद्रेतरत्वेनानन्वयात्तथोपस्थापकपदाभावात्, मानाभावेन लक्षणानाश्रयणात्, अस्तु वा प्रकृतेऽपि साक्षादन्यसाधनत्व
Page #66
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम् नापौरुषेयादग्निहोत्रादिवाक्यात् तस्यानुपालम्भत्वादिति चेत्, सर्वं वै खल्विदं ब्रह्म इत्यादि वचनमपि विधिमात्रप्रतिपादकमनुपालभ्यमस्तु तत एव, तथा च वेदान्तवादसिद्धिः । तस्मान्न नियोगो वाक्यार्थः कस्यचित्प्रवृत्तिहेतुत्वाभावाद्विधिवत् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
प्रकारेणान्वयो नीलबाधे रूपवान् घट इत्यत्र रूपस्येव नीलेतरत्वेन । न ह्येवमपि काचिदनुपपत्तिर्येनापूर्वोपस्थितये नियोग आश्रीयेतेति नियोगदूषणं बोध्यम् ।
॥ विध्यर्थवादः ॥ विधिवदिति अलौकिकब्रह्मस्वरूपविधिवदित्यर्थः, तदज्ञानादिव प्राभाकराभिमतनियोगाज्ञानाल्लोकानां प्रवृत्तेस्तस्य वाक्यार्थत्वायोगात् । प्रवर्त्तकविधेस्तु वाक्यार्थत्वं काममनुमन्यामह एव, यतस्तत्र व्यवस्थित एव प्रेरणानियोज्यवर्जितनियोगासम्भवादिना प्रत्येकनियोगपक्षदूषणानि घटन्ते । तत्र यस्य बुद्धिः प्रवृत्तिजननीमिच्छां सूते सोऽभिधेयविधिः, तज्ज्ञापकश्चाभिधायकविधिः, तदुक्तमुत
प्रवृत्तिः कृतिरेवात्र, सा चेच्छातो यतश्च सा । तज्ज्ञानं विषयस्तस्य विधिस्तज्ज्ञापकोऽथवा ॥ इति,
न्यायकुसुमाञ्जलिः स्तबक-५ श्लो०७] Tप्रवृत्तिजननी चेच्छा कृतिसाध्यत्वप्रकारिका, तज्जननी च तादृशी धीः, न तु कृत्यसाध्यत्वप्रकारकज्ञानाभावस्तद्धेतुः गौरवात्, सर्वदा चिकीर्षोत्पत्त्यापत्तेश्च, ततः कृतिसाध्यत्वमेव विध्यर्थः । न च कृतिसाध्यताज्ञानस्यैव प्रवर्तकत्वे मधुविषसम्पृक्तान्नभोजने मण्डलीकरणे च प्रवृत्त्यापत्तिः, स्वविशेषणवत्ताप्रतिसन्धानजन्यकार्यताज्ञानस्य प्रवर्तकत्वात् ।
__काम्ये हि यागपाकादौ कामना स्वविशेषणम् [ ]
ततश्च बलवदनिष्टाननुबन्धिकाम्यसाधनताज्ञानात् कार्यताज्ञानं प्रवर्तकम्, न च तद् उक्तस्थले, तृप्तश्च भोजने न प्रवर्त्तते तदानीं कामनायाः पुरुषविशेषणत्वाभावात्, नित्ये च शौचादिकं पुरुषविशेषणम्, तेन शौचादिज्ञानाधीनकृतिसाध्यताज्ञानात् तत्र प्रवृत्तिसम्भवः । यद्वा नित्ये शौचादिमत्त्वप्रतिसन्धानजन्यमन्यत्रेष्टसाधनताज्ञानजन्यमिष्टसाधनताज्ञानकालीनं वा कार्यताज्ञानं प्रवृत्तिहेतुः, प्रवृत्तिसामान्ये च कार्यताज्ञानमिति न दोषः । न चैवं लाघवाद् बलवदनिष्टाननुबन्धीष्टसाधनताविषयकार्यताज्ञानमेव हेतुरस्तु इति वाच्यम्, नित्ये तदभावात्, साध्यत्वसाधनत्वयोविरोधेनेष्टसाधनत्वकृतिसाध्यत्वयोर्युगपद् ज्ञातुमशक्यत्वाच्च, साध्यत्वं
Page #67
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि. १-का. ३]
३३
[पूर्वकथितैकादशप्रकारस्य नियोगस्य क्रमशः निराकरणम्] सर्वेषु च पक्षेषु नियोगस्य प्रत्येकं विचार्यमाणस्यायोगान्न वाक्यार्थत्वमवतिष्ठते । तथा हि
(१) न तावत्कार्यं शुद्धं नियोग इति पक्षो घटते प्रेरणानियोज्यवर्जितस्य नियोगस्यासम्भवात्, तस्मिन्नियोगसञ्ज्ञाकरणे स्वकम्बलस्य कूर्दालिकेति नामान्तरकरणमात्रं स्यात्, न च तावता स्वेष्टसिद्धिः ।
अष्टसहस्रीतात्पर्यविवरणम्
ह्यसिद्धस्य धर्मः साधनत्वं च सिद्धस्येति कालभेदादेवोभयग्रहसम्भवादिति प्राभाकरमतानुसारिणः ।
जरन्नैयायिकास्तु बलवदनिष्टाननुबन्धीष्टसाधनताविषयकं कृतिसाध्यताज्ञानमेव लाघवात् प्रवर्तकं, नत्विष्टसाधनताज्ञानजन्यकार्यताज्ञानादि, गौरवात् । न च फलाभावान्नित्ये इष्टसाधनताज्ञाना सम्भवः, नित्येऽपि बहुशः फलश्रुतेर्यत्रापि न फलश्रुतिस्तत्रापि विश्वजिन्न्यायात् स्वर्गस्य प्रत्यवायपरिहारस्य वा फलस्य कल्पनात् । न चैवं कामनाधीनकर्त्तव्यत्वेन नित्ये नित्यत्वहानिः, यदकरणे प्रत्यवायस्तस्यैव नित्यत्वात् । न चैवं कामनाया अधिकारविशेषणत्वात् तदभावेऽशुचेरिवानधिकारिणो नित्येऽप्रवृत्तौ प्रत्यवायानापत्तिः, कामनेतरयावदधिकारवतामकरणस्यैव प्रत्यवायहेतुत्वकल्पनात् । न च साध्यत्वसाधनत्वयोः विरोधः, एकस्मिन् पाके ओदनसाधनत्वकृतिसाध्यत्वयोः सर्वसिद्धत्वेन तयोरविरोधात. अन्यथा परस्येष्टसाधनताज्ञानकालीनकार्यताज्ञानस्य प्रवर्तकत्वाभ्यपगमानुपपत्तेः । विध्यर्थोऽपि बलवदनिष्टाननुबन्धीष्टसाधनत्वे सति कृतिसाध्यत्वमेव, कलञ्जभक्षणे इष्टसाधनत्वकृतिसाध्यत्वसत्त्वेऽपि बलवदनिष्टाननुबन्धित्वाभावात् 'न कलङ्गं भक्षयेत्' इति विध्यर्थनिषेधोपपतिः इत्याहुः ।
नव्यास्तु विशेषणविशेष्यभावे विनिगमकाभावाद् बलवदनिष्टाननुबन्धित्वादित्रये पृथगेव शक्तिः, कारणतापि प्रत्येकज्ञानत्वेनैव । वस्तुतः कृतिसाध्यताधीत्वेनैव चिकीर्षां प्रति हेतुत्वम्, इष्टाजनकेऽपि सुखादौ चिकीर्षोत्पत्तेरिष्टत्वात्, मण्डलीकरणादौ चोपायेच्छासामान्यसामग्रयभावेनैव तदभावात् । का पुनः सा ? इति चेत्, इष्टसाधनताज्ञानं बलवदनिष्टाननुबन्धित्वज्ञानं चेत्याहुः ।
Page #68
--------------------------------------------------------------------------
________________
३ ४
अष्टसहस्त्रीतात्पर्यविवरणम्
(२) शुद्धा प्रेरणा नियोग इत्यप्यनेनापास्तं नियोज्यफलरहितायाः प्रेरणायाः प्रलापमात्रत्वान्नियोगरूपतानुपपत्तेः ।
(३) प्रेरणासहितं कार्यं नियोग इत्यप्यसम्भाव्यम्, नियोज्यविरहे नियोगविरोधात् ।
(४) कार्यसहिता प्रेरणा नियोग इत्यप्यनेन निरस्तम् ।
(५) कार्यस्यैवोपचारतः प्रवर्त्तकत्वं नियोग इत्यप्यसारम्, नियोज्यादिनिरपेक्षस्य कार्यस्य प्रवर्त्तकत्वोपचारायोगात् । कदाचित्क्वचित्परमार्थतस्तस्य तथानुपलम्भाच्च ।
अष्टसहस्त्रीतात्पर्यविवरणम्
T
केचित्तु इष्टसाधनत्वमेव विध्यर्थः, न तु कृतिसाध्यत्वमपि, यागादौ सर्वत्र लोकत एव तस्यावगम्यमानत्वेनान्यलभ्यत्वात्, अत एव प्रवृत्तिकारणमिष्टसाधनताज्ञानमेव न तु कृतिसाध्यताज्ञानमपि, बलवदनिष्टाननुबन्धित्वज्ञानं च न हेतुः । प्रवृत्तौ कार्यसहभावेन द्वेषस्य प्रतिबन्धकत्वेन तदभावेनान्यथासिद्धत्वात्, आस्तिककामुकस्यागम्यागमनादौ नरकसाधनताज्ञानदशायामप्युत्कटेच्छया द्वेषाभावकालीनप्रवृत्तौ व्यभिचाराच्च । न च उत्कटरागेण नरकासाधनत्वज्ञानमेव कामुकस्य जन्यत इति शक्यं वक्तुम्, आस्तिकत्वव्याघातात् तस्य समानविषयतया द्वेषप्रतिबन्धकत्वकल्पन एव लाघवाच्च ।
तदुक्तं मण्डनमिश्रैः
पुंसां नेष्टाभ्युपायत्वात् क्रियास्वन्यः प्रवर्त्तकः ।
प्रवृत्तिहेतुं धर्मं च प्रवदन्ति प्रवर्त्तनाम् ॥ [विधिविवेकः] इति, इत्याहुः ।
परे तु ममेदं कृतिसाध्यमिति ज्ञानं न प्रवर्त्तकम्, अनागतस्य तस्य ज्ञातुमशक्यत्वात्, किन्तु यादृशस्य पुंसः कृतिसाध्यं यद् दृष्टं तादृशत्वं स्वस्य प्रतिसन्धाय तत्र प्रवर्त्तते प्रेक्षावान्, तथा चौदनकामस्य तत्साधनताज्ञानवतस्तदुपकरणवतः पाकः कृतिसाध्यस्तादृशश्चाहमिति प्रतिसन्धाय पाके प्रवर्त्तत इत्याहुः, तन्न, स्वकल्पितलिप्यादिप्रवृत्तौ यौवने कामोद्भेदादिना सम्भोगादिप्रवृत्तौ च तदभावात् । इदं तु बोध्यम्, इदानीमिष्टसाधनतादिज्ञानं प्रवर्त्तकम्, तेन भावियौवराज्ये बालस्य न प्रवृत्तिः, तदानीं कृतिसाध्यत्वाभावात्, तृप्तस्य च भोजने न प्रवृत्तिः, तदानीमिष्टसाधनत्वाभावादिति ।
Page #69
--------------------------------------------------------------------------
________________
३५
प्रथमो भागः [परि०१-का० ३]
(६) कार्यप्रेरणयोः सम्बन्धो नियोग इति वचनमसङ्गतम् ततो भिन्नस्य सम्बन्धस्य सम्बन्धिनिरपेक्षस्य नियोगत्वाऽघटनात् । सम्बन्ध्यात्मनः सम्बन्धस्य नियोगत्वमित्यपि दुरन्वयम्, प्रेर्यमाणपुरुषनिरपेक्षयोः सम्बन्ध्यात्मनोरपि कार्यप्रेरणयोनियोगत्वानुपपत्तेः ।
(७) तत्समुदायनियोगवादोऽप्यनेन प्रत्याख्यातः । (८) कार्यप्रेरणाविनिर्मुक्तस्तु नियोगो न विधिवादमतिशेते ।
(९) यत्पुनः स्वर्गकामः पुरुषोऽग्निहोत्रादिवाक्यनियोगे सति यागलक्षणं विषयमारूढमात्मानं मन्यमानः प्रवर्त्तते इति यन्त्रारूढनियोगवचनं तदपि न परमात्मवादप्रतिकूलम्, पुरुषाभिमानमात्रस्य नियोगत्ववचनात् तस्य चाविद्योदयनिबन्धनत्वात् ।
(१०) भोग्यरूपो नियोग इति चायुक्तम्, नियोक्तृप्रेरणाशून्यस्य भोग्यस्य तद्भावानुपपत्तेः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
T उदयनाचार्यास्तु आप्ताभिप्रायो विध्यर्थः, पाकं कुर्यादित्यादावाज्ञादिरूपेच्छावाचित्ववल्लिङ्मात्रस्येच्छावाचित्वे लाघवात्, एवं स्वर्गकामो यजेतेत्यादौ यागः स्वर्गकामकृतिसाध्यतयाप्तेष्ट इत्यर्थः, ततश्चाप्तेष्टत्वेन स्वेष्टसाधनत्वाद्यनुमाय तत्र प्रवर्त्तते प्रेक्षावान्, कलञ्जभक्षणादौ तदभावान्न प्रवर्त्तते । यस्तु वेदे पौरुषेयत्वं नाभ्युपैति तं प्रति विधिरेव तावद् गर्भ इव कुमार्याः पुंयोगे मानम् इत्याहुः ।।
वयं तु ब्रूमः-कार्यादिरूपनियोगस्येष्टसाधनत्वादेर्वा लिङर्थत्वमित्यत्र नास्माकमेकान्तः, शब्दशक्तेविचित्रत्वात् । यथाव्युत्पत्तिजायमानस्य विचित्रबोधस्य च लाघवमात्रेणाऽनपवदनीयत्वात् । प्रवृत्तिहेतुता तु तत्तदर्थज्ञानानां तद्विषयकवीर्यान्तरायकर्मक्षयोपशमजनकत्वेनैव भ्रमिजनकत्वेनेव घटं प्रति दण्डस्यान्यं प्रतीत्याद्यन्यथासिद्धौ फलाननुगुणत्वरूपान्यविशेषणप्रक्षेपध्रौव्येण प्रकृते तदभावात्, इत्थं चेष्टोत्पत्तिनान्तरीयकदुःखाधिकदुःखाजनकेऽप्यलसस्याप्रवृत्त्युपपत्तिः, विध्यर्थज्ञानेऽपि तत्रालस्यदोषप्रतिबन्धेन वीर्यान्तरायकर्मक्षयोपशमानिष्पत्तेः । इत्थमेव चाविरतसम्यग्दृष्ट्यादेः शक्यविरत्यादौ प्रवृत्त्यभावोपपत्तिः, तत्र तस्य बलवदनिष्टहेतुताज्ञाने बलवद्वेषे वाऽभ्युपगम्यमाने
Page #70
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम् (११) पुरुषस्वभावो हि न नियोगो घटते तस्य शाश्वतिकत्वेन नियोगस्य शाश्वतिकत्वप्रसङ्गात् । पुरुषमात्रविधेरेव तथाभिधाने वेदान्तवादपरिसमाप्तेः कुतो नियोगवादो नाम ? ।
[भाट्टो नियोगवादं निराकृत्याऽधुना विधिवादं निराकरोति] नन्वेवं नियोगनिराकरणेऽपि विधेर्वाक्यार्थत्वघटनान्न भावनावाक्यार्थः सिद्धो भट्टस्येति न चेतसि विधेयम्, विधेरपि विचार्यमाणस्य बाध्यमानत्वात् । सोऽपि हि (१) प्रमाणरूपो वा स्यात् (२) प्रमेयरूपो वा (३) तदुभयरूपो वा (४) अनुभयरूपो वा (५) पुरुषव्यापाररूपो वा (६) शब्दव्यापाररूपो वा (७) द्वयव्यापाररूपो वा (८) अद्वयव्यापाररूपो वेत्यष्टौ विकल्पान्नातिक्रामति ।
[विधेः प्रमाणरूपताभ्युपगमे दोषानाह] तथाहि-प्रमाणं विधिरिति कल्पनायां प्रमेयं किमपरं स्यात् ? तत्स्वरूपमेवेति चेत्, न सर्वथा निरंशस्य सन्मात्रदेहस्य विधेः प्रमाणप्रमेयरूपद्वयविरोधात् । कल्पितत्वात्तद्रूपद्वयस्य तत्राविरोध इति चेत्, कथमिदानीमन्यापोहः शब्दार्थः प्रतिषिध्यते ? संविन्मात्रस्याप्रमाणत्वव्यावृत्त्या प्रमाणत्वमप्रमेयत्वव्यावृत्त्या च प्रमेयत्वमिति परैरभिधातं शक्यत्वात । वस्त स्वभावाभिधायकत्वाभावे शब्दस्यान्यापोहाभिधायकत्वेऽपि क्वचित् प्रवर्तकत्वायोगात् नान्यापोह: शब्दार्थ इति चेत्, तर्हि वस्तुस्वरूपाभिधायिनोऽपि शब्दस्यान्यापोहानभिधायित्वेऽन्यपरिहारेण क्वचित्प्रवृत्तिनिबन्धनतापायाद्विधिरपि शब्दार्थो मा भूत् । परमपुरुषस्यैव विधेयत्वात्तदन्यस्यासम्भवान् नान्यपरिहारेण प्रवृत्तिरिति चेत्, कथमिदानीं द्रष्टव्यो रे ऽयमात्मा इत्यादि वाक्यात् नैरात्म्यादिपरिहारेणात्मनि प्रवृत्तिनॆरात्म्यादिदर्शनादीनामपि
- अष्टसहस्त्रीतात्पर्यविवरणम्
सम्यक्त्वक्षतिरेव, विपर्ययस्य मिथ्यात्वलक्षणत्वात्, अत एव श्रद्धालोः शक्यविरत्याद्यभावोपपत्तये चारित्रमोहनीयं कर्म कल्प्यत इत्यन्यत्र विस्तरः ।
नन्वेवं नियोगनिराकरणेऽपीत्यादिना नियोगस्य वाक्यार्थत्वं निराकृत्य भावनायास्तत्त्वसाधनायोद्यतं भाद्रं प्रति तर्हि विधिरेव वाक्यार्थोऽस्तु न भावनेत्यन्तरा वल्गतो वेदान्तिनो मतं सौगतनयाश्रयणेन दूषयति ।
Page #71
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. ३]
३७ प्रसङ्गात् । नैरात्म्यादेरनाद्यविद्योपकल्पितत्वान्न तद्दर्शनादौ प्रवृत्तिरिति चेत्, कथमन्यपरिहारेण प्रवृत्तिर्न भवेत् ? परमब्रह्मणो विधिरेवान्यस्यानाद्यविद्योपकल्पितस्य नैरात्म्यादेः परिहार इति चेत्, कथमेवमन्यापोहवादिनोऽपि परापोहनमेव स्वरूपविधिर्न भवेत् ? तस्यान्याऽपोहवादविरोधान्नैवमिति चेत्, विधिवादिनोऽपि तथा विधिवादविरोधादन्यापोहाभ्युपगमो मा भूत् । परमार्थतोऽन्यापोहो विधिवादिना नैवाभ्युपगम्यते, तस्य प्रतिभाससमानाधिकरणत्वेन प्रतिभासान्तःप्रविष्टत्वसिद्धेः, परमपुरुषत्वात्, प्रतिभासस्वरूपवत्, तस्याप्रतिभासमानत्वे व्यवस्थानुपपत्तेरन्यथातिप्रसङ्गात् । शब्दज्ञानेऽस्यानुमानज्ञाने चान्यापोहस्य प्रतिभासनेऽपि तत्समानाधिकरणतया प्रतिभासनान्न ततोऽन्यत्वम् । तस्य च शब्दानुमानज्ञानस्य प्रतिभासमात्रात्मकत्वान्नार्थान्तरत्वमिति चेत् ? कथमिदानीमुपनिषद्वाक्यं प्रतिभासमात्रादन्यल्लिङ्ग वा यतस्तत्प्रतिपत्तिः प्रेक्षावतः स्यात् । तस्य परमब्रह्मविवर्त्तत्वाद्विवर्त्तस्य च विवर्तिनोऽभेदेन परिकल्पनात्ततस्तत्प्रतिपत्तिरिति चेत्, कथं तत्परिकल्पिताद्वाक्याल्लिङ्गाद्वा परमार्थपथावतारिणः परमब्रह्मणः प्रतिपत्तिः ? परिकल्पिताद् धूमादेः पारमार्थिक पावकादिप्रतिपत्तिप्रसङ्गात् । पारमार्थिकमेवोपनिषद्वाक्यं लिङ्गं च परमब्रह्मत्वेनेति चेत्, तर्हि यथा तत्पारमार्थिकं तथा साध्यसमं कथं पुरुषाद्वैतं व्यवस्थापयेत् ? यथा च प्रतिपाद्यजनस्य प्रसिद्धं न तथा
अष्टसहस्रीतात्पर्यविवरणम्
॥ 'प्रतिभासाद्वैतवादः ॥ परमब्रह्मणो विधिरेवेत्यादि, अधिकरणस्वरूपाभावस्येत्यर्थः । तस्य चेति' स्वरूपविधेरित्यर्थः सामान्यैकप्राणत्वादस्यान्यापोहवादे न विरोध इति भावः । विधिवादिनोऽपीति, तत्रापि सदद्वैतेनातव्यावृत्तेरभावात्मिकाया अस्पर्शादित्यर्थः । प्रतिभाससमानाधिकरणत्वेनेति, भातीतिक्रियासमानाधिकरणत्वेनेत्यर्थः । तथा चायं प्रयोगःअन्यापोहः प्रतिभासान्तःप्रविष्टः भातीतिक्रियासमानाधिकरणत्वात् भानस्वरूपवदिति । परमब्रह्मत्वेनेति तथा चोपनिषद्वाक्यादेब्रह्मत्वेन प्रतिभासादभेदो वाक्यत्वादिना च भेद इति रूपभेदान्न विरोध इत्यर्थः ।
१. तस्य इति अष्टसहस्रीसम्मतः पाठः ।
Page #72
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम् पारमार्थिकं, द्वैतप्रसङ्गात् इति कुतः परमार्थसिद्धिः ? ततस्तामभ्युपगच्छता पारमार्थिकमुपनिषद्वाक्यं लिङ्गं च प्रतिपत्तव्यम् । तच्चाचित्स्वभावं, चित्स्वभावत्वे परसंवेद्यत्वविरोधात् प्रतिपादकचित्स्वभावत्वात्, तत्सुखादिवत् । प्रतिपाद्यचित्स्वभावत्वे वा न प्रतिपादकसंवेद्यत्वं प्रतिपाद्यसुखादिवत् । तस्य तदुभयचित्स्वभावत्वे प्राश्निकादिसंवेद्यत्वविरोधस्तदुभयसुखादिवत् । सकलजनचित्स्वभावत्वे प्रतिपादकादिभावानुपपत्तिः, अविशेषात् । प्रतिपादकादीनामविद्योपकल्पितत्वाददोष इति चेत्, यैव प्रतिपादकस्याविद्या प्रतिपादकत्वोपकल्पिका सैव प्रतिपाद्यस्य प्राश्निकादेश्चाविशिष्टा प्रतिपादकत्वमुपकल्पयेत् । प्रतिपाद्यस्य चाविद्या प्रतिपाद्यत्वोपकल्पनपरा प्रतिपादकादेरविशिष्टा प्रतिपाद्यत्वं परिकल्पयेत् प्रतिपादकादीनामभेदात्तदविद्यानामभेदप्रसङ्गात् । भेदे वा प्रतिपादकादीनां भेदसिद्धिः, विरुद्धधर्माध्यासात् । अनाद्यविद्योपकल्पित एव तदविद्यानां भेदो न पारमार्थिक इति चेत्, परमार्थतस्तमुभिन्नास्तदविद्या इति स एव प्रतिपादकादीनां सङ्करप्रसङ्गः । यदि पुनरविद्यापि प्रतिपादकादीनामविद्योपकल्पितत्वादेव न भेदाभेदविकल्पसहा नीरूपत्वादिति मतं, तदा परमार्थपथावतारिणः प्रतिपादकादय इति बलादायातम्, तदविद्यानामविद्योपकल्पितत्वे विद्यात्वविधेरवश्यम्भावित्वात् । तथा च प्रतिपादिकादिभ्यो भिन्नमुपनिषद्वाक्यं सकृत्तत्संवेद्यत्वाऽन्यथानुपपत्तेः इत्यचित्स्वभावं सिद्धं बहिर्वस्तु, तद्वद् घटादिवस्तुसिद्धिरिति न प्रतिभासाद्वैतव्यवस्था प्रतिभास्यस्यापि सुप्रसिद्धत्वात् । प्रतिभाससमानाधिकरणता पुनः प्रतिभास्यस्य कथञ्चिद् भेदेऽपि न विरुध्यते । घटः प्रतिभासत इति प्रतिभासविषयो भवतीत्युच्यते विषयविषयिणोरभेदोपचारात्, प्रस्थप्रमितं धान्यं प्रस्थ इति यथा । ततः सामानाधिकरण्यादुपचरितान्नानुपचरितैकत्वसिद्धिः । मुख्यं सामानाधिकरण्यं क्व सिद्धम् ? इति चेत्, संवेदनं प्रतिभासते भाति चकास्तीत्यादि व्यवहारे
- अष्टसहस्रीतात्पर्यविवरणम्
सकृत्तत्संवेद्यतान्यथानुपपत्तेरिति, प्रतिपादकादिभ्यो भिन्नत्व एव ह्युपनिषद्वाक्यस्य सकृदेकदा तेषां श्रोत्रसम्बन्धेन तदाकारवृत्त्या संवेद्यता स्यात्, अन्यथा तु साक्षिभास्यत्वेन साधारण्येन प्रतिभासो न स्यादित्यर्थः । प्रतिभास्यस्यापि सुप्रसिद्धत्वादिति, ननु प्रतिभास्यस्य सुप्रसिद्धतया न प्रतिभासाद्वैतबाधा प्रतिभास्यस्य प्रतिभास
Page #73
--------------------------------------------------------------------------
________________
प्रथमो भाग: [ परि० १ - का० ३]
मुख्यम् । ततो वैयधिकरण्यव्यवहारस्तु गौणस्तत्र संवेदनस्य प्रतिभासनमिति, पटस्य प्रतिभासनमित्यत्र तस्य मुख्यत्वप्रसिद्धेः कथञ्चिद् भेदमन्तरेण सामानाधिकरण्यानुपपत्तेश्च । तत एव कथञ्चिद् भेदसिद्धिः । शुक्लः पट इत्यत्र सर्वथा शुक्लपटयोरैक्ये हि न समानाधिकरणता पटः पट इति यथा । नापि सर्वथा भेदे, हिमवन्मकराकरवत् । तथान्यापोहस्य प्रतिभासमानस्य प्रतिभाससमानाधिकरणत्वेऽपि प्रतिभासाद् भेदव्यवस्थितेस्तद्विषयः शब्दः कथं विधिविषय एव समवतिष्ठते ? तथाभ्युपगमे च कथमन्यपरिहारेण क्वचित्प्रवर्त्तकः शब्दो यतो विधिविषयः स्याद् ? इति सूक्तम्, विधेः प्रमाणत्वे तस्यैव प्रमेयत्वकल्पनायामन्यापोहानुप्रवेशोऽन्यथान्यत्प्रमेयं वाच्यमिति ।
३९
(२) प्रमेयरूपो विधिरिति कल्पनायामपि प्रमाणमन्यद्वाच्यमिति तस्यैवोभयस्वभावत्वविरोधात्, कल्पनावशाद्विधेः प्रमेयप्रमाणरूपत्वेऽन्यापोहवादानुषङ्गस्याविशेषात् ।
(३) प्रमाणप्रमेयरूपो विधिरिति कल्पनाप्यनेन निरस्ता ।
(४) तदनुभयरूपो विधिरिति कल्पनायां तु खरशृङ्गादिवदवस्तुतापत्तिः, प्रमाणप्रमेयस्वभावरहितस्य विधेः स्वभावान्तरेण व्यवस्थानायोगात् । प्रमात्रादेरपि प्रमेयत्वोपपत्तेः, अन्यथा तत्र प्रमाणवृत्तेरभावात् सर्वथा वस्तुत्वहानिः ।
(५) शब्दव्यापाररूपो विधिरिति चेत्, सा शब्दभावनैव ।
(६) पुरुषव्यापारः स इति चेत्, सा अर्थभावना स्यात् । (७) एतेनोभयव्यापाररूपो विधिरिति प्रत्याख्यातम् ।
(८) तदनुभयव्यापाररूपस्तु विधिर्विषयस्वभावश्चेत्, तस्य वाक्यकालेऽसन्निधानान्निरालम्बनशब्दवादप्रवेशः । फलस्वभावश्चेत्, स एव दोषः, तस्यापि
अष्टसहस्त्रीतात्पर्यविवरणम्
कर्मतयैव स्वाप्निकपदार्थवन्मिथ्यात्वेन प्रतिभासमात्रस्यैव सत्यत्वसिद्धेः, न हि मिथ्याऽहिः सुप्रसिद्धोऽपि सत्यरज्जुरूपाधिष्ठानं बाधत इति । दृश्यप्रतिभासोऽपि च यावदविद्यमेव, यदा च विधिवदधीतवेदान्तस्यासम्भावनाविपरीत भावनाख्यचित्तदोषरहितस्याध्यारोपापवादन्यायेनाचार्योपदेशसमनन्तरमेव तत्त्वमस्यादिवाक्यजन्याऽहं शुद्धं ब्रह्मास्मीत्यखण्डाकारा
Page #74
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम् तदासन्निधानादन्यथा विधेरनवतारात् । निःस्वभावो विधिरिति कल्पनायां तु विधिर्वाक्यार्थ इति न किञ्चिद्वाक्यार्थ इत्युक्तं स्यात् ।
[विधेः सदसदादिरूपाभ्युपगमे दोषानाह] किञ्च यदि विधिः सन्नेव तदा न कस्यचिद्विधेयः पुरुषस्वरूपवत् । अथासन्नेव तथापि न विधेयः, खरविषाणवत् । अथ पुरुषरूपतया सन् दर्शनादिरूपतया त्वसन्निति विधेयः स्यात. तदोभयरूपतापत्तिः । न सन्नाप्यसन विधिरिति चेत्, तदिदं व्याहतम्, सर्वथा सत्त्वप्रतिषेधे सर्वथैवासत्त्वविधिप्रसङ्गात्, तन्निषेधे वा सर्वथा सत्त्वविधानानुषङ्गात् । सकृदुभयप्रतिषेधे तु कथञ्चित्सदसत्त्वविधानान्मतान्तरानुषङ्गात् कुतो विधिरेव वाक्यार्थः ? ।
[विधेः प्रवर्तकादिस्वभावस्वीकारे हानिः] किञ्च विधिः प्रवर्तक स्वभावो वा स्यादप्रवर्तकस्वभावो वा ? प्रवर्तकस्वभावश्चेद् वेदान्तवादिनामिव ताथागतादीनामपि प्रवर्तकः स्यात् । तेषां विपर्यासान्न प्रवर्तक इति चेत्, तत एव वेदान्तवादिनामप्रवर्तक इत्यपि शक्येत । सौगतादीनामेव विपर्यासोऽप्रवर्त्तमानानां, न पुनः प्रवर्त्तमानानां विधिवादिनामित्यप्रमाणिकमेवेष्टम. उभयेषां समानाक्षेपसमाधानत्वात् । यदि पुनरप्रवर्तकस्वभाव एव विधिस्तदा कथं वाक्यार्थ: स्यात् ? नियोगवत् ।
__[विधिः फलरहितः सहितो वा इत्याद्यभ्युपगमे हानिः] किञ्च विधिः फलरहितो वा स्यात् फलसहितो वा ? फलरहितश्चेन्न प्रवर्त्तको नियोगवदेव । पुरुषाद्वैते न कश्चित् कुतश्चित्प्रवर्तक इति चेत्, कथमप्रवर्तको विधिः सर्वथा वाक्यार्थः कथ्यते, तथा नियोगस्याऽपि
- अष्टसहस्रीतात्पर्यविवरणम् साक्षात्काररूपान्तःकरणवृत्तिरुदेति, पशब्दजन्यज्ञानस्यापि विषयापरोक्षत्वेनापरोक्षत्वसम्भवात्, दशमस्त्वमसीत्यादिवाक्यजन्यज्ञानवत्, ज्ञानस्य परोक्षापरोक्षत्वयोः करणभेदस्यानियामकत्वात्, एकस्मादेव मनसः सुखादिविषयापरोक्षज्ञानस्यातीतार्थस्मृतेः परोक्षायाश्चोत्पादात्, तदा सा वृत्तिः प्रत्यक्चैतन्यव्याप्ता मूलाज्ञानं बाधित्वा दग्धेन्धनानलवत् स्वयमुपशाम्यति, तदैव तत्प्रतिबिम्बितं चैतन्यमपि केवलब्रह्ममात्रमवशिष्यते, दर्पणाभावे मुखस्येवोपाधिविलये
Page #75
--------------------------------------------------------------------------
________________
प्रथमो भाग: [ परि० १ - का० ३]
४१
वाक्यार्थत्वप्रसङ्गात् । तथा 'द्रष्टव्यो रेऽयमात्मा' इत्यादिवाक्यादात्मनि दर्शनश्रवणानुमननध्यानविधाने प्रतिपत्तुरप्रवृत्तौ किमर्थस्तद्वाक्याभ्यासः ? फलसहितो विधिरिति कल्पनायां फलार्थितयैव लोकस्य प्रवृत्तिसिद्धेर्व्यर्थं विधिकथनं नियोगकथनवत् । तथापि विधेर्वाक्यार्थत्वे नियोगस्यापि वाक्यार्थत्वं कुतो न भवेत्, पटादिवत् पदार्थान्तरत्वेनाप्रतिभासनान्नियोज्यमानविषयनियोक्तृधर्मत्वेन चानवस्थानान्न नियोगो वाक्यार्थ इति चेत्, तदितरत्रापि समानम्, विधेरपि घटादिवत् पदार्थान्तरत्वेनाप्रतिभासनात्, विधाप्यमानविषयविधायक धर्मत्वेनाव्यवस्थितेश्च ।
[ अधुना जैनमतमाश्रित्य भाट्टः विधिवादिनं दूषयति ]
यथैव हि नियोज्यस्य पुंसो धर्मे नियोगेऽननुष्ठेयता नियोगस्य सिद्धत्वाद् अन्यथा तदनुष्ठानोपरमाभावानुषङ्गात्, कस्यचिद्रूपस्यासिद्धस्याभावात् । असिद्धरूपतायां वा अनियोज्यत्वं विरोधाद्वन्ध्यास्तनन्धयादिवत् । सिद्धरूपेण नियोज्यत्वे तस्यैवासिद्धरूपेण वा नियोज्यतायामेकस्य पुरुषस्य सिद्धासिद्धरूपसङ्कराद् नियोज्येतरत्वविभागासिद्धिः । तद्रूपासङ्करे वा भेदप्रसङ्गादात्मन: सिद्धासिद्धरूपयोः सम्बन्धाभावोऽनुपकारात् । उपकारकल्पनायामात्मनस्तदुपकार्यत्वे नित्यत्वहानि: तयोरात्मोपकार्यत्वे सिद्धरूपस्य सर्वथोपकार्यत्वव्याघातः । असिद्धरूपस्याप्युपकार्यत्वे गगनकुसुमादेरुपकार्यतानुषङ्गः । सिद्धासिद्धरूपयोरपि कथञ्चिदसिद्धरूपोपगमे प्रकृतपर्यनुयोगानिवृत्तेरनवस्थानुषङ्गादित्युपालम्भः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
उपहितस्य स्वरूपमात्रावस्थानस्वभावत्वादिति सिद्धं प्रतिभासाद्वैतेन व्यवहारदशायामनिर्वचनीयप्रतिभास्यदृष्टावपि परमार्थदशायां तददृष्टेरिति चेत्, न, बाह्यार्थस्यापारमार्थिकत्वे तत्त्वमस्यादिवाक्यजन्यज्ञानविषयताया अपि ब्रह्मण्यसत्त्वेन तद्गताज्ञाननिवृत्त्ययोगात्, ज्ञानाज्ञानयोः समानाश्रयविषयकत्वेन नाश्यनाशक भावात् । किञ्चानिर्वचनीयानां घटादिपदार्थानामभ्युपगमापेक्षया सत्यतदभ्युपगम एव श्रेयान्, अन्यथा जाग्रत्स्वप्नयोविशेषार्थमनिर्वचनीयविशेषस्यापि कल्पनापत्तेः प्रतिनियतकार्यकारणभावोच्छेदप्रसङ्गात् । किञ्च प्रतिभासाद्वैते बन्धमोक्षव्यवस्थैव दुर्घटा, निर्बीजकल्पनामूलानामज्ञानतत्कार्याणामसत्त्वात्, सत्त्वे वा तन्निवृत्तेः कर्त्तुमशक्यत्वात्, तन्निवृत्तेरसत्त्वे मुक्तेः खरविषाणप्रख्यत्वापत्तेः, सत्यत्वे द्वितीयसत्त्वेनाद्वैतव्याघातापत्तेः, अनिर्वचनीयत्वे प्रपञ्चानुगमापत्तेः,
Page #76
--------------------------------------------------------------------------
________________
४२
अष्टसहस्त्रीतात्पर्यविवरणम्
[भावनावादिना भाट्टेन प्राग्यथा नियोगवादो निराकृतस्तथैवाऽधुना विधिवादोऽपि निराक्रियते]
तथा विधाप्यमानस्य पुरुषस्य धर्मे विधावपि सिद्धस्य पुंसो दर्शनश्रवणानुमननध्यानविधानविरोधः । तद्विधाने वा सर्वदा तदनुपरतिप्रसक्तिः । दर्शनादिरूपेण तस्यासिद्धौ विधानव्याघातः कूर्मरोमादिवत् । सिद्धरूपेण विधाप्यमानस्य विधाने तस्यैवासिद्धरूपेण चाविधाने सिद्धासिद्धरूपसङ्कराद्विधाप्येतरत्वविभागासिद्धिः । तद्रूपासङ्करे वा भेदप्रसङ्गादात्मनः सिद्धासिद्धरूपयोस्तत्सम्बन्धाभावादिदोषासञ्जनस्याविशेषः । तथा विषयस्य यागलक्षणस्य धर्मे नियोगे तस्यापरिनिष्पन्नत्वात् स्वरूपाभावाद्वाक्येन प्रत्येतुमशक्यत्वस्य विधावपि विषयधर्मे समानत्वात्कुतो विषयधर्मो विधिः ? पुरुषस्यैव विषयतयावभासमानस्य विषयत्वात्तस्य च परिनिष्पन्नत्वान्न तद्धर्मस्य विधेरसम्भव इति चेत्, तर्हि यजनाश्रयस्य द्रव्यादेः सिद्धत्वात्तस्य च विषयत्वात्कथं तद्धर्मो नियोगोऽपि न सिद्धयेत् ? येन रूपेण विषयो विद्यते तेन तद्धर्मो नियोगोऽपीति तदनुष्ठानाभावे विधिविषयो येन रूपेणास्ति तेन तद्धर्मस्य विधेः कथमनुष्ठानम् ? येनांशेन नास्ति तेनानुष्ठानमिति चेत्, तन्नियोगेऽपि समानम् । कथमसन्नियोगोऽनुष्ठीयते अप्रतीयमानत्वात् खरविषाणवदिति चेत्, तत एव विधिरपि नानुष्ठेयः प्रतीयमानत्वादनुष्ठेयतया चासिद्धत्वादनुष्ठेयो विधिरिति चेत्, नियोगोऽपि तथास्तु । नन्वनुष्ठेयतयैव नियोगोऽवतिष्ठते, न प्रतीयमानतया, तस्याः सकलवस्तुसाधारणत्वात् । अनुष्ठेयता च यदि प्रतिभाता कोऽन्यो नियोगो यस्यानुष्ठितिरिति चेत्, तर्हि विधिरपि न प्रतीयमानतया प्रतिष्ठामनुभवति, किन्तु विधीयमानतया, सा चेदनुभूता कोऽन्यो विधिर्नाम यस्य विधानमुपनिषद्वाक्यादनुकर्ण्यते । ननु द्रष्टव्या दिवाक्येनाऽऽत्मदर्शनादिकं विहितं ममेति प्रतीतेरप्रतिक्षेपार्हो विधिः कथमपा
अष्टसहस्त्रीतात्पर्यविवरणम्
सत्यासत्यानिर्वचनीयातिरिक्तप्रकाराश्रयणे च तस्य जात्यन्तरत्वे स्याद्वादाश्रयणापत्तेः, तेनैव च सर्वनिर्वाहेऽद्वैतकुसृष्टिकष्टस्यानादरणीयत्वात् । न च ब्रह्माधिकरणस्वरूपत्वादज्ञाननिवृत्तेः दोषः, तस्य शाश्वतत्वेन संसारदशायां मुक्त्यापत्तेः न तत्कालोपलक्षितात्मनोऽपि परिणामित्वं विना मुक्तत्वं युक्तम्, उपलक्ष्यताया अपि कूटस्थेऽसम्भवादिति यत्किञ्चिदेतत् । तदिदमभिप्रेत्याहुः सर्वतन्त्रसिद्धं मुक्तिस्वरूपमनूद्य श्रीहरिभद्राचार्याः
Page #77
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का० ३]
४३ क्रियते ? किमिदानीमग्निहोत्रादिवाक्येन यागादिविषये नियुक्तोऽहमिति प्रतीतिर्न विद्यते येन नियोगः प्रतिक्षिप्यते ? सा प्रतीतिरप्रमाणमिति चेत्, विधिप्रतीति: कथमप्रमाणं न स्यात् ? विधिप्रतीतेः पुरुषदोषरहितवेदवचनेन जनितत्वादिति चेत्, तत एव नियोगप्रतीतिरप्यप्रमाणं मा भूत्, सर्वथाप्यविशेषात् । तथापि नियोगस्य विषयधर्मस्यासम्भवे विधेरपि तद्धर्मस्य न सम्भवः । शब्दस्य विधायकस्य धर्मो विधिरित्यपि न निश्चेतुं शक्यम्, नियोगस्यापि नियोक्तृशब्दधर्मत्वप्रतिघाताभावानुषक्तेः । शब्दस्य सिद्धरूपत्वात्तद्धर्मो नियोगः कथमसिद्धो येनासौ सम्पाद्यते कस्यचिदित्यपि न मन्तव्यम्, विधिसम्पादनविरोधात्, तस्यापि सिद्धोपनिषद्वाक्यधर्मत्वाविशेषात् । प्रसिद्धस्यापि सम्पादने पुनःपुनस्तत्सम्पादनप्रवृत्त्यनुपरमात् कथमुपनिषद्वाक्यस्य प्रमाणता ? तदपूर्वार्थताविरहात्स्मृतिवत्, तस्य वा प्रमाणत्वे नियोगवाक्यं प्रमाणमस्तु, विशेषाभावात् ।
[विधेाहकं वाक्यमप्रधानतया विधि विषयीकरोति प्रधानतया वा ? इति विकल्प्योभयं दूषयति]
किञ्च तद्विधिविषयं वाक्यं गुणभावेन प्रधानभावेन वा विधौ प्रमाणं स्यात् ? यदि गुणभावेन तदा अग्निहोत्रं जुहुयात्स्वर्गकाम इत्यादिरपि तदस्तु, गणभावेन विधिविषयत्वस्य भावात. तत्र भट्रमतानसारिभिर्भावनाप्राधान्येनोपगमात. प्राभाकरैश्च नियोगगोचरत्वस्य प्रधानत्वाङ्गीकरणात् । तौ च भावनानियोगौ नासद्विषयौ प्रवर्तेते प्रतीयेते वा, सर्वथाप्यसतोः प्रतीतौ प्रवृत्तौ वा शशविषाणादेरपि तदनुषक्तेः । सद्रूपतया च तयोविधिनान्तरीयकत्वसिद्धेः सिद्धं गुणभावेन विधिविषयत्वं वाक्यस्य, इति नाप्रमाणतापत्तिर्येन कर्मकाण्डस्य पारमार्थिकता न भवेत् । प्रधानभावेन विधिविषयं चोदनावाक्यं प्रमाणमिति चायुक्तम्, विधेः सत्यत्वे द्वैतावतारात्, तदसत्यत्वे प्राधान्यायोगात् । तथा हि- यो योऽसत्यः स स न प्रधानभावमनुभवति, यथा तदविद्याविलासः, तथा चासत्यो विधिरिति न प्रधानभावेन तद्विषयत्वोपपत्तिः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
परिणामिन्यात्मनि सति, तत्तद्ध्वनिवाच्यमेतदखिलं स्यात् । अर्थान्तरे च तत्त्वेऽविद्यादौ वस्तुसत्येव ॥ (षोड. १६.५)
Page #78
--------------------------------------------------------------------------
________________
४४
अष्टसहस्त्रीतात्पर्यविवरणम्
[वेदान्तवादी पुनरपि ब्रह्माद्वैतवादं समर्थयति] स्यान्मतम्, न सम्यगवधारितं विधेः स्वरूपं भवता तस्यैव यतो व्यवस्थितत्वात् । प्रतिभासमात्राद्धि पृथग् विधिः कार्यतया न प्रतीयते घयदिवत् प्रेरकतया च नाध्यवसीयते वचनादिवत्, कर्मकरणसाधनतया हि तत्प्रतीतौ कार्यताप्रेरकताप्रत्ययो युक्तो नान्यथा ।
किं तर्हि ? द्रष्टव्यो रेऽयमात्मा श्रोतव्योऽनुमन्तव्यो निदिध्यासितव्य इत्यादिशब्दश्रवणादवस्थान्तरविलक्षणेन प्रेरितोऽहमिति जाताकूतेनाकारेण स्वयमात्मैव प्रतिभाति, स एव विधिरित्युच्यते, तस्य च ज्ञानं विषयतया सम्बन्धमधितिष्ठतीति प्रधानभावविभावना विधेर्न विहन्यते, तथाविधवेदवाक्यादात्मन एव विधायकतया प्रतिभासनात् । तदर्शनश्रवणानुमननध्यानरूपस्य विधीयमानतयानुभवात् । तथा च स्वयमात्माऽऽत्मानं द्रष्टुं श्रोतुमनुमन्तुं ध्यातुं वा प्रवर्त्तते । तथा प्रवृत्त्यसम्भवे ह्यात्मनः प्रेरितोऽहमित्यवगतिरप्रामाणिकी स्यात । ततो नासत्यो विधिर्येन प्रधानता तस्य विरुद्ध्यते । नापि सत्यत्वे द्वैतसिद्धिः, आत्मस्वरूपव्यतिरेकेण तदभावात्, तस्यैकस्यैव तथा प्रतिभासनादिति ।
[भाट्टो नियोगपक्षमाश्रित्य पुनरपि विधिवादिनं दूषयति] तदप्यसत्यम्, नियोगादिवाक्यार्थस्यापि निश्चयात्मकतया प्रतीयमानत्वात् । तथा हि, नियोगस्तावदग्निहोत्रादिवाक्यादिव द्रष्टव्यो रेऽयमात्मा इत्यादिवचनादपि प्रतीयते एव । नियुक्तोऽहमनेन वाक्येनेति निरवशेषो योगः प्रतिभाति, मनागप्ययोगाशङ्कानवतारादवश्यकर्त्तव्यतासम्प्रत्ययात् । कथमन्यथा तद्वाक्यश्रवणादस्य प्रवृत्तिरुपपद्यते, ? मेघध्वन्यादेरपि प्रवृत्तिप्रसङ्गात् ।
अष्टसहस्रीतात्पर्यविवरणम् पुरुषाद्वैतं तु यदा, भवति विशिष्टमथ बोधमात्रं वा । भवभवविगमविभेदस्तदा कथं युज्यते मुख्यः ? ॥ अग्निजलभूमयो यत्, परितापकरा भवेऽनुभवसिद्धाः । रागादयश्च रौद्रा असत्प्रवृत्त्यास्पदं लोके ॥ परिकल्पिता यदि ततो, न सन्ति तत्त्वेन कथममी स्युरिति । परिकल्पिते च तत्त्वे, भवभवविगमौ कथं युक्तौ ? ॥
Page #79
--------------------------------------------------------------------------
________________
प्रथमो भाग: [ परि० १ - का० ३]
४५
[विधिप्रतिपादकवाक्यमन्यार्थस्याऽपोहं करोति न वेति विकल्पं दूषयति]
किञ्च शब्दाद् द्रष्टव्यो रेऽयमात्मा इत्यादेरात्मद्रष्टव्यतादिविधिस्तदद्रष्टव्यतादिव्यवच्छेदरहितो यदीष्यते तदा न कस्यचित्प्रवृत्तिहेतुः प्रतिनियतविषयविधिनान्तरीयकत्वात्प्रेक्षावत्प्रवृत्तेः । तस्य चातद्विषयपरिहाराविनाभावित्वात् कटः कर्त्तव्य इति यथा, न हि कटे कर्त्तव्यताविधिरतद्व्यवच्छेदमन्तरेण व्यवहारमार्गमवतारयितुं शक्यः । परपरिहारसहितो विधि: शब्दार्थ इति चेत्, तर्हि विधिप्रतिषेधात्मकः शब्दार्थ इति कुतो विध्येकान्तवादस्य प्रतिष्ठा ? प्रतिषेधैकान्तवादवत् ।
स्यान्मतम्, परपरिहारस्य गुणीभूतत्वाद्विधेरेव प्रवृत्त्यङ्गत्वेन प्राधान्याद्विधिः शब्दार्थ इति । कथमिदानीं शुद्धकार्यादिरूपनियोगव्यवस्थितिर्न स्यात् ? कार्यस्यैव शुद्धस्य प्रवृत्त्यङ्गतया प्रधानत्वोपपत्तेः, नियोज्यादेस्तत्रापि गुणीभावात् । तद्वत्प्रेरणादिस्वभावनियोगवादिनां प्रेरणादौ प्रधानताभिप्रायात् तदितरस्य सतोऽपि गुणभावाध्यवसायाद्युक्तो नियोगः शब्दार्थः । शुद्धकार्यप्रेरणादिषु स्वाभिप्रायात् कस्यचित्प्रधानभावेऽपि पराभिप्रायात्प्रधानत्वाभावात् । तदन्यतरस्यापि स्वभावस्या - व्यवस्थितेर्नैकस्यापि शब्दार्थत्वमिति चेत्, तर्हि पुरुषाद्वैतवाद्याशयवशाद्विधेः प्रधानत्वेऽपि ताथागतमताश्रयणादप्रधानताघटनात् सोऽपि न प्रतिष्ठामापद्येत विप्रतिपत्तिसद्भावाविशेषात् ।
[विधिरेव वाक्यस्यार्थः सर्वत्र प्रधानमिति मन्यमाने दोष: ]
स्यान्मतिरेषा ते विधेरेव सर्वत्र प्रधानता, प्रवृत्त्यङ्गत्वोपपत्तेः, न पुनः प्रतिषेधस्य, सर्वथा प्रवृत्त्यङ्गतानुपपत्तेः । क्वचित्प्रवर्त्तितुकामो हि सर्वस्तद्विधिमन्वेषते तत्र पररूपप्रतिषेधान्वेषणे परिनिष्ठानुपपत्तेः पररूपाणामानन्त्यात् क्वचित्प्रतिषेद्धुमशक्तेश्च, तद्धि पररूपं न तावत्स्वयमप्रतिपद्य क्रमशः प्रतिषेद्धुं शक्यम्, प्रतिषेधस्य निर्विषयत्वप्रसङ्गात् । नापि प्रतिपद्य, तत्प्रतिपत्तेरपि पररूपप्रतिषेधापेक्षत्वात् तस्यापि च प्रतिपन्नस्यैव प्रतिषेधेऽनवस्थानुषङ्गात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
परिकल्पनापि चैषा, हन्त विकल्पात्मिका न सम्भवति । तन्मात्र एव तत्त्वे यदि वा भावो न जात्वस्याः ॥ इति
[ षोडशकप्रकरण १६-७.१०]
Page #80
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम् युगपत्सकलपररूपप्रतिषेधे परस्पराश्रयानुषङ्गात्, सिद्धे सकलपररूपप्रतिषेधे प्रतिपित्सितविधिसिद्धिस्तत्सिद्धौ च तत्परिहारेण तत्प्रतिपत्तिपूर्वकसकलपररूपप्रतिषेधसिद्धिरिति ।
[सर्वथा विधिरेव प्रवृत्यङ्गं नास्तीति प्रतिपादयन् भाट्टो विधिवादं परिहरति]
तदेतदनालोचिताभिधानम्, मण्डनमिश्रस्य । सर्वथा विधेरपि प्रवृत्यङ्गतानुपपत्तेः । सर्वो हीष्टे वस्तुनि प्रवर्तितुमना जनोऽनिष्टपरिहारं तत्रान्वेषते, अन्यथानिष्टेऽपि प्रवृत्तौ समीहितव्याघातप्रसक्तेः, अनिष्टप्रतिषेधश्च प्रत्यक्षादिवत् कुतश्चिद्वाक्यादपि शक्यः प्रतिपत्तुम्, केवलविधिप्रतिपत्तेरेवान्यप्रतिषेधप्रतिपत्तिरूपत्वात्, केवलभूतलप्रतिपत्तेरेव घटाभावप्रतिपत्तिसिद्धेः, न ह्ययं प्रतिपत्ता किञ्चिदुपलभमानः पररूपैः सङ्कीर्णमुपलभते, यतः प्रमाणान्तरात्तत्प्रतिषेधः साध्यते, न च सर्वथा तैरसङ्कीर्णमेव, सदाद्यात्मनापि तदसङ्करे तस्यासत्त्वप्रसङ्गात् । परस्मात्कथञ्चिद्व्यावृत्त्यात्मकं च कुतश्चित्प्रमाणादुपलभमानोऽर्थी परव्यावृत्तिद्वारेण वा प्रवर्त्तते विधिद्वारेण वेति । विधेरिवान्यापोहस्यापि प्रवृत्त्यङ्गत्वोपपत्तेर्न विधेरेव प्राधान्यम्, विधात्रेव प्रत्यक्षमुपनिषद्वाक्यं चेति नियमस्यासम्भवात्, अन्यथा ततो
- अष्टसहस्रीतात्पर्यविवरणम् Tअधिकं मत्कृतानेकान्तव्यवस्थायाम् ।
परव्यावृत्तिद्वारेण वेत्यादि, ननु पुरोवर्तिनीष्टतावच्छेदकप्रकारकज्ञानत्वेनैव लाघवात् प्रवर्तकता न त्वनिष्टतावच्छेदकाभावप्रकारकज्ञानत्वेन गौरवादिति विधेः प्राधान्ये विनिगमकमस्तीति चेत्, न, अतव्यावृत्तिप्रकारकज्ञानादपि बहूनां प्रवृत्तेरतव्यावृत्तिविध्यन्यतरनिष्ठप्रकारताविशेषस्यैव प्रवर्तकतावच्छेदकत्वौचित्यात्, अस्तु वा द्रव्याद्याकारताविलक्षणरजताद्याकारताशालिज्ञानत्वेन रजताद्याकारप्रवृत्तौ हेतुत्वम्, रजताद्याकारतैव चारजतभिन्नाद्याकारता, तत्तदाकारतात्वभेदाच्च व्यवहारभेदः । वस्तुतो विधिज्ञानस्य प्रवर्तकत्वेऽपि निष्कम्पप्रवृत्त्यर्थमतव्यावृत्तिविषयत्वध्रौव्यम्, तत्संसर्गतयैव निश्चयत्वसम्पत्तेरिति नैकतरपक्षपातो युक्त इति दिक् ।
॥ अभावस्य सविकल्पनिर्विकल्पज्ञानवेद्यत्ववादः ॥ विधात्रेवेति । एतेन
आहुर्विधातृ प्रत्यक्षं, न निषेद्ध विपश्चितः । नैकत्वे आगमस्तेन, प्रत्यक्षेण प्रबाध्यते ॥ [ब्रह्मसिद्धिः २.१]
Page #81
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का० ३]
४७ विद्याविधानानुषङ्गात् । सोऽयमविद्याविवेकिसन्मानं कु तश्चित्प्रतीयन्नेव न निषेद्धप्रत्यक्षमन्यदेवेति ब्रुवाणः कथं स्वस्थः ? कथं वा प्रत्यक्षादेनिषेद्धृत्वाभावं
- अष्टसहस्रीतात्पर्यविवरणम्
इति मण्डनमिश्रोक्तमपास्तम्, वस्तुनो विधिनिषेधोभयांशसंवलितत्वेन विध्यंश इव निषेधांशेऽपि प्रत्यक्षव्यापारानुपरमात् ।
अथ निविकल्पकरूपमेव प्रत्यक्षप्रमाणं स्वीक्रियते न सविकल्पकम, तस्य जात्यादियोजनात्मकत्वेन स्मृतिप्रायत्वात्, तच्च भावस्यैव भवति नाभावस्य, तस्य सविकल्पकैकवेद्यत्वस्वीकारादिति विधातृ एव प्रत्यक्षमिति वचनं नाचतुरस्रमिति चेत्, न, अभावः सविकल्पकैकवेद्य इति सिद्धान्तस्य नियुक्तिकत्वात्, इन्द्रियसन्निकर्षबलाद्भावस्येवाभावस्यापि निर्विकल्पकसिद्धेः, इन्द्रियसम्बद्धविशेषणतायाः प्रतियोगिविशेषिताभावप्रत्यक्षत्वमेव कार्यतावच्छेदकमित्यत्र मानाभावात्, अन्यथा सप्रकारकप्रत्यक्षत्वावच्छिन्न एव लौकिकप्रत्यासत्तिसम्बन्धेनेन्द्रियत्वेन हेतुताया युक्तत्वाद् भावनिर्विकल्पकस्याप्युच्छेदापत्तेः, (शं.) नेत्याकारकप्रत्यक्षवारणाय प्रथमहेतुताया एव युक्तत्वमिति चेत्, न, न नेत्याकारकप्रत्यक्षवारणाय द्वितीयहेतुताया एव युक्तत्वात् । (शं.) किञ्चिदस्तीति प्रयोगान्न नेतीष्टमेवेति चेत्, शून्यमिदं दृश्यत इति प्रयोगान्नेत्यपि किं नेष्टम् ? भावत्वेनाखण्डोपाधिना भावस्येवाभावत्वेनाखण्डोपाधिनाभावस्यापि प्रत्यक्षोपगमे बाधकाभावात्, नजुल्लेखस्य तु प्रतियोगिवाचकपदनियतत्वेनासार्वत्रिकत्वात् । (शं.) अभावज्ञानस्य प्रतियोगिधीसापेक्षत्वात् घटत्वाद्यवच्छिन्नप्रकारत्वान्यप्रकारत्वानिरूपिताभावविषयताकप्रत्यक्षे घटादिधियो हेतुत्वान्नाभावांशे निर्विकल्पकमभाव इत्याकारकप्रत्यक्षं च जायते, ईदृशप्रत्यक्षस्य निखिलप्रतियोगिज्ञानकार्यतावच्छेदकाक्रान्तत्वात्तस्य चासम्भवादिति चेत्, न, तथाप्यभावत्वनिर्विकल्पकापत्तेः, लाघवाय घटपटोभयाभावप्रत्यक्षनिर्वाहाय च घटादिधियो घटत्वाद्यवच्छिन्नप्रकारत्वनिरूपिताभावविषयताकप्रत्यक्ष एव हेतुत्वौचित्येन केवलाभावनिर्विकल्पकस्य वारयितुमशक्यत्वाच्च । यदि चाभावलौकिकप्रत्यक्षस्य घटत्वाद्यन्यतमविशिष्टविषयकत्वनियमाद्विशेषसामग्री विना सामान्यसामग्रीमात्रात् कार्यानुत्पत्ते भावनिर्विकल्पकं नेत्याकारकप्रत्यक्ष वा विशेषणज्ञानादिरूपविशेषसामग्रयभावादिति विभाव्यते, तदा द्रव्यलौकिक प्रत्यक्षस्यापि किञ्चिद्धावच्छिन्नपर्यायविशिष्टविषयकत्वनियमाद्वस्तुमात्रस्य सविकल्पकैकवेद्यत्वमस्तु । यदि च शुद्धब्रह्मणि निर्विकल्पकविषयत्वमेव तत्त्वमसीत्यादिवाक्यादपि जहदजहल्लक्षणयाखण्डब्रह्मण्येव पदवृत्तिग्रहेण निर्विकल्पकशाब्दबोधोपपत्तिरिति विभाव्यते तदा द्रव्यार्थादेशात् सर्वत्र विशेषविनिर्मोकेण निर्विकल्पकपदशक्तिग्रहसम्भवात्
Page #82
--------------------------------------------------------------------------
________________
४८
अष्टसहस्त्रीतात्पर्यविवरणम् प्रतीयात् ? यतस्तत्प्रतिपत्तिः, तस्यैवाभावविषयत्वसिद्धेः । प्रत्यक्षादेविधातृत्वप्रतिपत्तिरेव निषेद्धृत्वाभावप्रतिपत्तिरिति चेत्, तर्हि सिद्धं भावभावविषयत्वं तस्येति न परोदितो विधिर्वाक्यार्थः सिद्ध्यति, नियोगस्यैव वाक्यार्थत्वोपपत्तेः प्रभाकरमतसिद्धिः । स एव वाक्यार्थोऽस्तु इत्ययुक्तम्, धात्वर्थवन्नियोगस्य परोपवर्णितस्वरूपस्य वाक्यार्थतया प्रतीत्यभावात्, सर्वत्र भावनाया एव वाक्यार्थत्वप्रतीतेः । सा हि द्विधा; शब्दभावना अर्थभावना च ।
शब्दात्मभावनामाहुरन्यामेव लिङादयः ।
इयं त्वन्यैव सर्वार्था सर्वाख्यातेषु विद्यते ॥ [प्रमाणवार्तिका० २.१२१] इति वचनात् । तत्र शब्दभावना शब्दव्यापारः, शब्देन हि पुरुषव्यापारो भाव्यते, पुरूषव्यापारेण धात्वर्थो, धात्वर्थेन फलमिति ।
न चैवं पुरूषव्यापारे शब्दव्यापारवद्धात्वर्थे च पुरुषव्यापारवत् फले धात्वर्था भावनानुषज्यते, तस्य शुद्धस्य सन्मात्ररूपतया विधिरूपत्वप्रसङ्गात् । तदुक्तम्
सन्मानं भावलिङ्गं स्यादसंपृक्तं तु कारकैः । धात्वर्थः केवलः शुद्धो भाव इत्यभिधीयते ॥
। अष्टसहस्त्रीतात्पर्यविवरणम् सर्वस्यैव निर्विकल्पकैकवेद्यत्त्वमस्त्विति निर्विकल्पसविकल्पकतयापि पदार्थानामनेकान्त एव श्रेयान् । तदुक्तं पुरुषद्रव्यमाश्रित्य सम्मतौ
'सवियप्पणिव्विअप्पं, इय पुरिसं जो भणेज्ज अविअप्पं ।
सविअप्पमेव वा णिच्छएण ण स णिच्छिओ समए ॥१॥ त्ति [१.३५] तथा च सर्वप्रमाणानां निर्विकल्पकादेशाद्विधातृत्वं सविकल्पकादेशाच्च निषेद्धृत्वमिति तुल्यौ विधिनिषेधाविति मन्तव्यम्, अधिकमेतत्तत्त्वं नियामृततरङ्गिण्यां प्रतिपादितमस्माभिरिति तत एवाधिगन्तव्यम् ।
नियोगस्यैवेत्याद्यारभ्य भावनावाक्यार्थत्वसाधनोपक्रमो भाट्टस्य, शब्दात्मेति, शब्दात्मभावनां शब्दनिष्ठप्रवर्त्तनालक्षणाम्, अन्याम् आख्यातसामान्यार्थभिन्नाम् । इयं तु
सविकल्पनिर्विकल्पं इति पुरुषं यो भणेत् अविकल्पम् । सविकल्पमेव वा निश्चयेन न स निश्चित: समये ।।
Page #83
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि. १-का. ३]
तां प्रातिपदिकार्थं च धात्वर्थं च प्रचक्षते । सा सत्ता सा महानात्मा यामाहुस्त्वतलादयः ॥ [वाक्यपदीयम्-३.१.३४]
अष्टसहस्त्रीतात्पर्यविवरणम्
पचतीत्यादौ दृश्यमाना भावना तु अन्यैव ततः, सर्वार्था आख्यातसामान्यशक्या, अत एव सर्वाख्यातेषु वर्तते वाचकत्वेन । शब्देन हीति तथा च फलान्वितधात्वर्थान्वितार्थभावनाकत्वं शब्दभावनात्वमित्यर्थः । सन्मात्रमिति अत्र स्थाने, अन्यत्र
सम्बन्धिभेदात् सत्तैव, भिद्यमाना गवादिषु ।।
जातिरित्युच्यते तस्यां, सर्वे शब्दा व्यवस्थिताः ॥१॥ [वाक्यपदीयम् ३.१.३३] इति कारिकाऽस्ति, तदर्थो-गवादिशब्दानां ब्रह्मसत्तावाचित्वम्, गोत्वादेस्तु प्रयोगोपाधितया लाभ इति । एवं च सर्वशब्दाविशेष इति प्रकृतकारिकया कारकासम्पृक्तस्य शुद्धस्य भावस्य धात्वर्थत्वं प्रतिज्ञायते । तामिति तां=सत्ताम्, महानात्मा शुद्धं ब्रह्म, यां त्वतलादयो भावप्रत्यया आहुरिति तेषां खलु सत्तासामान्यमर्थः, घटपटाद्युत्तरत्वादीनां च प्रकृतिजन्यबोधप्रकारो धर्मो घटत्वादिः, न चैवं घटत्वत्वस्यापि वाच्यत्वापत्तौ गौरवम्, तत्तद्व्यक्तिविशिष्टब्रह्मसत्ताया एव घटत्वघटत्वत्वादिरूपत्वेनात्र लघुगुरुविचारानवकाशात् । अत एव वार्त्तिककारैः तस्य भावस्त्वतलौ इति सूत्रे (पा० ५.१ ११९) यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने त्व-तलौ इत्युक्तम्, यस्य गुणस्य विशेषणस्य भावाद= आश्रयत्वाद् द्रव्ये विशेषे शब्दनिवेशः=शब्दप्रवृत्तिस्तस्मिन् वाच्ये त्व-तलाविति तदर्थः । तथा च रूपादिशब्देभ्यो जातौ प्रत्ययः, रूपादिशब्दानां जातिप्रकारकबोधजनकत्वात्, पकत्रादिशब्दानां क्रियाप्रकारकबोधजनकत्वेन तेभ्यः क्रियायाः सम्प्रत्ययः, संसर्गप्रकारकबोधजनकत्वमते च संसर्ग इत्यादिव्यवस्था सूपपादा । यद्वा सर्वे भावाः स्वेनार्थेन भवन्ति स तेषां भाव-इति वात्तिके पक्षान्तरोक्तेः भवन्ति वाचकत्वेन प्रवर्त्तन्त इति भावाः स्वेन स्वरूपेणार्थेन भवन्ति प्रवर्त्तन्तेऽतः स तेषामर्थानां भावः प्रवृत्तिनिमित्तमिति तदर्थाच्छब्दोऽपि त्वप्रत्ययार्थः, अर्थवच्छब्दस्यापि द्रव्ये प्रकारत्वात्, अदृष्टार्थकदशरथादिपदेषु तत्तच्छब्दवाच्यत्वेनैव बोधस्य सर्वसिद्धत्वात् दशरथत्वादिना शाब्दबोधस्योपपादयितुमशक्यत्वात्, अदृष्टदशरथादीनां दशरथत्वादिप्रकारकबोधाभावेन विशेषणग्रहाभावाद् दशरथत्वविशिष्टादौ शक्तिग्रहासम्भवेन पदजन्यदशरथत्वादिविशिष्टपदार्थोपस्थितेरभावात् । प्रमेयवान् इत्यनुभवजन्ये संस्कारे प्रमेयत्वांशे मोषवशाद्दशरथत्वमात्रप्रकारकस्मृतिजनकोद्बोधकवशाद्दशरथत्वप्रकारक स्मरणस्यापि
Page #84
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम् इति च । प्रतिक्षिप्तश्चैवंविधो विधिवादो नियोगवादिनैवेति नास्माकमत्रातितरामादरः । अथ ततोऽन्यो धात्वर्थः सोऽपि न प्रत्ययार्थशून्यः कुतश्चिद्वाक्यात्प्रतीयते, तदुपाधेरेव तस्य ततः सम्प्रत्ययात् । प्रत्ययार्थस्तत्र प्रतिभासमानोऽपि न प्रधानं कर्मादिवदन्यत्रापि भावादिति चेत्, तर्हि धात्वर्थो यजनादिः प्रधानं मा भूत् प्रत्ययान्तरेऽपि भावात् प्रकृतप्रत्ययापायेऽपीति समानं पश्यामः । यदि पुनः क्रिया सकलव्यापिनी, धात्वर्थः सर्वधातुषु भावात् तदा सैव भावना किं नेष्यते ? सर्वार्थेषु सद्भावात् । यथैव हि जुहुयाज्जुहोतु होतव्यमिति लिङादयः क्रिया हवनावच्छिन्ना प्रतिपादयन्ति तथा सर्वाख्यातप्रत्यया अपि, पपाच पक्ष्यतीति पचनावच्छिन्नायाः क्रियाया एव प्रतिपत्तेः, पाकं करोति चकार करिष्यतीति, तथा च लिङादिप्रत्ययप्रत्याय्यः करोत्यर्थ एव वाक्यार्थ इत्यायातम् । स च भावनास्वभाव एवेति न धात्वर्थ एव वाक्यार्थतया प्रतीयते । नापि कार्यादिरूपो नियोगः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
तदंशेऽन्याप्रकारकतत्प्रकारकस्मरणे तादृशसंस्कारहेतुत्वावश्यकत्वेन वक्तुमशक्यत्वात्, अन्यथा जातित्वेन घटत्वप्रकारकसंस्कारादपि जातित्वांशे मोषदशायां घट इति स्मरणापत्तेः । न च प्रमेयाभाववदित्याकारकज्ञानात् संसर्गविधया शुद्धदशरथत्वादिस्वरूपप्रतियोगित्वलक्षणसम्बन्धविषयकाद् ज्ञानलक्षणप्रत्यासत्तेः शुद्धदशरथत्वादिप्रकारको मानसानुभवः सुलभ इत्यपि वक्तुं शक्यम्, सांसर्गिकज्ञानस्य सार्वझ्यापत्तिभयेनोपनायकत्वानभ्युपगमात् । एतेन यत्र दशरथत्वादिसम्बन्धेन घटादिभ्रमो जातः तत्र तथाविधशक्तिग्रहोपपादनं सुकरमिति रघुदेवोक्तमपि अपास्तम् । तस्मादर्थवच्छब्दस्यापि शक्यतावच्छेदकत्वं युक्तम्, घटादिपदेष्वपि घटत्वादिकं घटादिपदं चेत्युभयं शक्यतावच्छेदकम्, तत्र जातिप्रकारकः शक्तिग्रहो विशिष्यापेक्षितः, पदप्रकारकस्त्विदं पदं क्वचिच्छक्तमिति सामान्यत एवेति विशिष्यागृहीतशक्तिकेभ्यः किञ्चिदाकारेणैव शाब्दबोध इति दिक् ।
किं नेष्यत इति, आख्यतार्थतयेति शेषः । तथा च लिङादीति, अत्र क्रियामात्रमर्थभावना, लिङादिनिष्ठा प्रवर्तना तु किं कथं केनेत्यंशत्रयवती शब्दभावनेति विशेषः । तदुक्तम्
'लिङोऽभिधा सैव तु शब्दभावना, भाव्यं तु तस्याः पुरुषप्रवृत्तिः । सम्बन्धबोध: करणं तदीयं, प्ररोचना चाङ्गतयोपयुज्यते ॥ [
] इति ।
Page #85
--------------------------------------------------------------------------
________________
५१
प्रथमो भागः [ परि. १-का. ३] [शब्दव्यापाररूपेण शब्दभावनैव नियोग इति प्रभाकरेण मन्यमाने सति भाट्टः तन्निराकरोति]
ननु शब्दव्यापाररूपो नियोगः प्रतीयत एव । शब्दो हि स्वव्यापारस्य पुरुषव्यापारकरणलक्षणस्य प्रतिपादको, न पुनः कारकः शब्दानुच्चरितान्नियुक्तोऽहमनेनेति प्रतिपत्तॄणां प्रतिपत्तेरन्यथानुपपत्तेरिति चेत्, तर्हि भावनैव नियोग इति शब्दान्तरेणोक्ता स्यात् । तदुक्तम्
शब्दादुच्चरितादात्मा नियुक्तो गम्यते नरैः । भावनातः परः को वा नियोगः परिकल्प्यताम् ॥ इति । [प्रमाणवार्तिका० २.१२२]
[गृहीतसङ्केतः शब्दोऽर्थं प्रत्यायति अगृहीतसङ्केतो वास्य विचारः क्रियते]
स्यान्मतम्-यदि शब्दव्यापारो भावना कथमगृहीतसङ्केतो नैव गच्छति नियुक्तोऽहमनेनेति स्वभावतस्तस्य नियोजकत्वात्, सङ्केतग्रहणस्यानुपयोगित्वादिति तदसमीचीनमेव, सङ्केतस्य तथावगतौ सहकारित्वात् सामग्री जनिका नैकं कारणमिति प्रसिद्धः । ननु च सङ्केतसामग्री न प्रेरणे भावनायां वा व्याप्रियते, अर्थवेदने तस्याः प्रवृत्तेः, अर्थप्रतीतौ पुरुषस्य स्वयमेव तत्र तदर्थितया प्रवृत्तेः । इदं कुर्विति प्रेषणाध्येषणयोरेव हि प्रतीतिः, तदप्रतीतौ नियुक्तत्वाप्रतिपत्तेः, नियुक्तत्वं च नाम कार्ये व्यापारितत्वम् । कार्ये व्यापृततामवस्थां प्रतिपद्य नियोजको नियुङ्क्ते । सा च तस्य भाविन्यवस्था न स्वरूपेण साक्षात्कर्तुं शक्या, स्वरूपसाक्षात्करणे हि सर्वं तदैव सिद्धमिति न नियोगः स्यात्सफलः । ततः प्रयोजको बाध्यमानप्रतीतिक एव, तदुक्तम्
यथा प्रयोजकस्तत्र बाध्यमानप्रतीतिकः ।
प्रयोज्योऽपि तथैव स्याच्छब्दो बुद्ध्यर्थवाचकः ॥ [प्रमाणवार्तिका० २.१२९] यथैव हि प्रयोजकस्य शब्दस्य प्रयोज्येन पुरुषेण स्वव्यापारशून्यमात्मानं प्रतीयता प्रयोजकत्वप्रतीतिर्बाध्यमाना निरालम्बना तथा प्रयोज्यत्वप्रतीतिरपि तेनैव स्वव्यापाराविष्टमात्मानमप्रतीयता बाध्यते । शब्दात् सा प्रतीतिरिति च न युक्तम्, तस्य बुद्ध्यर्थख्यापनत्वात् । सोऽपि हि शब्दो बुद्ध्यर्थमेव ख्यापयति । एवं मया
- अष्टसहस्त्रीतात्पर्यविवरणम् ननु चेत्याद्यारभ्य प्रज्ञाकर इत्यन्तो बुद्ध्याकार एव नियोगो भावना वा लिङाद्यर्थो
Page #86
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम् प्रतिपादितमेवं मया प्रतिपन्नमिति, द्वयोरपि प्रतिपादकप्रतिपाद्ययोरध्यवसायात । पौरुषेयवचनाद्धि मयैवं तावत्प्रतिपन्नमस्य तु वक्तुरयमभिप्रायो भवतु मा वा भूदिति प्रतिपत्ताध्यवस्यति । अपौरुषेयादपि शब्दादेवमयमर्थो मया प्रतिपन्नोऽस्य भवतु मा वा भूदिति वक्तृव्यापारविषयो योऽर्थः पौरुषेयशब्दस्य यो वा बुद्धौ प्रकाशतेऽर्थः अपौरुषेयत्वाभिमतशब्दस्य तत्र प्रामाण्यं न पुनर्बाह्यार्थतत्त्वनिबन्धनम् तदुक्तम्
वक्तृव्यापारविषयो योऽर्थो बुद्धौ प्रकाशते ।
प्रामाण्यं तत्र शब्दस्य नार्थतत्त्वनिबन्धनम् ॥ [प्रमाणवार्तिक-१.४] इति वचनात् । ततो विवक्षारूढ एवार्थो वाक्यस्य, न पुनर्भावनेति प्रज्ञाकरः ।
[प्रत्यक्षवच्छब्देनाऽपि बाह्यपदार्थस्य ज्ञानं भवति]
सोऽपि न परीक्षकः, प्रत्यक्षादिव शब्दाद् बहिरर्थप्रतीतिसिद्धेः । यथैव हि प्रत्यक्षात्प्रतिपत्तृप्रणिधानसामग्रीसव्यपेक्षात्प्रत्यक्षार्थप्रतिपत्तिस्तथा सङ्केतसामग्रीसापेक्षादेव शब्दाच्छब्दार्थप्रतिपत्तिः सकलजनप्रसिद्धा, अन्यथा ततो बहिरर्थे प्रतिपत्तिप्रवृत्तिप्राप्त्ययोगात् । न चार्थवेदनादेवार्थे पुरुषस्यार्थिनः स्वयमेव प्रवृत्तेः शब्दोऽप्रवर्तक इत्येव वक्तुं युक्तम्, प्रत्यक्षादेरप्येवमप्रवर्तकत्वप्रसङ्गात्, तदर्थेऽपि सर्वस्याभिलाषादेव प्रवृत्तेः । परम्परया प्रत्यक्षादि प्रवर्तकमिति चेत्, तथा वचनमपि प्रवर्तकमस्तु, विशेषाभावात्, यथा च प्रत्यक्षस्य सलिलादिरर्थः, तस्य तत्र प्रतीतेस्तथा वाक्यस्य भावना प्रेरणा वा तस्यैव तत्र प्रतीतेरबाध्यमानत्वात् ।
[वचनेन कार्यस्य साक्षात्कारो भवति न वेति विचार:] नन्विदं कुर्विति वचनात्कार्ये व्यापारितत्वं पुरुषस्य नियुक्तत्वम्, न च कार्ये व्यापृततावस्था भाविनी तेन साक्षात्कर्तुं शक्या, तत्साक्षात्करणे नियोगस्याफलत्वप्रसङ्गात् । ततो बाध्यमानैव तत्प्रतीतिरिति । तदेतदसमञ्जसमालक्ष्यते, अन्यत्रापि समानत्वात् । प्रत्यक्षस्य हि प्रवर्तकत्वं प्रवृत्तिविषयोपदर्शकत्वमुच्यते । प्रवृत्तिविषयश्चार्थक्रियाकारी सलिलादिः, सा च तस्यार्थक्रियाकारिता भाविनी न
- अष्टसहस्त्रीतात्पर्यविवरणम् न तु बाह्य इति सौगतस्य पूर्वपक्षः । सोऽपि न परीक्षक इत्यादिना प्रत्यक्षवच्छब्दस्य मुख्यमर्थग्राहित्वं प्रवर्तकत्वं च, अन्यथा तस्यापि तन्न स्याद्विकल्पनान्यथासिद्धेः,
Page #87
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. ३]
५३ साधनावभासिना वेदनेन साक्षात्कर्तुं शक्या, तत्साक्षात्करणे प्रवृत्तिवैफल्यात् । ततोऽध्यक्षस्य प्रवर्तकत्वं बाध्यमानप्रतीतिकं कथमेवेति न शक्यं वक्तुम् ? यदि पुनरर्थक्रियाकारितानागतापि साधनावभासिनि वेदने प्रतिभातैव एकत्वाध्यवसायात् तदा शब्दादपि पुरुषस्य कार्यव्यापृत्तता तत एव प्रतिभातैवेति किं नानुमन्यते ? । तथा सति बुद्ध्यारूढोऽर्थः शब्दस्य स्यादिति चेत्, तथापि प्रत्यक्षस्य बुद्ध्यध्यवसितोऽर्थः किन्न भवति ? । ततो निरालम्बनमेव प्रत्यक्षं न स्यात् परमार्थतः प्रत्यक्षमपि न प्रवर्तकम्, स्वरूपस्य स्वतो गतेः संवेदनाद्वैतस्य वा सिद्धिरिति चेत्, पुरुषाद्वैतस्य कुतो न सिद्धिः ? तस्य नित्यसर्वगतस्यैकस्य संवित्त्यभावादिति चेत्, क्षणिकनिरंशस्यैकस्य संवित्तिः किं कस्यचित्कदाचिदस्ति ? यतस्तत्सिद्धिरेव स्यात्, ततः पुरुषाद्वैतवत्संवेदनाद्वैतस्य सर्वथा व्यवस्थापयितुमशक्तेर्भेदवादे च प्रत्यक्षस्य प्रवर्तकत्वायोगाद् भिन्नाभिन्नात्मकं वस्तु प्रातीतिकमभ्युपगन्तव्यम् विरोधादेश्चित्रज्ञानेनोत्सारितत्वात् । भेदस्याभेदस्य वा सांवृतत्वे सर्वथार्थक्रियाविरोधात् । तथा च शब्दात्कार्यव्यापृतताया व्यक्तिरूपेण भाविन्या अपि शक्तिरूपेण पुरुषस्य सतः कथञ्चिदभिन्नाया शब्दज्ञाने तदैव प्रतिभासनेऽपि न नियोगो निष्फलः स्यात्, प्रत्यक्षतः सलिलादौ प्रवृत्तिवत् । तत्र हि सलिलादेरर्थक्रियायोग्यताप्रतिभासनेऽपि व्यक्त्यर्थक्रियानुभवाभावात्तदर्थप्रवर्त्तनं प्रतिपत्तुः सफलतामियत्ति नान्यथा । एवं शब्दादात्मनः कार्यव्याप्ततायोग्यताप्रतिपत्तावपि व्यक्तकार्यव्यापृततानुभवाभावात् पुरुषस्य नियोगः सफलतामियात्, तथाप्रतीतेरेव चाध्यक्षत्वसिद्धेः, ततो न विवक्षारूढ एव शब्दस्यार्थः प्रमाणबलादवलम्बितुं युक्तः सन्मात्रविधिवत् ।
[कारकभेदेन क्रियायाः भेदाभेदविचार:] यदप्युक्तम् नियोगो यदि शब्दभावनारूपो वाक्यार्थस्तथा सति देवदत्तः पचेदिति कर्तुरनभिधानात् कर्तृकरणयोस्तृतीया [पाणिनि. २.३.१८] इति तृतीया प्राप्नोति । कर्तुरभिधाने त्वनभिहिताधिकारात्तिडैव चोक्तत्वान्न भवतीति तदप्ययुक्तं, भावनाविशेषणत्वेन कर्तुः प्रतिपादनात् भावना हि करोत्यर्थः, स च देवदत्तकर्तृक:
अष्टसहस्त्रीतात्पर्यविवरणम् भावीष्टसाधनताया दुर्ग्रहत्वस्य चोभयत्र तुल्यत्वादित्यादिप्रतिबन्धा तन्निरासः । भावनाविशेषणत्वेनेति तथा च भावनान्वययोग्ये कर्मत्वाद्यनवरुद्धप्रथमान्तपदोपस्थाप्ये
Page #88
--------------------------------------------------------------------------
________________
५ ४
अष्टसहस्त्रीतात्पर्यविवरणम्
प्रतिभाति । पचेद् देवदत्तः पाकं कुर्यादिति पाकावच्छिन्नायाः करणक्रियाया देवदत्तकर्त्तृकायाः प्रतीते:, सकृदेव विशेषणविशेष्ययोः प्रतिभासाविरोधात्, नीलोत्पलादिवत् । ततो नेदं प्रज्ञाकरवचश्चारु
क्रमप्रतीतेरेव स्यात् प्रथमं भावनागतिः । तत्सामर्थ्यात्पुनः पश्चाद्यतः कर्त्ता प्रतीयते ॥
[ प्रमाणवार्तिका० २.१३१] इति । यदभ्यधायि द्विवचनबहुवचने च न प्राप्नुतः, एकत्वाद् व्यापारस्य । अथ कारकभेदात् स्वव्यापारभेदो भविष्यति क्रियते कटो देवदत्तयज्ञदत्ताभ्यामिति महदसमञ्जसं स्यात् । तथा हि
एकत्वात्कर्मणः प्राप्तं क्रियैकत्वं तथाभिदः ।
कर्तृभेदादितीत्थं च किं कर्त्तव्यं विचक्षणैः ? ॥ इति । [ प्रमाणवार्तिक० २.१३२] तदप्यसत्यम्, प्रतीतिविरोधात् । प्रतीयते हि धात्वर्थस्य भेदादेकवचनं देवदत्तयज्ञदत्ताभ्यामास्यते, स च धात्वर्थो न नियोगः, नियोगस्य प्रत्ययार्थत्वात् । स च धात्वर्थातिरिक्तः कर्तृसाध्यः, तस्य कर्त्तृभेदाद्भेद इति, ततः कटं कुरुत इति द्विवचनम् । धात्वर्थस्तु शुद्धो न कारकभेदाद्भेदी ।
[शब्दभावनारूपनियोगोऽर्थभावनाया विशेषणमस्य विचारः ]
स्यादाकूतम्
अष्टसहस्त्रीतात्पर्यविवरणम्
लिङर्थसङ्ख्यान्वय इति कर्तृगतसङ्ख्याभिधानानभिधानाभ्यामेवाभिहितानभिहिताधिकारीयव्यवस्थेति नानुपपत्तिरिति भावः । भावनैक्याद् द्विवचनबहुवचनाप्राप्तेर्वक्ष्यमाणदोषस्याप्येतदेव समाधानं द्रष्टव्यम्, भावनान्वयिनो द्वित्वादिना द्विवचनाद्युपपत्तेः । तस्य कर्तृभेदाद् भेद इति तस्य=प्रत्ययार्थस्य स्वान्वययोग्यभेदाद् भिन्नसङ्ख्यान्विततदन्वयित्वमित्यर्थः । न कारकभेदाद् भेदीति, न सङ्ख्याभेदाश्रयकारकान्वयित्वेन भिन्नस्वरूप इत्यर्थः । आख्यातार्थसङ्ख्यान्वयिकारकस्य आख्यातेनैव समं साकाङ्क्षत्वादिति भावः । तथा च चैत्रमैत्राभ्यामास्यत इत्यत्राख्यातार्थसङ्ख्यायाः कारकानन्वितत्वाच्छाब्दन्यायेनोत्सर्गिकमेकवचनम्, धात्वर्थे त्वव्युत्पत्तेरेव न तदन्वयः, आर्थन्यायेन कथञ्चित्तत्र तदन्वयस्वीकारेऽपि सम्प्रदायविरुद्धत्वादेव न द्वित्वादिविवक्षया द्विवचनादिकमिति मन्तव्यम् । कारकद्वयसम्बन्धादिरूपमेव द्वित्वादिकमाख्यातद्विवचनादिना नियोगे प्रतिपाद्यत इत्य प्रत्यवतिष्ठते सौगतः-स्यादाकूतं सम्बन्धाद् यदीत्यादिना, सम्बन्धाद् = भिन्नकारक
Page #89
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. ३]
सम्बन्धाद्यदि तद्भेदो धात्वर्थस्याप्यसौ भवेत् । सोऽपि निर्वर्त्य एवेति तद्भेदेनैव भिद्यताम् ॥ [प्रमाणवार्तिक०- २.१३३]
अस्माकं तु
विवक्षापरतन्त्रत्वाद्भेदाभेदव्यवस्थितेः ।
लाऽभिधानात्कारकस्य सर्वमेतत्समञ्जसम् ॥ [प्रमाणवार्तिक०- २.१३५] क्रिया हि कर्तुः कर्मणश्च भेदेन हि विवक्ष्यते सा यदा लकारेणाभिधीयते, न कर्ता, तदा कर्तरि तृतीया भवति । यदा कर्त्ताभिधीयते तदा प्रथमार्थत्वात्प्रथमा भवति । क्रियते महात्मना, करोति महात्मेति, तदेतदपि पक्षपातमात्रम् सौगतस्य । भेदाभेदयोर्वस्तुरूपयोः प्रतीतिसिद्धत्वेन तद्विवक्षावशात् तथा व्यवहारस्य पारमार्थिकत्वोपपत्तेः, ततो युक्ता शब्दव्यापाररूपा शब्दभावना, पुरुषव्यापार रूपा अर्थभावना च । तत्र हि कर्तृव्यापारस्तिङा प्रतिपाद्यते, स एव च भावना । तथा चाह, भावार्थाः कर्मशब्दाः [ ] । भावनं भावो ण्यन्ताद् घञ्प्रत्ययः, तथा च सति भावनैवासौ, भावना च कर्तृव्यापारः स चोदितः स्वव्यापारे प्रवर्त्तते इति । नियोग्यस्य च तच्छेषत्वादप्रधानत्वादवाक्यार्थत्वम् । नियोगाविशिष्टत्वाच्च भावनायास्तथा प्रतिपादने नियमेन प्रवर्त्तते । कथं चासौ कर्त्ता स्वव्यापारं प्रतीयन्नेव प्रवर्त्तते । अन्यथा स्वव्यापारे एव न चोदितो भवेत् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
सम्बन्धात, तद्भेदः=क्रियाभेदः । धात्वर्थस्यापीति, चैत्रमैत्राभ्यामास्यत इत्यत्र कर्तद्वयसम्बन्धेन धात्वर्थेऽपि द्वित्वाद् द्विवचनापत्तिरिति भावः । स्वमते उपपत्तिमाह सौगत:अस्माकं त्विति । भेदेन हि विवक्ष्यत इति कर्तृभिन्नत्वेन विवक्षिता सती कर्माभिन्नत्वेन विवक्षामाटीकते कर्मभिन्नत्वेन विवक्षिता च कर्बभिन्नत्वेन विवक्षामिति कर्मकर्चभिधानानभिधाननियम इति भावः । पारमार्थिकत्वोपपत्तेरिति । तथा च भावनान्वयिनि सङ्ख्यान्वयात्तदभिधानानभिधानव्यवस्था पारमार्थिक्येव युक्ता, अन्यथोभयविवक्षानिमित्तस्य युगपदेकत्रासम्भवेनौदनः पच्यते स्वयमेवेत्यादिकर्मकर्तृप्रयोगोच्छेदापत्तेः, असत्कर्माद्यभेदविवक्षया व्यवस्थोपपादने सकर्मकाकर्मकप्रयोगादेरपि यादृच्छिकत्वापत्तेश्च । पारमाथिके तु शबलस्वरूपेऽप्यर्थे नेच्छाधीनोऽर्थः, किन्त्वर्थप्रयोजनाद्यधीनेच्छेति न व्यवस्थाक्षतिरित्यादि
Page #90
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम् [वेदवाक्येन यज्ञकार्ये प्रवर्त्तमानः पुरुषः स्वर्गादिफलमपश्यन् कथं प्रवर्तेत
इति शङ्कायां भाट्टस्य प्रत्युत्तरं]
स्यान्मतम्
व्यापार एष मम किमवश्यमिति मन्यते ।
फलं विनैव नैवं चेत् सफलाधिगमः कुतः ॥ इति । [ तदप्यसमीक्षिताभिधानम् अग्निष्टोमेन यजेत स्वर्गकामः [आप १०.२.८] इत्यादिवेदवाक्यसामर्थ्यादेव पुरुषेण तदा मम एष व्यापार इति प्रत्येतुं शक्यत्वात् । ममेदं कर्त्तव्यमिति फलमपश्यन् कथं प्रत्येतीति चेत्, प्रत्यक्षतः कथं प्रत्येति ? फलयोग्यतायाः प्रतीतेरिति चेद्, वाक्यादपि तत एव तथा प्रत्येतु । फलस्यातीन्द्रियत्वात्कथं तद्योग्यता ? स्वव्यापारस्य का प्रतीयते इति चेत्, प्रत्यक्षविषयस्य कथम् ? प्रतिपत्तुरभ्याससामर्थ्यात्प्रत्यक्षस्य विषये फलयोग्यतानिश्चय इति चेत्, तत एव च कर्तुः स्वव्यापारे तद्योग्यतानिश्चयोऽस्तु, सर्वथा विशेषाभावात् ।
[बौद्धो भेदं काल्पनिकं वक्ति, किन्तु भाट्टो वास्तविकं मन्यते]
यदप्यवादि प्रज्ञाकरेण
यजते पचतीत्यत्र भावना न प्रतीयते । यज्याद्यर्थातिरेकेण तस्या वाक्यार्थता कतः ? ॥ [प्रमाणवार्तिक० २.१३८] पाकं करोति यागं च यदि भेदः प्रतीयते ।
एवं सत्यनवस्था स्यादसमञ्जसताकरी ॥ [प्रमाणवार्तिक० २.१३९]
करोति यागं स्वव्यापारं निष्पादयति यागनिष्पत्ति निर्वर्त्तयति व्यपदेशा एते यथाकथञ्चिद्भेदपरिकल्पनपुरस्सराः । नैतेभ्योऽस्ति पदार्थतत्त्वव्यवस्थेति । शिलापुत्रकस्य शरीरमिति भेदव्यवहारो भेदमन्तरेणाऽपि दृश्यते ।
यथा द्विजस्य व्यापारो याग इत्यभिधीयते । ततः परा पुनदृष्टा करोतीति न हि क्रिया ॥ [प्रमाणवार्तिक० २.१४०] यजि क्रिया च द्रव्यस्य विशेषादपरा न हि । सामानाधिकरण्येन देवदत्ततया गतेः ॥ इति ।
Page #91
--------------------------------------------------------------------------
________________
५७
प्रथमो भागः [परि०१-का. ३] तदपि न परीक्षाक्षमम् ।
यजते पचतीत्यत्र भावनायाः प्रतीतितः । यजाद्यर्थातिरेकेण युक्ता वाक्यार्थता ततः ॥ पाकं करोति यागं चेत्येवं भेदेऽवभासिते ।
कानवस्था भवेत्तत्र तत्प्रतीत्यनुसारिणाम् ॥ यजते यागं करोतीति हि यथा प्रतिपत्तिस्तथा स्वव्यापारं निष्पादयतीत्यपि सैव प्रतिपत्तिः, स्वव्यापारशब्देन यागस्याभिधानात्, निष्पादयतीत्यनेन तु करोतीति प्रतीतेः । यागं करोति स्वव्यापारं निष्पादयतीति नार्थभेदः । यागनिष्पत्ति निर्वर्त्तयतीत्यत्रापि यागनिष्पत्तिर्याग एव । निर्वर्त्तनं करणमेव, ततो यागं करोतीति प्रतीतं स्यात्, ततो नैते व्यपदेशा यथाकथञ्चिद्भेदपरिकल्पनपुरस्सराः, प्रतीयमानकरोत्यर्थविषयत्वात्, यागं करोति विदधात्येवमादिव्यपदेशवत्, ततो युक्तैवैतेभ्यः पदार्थतत्त्वव्यवस्था अनवस्थानवतारात् ।
[पुनरपि बौद्धो भेदकल्पनायामनवस्थां दर्शयति भाट्टश्च निराकरोति] अथ यजते यागं करोति यागक्रियां करोतीत्येवमनवस्थोच्यते तर्हि स्वरूपं संवेदयते स्वरूपसंवेदनं संवेदयते इत्यप्यनवस्था स्यात् । अथ स्वरूपं संवेदयते इत्यनेनैव स्वरूपसंवेदनप्रतिपत्तेः स्वरूपसंवेदनं संवेदयते इत्यादि निरर्थकत्वादयुक्तं, तर्हि यागं करोतीत्यनेनैव यागावच्छिन्नक्रियाप्रतिपत्तेर्यागक्रियां करोतीत्यादिवचनमनर्थकमेव व्यवच्छेद्याभावात् । यजते इत्यनेनैव यागावच्छिन्नक्रियाप्रतीतेर्यागं करोतीत्यपि वचनमनर्थकमिति चेत्, सत्यं, यदि तद्वचनादेव तथा प्रत्येति, यस्तु न प्रत्येति तं प्रति विशेषणविशेष्यभेदकथनपरत्वात् तथाभिधानस्य नानर्थक्यम् । शिलापुत्रकस्य शरीरं, राहोः शिर इत्यादिभेदव्यवहारा अपि न कथञ्चिद्भेदमन्तरेण प्रवर्त्तन्ते, गौणत्वप्रसङ्गात् । शिलापुत्रकस्य, राहोरित्युच्यमाने हि किमिह सन्देहः । तद्व्यवच्छित्तये शरीरं, शिर इत्यभिधानमन्यस्य कार्यादेर्व्यवच्छेदकमुपपन्नम् । तस्मिंश्च सति कस्येति संशयः स्यात्, तद्व्यपोहनाय शिलापुत्रकस्य राहोरित्यभिधानं श्रेयः, अवस्थातद्वतोः कथञ्चिद्भेदात् । शरीरं हि शिलापुत्रकस्यावस्था अवयवोपचयलक्षणावस्थान्तरव्यावृत्ता । शिलापुत्रकः पुनरवस्थाता, खण्डाद्यवस्थान्तरेष्वपि प्रतीतेः । एतेन राहुरवस्थाता शिरोऽवस्थायाः ख्यातः ।
Page #92
--------------------------------------------------------------------------
________________
अष्टसहस्रीतात्पर्यविवरणम् [अवस्थामन्तरेणावस्थावान् कश्चिन्नास्ति इति बौद्धेन मन्यमाने भाट्टः प्रत्युत्तरयति]
सांवृतोऽवस्थाता, अवस्थाव्यतिरेकेणानुपलब्धेरिति चेत्, न उभयासत्त्वात् । अवस्थातुरसत्त्वे सांवृतत्वे वावस्थायाः सत्त्वासांवृतत्वविरोधात् खपुष्पसौरभवत् कृत्रिमफणिफटादिवच्च ततो वस्तुस्वभावाश्रय एव यागं करोतीति व्यपदेशः सत्यप्रतीतिकत्वात् । संविदमनुभवतीत्यादिव्यपदेशवत् ।
तथा द्विजस्य व्यापारो याग इत्यभिधीयते । ततः परा च निर्बाधा करोतीति क्रियेष्यते ॥ यजिक्रियापि भावस्याऽविशेषादपरैव हि ।
सामानाधिकरण्येन देवदत्ततया गतेः ॥ [करोतिक्रिया सामान्यं यज्यादिक्रिया विशेषाः तयोः सामान्यविशेषयोः भेदोऽस्ति
इति भाट्टेनोच्यमाने बौद्धो दोषानारोपयति] द्विजो हि व्यापृतेतरावस्थानुयायी स एवायमित्येकत्वप्रत्यवमर्षवशान्निश्चितात्मा परमार्थात्सन्नेकः । यागस्तु तद्व्यापारः प्रागभूत्त्वा भवन् पुनरपगच्छन्ननित्यतामात्मसात्कुर्वन् भेदप्रत्ययविषयस्ततोऽपर एव, कथञ्चिद्विरुद्धधर्माध्यासात् । तथा यागेतरव्यापारव्यापिनी करोतीति क्रियानुस्यूतप्रत्ययवेद्या तद्विपरीतात्मनो यागादर्थान्तरभूता सर्वथाप्यप्रतिक्षेपार्हानुभूयते, यजते यागं करोति देवदत्त इति समानाधिकरणतया देवदत्तेन सहावगतेः । सर्वथा तदैक्ये तद्विरोधात् पटतत्स्वात्मवत् । किं करोति देवदत्तः ? यजति पचतीति प्रश्नोत्तरदर्शनात् करोतीति निश्चितेऽपि यज्यादिषु सन्देहाच्च । तथा हि, यस्मिन्निश्चीयमानेऽपि यन्न निश्चीयते तत्ततः कथञ्चिदन्यत् । यथान्यदेहे निश्चीयमानेऽप्यनिश्चीयमाना बुद्धिः । करोतीति निश्चीयमानेऽप्यनिश्चीयमानश्च यज्यादिरिति । स्यान्मतम्
करोत्यर्थयज्याद्यौँ विभिन्नौ यदि तत्त्वतः ।
अन्यत्सन्दिग्धमन्यस्य कथने दुर्घट: क्रमः ॥ [ न हि करोतीति क्रियातो विभिन्नायां यज्यादिक्रियायां सन्देहे ततोऽन्यत्र करोत्यर्थे निश्चिते प्रश्नः श्रेयान्, अनिश्चिते एव प्रश्नस्य साधीयस्त्वात् । ततः करोत्यर्थयज्याद्यर्थयोस्तादात्म्यमेषितव्यम्, तत्रैव प्रश्नोत्तरदर्शनादिति । तदेतदनुप
Page #93
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. ३] पन्नम्, करोत्यर्थस्य सामान्यरूपत्वात्, तद्विशेषरूपत्वाच्च यज्यादेः । सामान्यविशेषयोश्च कथञ्चिदभेदोपगमात्, सन्दिग्धस्यैव कथनात्, प्रश्नोत्तरक्रमस्य दुर्घटत्वाघटनात्, तदभेदैकान्ते एव तस्य दुर्घटत्वात् । स्यादाकूतं ते
न सामान्यं विशेषेण विना किञ्चित्प्रतीयते ।
सामान्याक्षिप्यमाणस्य न हि नामाप्रतीतता ॥ [ केवलसामान्यप्रतीतौ हि विशेषांशे सन्देह इत्ययुक्तम्, तस्याप्रतीतत्वात् । घटप्रतीतौ हिमवदादिवत् । अथ सामान्येन विशेष आक्षिप्यते, तथा सति सोऽपि प्रतीत एवेति कथं संशयः ? न हि प्रतीतत्वादपर आक्षेपः । अथ प्रतीत एवासौ सामान्येन न तु विशेषेण, तस्य सामान्यरूपेणाक्षेपात् । ननु तदेव सामान्यमाक्षेपकं तदेव आक्षेप्यमिति कथमेतत् ? न च सामान्यादपरं सामान्यमाक्षेप्यम्, तथा सति ततोऽप्यपरं ततोऽप्यपरमित्यनवस्था । ननु सामान्यप्रत्यक्षाद्विशेषाप्रत्यक्षाद्विशेषस्मृतेश्च संशयो युक्त एव, नत्वनुपलम्भादभाव एव युक्तः सामान्येनानुपलम्भप्रमाणवादिनः । अथोपलब्धिलक्षणप्राप्तान पलम्भादभावो नानपलब्धिमात्रात, तथा नुपलब्धेरेव संशयः व्यर्थमेतत्सामान्यप्रत्यक्षादिति । यदि सामान्यप्रत्यक्षतायामप्युपलब्धिलक्षणप्राप्तानुपलब्धिर्न स्यात्, स्यात्संशयः । अथोपलब्धिलक्षणप्राप्तानुपलब्धिरेव न सम्भवति सामान्यप्रत्यक्षतायाम् । एवं तर्हि सैवानुपलब्धि
अष्टसहस्त्रीतात्पर्यविवरणम्
द्रष्टव्यम् । स्यादाकूतं ते इत्याद्यारभ्य प्रज्ञाकरमतम् । ननु सामान्यप्रत्यक्षादित्यादि संशयकारणोपपादनं भाट्टस्य तदसहमानस्य 'नन्वनुपलम्भाद् इत्यादिरुक्तिः प्राभाकरस्य । अभाव एवेति, अभावप्रमाणजन्या प्रमैवेत्यर्थः । सामान्येनेति, योग्यायोग्यानुपलम्भविकल्पद्वयौदासीन्येनानुपलम्भमात्रं प्रमाणमिति वादिन इत्यर्थः । तथानुपलब्धेरेव [इति]अनुपलब्धिलक्षणप्राप्तानुपलब्धेरेव पिशाचादीनामिव संशयो भवत्वित्यर्थः । न स्यादिति अभावनिश्चयकारिणीति शेषः । स्यात् संशय इति निश्चयसामग्रयभावेन सम्भृतसामग्रीकत्वादित्यर्थः । सामान्यप्रत्यक्षतायामिति तदभिन्नतया विशेषस्यापि प्रत्यक्ष
१. नत्वनुपलम्भाद् इति अष्टसहस्रीसम्मतः पाठः ।
Page #94
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम् लक्षणप्राप्तस्यानुपलब्धिः संशयहेतुरिति प्राप्तं, विशेषस्मृतेरिति च व्यर्थम् । न हि विशेषस्मृतिव्यतिरेकेणापर: संशयः, उभयांशावलम्बिस्मृतिरूपत्वात्संशयस्य, दृश्यते च कान्यकुब्जादिषु सामान्यप्रत्यक्षतामन्तरेणापि प्रथमतरमेव स्मरणात् संशयः । तस्मात्करोतीति तदेव यज्यादिकमनियमेन प्रतीयमानं सामान्यतोदृष्टानुमानात्सामान्यम् ।
[बौद्धनारोपितसंशयदोषो भाट्टेन निराक्रियते] तदेतदपि प्रज्ञापराधविजृम्भितं प्रज्ञाकरस्य, करोत्यर्थसामान्यस्याध्यवसाये यज्याद्यर्थविशेषानवगतावेव तत्संशयोपगमात् । न च सामान्येऽध्यवसिते ततोऽन्यत्रविशेषेऽनध्यवसिते संशीतावतिप्रसङ्गः सामान्यविशेषयोः कथञ्चिदभेदात्, हिमवद्घटादीनां तु परस्परमत्यन्तभेदात् । एकत्र निश्चयेऽपि नानवगततदन्यतमे संशीतिर्यतोऽतिप्रसङ्गः स्यात्, नापि सामान्येनाक्षिप्ते तद्विशेषसंशयोपगमोऽस्ति यतस्तदाक्षेपपक्षनिक्षिप्तदोषोपक्षेपः, न चैवमनभिमततद्विशेषेष्वविशेषेण संशयोऽनुषङ्गी, स्मरणविषये एव विशेषेऽनेकत्र संशयप्रतीतेः ।।
[संशयलक्षणस्य विचारः] सामान्यप्रत्यक्षाद्विशेषाप्रत्यक्षाद्विशेषस्मृतेश्च संशय इति वचनात् [ ] । सामान्ये ह्युपलभ्यमाने तदविनाभाविनो विशेषस्यानुपलम्भेऽपि नाभावः सिद्ध्यति, तदभावे तस्याप्यभावप्रसङ्गात् । तदुक्तम्
निर्विशेषं हि सामान्यं भवेच्छशविषाणवत् ।
सामान्यरहितत्वाच्च विशेषास्तद्वदेव हि ॥ [
न चैवं विशेषेऽदृश्यानुपलब्धेरेव संशयः, स्मृतिनिरपेक्षत्वप्रसङ्गात् । विशेषस्मृतिरेव संशय इति चेत्, न साध्यसाधनव्याप्तिस्मृतेरपि संशयत्वप्रसङ्गात् । सर्वसाधनानां संशयितसाध्यव्याप्तिकत्वापत्तेस्तत्स्मृतेरचलितत्वान्न संशयत्वमिति चेत्, तर्हि चलिता प्रतीतिः संशयः । सा चोभयविशेषस्मृत्युत्तरकालभाविनी, तदन्वयव्यतिरेकानुविधानात् । न पुनविशेषस्मृतिरेव सामान्योपलब्धिवत् । तदुभयांशावलम्बिनी स्मृतिः संशीतिरित्यपि फल्गुप्रायम्, तदविचलनेऽपि संशीतिप्रसङ्गात् । सामान्याप्रत्यक्षतायामपि कान्यकुब्जादिषु प्रथमतरमेव स्मरणात् संशयदर्शनान्न सामान्योपलम्भः संशयहेतुरिति चेत्, न, असिद्धत्वात् । तत्रापि हि
Page #95
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि० १-का. ३]
६१ प्रासादादिसन्निवेशविशेषविषय: संशयः कान्यकुब्जनगरसामान्योपलम्भनपुरस्सर एव, सर्वथानुपलम्भे संशयविरोधात् सर्वथोपलम्भवत् । योऽपि तद्भावाभावविषयः संशयः सोऽपि नगरादिसामान्योपलम्भपूर्वक एव, नगरादिकं सामान्यतस्तावत्प्रसिद्धम् । कान्यकुब्जादिनामकं तु तदस्ति किं वा नास्तीत्युभयांशावलम्बिनः प्रत्ययस्योत्पत्तेर्न च नगरत्वं नाम न किञ्चिदिति वक्तुं शक्यम् प्रत्यासत्तिविशेषस्य प्रासादादिसमूहस्य नगरत्वोपवर्णनात् । तत्रानुस्यूतप्रत्ययहेतोगरत्वसामान्यस्य सिद्धेस्तदुपलम्भपूर्वकस्तद्विशेषे संशयो न विरुध्यत एव । ततः करोत्यर्थसामान्योपलम्भात्तद्विशेषयज्याद्यर्थस्यानुपलब्धेरनेकविशेषस्मरणाच्च युक्तस्तत्र सन्देहः । न हि तदेव यज्यादिकमनियमेन करोतीत्युपलब्धुं शक्यम् ।
- अष्टसहस्त्रीतात्पर्यविवरणम् सिद्धेरिति भावः । युक्तस्तत्र सन्देह इति उक्तनीत्या सामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षादनेकविशेषस्मरणाच्च संशय इति प्रागुक्तार्थस्य नियूँढत्वादिति भावः ।
॥ संशयकारणवादः ॥ अत्र सामान्यप्रत्यक्षं धर्मिज्ञानविधया विशेषाप्रत्यक्षं विशेषादर्शनविधयानेकविशेषस्मरणं च कोटिद्वयोपस्थितिविधया संशयकारणमिति मन्तव्यम् । ननु कोट्योर्विरोधज्ञानमपि संशयकारणमस्ति तत्कुतो नोत्कीर्तितमिति चेत्, सत्यम्, संशये तदधिकरणावृत्तित्वरूपो विरोधो न प्रकारस्तथा सति तस्य तदभावव्याप्तिपर्यवसायित्वेन तदभावव्याप्यवत्तानिश्चयरूपसंशयप्रतिबन्धकसत्त्वात्तदभावस्य च कार्यसहभावेन हेतुत्वात् संशयमात्रस्य दुर्लभत्वापत्तेः । न च तदभावव्याप्यवत्तानिश्चयत्वं तदभावाऽप्रकारकत्वघटितम्, गौरवात्, अन्यथा वह्यभावव्याप्यव्याप्यवान् वह्निव्याप्यवान् पर्वत इति परामर्शात् पर्वतो वह्निमान् तदभावव्याप्यवांश्चेति संशयरूपाया अनुमितेर्दुरित्वापत्तेः, किन्तूक्तविरोधः संशये संसर्गतया भासते, तस्य च पूर्वमुपस्थिति पेक्षितेति विरोधज्ञानस्य संशयहेतुत्वोत्कीर्तनायोगात् । किञ्च विरोधाविषयकैकधर्मिकस्थाणुत्वतदभावप्रकारज्ञानेऽपि संशयव्यवहाराद्, अन्यथा तस्य संशयान्यत्वे ततो निश्चयकार्यापत्तेः, संशये न विरोधविषयकत्वस्पर्शोऽपीत्यलं तत्र तज्ज्ञानहेतुत्वशङ्कया ।
एतेन तद्वत्ताग्रहप्रतिबन्धकग्रहविषयत्वरूपस्य विरोधस्यापि प्रकारतया संसर्गतया च संशये भानम् अपास्तम् । अपास्तं च तद्वत्ताबुद्धि प्रति तदभावव्याप्यवत्ताज्ञानस्य प्रतिबन्धकत्वमेकं तदभावव्याप्तिप्रकारतानिरूपिततद्धर्मावच्छिन्नविशेष्यताशालिनिर्णय
Page #96
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम् करोत्यर्थसामान्यासम्भवे सत्त्वसामान्यासम्भवे घटादिकमिवास्तीत्यनियमेन परापरसामान्येषु पुनः सामान्यमित्यनियमेनोपलम्भो गौण एव, सामान्येषु सामान्यान्तरासम्भवात्, तत्सम्भवे वानवस्थाप्रसङ्गात् । न चैवं सर्वत्र सामान्य
- अष्टसहस्त्रीतात्पर्यविवरणम् विशिष्टतद्धर्मावच्छिन्नप्रकारताशालिनिर्णयत्वेन, पुरुषत्वव्याप्यं करादि; करादिमांश्चायमिति ज्ञानद्वयादपि पुरुषत्वसन्देहनिवृत्तेः, अपरं च तदभावव्याप्त्यतिरिक्तनिष्ठप्रकारत्वानिरूपितप्रकारताशालिनिर्णयत्वेन, पुरुषत्वव्याप्यवानयमिति ज्ञानादपि पुरुषत्वसन्देहनिवृत्तेः । एवं च संशये कोट्यंशे विरुद्धत्वकोटितावच्छेदकयोरेकत्र द्वयमिति रीत्या भानोपगमात्तस्योपदशितप्रतिबन्धकतावच्छेदकद्वयान्यतरानाक्रान्तत्वेनानुपपत्तेरभाव इति रघुदेवोक्तमपि, तदभावव्याप्त्यतिरिक्तनिष्ठप्रकारत्वानिरूपितत्वापेक्षया तदभावव्याप्तिनिष्ठप्रकारतानिरूपितत्वनिवेश एव लाघवाच्च, अन्यथैकत्र द्वयमिति रीत्या तदभावव्याप्तिकरत्वाद्यवगाहिनो विशेषदर्शनस्य तद्वत्ताज्ञानप्रतिबन्धकत्वानुपपत्तेरिति दिक् ।
___ अयं स्थाणुर्वा पुरुषो वा ? इत्यत्रापि स्थाणुत्वतदभावपुरुषत्वतदभावरूपकोटिचतुष्टयशाल्येव संशयः स्वीक्रियते, तादृशवाक्यादिदंपदाद्धर्मिणः स्थाणुपुरुषपदाभ्यां स्थाणुत्वपुरुषत्वयोः 'वा'कारद्वयेन चाभावद्वयस्योपस्थितेः, केवलं स नव्यमते शाब्दः, जीर्णनैयायिकमते चोपनयसहकारेण मानस इति विशेष इति नानुपपत्तिः ।
अन्ये त्वेकर्मिणि विरुद्धनानाधर्मप्रकारकज्ञानं संशय इति संशयलक्षणं ब्रुवते, तन्मते स्थाणुर्वा पुरुषो वेत्येवं द्विकोटिक एव संशयः, विरोधज्ञानं च तन्मते संशयकारणमिति मन्तव्यम् । तल्लक्षणार्थश्चैकधर्मितावच्छेदकविशिष्टविशेष्यकत्वावच्छेदेन विरुद्धत्वेन नानाधर्मप्रकारकत्वम्, तेन हृदपर्वतौ वह्नितदभाववन्तावित्यादेः शुक्ताविदं रजतमेतद्रूपवच्च इत्यादेर्घटो द्रव्यं पृथिवी च इत्यादेश्च निरासः । एकर्मिकविरुद्धनानाप्रकारज्ञानत्वरूपं कोटिद्वयविरोधभानसामग्रीसमाजाधीनं संशयत्वं नीलघटत्ववन्न कार्यतावच्छेदकम्, एवं संशयत्वशून्यज्ञानत्वरूपनिश्चयत्वमपि नीलत्वशून्यघटत्ववत्तथेति दीधितिकृतः । न चैवं धर्मिज्ञानमन्तरेण निश्चयवत् संशयोऽपि स्यादिति वाच्यम् सति धर्मीन्द्रियसन्निकर्षे इष्टत्वात्, क्वचिद्धर्मिज्ञानस्य धर्मीन्द्रियसन्निकर्षविधयैवोपयोगात्, कोट्युपस्थितेरपि विशेषणज्ञानमुद्रया विशिष्टबुद्धित्वावच्छिन्न एवापेक्षा, विशेषणज्ञानाहेतुत्वे तु तत्कोटीन्द्रियसन्निकर्ष एवापेक्षितो न तु सर्वत्र तज्ज्ञानमपि । संशयोत्पत्तिसमये निश्चयापत्तिरपि निश्चयत्वस्य कार्यतानवच्छेदकत्वेन तदवच्छिन्नोत्पत्तेरापादयितुमशक्यत्वादेव न भवतीति तदाशयः ।
Page #97
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि० १-का. ३] मन्तरेणेवानियतप्रत्ययो गौण इति वक्तुं शक्यम्, मुख्याभावे गौणस्यानुपपत्तेः । विकल्पबुद्धौ प्रतिभासमानः सामान्याकारो मुख्यः, स्वलक्षणेषु पुनरारोप्यमाणो गौण इति चेत्, न विशेषाकारस्यापि तत्र गौणत्वप्रसङ्गात् । शक्यं हि वक्तुम्, प्रत्यक्षबुद्धौ प्रतिभासमानो विशेषाकारो मुख्यो, बहि: स्वलक्षणेषु स एवाध्यारोप्यमाणो गौण इति । नन्वेवमपि ज्ञानविशेषाः परमार्थतः सन्तः सिद्धाः ? बहिरर्थविशेषास्तु न वास्तवा इति विज्ञानवादिमतमायातं, तर्हि विज्ञानसामान्यं वस्तुभूतं न बहिरर्थ
अष्टसहस्रीतात्पर्यविवरणम्
अस्मत्सिद्धान्ते तु तादृशमपि संशयत्वं निश्चयत्वं च विजातीयविजातीयक्षयोपशमजन्यतावच्छेदकमवश्यं स्वीकर्त्तव्यम्, बहुविधादिसूत्रे (तत्त्वार्थ० १.१६) निश्चितानिश्चितयोरपि पाठात्, बह्वादिभेदानां च कारणभेदप्रतिनियतानामेव परिगणनात्, अन्यथाऽसङ्ख्यभेदापत्तेः, अर्थसमाजग्रस्तस्य च धर्मस्य कार्यतानवच्छेदकत्वे प्रमाणाभाव एव बीजं परैरपि स्वीक्रियते, अन्यथा स्वसामानाधिकरण्यकालिकविशेषणतोभयसम्बन्धावच्छिन्नदुरितनिष्ठप्रतियोगितावच्छेदकताकभेदवडुरितध्वंसत्वमपि तत्त्वज्ञानकार्यतावच्छेदकं न स्यात्, तच्च तत्र तथाविधकार्यकारणभावग्राहकस्य तमेवेत्यादिवेदराशेरिवात्र बह्वादिसूत्रस्य प्रमाणस्य सत्त्वान्नास्त्येवेति तादृशस्यापि संशयत्वादेः कार्यतावच्छेदकत्वं निराबाधमिति । यदि च निश्चयसंशययोरवधारणत्वानवधारणत्वे विषयते अनभवसिद्धे. तदा तयोरेव कार्यतावच्छेदकत्वमिति युक्तमुत्पश्यामः ।।
समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशय इति गौतमीयं सूत्रम् [१.१.२३] समानोऽनेकेषां तत्कोटितदभावकोटिमतां यो धर्मस्तदुपपत्तेर्द्धर्मिणि तद्वत्ताज्ञानात्, विप्रतिपत्तेविरुद्धकोटिद्वयप्रतिपादकाच्छब्दो नित्यो न वा इत्यादिवाक्यात्, उपलब्धिरनुपलब्धिश्च लक्षणया तद्विषयौ भावाभावौ, तयोरव्यवस्थाऽनिश्चायकं सपक्षविपक्षव्यावृत्तधर्मवत्ताज्ञानं ततोऽसाधारणधर्मवद्धर्मिज्ञानादिति यावत्, विशिष्यते व्यावर्त्तते विशेषदर्शनविषयो यस्मात् स विशेषो विशेषादर्शनं तत्सापेक्ष इति । एतावता कारणमुक्तं, लक्षणमाह-विमर्श इति एकधर्मिकविरुद्धोभयप्रकारकं ज्ञानमिति तदर्थः । Tभाष्यकारस्तु समानः कोटिद्वयसहचरितो धर्मः, अनेकधर्मोऽसाधारणधर्मः, उपलब्ध्यनुपलब्ध्यव्यवस्था तत्कोटिकज्ञानस्य तदभावकोटिकज्ञानस्य च सद्विषयकत्वानवधारणं प्रामाण्यसंशय इति यावद् इत्याह । तदिह करोत्यर्थभावनारूपधर्मिज्ञानाद्विशेषादर्शनात् यज्यर्थतदितरकोटिद्वयोपस्थितेश्च विशेषसंशयाद् युक्तो विशेषप्रश्न इति बोध्यम् । तत्र= स्वलक्षणेष । विज्ञानवादिमतमायातमिति तावतापि सौगतपक्षो न क्षीयत इति भावः ।
Page #98
--------------------------------------------------------------------------
________________
६ ४
अष्टसहस्त्रीतात्पर्यविवरणम् सामान्यमिति सामान्यविशेषात्मकं विज्ञानं परमार्थसदायातं न क्षणिकविज्ञानस्वलक्षणवादिमतम् । विकल्पविज्ञानेऽपि न वास्तव: सामान्याकारः, तस्यानाद्यविद्योपपादितत्वात् । संवेदनस्वरूपस्यैवासाधारणस्य परमार्थसत्त्वादिति चेत्, न विपर्ययस्यापि कल्पयितुं शक्यत्वात् । संवेदनेऽपि नाऽसाधारणाकारः पारमार्थिकः, तस्यानाद्यविद्योदयनिबन्धनत्वात् संवेदनसामान्यस्यैव वास्तवत्वादिति वदतोऽन्यस्यापि निवारयितुमशक्यत्वात् । न वस्तुभूतं संवित्सामान्यम्, वृत्तिविकल्पानवस्थादिदोषानुषङ्गात् बहिरर्थसामान्यवत् इति चेत्, तर्हि न संविद्विशेषः परमार्थः सन् विचार्यमाणायोगाद् बहिरर्थविशेषवदित्यप्यन्यो ब्रूयात् । तथा च सति आश्रयासिद्धो हेतुरित्युभयत्र समानं दूषणम् । साध्यसाधनविकलं निदर्शनमित्यपि न चोद्यम्, समानत्वात् । संवित्स्वलक्षणाद्वैतोपगमात् सिद्धसाधनमिति चेत्, संवित्सामान्यद्वैतोपगमात्परस्यापि सिद्धसाधनं कुतो न भवेत् ? संवित्सामान्याद्वैतं प्रतीतिविरुद्धम्, विशेषसंविदभावे जातुचिदसंवेदनादिति चेत्, संवित्स्वलक्षणाद्वैतमपि तर्हि प्रतीतिविरुद्धमेव, संवित्सामान्यसंवेदनाभावे तद्विशेषसंवेदनस्य सकृदप्यभावात्, सर्वाक्षेपसमाधीनां समानत्वात् । ततो निर्बाधप्रतीतिबलाद्भेदव्यवस्थायां सामान्यव्यवस्था अस्तु सुघटैव । अन्तः संवेदनेषु तद्वद् बहिरर्थेषु च सामान्यविशेषव्यवस्थोररीकर्त्तुं युक्ता निर्बाधप्रतीतिसिद्धत्वाविशेषात् । एतेनैतदपि प्रत्याख्यातं यदुक्तं धर्मकीर्त्तिना—
अतद्रूपपरावृत्तवस्तुमात्रप्रवेदनात् ।
सामान्यविषयं प्रोक्तं लिङ्गं भेदाप्रतिष्ठितेः ॥ इति । [ प्रमाणवा० भा० १. १४४] तद्रूपानुवृत्तस्य वस्तुमात्रस्य निर्बाधबोधाधिरूढस्य सिद्धेर्भेदमात्रस्या
अष्टसहस्त्रीतात्पर्यविवरणम्
परमार्थसदायातमिति अनिच्छतोऽपि योगाचारस्येति शेषः, विकल्पबुद्धौ प्रतिभासमानस्य सामान्याकारस्य मुख्यतायाः स्वयमेवाभ्युपगमात्तस्य च ज्ञानसामग्रीमात्रप्रभवस्य निर्विकल्पकेऽपि युक्तत्वाद्विशेषरूपताया अपि च बहिरर्थे गौणत्वेन ज्ञानमात्र एव तत्त्वतो विश्रान्तत्वादिति हृदयम् । विपर्ययस्यापि इति अनुभूयमानेऽनुगतव्यावृत्ताकारद्वयेऽन्यतरासत्यत्वे विनिगमकाभावादिति निष्कर्षः । विचार्यमाणायोगाद् इति किं स्यात् सा चित्रतैकस्यामित्यादियुक्तेरिति भावः । एतेन = बाह्यान्तरार्थानां सर्वेषां सामान्यविशेषात्मकतासाधनेन, भेदाप्रतिष्ठितेः = विशेषागोचरत्वात् । भेदमात्रस्य इति अनुवृत्तरूपावगाहिनि
Page #99
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि०१-का. ३] प्रतिष्ठितत्वात्, सर्वदा बहिरन्तश्च भेदाभेदात्मनो वस्तुनः प्रतिभासनात् ।।
[भेदाभेदौ विवक्षावशवर्तिनौ इति बौद्धस्य मान्यताया निराकरणम्] न चैतौ भेदाभेदौ विवक्षामात्रवशवत्तिनौ, सर्वत्र तत्सङ्करप्रसङ्गात्, येनात्मना भेदव्यवस्था तेनैवाभेदव्यवस्थितिः स्यात्, तद्विवक्षाया निरङ्कशत्वात् । पूर्ववासनाप्रतिनियमाद्विवक्षायाः प्रतिनियमसिद्धेर्न तद्वशाद् भेदाभेदव्यवस्थितौ सङ्करप्रसङ्ग इति चेत्, कुतस्तद्वासनाप्रतिनियमः ? प्रबोधकप्रत्ययप्रतिनियमादिति चेत्, न तदनियमे तदनियमप्रसङ्गात् । पूर्वस्ववासनाप्रतिनियमात्प्रकृतवासनाप्रतिनियम इति चेत्, न तस्याः संविदव्यभिचारे वस्तुस्वभावतापत्तेः । कदाचित्तद्व्यभिचारे भेदाभेदव्यवस्थितेरपि व्यभिचारप्रसक्तेः कुतो न तत्सङ्करप्रसक्तिः ? सुदूरमपि गत्त्वा वस्तुस्वभावावलम्बनादेव तत्परिहारमिच्छता वस्तुस्वभावावेव भेदाभेदौ परेणाभ्युपगन्तव्यौ । ततो यदभिन्नं साधारणं वस्तुस्वरूपं तदेव सामान्यं सिद्धम् । न पुनरन्यापोहमानं विकल्पबुद्धिपरिनिष्ठितम्, यतः करोति सामान्यं यज्यादिविशेषव्यापि वास्तवं न भवेत् । तदुपलम्भेऽपि च विशेषे सन्देहोऽनुपलभ्यमानेऽपि स्मृतिविषये न स्यात् ।
[बुद्धिभेदमन्तरेण पदार्थस्य भेदव्यवस्था न भवतीति बौद्धमान्यताया निराकरणम्]
ननु च स्थाणुपुरुषविविक्तमपरमूर्ध्वतासामान्यं यज्यादिविशेषव्यतिरिक्तं च करोतिसामान्यं न वास्तवमस्ति, बुद्ध्यभेदात्, न हि बुद्धिभेदमन्तरेण पदार्थभेदव्यवस्थितिः, अतिप्रसङ्गात् । तदुक्तम्
न भेदाद् भिन्नमस्त्यन्यत्सामान्यं बुद्ध्यभेदतः ।
बुद्ध्याकारस्य भेदेन पदार्थस्य विभिन्नता ॥ इति । [ तदेतदसदेव, सामान्यभेदयोर्बुद्धिभेदस्य सिद्धत्वात् । सामान्यबुद्धिर्हि तावदनुगताकारा, विशेषबुद्धिः पुनर्व्यावृत्ताकारानुभूयते । दूरादूर्ध्वतासामान्यमेव च प्रतिभाति
अष्टसहस्त्रीतात्पर्यविवरणम् - ज्ञानेऽन्ततस्तदाश्रयतयैव भेदावगाहनादिति भावः । सामान्यग्रहणे एवानुमानव्यापारो व्यक्तिस्त्वाक्षेपतो लभ्यत इति तु न वक्तुं युक्तम्, आक्षेपस्याप्यनुमानत्वात्, अनुमितौ सामान्यविषयताप्रवादस्तु व्यापकतानवच्छेदकतत्तद्व्यक्तित्वरूपेण व्यापकानवगाहित्वात्,
Page #100
--------------------------------------------------------------------------
________________
६ ६
अष्टसहस्त्रीतात्पर्यविवरणम्
न स्थाणुपुरुषविशेषौ, तत्र सन्देहात् । तद्विशेषपरिहारेण प्रतिभासनमेव सामान्यस्य, ततो व्यतिरेकावभासनम्, एतावन्मात्रलक्षणत्वात्तद्व्यतिरेकस्य । यदप्युक्तम् —
ताभ्यां तद्व्यतिरेकश्चेत् किन्न दूरेऽवभासनम् । दूरेऽवभासमानस्य सन्निधानेऽतिभासनम् ॥ [
]
इत्येतदप्ययुक्तं विशेषेऽपि समानत्वात् । सोऽपि हि यदि सामान्याद् व्यतिरिक्तस्तदा दूरे वस्तुनः स्वरूपे सामान्ये प्रतिभासमाने किन्न प्रतिभासते ? न हीन्द्रधनुषि नीले रूपे प्रतिचकासति पीतादिरूपं दूरान्न प्रतिचकास्ति । अथ निकटदेशसामग्रीविशेषप्रतिभासस्य जनिका न दूरदेशवर्त्तिनां प्रतिपत्तॄणामिति न विशेषप्रतिभासनं, तर्हि सामान्यप्रतिभासस्य जनिका दूरदेशसामग्री काचिन्निकटदेशवर्त्तिनां नास्ति, ततो न निकटे तत्प्रतिभासनमिति समः समाधिः । अस्ति च निकटे सामान्यस्य प्रतिभासनं स्पष्टं विशेषप्रतिभासनवत्, यादृशं तु दूरे तस्यास्पष्टं प्रतिभासनं तादृशं न निकटे विशेषप्रतिभासनवदेव विशेषो हि यथा दूरादस्पष्टः प्रतिभाति न तथा सन्निधाने, स्वसामग्र्यभावात्, अत एव च न सामान्यस्य प्रतिभासने विशेषेष्वप्रतिभासमानेष्वस्पष्टप्रतिभासव्यवहारः, प्रतिभासमानरूपे एव सामान्ये विशेषे वा अस्पष्टव्यवहारदर्शनात् । न ह्यप्रतिभासितान्यप्रतिभासिता वा कस्यचिदस्पष्ट
अष्टसहस्त्रीतात्पर्यविवरणम्
प्रत्यक्षवृत्तिस्पष्टताख्यविषयिताभावाद्वा समर्थनीयः । ताभ्यामिति ताभ्यां =स्थाणुपुरुषाभ्यां विशेषाभ्यां तस्य = ऊर्ध्वतासामान्यस्य, व्यतिरेको = भेदश्चेत्, किं न दूरे =व्यक्तिभानप्रतिबन्धकदूरत्ववति देशेऽवभासनं ? स्यादेव विशेषात् सामान्यस्य भेदे एकभासकसामग्रयभावेऽपरतदभावस्य नियन्तुमशक्यत्वादिति भावः । इष्टापत् =दूरेऽवभासमानस्य=अस्पष्टाकारस्य सामान्यस्य सन्निधानेऽतिशयेन भासनं स्यात् । यद्दूरेऽ स्पष्टमनुभूयते तत्समीपेऽत्यस्पष्टं भायात्, अस्पष्टे विशेषस्यात्यस्पष्टताया एव सम्भवादिति भावः । निरवच्छिन्नाम्रत्वादिप्रकारताशाल्याम्रादिप्रत्यक्षे निकटदेशवृत्तित्वादेर्हेतुत्वं दूरदेशवृत्तित्वादेर्वा प्रतिबन्धकत्वं कल्प्यते, अस्तु वा सामान्यविशेषसाधारण्येनास्पष्टताख्यविषयताविशेषसम्बन्धेन साक्षात्कारत्वावच्छिन्ने दूरत्वस्य स्पष्टाख्यविषयताविशेषसम्बन्धेन तदवच्छिन्ने च सन्निधानस्य हेतुत्वम्, तत्तद्देशवृत्तित्वविशिष्टविषयस्य ताद्रूप्येणैव वा तत्त्वमिति नोक्तदोषस्पर्श इत्यभिप्रायवान् समाधत्ते - एतदप्ययुक्तं विशेषेऽपि समानत्वा
Page #101
--------------------------------------------------------------------------
________________
] इति
प्रथमो भागः [ परि०१-का. ३]
६७ प्रतिभासिता । किं तर्हि ? कुतश्चिद् दृष्टादृष्टकारणकलापादस्पष्टज्ञानस्योत्पत्तिरर्थेष्वस्पष्टता, विषयिधर्मस्य विषयेषूपचारात्, संवेदनस्यैव ह्यस्पष्टता धर्मः स्पष्टतावत् । तस्या विषयधर्मत्वे सर्वदा तथाप्रतिभासप्रसङ्गात् कुतः प्रतिभासपरावृत्तिः स्यात् ? न चास्पष्टं संवेदनं निर्विषयमेव, संवादकत्वात्, स्पष्टसंवेदनवत् । क्वचिद्विसंवाददर्शनात् सर्वत्र विसंवादे, स्पष्टसंवेदनेऽपि तत्प्रसङ्गात् । ततो नैतत्साधु
बुद्धिरेवातदाकारा तत उत्पद्यते यदा ।
तदास्पष्टप्रतिभासव्यवहारो जगन्मतः ॥ [
चन्द्रद्वयादिप्रतिभासे तद्व्यवहारप्रसक्तेः । न च मीमांसकानां सामान्य विशेषेभ्यो भिन्नमेव वा अभिन्नमेव वा, तस्य कथञ्चित्ततो भिन्नाभिन्नात्मनः प्रतीतेः । प्रमाणसिद्धे च सामान्यविशेषात्मनि जात्यन्तरे वस्तुनि तद्ग्राहिणो ज्ञानस्य सामान्यविशेषात्मकत्वोपपत्तेर्न काचिद् बुद्धिरविशेषाकारा सर्वथास्ति, नाप्यसामान्याकारा सर्वदोभयाकारायास्तस्याः प्रतीतेः । न चार्थाकारा बुद्धिः तस्या निराकारत्वात् तत्र प्रतिभासमानस्याकारस्यार्थधर्मत्वात् । न च निराकारत्वे संवेदनस्य प्रतिकर्मव्यवस्था ततो विरुध्यते, प्रतिनियतसामग्रीवशात् प्रतिनियतार्थव्यवच्छेदकतया तस्योत्पत्तेः प्रतिकर्मव्यवस्थानसिद्धेः साकारज्ञानवादिनामपि तथाभ्युपगमस्यावश्यम्भावित्वात् । अन्यथा सकलसमानाकारव्यवस्थापकत्वानापत्तेः संवेदनस्य तदसिद्धेः । ततोऽसामान्याकारा बुद्धिः सामान्यावभासिनी कुतश्चिदस्पष्टा कस्मिंश्चिद्वस्तुन्यविशेषाकारा च विशेषावभासिनीति दूरे सामान्यस्य प्रतिभासोऽस्पष्टः स्याद्विशेषस्य च कस्यचित्, सकलविशेषरहितस्य सामान्यस्य प्रतिभाससम्भवात् । न चोर्ध्वतासामान्ये विशेषे च प्रतिनियतदेशत्वादौ प्रतिभासमाने स्थाणुपुरुषविशेषयोः सन्देहानुपपत्तिः, तयोरप्रतिभासनात् । तत्प्रतिभासनसामग्रयभावादनुस्मरणे सति सन्देहघटनात्, तद्वत्पचति यजतीत्यादिक्रियाविशेषाप्रतिभासने करोतीति
अष्टसहस्त्रीतात्पर्यविवरणम्
दित्यादिना । कुतश्चिद् दृष्टेत्यादि दृष्टं कारणं दूरत्वादि अदृष्टमस्पष्टक्षयोपशमः । न चैवं व्यभिचारः, दूरत्वादिदोषस्थलेऽप्यस्पष्टक्षयोपशमस्यैवाभ्युपगमात्, तत्त्वावच्छिन्ने च तत्तद्रव्यक्षेत्रकालभावानामेकशक्तिमत्त्वेन हेतुत्वे दोषाभावादिति दिक् । संवादकत्वादिति
Page #102
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम् क्रियासामान्यस्य प्रतिनियतदेशादिरूपस्य प्रतिभासने युक्तः सन्देहः किं करोतीति । तथा प्रश्ने च पचति यजते इत्यादि प्रतिवचनं न दुर्घटम्, कथञ्चित्पृष्टस्यैव प्रतिपादनात् । एवं यजनादिक्रियाविशेषाणां साधारणरूपा करोतीति क्रिया कथञ्चित्ततो व्यतिरेकेणोपलभ्यमाना कर्तृव्यापाररूपार्थभावना विभाव्यते एव, शब्दव्यापाररूपशब्दभावनावत् सकलबाधकरहितत्वनिर्णयात् सैव च वाक्यार्थो न पुनर्नियोगोऽन्यापोहादिवत् इति भट्टसम्प्रदाय एव संवादकः सिद्धः । कार्ये चार्थे चोदनायाः प्रामाण्यं तत एव न स्वरूपे, तत्र बाधकसद्भावात् । सर्ववेदान्तवादनिराकरणान्न भट्टस्य कश्चिदपि प्रतिघात इति कश्चित् ।
[अत्रत्यात् जैनाचार्याः भाट्टस्य भावनावादमपि निराकुर्वन्ति]
अत्र प्रतिविधीयते यत्तावदुक्तं, शब्दव्यापारः शब्दभावनेति । तत्र शब्दात् तद्व्यापारोऽनर्थान्तरभूतोऽर्थान्तरभूतो वा स्यात् ?
६८
[शब्दात् शब्दव्यापारस्याभिन्नपक्षे दोषप्रतिपादनम् ]
यद्यनर्थान्तरभूतस्तदा कथमभिधेयः ? शब्दस्य स्वात्मवत् । न ह्येकस्यानंशस्य प्रतिपाद्यप्रतिपादकभावो युक्तः ? संवेद्यसंवेदकभाववत् । स्वेष्टविपर्यासेन तद्भावापत्तेः, प्रतिनियमहेत्वभावात् । तद्भेदपरिकल्पनया प्रतिपाद्यप्रतिपादकभावे तस्य सांवृतत्वप्रसङ्गात् । स्वरूपमपि शब्दः श्रोत्रेण गमयति बहिरर्थवत् स्वव्यापारेण, ततस्तस्य प्रतिपादक इति चेत्, न रूपादीनामपि स्वरूपप्रतिपादकत्वप्रसङ्गात् । तेऽपि हि स्वं स्वं स्वभावं चक्षुरादिभिर्गमयन्ति, चक्षुरादीनां स्वातन्त्र्येण तत्र प्रवर्त्तनात् तत्प्रयोज्यत्वात् तेषां च रूपादीनां निमित्तभावेन प्रयोजकत्वात् स्वयमधीयानानां कारीषाग्न्यादिवत् । अथ रूपादयः प्रकाश्या एव ततोऽर्थान्तरभूतानां चक्षुरादीनां प्रकाशकादीनां सद्भावादिति मतम्, तथैव शब्दस्वरूपं प्रकाश्यमस्तु, ततोऽन्यस्य श्रोत्रस्य प्रकाशकस्य भावात् । सत्यमेतदिन्द्रियबुद्धेर्विषयभावमनुभवन् प्रकाश्य एव शब्दो रूपादिवत्, प्रतिपादकस्तु स्वरूपे शाब्दीबुद्धिमुपजनयन्नभिधीयते इति चेत्, न तत्र वाच्यवाचकभावसम्बन्धाभावात्, तस्य द्विष्ठत्वेनैकत्रानवस्थितेः ।
Page #103
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. ३]
[शब्दात् शब्दव्यापारस्य भिन्ने मन्यमाने दोषानाह] यदि पुनरर्थान्तरभूत एव शब्दात् तद्व्यापार इति मतं तदा स शब्देन प्रतिपाद्यमानो व्यापारान्तरेण प्रतिपाद्यते चेत्, तर्हि तद्भाव्यः स्यात्, तद् व्यापारान्तरं तु भावनानुषज्यते, तदपि यदि शब्दार्थान्तरं तदा तद्भाव्यं व्यापारान्तरेण स्यात्, तत्तु भावनेत्यपरापरभाव्यभावनापरिकल्पनायामनवस्थाप्रसङ्गः ।
[भाट्टः शब्दात्तस्य व्यापारं भिन्नाभिनं मन्यते तत्रापि दोषानुद्भावयन्ति जैनाचार्याः]
अथ वाक्यात् तद्व्यापारः कथञ्चिदनन्तरम् विष्वग्भावेनानुपलभ्यमानत्वात्, कुण्डादेर्बदरादिवत् । कथञ्चिदर्थान्तरं च विरुद्धधर्माध्यासात्, तदनुत्पादेऽप्युत्पादात्तदविनाशेऽपि च विनाशादाकाशादन्धकारवदिति मतम् । तदाप्युभयदोषानुषङ्गः । स्यान्मतम्, अग्निष्टोमादिवाक्यमुपलभ्यमानं पुरुषव्यापारस्य साधकमिदमित्यनुभवाद्वाक्यस्थ एव तद्व्यापारो भावना वाक्यस्य विषयतां समञ्चति, तथाप्रतीतेः, अन्यथा सर्वत्र विषयविषयिभावसम्भावनाविरोधात् । [भाट्टो वदति यत् जैनैर्मान्यं ज्ञानमपि स्वव्यापाराद् भिन्नमभिन्न भिन्नाभिन्नं वेति त्रिषु पक्षेषु
दोषावतारः] संवेदनमपि हि भवतां स्वव्यापारं विषयीकुर्वत् तदनन्तरभूतमर्थान्तरभूतं वा कथञ्चिदुभयस्वभावं वा संवेदयत्, गत्यन्तराभावात् । प्रथमपक्षे न संवेद्यसंवेदकभावः, संवेदनतद्व्यापारयोः सर्वथानान्तरत्वाद्वाक्यतद्व्यापारयोः प्रतिपाद्यप्रतिपादकभाववत् । द्वितीयपक्षेऽपि न तयोस्तद्भावः, अनवस्थानुषङ्गात्तद्वत् । तृतीयपक्षे तु तदुभयदोषप्रसक्तेस्तद्वदेव कुतः संवेद्यसंवेदकभावः सिद्धयेत् ? अथ स्वार्थसंवेदनव्यापारविशिष्टं संवेदनमबाधमनुभूयमानं विकल्पशतेनाप्यशक्यनिराकरणं संवेद्यसंवेदकभावं साधयतीत्यभिधाने परस्यापि शब्दः स्वव्यापारविशिष्टः पुरुषव्यापारं भावयतीत्यबाधप्रतीतिसद्भावाद्वाक्यव्यापारो भावना वाक्यस्य विषयो व्यवतिष्ठते एवेति ।
[भाट्टेनारोपितान् दोषान् जैनाचार्याः निराकुर्वन्ति] तदनुपपन्नम्, वैषम्यात् । संवेदनेन हि संवेद्यमान स्वात्माऽर्थो वा तस्य विषयो न पुनः संवेदक: स्वात्मा तत्संवेद्यत्वेऽन्यस्य संवेदनस्यात्मनः संवेदक
Page #104
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम् त्वोपपत्तेराकाङ्क्षापरिक्षयादनवस्थानवतारात् । वाक्येन तु भाव्यमानः पुरुषव्यापारो न तस्य विषयः । स्वव्यापारस्तु भावकत्वलक्षणो भावनाख्यो विषयोऽभ्युपगम्यते इति मनागपि न साम्यम्, तथाप्रतीत्यभावाच्च । न हि कश्चिद्वाक्यश्रवणादेवं प्रत्येति स्वव्यापारोऽनेन वाक्येन मम प्रतिपादित इति । किं तर्हि ? जात्यादिविशिष्टोऽर्थः क्रियाख्योऽनेन प्रकाशित इति प्रतीतिः, सर्वेण वाक्येन क्रियाया एव क्रमादिविशेषणविशिष्टायाः प्रकाशनात् । देवदतो गामभ्याज शुक्लां दण्डेनेत्यादिवत् । सैवाभ्याजनादिव्यवच्छिन्ना क्रिया भावना अभ्याज अभ्याजनं कुर्विति प्रतीतिरिति चेत्, न तस्याः पुरुषस्थत्वेन सम्प्रत्ययाच्छब्दात्मभावनारूपत्वायोगात् । तथा च कथमिदमवतिष्ठते
शब्दात्मभावनामाहुरन्यामेव लिङादय इति । [प्रमा० वा० २.१२१]
[अत्रपर्यन्तं शब्दभावनां निराकृत्य इदानीमर्थभावनामपाकुर्वन्ति जैनाचार्याः]
यदप्युक्तम्, अर्थभावना पुरुषव्यापारलक्षणा वाक्यार्थ इति तदप्ययुक्तम्, नियोगस्य वाक्यार्थत्वप्रसङ्गात् । नियुक्तोऽहमनेन वाक्येन यागादाविति प्रतिपत्तुः प्रतीतेः । इष्टस्तादृशो नियोगो भावनास्वभावः, शुद्धकार्यादिरूपस्यैव नियोगस्य निराकरणादिति चेत्, न तस्यापि प्रधानभावार्पितस्य करोत्यर्थादिविशेषणस्य वाक्यार्थत्वोपपत्तेः, निरपेक्षस्य तु करोत्यर्थस्यापि वाक्यार्थत्वानुपपत्तेः । न च करोत्यर्थ एव वाक्यार्थ इति युक्तम्, यज्याद्यर्थस्यापि वाक्यार्थतयानुभवात् । [भाट्टाः करोतिसामान्यक्रियामेव वाक्यस्यार्थं मन्यन्ते, किन्तु जैनाचार्याः भवतिक्रियां सामान्यरूपां
सर्वव्यापिनी मत्वा दोषारोपणं कुर्वन्ति] करोतिसामान्यस्य सकलयज्यादिक्रियाविशेषव्यापिनो नित्यत्वाच्छब्दार्थत्वम्, नित्याः शब्दार्थसम्बन्धा इति [ ] वचनात् न पुनर्यज्यादिक्रियाविशेषास्तेषामनित्यत्वाच्छब्दार्थत्वाऽवेदनात् इति चेत्, न यज्यादिक्रियासामान्यस्य सकलयज्यादिक्रियाविशेषव्यापिनो नित्यत्वाच्छब्दार्थत्वाविरोधात्, सर्वक्रियाव्यापि
अष्टसहस्त्रीतात्पर्यविवरणम्
संवादकत्वस्य च सद्विषयकत्वेन व्याप्तत्वादिति भावः । तथा च कथमिदमवतिष्ठत
Page #105
--------------------------------------------------------------------------
________________
प्रथमो भाग: [ परि० १ - का० ३]
७१
त्वात्करोतिसामान्यं शब्दार्थ इति चेत्, तर्हि सत्तासामान्यं शब्दार्थोऽस्तु, करोतावपि तस्य सद्भावात्, महाक्रियासामान्यव्यवस्थितिरूपत्वात् । यथैव हि पचति पाकं करोति, यजते यागं करोतीति प्रतीतिस्तथा पचति पाचको भवति, यजते याजको भवति, करोतीति कारको भवतीत्यपि प्रत्ययोऽस्ति, ततः करोतीतरार्थव्यापित्वाद् भवत्यर्थस्यैव शब्दार्थत्वं युक्तमुत्पश्यामः ।
[निष्क्रियवस्तुनि अपि भवत्यर्थो विद्यतेऽतः क्रियास्वभावो नास्तीति भाट्टेनोच्यमाने जैनाचार्या निराकुर्वन्ति]
स्यान्मतं-निर्व्यापारेऽपि वस्तुनि भवत्यर्थस्य प्रतीतेर्न क्रियास्वभावत्वं, निष्क्रियेषु गुणादिषु भवनाऽभावप्रसङ्गात् इति चेत्, न करोत्यर्थेऽपि समानत्वात् । परिस्पन्दात्मकव्यापाररहितेऽपि करोत्यर्थस्य भावात्, तिष्ठति स्थानं करोतीति प्रतीते:, गुणादिषु च करोत्यर्थाभावे सर्वथा कारकत्वायोगादवस्तुत्वप्रसक्तेः । तत एव करोत्यर्थो व्यापकः, सति सर्वत्र भावात् । अन्यथा तस्याकारकत्वेनावस्तुत्वात् सत्त्वविरोधात् । भवनक्रियेत्यादिव्यवहारदर्शनाच्च सत्ता करोत्यर्थविशेषणमेव । करोत्यर्थस्यैव सर्वत्र प्राधान्याद्वाक्यार्थत्वम् इति चेत्, न तस्य नित्यस्यैकस्यानंशस्य सर्वगतस्य सर्वथा विचार्यमाणस्यासम्भवात् ।
[करोत्यर्थसामान्यं नित्यमस्ति इति भाट्टेन मन्यमाने जैनाचार्यास्तस्य निराकरणं कुर्वन्ति ]
नित्यं करोत्यर्थसामान्यं प्रत्यभिज्ञायमानत्वाच्छब्दवदिति चेत्, न हेतोर्विरुद्धत्वात्, कथञ्चिन्नित्यस्येष्टविरुद्धस्य साधनात् सर्वथा नित्यस्य प्रत्यभिज्ञानायोगात्, तदेवेदमिति पूर्वोत्तरपर्यायव्यापिन्येकत्र प्रत्ययस्योत्पत्तेः, पौर्वापर्यरहितस्य पूर्वापरप्रत्ययविषयत्वासम्भवात् । धर्मावेव पूर्वापरभूतौ न धर्मसामान्यमिति चेत्, कथं तदेवेदमित्यभेदप्रतीतिः ? पूर्वापरस्वरूपयोरतीतवर्त्तमानयोस्तदित्यतीतपरामर्शिना
अष्टसहस्त्रीतात्पर्यविवरणम्
इत्यादि 'यदि च' विधिनिमन्त्रणामन्त्रणाध्येषणाचतुष्टयसाधारणी प्रवर्त्तनैव शब्दभावना । विधिः = प्रेरणं भृत्यस्य निकृष्टादेः, निमन्त्रणम् = आवश्यकप्रेरणा, आमन्त्रणं = कामचारानुज्ञा, अध्येषणा=सत्कारपूर्वो व्यापारः, एतच्चतुष्टयानुगतप्रवर्त्तनात्वस्य शक्यतावच्छेदकत्वे
लाघवात्, आह च
१. विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् (पा० सू० ३.३.१६१) ।
Page #106
--------------------------------------------------------------------------
________________
७ २
अष्टसहस्त्रीतात्पर्यविवरणम् स्मरणेनेदमिति वर्तमानोल्लेखिना प्रत्यक्षेण च विषयीक्रियमाणयोः परस्परं भेदात्, करोतिसामान्यादेकस्मात्तयोः कथञ्चिद् भेदाभेदप्रतीतिरिति चेत्, सिद्धं तस्य कथञ्चिदनित्यत्वम्, अनित्यस्वधर्माव्यतिरेकात् । न ह्यनित्यादभिन्नं नित्यमेव युक्तमनित्यस्वात्मवत्, सर्वथा नित्यस्य क्रमयोगपद्याभ्यामर्थक्रियाविरोधाच्च तदनित्यं सामान्यं, विशेषादेशाच्छब्दवत्, तत एवानेकं तद्वत् ।
[करोतिक्रिया एकाऽस्तीति भाट्टो वदति तस्य परिहार:] करोतीति स्वप्रत्ययाविशेषादेकं करोतिसामान्यं सदिति स्वप्रत्ययाविशेषादेकसत्तासामान्यवदिति चेत्, न सर्वथा स्वप्रत्ययाविशेषस्यासिद्धत्वात् । प्रतिकरोत्यर्थव्यक्ति करोतीतिप्रत्ययस्य विशेषात् प्रतिसद्व्यक्ति सदितिप्रत्ययवत् । तद्व्यक्तिविषयो विशेषप्रत्यय इति चेत्, तर्हि ता व्यक्तयः सामान्यात्सर्वथा यदि भिन्नाः प्रतिपाद्यन्ते तदा यौगमतप्रवेशो मीमांसकस्य । अथ कथञ्चिदभिन्नास्तदा सिद्धं सामान्यस्य विशेषप्रत्ययविषयत्वं विशेषप्रत्ययविषयेभ्यो विशेषेभ्यः कथञ्चिदभिन्नस्य सामान्यस्य विशेषप्रत्ययविषयत्वोपपत्तेविशेषस्वात्मवत् । ततोऽनेकमेव करोतिसामान्यं सत्तासामान्यवत् ।
[करोति क्रियानंशेति मन्यमाने दोषानाह] नाप्यनंशं, कथञ्चित्सांशत्वप्रतीतेः सांशेभ्यो विशेषेभ्योऽनर्थान्तरभूतस्य सांशत्वोपपत्तेस्तत्स्वात्मवत् ।
तत्सामान्यं सर्वगतमिति मन्यमाने दोषानाहुराचार्याः] तथा न सर्वगतं तत्सामान्यं, व्यक्त्यन्तरालेऽनुपलभ्यमानत्वात् । तत्रानभिव्यक्तत्वात्तस्यानुपलम्भ इति चेत्, तत एव व्यक्तिस्वात्मनोऽपि तत्रानुपलम्भोऽस्तु । तस्य तत्र सद्भावावेदकप्रमाणाभावादसत्त्वादेवानुपलम्भ इति चेत्, सामान्यस्यापि
- अष्टसहस्त्रीतात्पर्यविवरणम्
अस्ति प्रवर्तनारूपमनुस्यूतं चतुःष्वपि । तत्रैव लिङ् विधातव्यः, किं भेदस्य विवक्षया ? ॥ न्यायव्युत्पादनार्थं वा, प्रपञ्चार्थमथापि वा ॥ विध्यादीनामुपादानं, चतुर्णामादितः कृतम् ॥ [
] इति,
Page #107
--------------------------------------------------------------------------
________________
प्रथमो भाग: [ परि० १ - का० ३]
विशेषाभावादसत्त्वादेवानुपलम्भोऽस्तु, व्यक्त्यन्तराले तस्यापि सद्भावावेदकप्रमाणाभावात् प्रत्यक्षतस्तथाननुभवात् खरविषाणादिवत् । व्यक्त्यन्तरालेऽस्ति सामान्यं, युगपद्भिन्नदेशस्वाधारवृत्तित्वे सत्येकत्वाद्वंशादिवदित्यनुमानात्तत्र तत्सद्भावसिद्धिरिति चेत्, न, हेतोः प्रतिवाद्यसिद्धत्वात् । न हि भिन्नदेशासु व्यक्तिषु सामान्यमेकं यथा स्थूणादिषु वंशादिरिति प्रतीयते, यतो युगपद्भिन्नदेशस्वाधारवृत्तित्वे सत्येकत्वं तस्य सिध्यत् स्वाधारान्तरालेऽस्तित्वं साधयेत्, प्रतिव्यक्ति सदृशपरिणामलक्षणस्य सामान्यस्य भेदाद्विसदृशपरिणामलक्षणविशेषवत् । यथैव काचिद् व्यक्तिरुपलभ्यमाना व्यक्त्यन्तराद्विशिष्टा विसदृशपरिणामदर्शनादवतिष्ठते तथा सदृशपरिणामदर्शनात्किञ्चित्केनचित्समानमवसीयते इति निर्बाधमेव, तेनाऽयं समानः सोऽनेन समान इति समानप्रत्ययात् । ननु पूर्वमननुभूतव्यक्त्यन्तरस्यैकव्यक्तिदर्शने समानप्रत्ययः कस्मान्न भवति ? तत्र सदृशपरिणामस्य भावादिति चेत्, तवापि विशिष्टप्रतीतिः कस्मान्न भवति ? वैसादृश्यस्य भावात् । परापेक्षत्वाद्विशिष्टप्रतीतेरिति चेत्, तत एव तत्र समानप्रत्ययोऽपि मा भूत् । न हि स परापेक्षो न भवति, परापेक्षामन्तरेण क्वचित्कदाचिदप्यभावाद् द्वित्वादिप्रत्ययवद् दूरत्वादिप्रत्ययवद्वा । द्विविधो हि वस्तुधर्मः परापेक्षः परानपेक्षश्च, वर्णादिवत् स्थौल्यादि
अष्टसहस्त्रीतात्पर्यविवरणम्
७३
प्रवर्त्तना च प्रवृत्तिजनकज्ञानविषयतावच्छेदको धर्मः स चेष्टसाधनत्वादिरिति विभाव्यतेतदा नामान्तरेण शिष्यध्यान्ध्योत्पादनादृते न कश्चिदन्यो नैयायिकमताद्विशेष इति मन्तव्यम् । परापेक्षामन्तरेण क्वचित् कदाचिदप्यभावाद् इति, अत्र तस्येति योजनीयम् । तस्य= समानप्रत्ययस्येत्यर्थः । ननु इदमयुक्तम्, घटोऽयमित्यादौ घटत्वादिसमानपरिणामप्रत्यक्षस्य परापेक्षामन्तरेणैव सर्वानुभवसिद्धत्वात् न च सामान्यप्रकारकप्रत्यक्षे परापेक्षत्वनियमोऽपि वक्तुं युक्तः, घटत्वं सामान्यमिति प्रतीतेस्तथात्वादिति चेत्, सत्यम्, सामान्यीयविशेषणतासम्बन्धेन सामान्यप्रकारकप्रत्यक्षे तथा नियमे दोषाभावात्, घटत्वं सामान्यमित्यत्र तु सामान्यस्य तादात्म्येनैव प्रकारत्वात्, वैसदृश्येऽपीत्थमेव परापेक्षत्वनियमोपपत्तेः, परापेक्षस्यापि कथञ्चित्तदनपेक्षत्वं तु न दूषणम्, किन्तु स्याद्वादसाधकत्वाद् भूषणमेव । एतेन सामान्यबोधो न परापेक्षो न वा वैसदृश्यबोधः, किन्तु तद्व्यवहार इत्ययमपि नयोऽनुगृहीतो भवतीत्यादि विभावनीयं सुधीभिः ।
१. प्रतीतेरतथात्वादिति मुद्रितः पाठः ।
Page #108
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम् वच्च । ननु च सादृश्ये सामान्ये स एवायं गौरिति प्रत्ययः कथं शबलं दृष्ट्वा धवलं पश्यतो घटेत इति चेत्, एकत्वोपचाराद् इति ब्रूमः ।
[एकत्वं द्विधा मुख्यमुपचरितं चेति विभज्य स्पष्टीकरणं कुर्वन्ति जैनाचार्याः]
द्विविधं ह्येकत्वं मुख्यमुपचरितं चेति । मुख्यमात्मादिद्रव्ये, सादृश्ये तूपचरितमिति । मुख्ये तु तत्रैकत्वे तेन समानोऽयमिति प्रत्ययः कथमुपपद्येत ? तयोरेकसामान्ययोगादिति चेत्, न सामान्यवन्तावेतावितिप्रत्ययप्रसङ्गात् । अभेदोपचारे
- अष्टसहस्त्रीतात्पर्यविवरणम्
॥ एकानेकत्वयोः मुख्यगौणभाववादः ॥ कथं शबलं दृष्ट्वेत्यादि शबलेन समानो धवल इति प्रत्यये सामान्यपदार्थस्य तद्भिन्नत्वे सति तदवत्तिधर्मस्वरूपत्वेन भेदगर्भत्वात भेदप्रत्ययस्य चाभेदज्ञानविरोधित्वादिति भावः । एकत्वोपचारादिति, उपचरितमेकत्वं तज्जातीयाभेदरूपमाश्रित्येत्यर्थः । तद्व्यक्तित्वावच्छिन्नभेदवत्ताबुद्धिर्हि तद्व्यक्तित्वावच्छिन्नभेदाभाववत्ताबुद्धि विरुणद्धि न तु तज्जात्यवच्छिन्नभेदाभाववत्ताबुद्धिमित्येवं न विरोध इत्यर्थः । न चैवं यां काञ्चिज्जातिमादायअतिप्रसङ्गो, विशेष्यवाचकपदवाच्यतावच्छेदकजात्यवच्छिन्नभेदाभावाश्रयणेनानतिप्रसङ्गात् । यद्वैकत्वस्य शबलधवलवृत्तिसमानपरिणामगताभेदस्योपचारं धर्मिण्यध्यारोपमाश्रित्येत्यर्थः । न च एवमत्रापि सादृश्यान्तरमादाय अतिप्रसङ्गः, आरोपे सति इत्यादिन्यायेन सादृश्यान्तरेणाभेदाध्यारोपायोगादिति मन्तव्यम् । मुख्यमात्मादिद्रव्य इति मुख्यं स्कन्धपरिणामकृतमेकत्वमात्मादिषु द्रव्येष्वित्यर्थः । सादृश्ये तूपचरितम् इति प्रथमपक्षे सादृश्य इत्यस्य सादृश्यनिमित्तमित्यर्थः द्वितीयपक्षे सादृश्यवृत्तीत्यर्थः । कथमुपपद्यत इति मुख्यैकत्वस्य परानपेक्षत्वात् स एवायं गौरित्यत्र तदाश्रयणे शबलेन समानो धवल इति प्रत्ययो नोपपद्येतैवेत्यर्थः । तयोरेकसामान्ययोगादिति एतदनन्तरं तेन समानोऽयमिति प्रत्यय उपपद्येतैवेत्यनुषञ्जनीयम्, तयोः=शबलधवलयोर्गोत्वरूपैकसामान्यसम्बन्धेन धवले शबलभिन्नत्वशबलवृत्तिगोत्वसामान्यरूपवत्त्वग्रहे उक्तविशिष्टबुद्धेर्नानुपपत्तिरित्यर्थः । इत्थं तटस्थेनाक्षेपसमाधाने कृते बाधकप्रसङ्गमाह-इति चेदित्यादिना । सामान्यवन्तौ इति मुख्यैकत्वद्वये द्वित्वत्वेनाभिव्यञ्जकापेक्षाधीसत्त्वे समूहालम्बनस्यैव सम्भृतसामग्रीकत्वादित्यर्थः । न चैवं घटवद्भूतलमित्यत्रापि संयुक्ते घटभूतले इत्यस्यापत्तिरिति वाच्यम्, तत्रापि घटवत्त्वसादृश्यकृतैकत्वानाश्रयणे तदापत्तेरिष्टत्वात्, तदाश्रयणे तु धर्मिगतसङ्ख्या
Page #109
--------------------------------------------------------------------------
________________
प्रथमो भाग: [ परि० १ - का० ३]
७५
तु सामान्यतद्वतोः सामान्यमिति प्रत्ययः स्यात्, न तेन समानोऽयमिति । यष्टिसहचरितः पुरुषो यष्टिरिति यथा, यष्टिपुरुषयोरभेदोपचारात् । मृन्मये सत्यगवयसदृशे गोसादृश्यस्य सामान्यस्य भावाद् गोत्वजातिप्रसङ्ग इति चेत्, न सत्यगवयव्यवहारहेतोः सादृश्यस्य तत्राभावात्, तद्भावे तस्य सत्यत्वप्रसङ्गात् । भावगवादिभिः स्थापनागवादेः सादृश्यमात्रं तु गवादिमात्रव्यवहारकारणं तदेकजातित्वनिबन्धनमनुरुध्यते एव सत्त्वादिसादृश्यवत् । ततो न मीमांस
अष्टसहस्त्रीतात्पर्यविवरणम्
पुरस्कारेणैव तदन्वयविवक्षाधीनबोधोपपत्तेरिति ध्येयम् । ननु उपचरितैकत्वाश्रयणेऽपि स एवायं गौरिति धीकाले तेन समानोऽयमिति कथं न स्यात् ? तत्राह - अभेदोपचारे त्विति । सामान्यमिति सम्प्रत्ययः स्यादिति सामान्यान्तर्निगिरणं कृत्वा तदेकत्वप्रत्ययः स्यादित्यर्थः । न तेन समानोऽयमिति तत्समानत्वबुद्धेस्तदेकत्वबुद्धिजनन एवोपक्षीणत्वादिति भावः । सत्यगवयेत्यादि तथा च भावस्थापनादिगोव्यवहारहेतुसादृश्यरूपाणां गोत्वानां भिन्नत्वाभ्युपगमान्न दोषः, एकत्वव्यवहारश्च तेषु गोत्वत्वेनानुगमय्यैवोपपादनीयः । अत एव मृत्त्वस्वर्णत्वादिना साङ्कर्यात् कुम्भकारस्वर्णकारदण्डवर्त्तुलादिजन्यतावच्छेदकतया घटत्वमपि नानैव एकत्वव्यवहारश्च तत्र कथञ्चित्सौसादृश्यादिनेति परेऽपि स्वीकुर्वते । तदेकजातित्वनिबन्धनमिति तेन भावगवादिनैका जातिर्यस्य स्थापनागवादेस्तत्तु अप्रयोजकमित्यर्थः । तथा च गोपदशक्यतावच्छेदकं निक्षेपचतुष्टयानुगतगोत्वमेकं तद्व्याप्यानि च भावगोत्वादीनि नानेति निष्कर्षः । इदं तु बोध्यम् एकानेकत्वेनानुभूयमाने वस्तुनि य एवांश एकत्वावच्छेदकः स एव द्रव्यं य एव चानेकत्वावच्छेदकः स एव पर्याय इति द्रव्यार्थिकनयेनोर्ध्वतासामान्यस्येव तिर्यक्सामान्यस्याप्येकत्वस्याविशेषेण ग्रहणात् केयं वाचोयुक्तिरात्मादिद्रव्ये मुख्यमेकत्वं सामान्ये तूपचरितमिति ? विपर्ययस्यापि वक्तुं शक्यत्वात्, आत्मादिद्रव्यस्याप्येकग्रहणगृहीतासङ्ख्येयप्रदेशाद्यात्मकत्वस्य सिद्धान्तसिद्धत्वात् । (शङ्का) सामान्यस्य व्यञ्जनपर्यायरूपत्वान्न मुख्यमेकत्वमिति चेत्, एवं सति सर्वत्र शब्दानुगम एव स्यान्नार्थानुगमः, तथा चानुभूयमानार्थानुगताकारानुपपत्तिः । किञ्चैवमृजुसूत्रनयेनात्मादिरपि प्रतिक्षणभङ्गुरार्थपर्यायात्मा कथं मुख्यैकतामश्नुवीत ? । नयान्तरेण तु मुख्यमेकत्वमुभयत्राविशिष्टम्, अस्खलितप्रतीतेरेव तत्र मानत्वात्, अनुगतप्रतीतिविष सामान्यं व्यावृत्तिप्रत्ययविषयश्च विशेष इति, अनुगतप्रत्ययोऽपि चोर्ध्वतासामान्यानालम्बनस्तिर्यक्सामान्यमेवालम्बते, विषयेणैव धियां विशेष इति न्यायात्, अन्यथा साकारवादापातात् (शं०) स्वरूपास्तित्वमन्यदेशस्पर्शं न सहत इति चेत् ? अन्यकालस्पर्शमपि कथं
Page #110
--------------------------------------------------------------------------
________________
७६
काभ्युपगतस्वभावं करोतिसामान्यमुपपद्यते यत्सकलयज्यादिक्रियाविशेषव्यापिकर्तृव्यापाररूपभावनाख्यां प्रतिपद्यमानं वाक्येन विषयीक्रियेत । प्रतिनियतक्रियागतस्य तु करोतिसामान्यस्य शब्दविषयत्वे यज्यादिसामान्यस्य कथं तद्विनिवार्येत, येन
अष्टसहस्त्रीतात्पर्यविवरणम्
अष्टसहस्त्रीतात्पर्यविवरणम्
सहतामिति स्मरन्तु देवानुप्रियाः ! सौत्रान्तिकादिसिद्धान्तपद्धतेः स्वतो व्यावृत्तिमतां पदार्थानां कथञ्चिदनुगतधीजननैकशक्तिर्ज्वरहरणैकशक्तिरिव गुडूच्यादीनां सामान्यमिति मते तु तुल्यन्यायेन विशेषस्यापि व्यावृत्तिधीजननशक्तिरूपत्वेन तदुभयाप्रत्यक्षत्वप्रसङ्गः, तदतिरिक्तद्रव्याभावेन द्रव्यार्थतया प्रत्यक्षत्वस्यापि वक्तुमशक्यत्वात् । तस्मादेकत्वमनेकत्वं च सामान्यविशेषयोर्द्रव्यपर्यायावच्छिन्नं स्वस्वग्राहकनयापेक्षया मुख्यमेवेति दिक् । ॥ भावनाधात्वर्थवादः ॥
येन तदपि वाक्यार्थो न स्याद् इति ननु यज्यादिसामान्यस्य शब्दार्थतां वयं न वारयामः, किन्तु धात्वर्थत्वेनान्यलभ्यतया लिङर्थतामेव, अत एव धर्मिकल्पनात इति न्यायादपूर्वकल्पनापेक्षया यागादेः फलकालपर्यन्तं स्थायित्वमेव युक्तं, यागोत्तरकाले इदानीं न यजेयम् इति प्रतीतेर्व्यापारकालावच्छिन्नसमवेतत्वस्यैव यागादिप्रत्यक्षहेतुत्वकल्पनेनोपपत्तेरित्युक्तिरपि प्रत्युक्ता यज्याद्यर्थस्य लिङर्थव्यापारेऽन्वितस्यैवानुभवादार्थ्या भावनाया अप्रतिक्षेपात् । न च सर्वत्र व्यापाररूपा भावना नाख्यातस्यार्थः, किन्तु धातोरेवेति वैयाकरणमतमेव युक्तं, प्राधान्येन प्रतीयमानव्यापारस्य धात्वर्थतायाः प्रकृतिप्रत्यययोः प्रत्ययार्थप्राधान्यम् इति न्यायविरुद्धत्वादिति चेत् ।
अत्राहुरुद्बाहुतयोच्छलन्तो, नवीनवैयाकरणाः स्वयुक्तीः ।
शब्दार्थशुद्धौ वयमेव दक्षा इत्यान्तरं दर्पमिवोद्गिरन्तः ॥ [ उपजातिवृत्तम् ]
यत्तावदुक्तं प्रकृतिप्रत्यययोरित्यादिन्यायाद् व्यापारो न धात्वर्थ इति तदयुक्तं, तस्य न्यायस्य प्रकृत्यर्थप्रकारकबोधे तदुत्तरप्रत्ययजन्योपस्थितिः कारणमिति कार्यकारणभावमूलत्वात् स एव च न सम्भवति, पक्ववानित्यत्र पाकं कृतवानिति विवरणात्, पाकस्य कर्मकारकस्य क्तवतुप्रत्ययार्थे कर्तृकारकेऽनन्वयात् । न च
'सम्बन्धमात्रमुक्तं च श्रुत्वा धात्वर्थभावयोः । तदेकांशनिवेशे तु व्यापारोऽस्या न विद्यते ॥ [
१. तुलना - वैयाकरणभूषणसारः का० ८ ।
]
Page #111
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. ३]
७७ तदपि वाक्यार्थो न स्यात् ? । तदेवं भावनावाक्यार्थसम्प्रदायो न श्रेयान्, बाधकसद्भावात्, नियोगादिवाक्यार्थसम्प्रदायवत् ।
- अष्टसहस्रीतात्पर्यविवरणम् इति भट्टपादोक्तरीत्या सम्बन्धसामान्येन कारकाणामन्वयो वक्तुं शक्यः, क्रियात्वस्यैव कारकान्वयितावच्छेदकत्वेनान्वयप्रयोजकरूपवत्त्वलक्षणयोग्यताविरहात्, तस्मात् क्रियारूपा भावना धात्वर्थ एव । भूवादयो धातव [पा० सू० १.३.१] इति सूत्रे प्रभृतिप्रकारवाचकादिशब्दद्वयेन द्वन्द्वगर्भबहुव्रीहिणा 'भू'प्रभृतयो 'वा'सदृशा धातव इत्यर्थलाभात्, क्रियावाचकत्वे सति भ्वादिगणपठितत्वस्यैव धातुलक्षणत्वपर्यवसानात् । अत्र क्रियावाचके हि-रुक-पृथग-नाना-इत्यादावतिव्याप्तिवारणाय विशेष्यं, 'वा' इत्यादावव्ययेऽतिव्याप्तिवारणाय विशेषणं, 'वा' इत्यस्य यादृशस्याव्ययमध्ये पाठस्तादृशस्यैव भ्वादिगणेऽपि पाठात्, न च गतिगन्धनाद्यर्थनिर्देशो नियामकस्तस्यार्थानादेशनाद् इति [ ] भाष्यपर्यालोचनया धातूनामनेकार्थत्वेन नियमस्याधुनिकत्वलाभात् । क्रियात्वं च व्यापारत्वं, न तु धात्वर्थत्वम्, अन्योन्याश्रयात् । न चान्यतरत्वं धातुत्वं, 'भू-वादय' इति सूत्रवैयापत्तेः । न च सत्तादीन् फलांशानन्यतमत्वेनादाय तद्वाचकत्वे सति गणपठितत्वमेव लक्षणमुच्यतामिति वाच्यम्, तदन्यतममध्ये विकल्पस्यापि विकल्पयतीति प्रयोगानुसारेण प्रवेशध्रौव्यात् तदर्थकचकारेऽतिव्याप्तेरिति बोध्यम् । क्रियावाचकत्व एव हि धातो: कार्यमग्निष्टोमयाजी इत्यादौ कर्मणि करणोपपदे कर्तरि चण्यत् णिनि प्रत्ययोपपत्तिः, विना क्रियां कारकत्वासम्भवेन तद्वाचकप्रत्ययस्याप्यसम्भवात् । न च गम्यमानक्रियामादाय कारकयोग इति भट्टरीतिः युक्ता, आख्यातस्थलेऽपि तदापत्तौ भावनायास्तदर्थत्वप्रवादस्य दत्तजलाञ्जलित्वप्रसङ्गात् । एतेन प्रकृते लिङ्गसङ्ख्यान्वयानुरोधात् कर्तुंर्वाच्यत्वध्रौव्यात् तेनाक्षेपाद्भावनाप्रत्ययः सुघट इत्यपास्तम् । एवं सत्याख्यातेऽपि सङ्ख्यान्वयानुरोधेन कर्त्तर्वाच्यत्वप्रसङ्गात, किञ्चैवं नखैभिन्नो नखभिन्नो हरिणा त्रातो हरित्रात इत्यादौ कर्तकरणे कृता बहुलमिति (पा० सू० २.१.३१) समासो न स्यात्, पुरुषो राज्ञो, भार्या देवदत्तस्येत्यादाविवासामर्थ्यात् । न च दध्योदनो गुडधाना इत्यादाविवात्राध्याहृतक्रियाद्वारा सामर्थ्य वाच्यम्, तत्र विध्यानर्थक्यादगत्या तथास्वीकारेऽपि नखभिन्न इत्यादौ साक्षाद्धात्वर्थान्वये बाधकाभावात् । किञ्च भावनायास्तिर्थत्वे भावयति घटमितिवद्भवति घटमित्यपि स्यात् धात्वर्थफलाश्रयत्वरूपकर्मत्वसत्त्वात् । न च आख्यातार्थव्यापाराश्रयत्वेन
१. तुलना-वैयाकरण भूषणसारः का० ११ । २. वेश इति ह० प्रतौ न दृश्यते । ३. वै० भू० सा० का० ९ ।
Page #112
--------------------------------------------------------------------------
________________
७
८
अष्टसहस्त्रीतात्पर्यविवरणम्
[अत्रपर्यन्तं जैनाचार्य वनावादो निराकृतोऽधुना वेदस्यापौरुषेयत्वं निराक्रियते]
दायावलम्बिनां मते
- अष्टसहस्त्रीतात्पर्यविवरणम्
कर्तृत्वात्तत्सझया कर्मसञ्ज्ञाया बाधान्न द्वितीयेति वाच्यम्, आख्यातार्थव्यापाराश्रयत्वस्य कर्तृत्वरूपत्वे पाचयति देवदत्तो विष्णुमित्रेणेत्यत्र विष्णुमित्रस्याकर्तृतापत्तौ तृतीयानापत्तेः, ग्रामं गमयति देवदत्तो विष्णुमित्रमित्यत्र विष्णुमित्रस्याकर्तृतापत्तौ ग्रामस्य गमिकर्मतानापत्तेश्च । तथा च ग्रामाय गमयति देवदत्तो विष्णुमित्रमित्यपि न स्यात्, गत्यर्थकर्मणि द्वितीयाचतुझे चेष्टायामनध्वनि (पा० सू० २.३.१२) इति गत्यर्थकर्मण्येव चतुर्थीविधानात्,
अपि च फलमात्रस्य धात्वर्थत्वे ग्रामो गमनवानिति प्रतीत्यापत्तिः संयोगाश्रयत्वात्, फलानुत्पाददशायां व्यापारसत्त्वे पाको भवतीत्यनापत्तिापारविगमे पाको विद्यत इत्यापत्तिश्च । न च भावप्रत्ययस्य घनादेरनुकूलव्यापारवाचकत्वात् नानपपत्तिः कर्तरि कृद् इत्यत एव तल्लाभे विशेषानुशासनवैयर्थ्यांपत्तेः अथ कथं फलव्यापारयोर्द्वयोरपि धात्तो लाभ इति चेत्, फले व्यापारे च खण्डशः शक्तिद्वयकल्पनात्, पचतीत्यादौ फलं विक्लित्त्यादि व्यापारो भावनाभिधासाध्यत्वेनाभिधीयमाना किया ।
यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते ।
आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते ॥ [वाक्यपदीय ३.८१] इति ।
न च साध्यत्वेनाभिधाने मानाभावः, पचति पाकः करोति कृतिरित्यादौ क्रियान्तराकाङ्क्षानाकाङ्क्षयोर्दर्शनस्यैव मानत्वात् । क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकरूपस्य साध्यत्वस्यासत्त्वाख्यस्य धातुप्रतिपाद्यत्वकल्पनात्, तदिदमभिप्रेत्योक्तं वाक्यपदीये ।
असत्त्वभूतो भावश्च तिङ्पदैरभिधीयते [वाक्यपदीय २.१९५] इति । न चैवं घजन्तेऽपि धातुना तद्भानापत्तिः, इष्टत्वात्, तत्र प्रकृतिप्रत्ययभागाभ्यां पश्य मृगो धावतीत्यादौ तिङन्ताभ्यामिव साध्यसाधनावस्थयोरभिधानात्, तत्र साध्यत्वं क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकरूपवत्त्वं, साधनत्वं च कारकत्वेनान्वयित्वमिति । न
च घञन्ते धातुना साध्यत्वेनाभिधाने मानाभावः ओदनस्य पाक इति कर्मषष्ठ्या मानत्वात् । न च भवतीत्यध्याहृतक्रियान्वयात् षष्ठी, कर्तृकर्मणोः कृतिः (पा० २.३.६५) इति कृदन्तेन योगे एव तद्विधानात्, 'न लोकाव्यय. (पा० २.३.६९) इत्यादिना लादेशयोगे
१. तुलना वैया. भूषणसार. ८ । २. तुलना० वै० भू० सा० २-१४ ।
Page #113
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का० ३]
७९ (भा०) अत एव न कश्चित्सर्वज्ञ इत्ययुक्तं, श्रुतेरविशेषादप्रमाणतापत्तेः ।
- अष्टसहस्त्रीतात्पर्यविवरणम् निषेधाच्च । अथ कारकाणां भावनायामेवान्वय इति नियमे ओदनस्य पाक इत्यत्र कर्मषष्ठी भावनाया धातुवाच्यत्वं साधयेत्, तत्रैव तु किं मानमिति चेत्, विशेष्यतया कारकादिप्रकारकबोधं प्रति धातुजन्यभावनोपस्थितिर्हेतुरिति कार्यकारणभाव एवेत्यवेहि, तदुक्तं
सम्बोधनान्तं कृत्वोऽर्थः, कारकं प्रथमो वतिः । धातुसम्बन्धाधिकारनिष्पन्नमसमस्तनञ् ॥१॥ तथा यस्य च भावेन, षष्ठी चेत्युदितं द्वयम् ।
साधुत्वमष्टकस्यास्य, क्रिययैवावधार्यताम् ॥२॥ इति, [वैया० भू० सा० १६.१७]
एतत्कारिकाद्वयार्थो यथा-सम्बोधनान्तस्य क्रियायामन्वयः, त्वं ब्रूहि देवदत्तेत्यादौ निघातानुरोधात्, समानवाक्ये निघातयुष्मदस्मदादेशाः (पा० वा० ८.१.२३) इत्यनेन समानवाक्य एव तन्नियमात्, पचति भवतीत्यादौ सूत्रभाष्यादिरीत्यैकवाक्यतासत्त्वादेव निघातस्वीकारात् (१) कृत्वोऽर्थः, =क्रियाभ्यावृत्तिगणने कृत्वसुज् इति विहितः, क्रियायामन्वेति, क्रियाया अभ्यावृत्तिः पुन:पुनर्जन्म तस्मिन् द्योत्य इति तदर्थात् क्रियायोगे तत्साधुतोक्तेः (२) तथा कारकं करोति कर्तृकर्मादिव्यपदेशानिति व्युत्पत्तेः कारकशब्दस्य क्रियापरत्वात्, (३) प्रथमो वतिः तेन तुल्यं क्रिया चेद् वतिरिति विहितः, तत्र यत्तुल्यं सा क्रिया चेदित्युक्तत्वात् (४) धातुसम्बन्धाधिकारनिष्पन्नं धातुसम्बन्धे प्रत्ययाः (पा० ३.४.१) इत्यधिकृत्य तेषां विधानात् (५) असमस्त:=समासायोग्यो नञ्=प्रसज्यप्रतिषेधीय इत्यर्थः । न च तस्य क्रियान्वये मानाभावः, न त्वं पचसि न युवां पचथ इत्यादौ क्रियाया एव निषेधप्रतीतेः, घटो नास्तीत्यत्राप्यस्तित्वाभावस्यैव बोधात्, भूतले न घट इत्यत्राप्यस्तीत्यध्याहारेणैव तथा बोधकल्पनात्, प्रकारतासम्बन्धेन नञर्थविशेष्यकबोधे धातुजन्यभावनोपस्थितेर्हेतुताया एव युक्तत्वात् (६) यस्य च भावेन भावलक्षणं (पा० २.३.३७), षष्ठी चानादरे (पा० २.२.३) इति सूत्रद्वयेन विहितमपि क्रियायामेवान्वेति, पूर्वत्र भावशब्देन तद्योगे साधुत्वाख्यानादुत्तरत्र च यद्भावेनेत्यस्यार्थतो लाभादिति (७-८) । स च भावनाख्यो व्यापारः पचतीत्यादौ फूत्कारत्वाधःसन्तापनत्वयत्नत्वादितत्तद्रूपेण वाच्यः, ततस्तत्तत्प्रकारकबोधस्यानुभवसिद्धत्वात् । न च नानार्थतापत्तिः, तदादिन्यायेन बुद्धिविशेषादेः शक्यतावच्छेदकानुगमकस्य सत्त्वात्, आख्याते क्रियैकत्वस्यापि तेनैव व्यवस्थिते:
१. तुलना-स च इत्यारभ्य इत्यादि उह्यम् इति पर्यन्तस्य ग्रन्थस्य-वै० भू० सा० का०-२
Page #114
--------------------------------------------------------------------------
________________
८०
अष्टसहस्त्रीतात्पर्यविवरणम्
इति सूक्तं यथैव हि सुगतादयः परस्परविरुद्धक्षणिकनित्याद्येकान्तअष्टसहस्त्रीतात्पर्यविवरणम्
यद्वाक्यपदीयं
गुणीभूतैरवयवैः समूहः क्रमजन्मनाम् ।
बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ॥ १ ॥ इति [ वाक्यपदीय ३८.४]
आख्यातस्य च फलाश्रये व्यापाराश्रये च शक्तिः, तत्र फलाश्रयः कर्म, व्यापाराश्रयः कर्त्ता, शक्यतावच्छेदकं चाश्रयत्वं शक्तिविशेषरूपं, न तु फलादिगर्भं, फलादेर्धातुलभ्यत्वात् । मानञ्च तत्र लः कर्मणि भावे चाकर्मकेभ्यः (पा० ३.४.६९) इति सूत्रमेव, अत्र हि चकारात् कर्त्तरि कृद् इति (पा० ३.४.६७) सूत्रोक्तं कर्त्तरीत्यनुकृष्य बोधकतारूपां तिबादिशक्तिं तत्स्थानिभूते लकारे प्रकल्प्य तस्य कर्मकर्तृविषयविधानात् । न च दर्शनान्तरीयरीत्या व्यापारस्य धात्वर्थत्वाभावात्तत्र लकारविधिः स्यादिति शङ्कनीयम्, तद्वदेव कृतामपि कर्तृकर्मावाचकत्वापत्तेः, कर्त्तरि कृदित्यस्य लः कर्मणीत्यनेन तुल्ययोगक्षेमत्वात् । अपि च मीमांसकानां कृतामिवाख्यातानामपि कर्तृवाचकत्वमस्तु भावनायाश्चाक्षेप लाभ:, घटमानयेत्यादावाक्षेपितव्यक्तेरिव तस्याः प्राधान्योपपत्तेः । (शङ्का) पचतीत्यादौ भावनाया विवरणदर्शनाद् वाच्यत्वमिति चेत्, न, पाकानुकूलव्यापारवतः कर्त्तुरपि विवरणविषयत्वाविशेषात् । न च कर्त्तुर्विवरणं तात्पर्यार्थविषयं पाकं करोतीत्यत्राशब्दार्थकर्मत्वविवरणवदितरेतरद्वन्द्वे समुच्चयांशविवरणवद्वेति न तदर्थनिर्णायकमिति वाच्यम्, भावनायां तुल्यत्वात्, किञ्च पचति देवदत्त इत्यत्राभेदान्वयदर्शनात् कर्त्तुर्वाच्यत्वमावश्यकं पक्ता देवदत्त इत्यत्रेव । न च अभेदबोघे समानविभक्तिमत्त्वं नियामकं तदभावान्नात्र स इति वाच्यम् सोमेन यजेत, स्तोकं पचति राजपुरुष इत्यादावप्यभेदबोधानापत्तेः । न च कर्त्तरि लक्षणया सामानाधिकरण्यं, पिङ्गाक्ष्यादियौगिकानामपि द्रव्यवाचित्वानापत्तेररुणाधिकरणोच्छेदापत्तेरिति दिक् । अत्र फले व्यापारः प्रधानं, तिङर्थाः कर्तृकर्मसङ्ख्याकाला विशेषणानि, तत्रापि कर्तृकर्मणी व्यापारफलयोर्विशेषणे, सङ्ख्या कर्तृप्रत्यये कर्त्तरि, कर्मप्रत्यये कर्मणि, समानप्रत्ययोपात्तत्वात् । तथा चाख्यातार्थसङ्ख्याप्रकारकबोधं प्रत्याख्यातजन्यकर्तृकर्मोपस्थितिर्हेतुरिति फलितम् । नैयायिकादीनामाख्यातार्थसङ्ख्यायाः प्रथमार्थ एवान्वयादाख्यातार्थसङ्ख्याप्रकारकबोधे प्रथमान्तपदजन्योपस्थितेर्हेतुहेतुमद्भावो वाच्यः, सोऽपि चन्द्र इव मुखं दृश्यते, देवदत्तो भुक्त्वा व्रजतीत्यादौ चन्द्रक्त्वार्थयोराख्यातार्थानन्वयादितरविशेषणत्वतात्पर्याविषयत्वघटितो वाच्य इत्यतिगौरवमिति मन्तव्यम् । कालस्तु व्यापारे विशेषणं, न तु सङ्ख्यावत् कर्तृकर्मणोस्तदन्वयः शक्यः, अतीतभावनाके
Page #115
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. ३]
८१ समयाभिधायिनः सर्वे न सर्वदर्शिन इति न कश्चित्सर्वज्ञस्तथा श्रुतयोऽपि परस्पर
अष्टसहस्त्रीतात्पर्यविवरणम् कर्तरि पचतीत्यापत्तेः, अपाक्षीदित्यनापत्तेश्च । नापि फले तदन्वयः, फलानुत्पाददशायां व्यापारसत्त्वे पचतीत्यनापत्तेः पक्ष्यतीत्यापत्तेश्च । न च आमवातजडीकृतकलेवरस्योत्थानानुकूलयत्नसत्त्वादुत्तिष्ठतीति प्रयोगापत्तिः, परयत्नस्याज्ञानादप्रयोगात्, किञ्चिच्चेष्टादिनाऽवगतौ चायमुत्तिष्ठत्ति न तु शक्नोत्युत्थातुमिति लोकप्रतीतेरिष्टत्वात् । इत्थं च तिर्थो विशेषणमेव प्रधानं तु भावनैवेति स्थितम् । यदि चाख्यातार्थप्राधान्यं स्यात् तदा देवदत्तादिभिः सममभेदान्वयात् प्रथमान्तार्थस्य प्राधान्यापत्तिस्तथा च पश्य मृगो धावतीत्यत्र भाष्यसिद्धैकवाक्यता न स्यात्, प्रथमान्तार्थमृगस्य धावनक्रियाविशेष्यस्य दृशिक्रियायां कर्मत्वापत्तौ द्वितीयापत्तेः । न च एवमप्रथमासामानाधिकरण्याच्छतृ प्रसङ्गः, तथापि द्वितीयाया दुरित्वेनोक्तवाक्यस्यैवासम्भवापत्तेः । न च पश्येत्यत्र तमिति कर्म अध्याहार्यम्, वाक्यभेदप्रसङ्गात् । एवं च भावनाप्रकारकबोधे प्रथमान्तपदजन्यपदार्थोपस्थितिः कारणमिति नैयायिकोक्तमयुक्तम् । किं त्वाख्यातार्थकर्तृप्रकारकबोधे धातुजन्योपस्थितिर्भावनात्वावच्छिन्नविषयतया हेतुः, भावनाप्रकारकबोधं प्रति तु धात्वर्थभावनोपस्थितिरेव हेतुः, पश्य मृगो धावति पचति भवतीत्याद्यनुरोधादिति कल्पनीयम् । इत्थं च ‘पचति' इत्यत्रैकाश्रयिका पाकानुकूला भावना, 'पच्यते' इत्यत्रैकाश्रयिका या विक्लित्तिस्तदनुकूला भावनेति बोधः । देवदत्तादिपदप्रयोगे त्वाख्यातार्थकादिभिस्तदर्थस्याभेदान्वयः । घटो नश्यतीत्यत्रापि घटाभिन्नाश्रयको नाशानुकलो व्यापार इति बोधः, स च व्यापारः प्रतियोगित्वविशिष्टनाशसामग्रीसमवधानम्, अत एव तस्यां सत्यां नश्यति, तदत्यये नष्टः, तद्भावित्वे नक्ष्यतीति प्रयोगः । देवदत्तो जानातीच्छतीत्यादौ च देवदत्ताभिन्नाश्रयको ज्ञानेच्छाद्यनुकूलो वर्तमानो व्यापार इति बोधः, स चान्तत आश्रयतैवेत्यादिरीत्योह्यम् ।
अत्र ब्रूमो न्यायमार्गानुरोधादुद्यद्बोधध्वस्तदुर्वादियोधाः ।
येनान्येषां दूषणे भूषणे वा सर्वत्रैव प्रोत्सहन्ते नया नः ॥ [शालिनीवृत्तम्] तत्र पचतीत्यत्रैकाश्रयिका पाकानुकूला भावनेति बोध इति यदुक्तं तत्कथं युक्तम् ? पच्यर्थानां बुद्धिविशेषानुगताधःसन्तापनत्वादिना भानस्वीकारेण कस्यापि व्यापारस्य भावनात्वेन भानायोगात्, धातुसामान्यार्थभावनायां धातुविशेषार्थतत्तद्व्यापाराणां व्युत्पत्तिवैचित्र्येणान्वयभानस्वीकारे तु पचतीत्यत्रैकाश्रयकाधःसन्तापनाद्यभिन्नव्यापारत्वेन बोधः स्यात्, स चानिष्टः, न चाध:सन्तापनादीनां देवदत्ताश्रयकत्वं सम्भवति, यत्नघटितपरम्परासम्बन्धेन तेषां तत्त्वसम्भवोक्तौ च लाघवाद् यत्नस्यैव भावनात्वेनान्वयो युक्तः,
Page #116
--------------------------------------------------------------------------
________________
८२
अष्टसहस्त्रीतात्पर्यविवरणम् विरुद्धकार्यार्थस्वरूपाद्यर्थाभिधायिन्य: सर्वा न प्रमाणभूताः इति न काचिदपि श्रुतिः
अष्टसहस्रीतात्पर्यविवरणम् अन्यथा फलस्यापि तद्वत्तथान्वये व्यापारत्वप्रसङ्गात्, चरमव्यापारं फलस्थाने धृत्वा तदितरेषां तदनुकूलानां भावनात्वेन भानस्वीकारोऽपि न्याय्यः,
* माननान्लेन भानम्वीकारोऽपि न्याय्यः गणीभतैरित्यादिना समहस्य तल्यवद्भानोक्तिविरोधप्रसङ्गः । न च अधःसन्तापनत्वादीनां साध्यत्वेनाभिधीयमानत्वरूपव्यापारत्वेन भावनात्वेन भानमित्यपि शक्यं वक्तुम्, अध:सन्तापनत्वादिशुद्धरूपेणैव पूर्वं भानाभ्युपगमात्, एकत्र द्वयमिति न्यायेनोभयरूपेण भानस्वीकारे चान्यलभ्याभिधीयमानत्वविनिर्मो केणाधःसन्तापनत्वादिसाध्यत्वयोरेकत्र भानाय प्रत्येकं शक्यतावच्छेदकत्वस्य व्यासज्यवृत्तित्वकल्पने महागौरवात्, साध्यत्वस्य वर्तमानभावनाकत्वानतिरेकेणातिरिक्तभावनान्वेषणप्रसङ्गाच्च, घटो नश्यतीत्यत्रापि घटाभिन्नाश्रयको नाशानुकूलो व्यापार इति बोधस्वीकारे कपाले घटो नश्यतीति प्रयोगानुपपत्तिः, प्रतियोगित्वविशिष्टनाशसामग्रीसमवधानात्मन उक्तव्यापारस्य कपालावृत्तित्वात् । न च कपालवृत्तित्वस्य घटेअन्वयः, तव मते क्रियात्वस्यैव कारकान्वयितावच्छेदकत्वात्, घटपटौ नश्यत इति प्रयोगानुपपत्तिश्च, उभयाभिन्नाश्रयकस्य प्रतियोगित्वविशिष्टनाशसामग्रीसमवधानस्याभावात् । द्वित्ववदाश्रयकतादृशव्यापारग्रहे चैकत्र नश्यति द्वौ नश्यत इति प्रयोगप्रसङ्गः, उभयव्यापारविवक्षायां क्रियाभेदाद् वाक्यभेदापत्तिः, प्रतियोगित्वविशिष्टेत्यत्र विशेषणविशेष्यभावे विनिगमनाविरहश्च, भिन्नतया भासमानयोरपि क्रिययोः कल्पनयाभेदस्वीकारे च क्रियाभेदोच्छेदापत्तिः, क.क्यमात्रेण क्रियैक्याश्रयणे च जीवति म्रियते इत्यादेरपि प्रसङ्गात्, जानातीच्छतीत्यादावन्तत आश्रयतैव ज्ञानेच्छाद्यनुकूलो व्यापार इत्यपि स्ववासनामात्रम्, एवं सत्याख्यातार्थस्य धात्वर्थमध्ये प्रवेशनेन तत्त्वत आख्यातार्थस्यैव निरासप्रसङ्गात्, तस्मात्पचतीत्यादौ पाकानकलयत्नवान नश्यतीत्यादौ नाशप्रतियोगी जानातीच्छतीत्यादौ ज्ञानाश्रय इच्छाश्रयो देवदत्त इत्याद्याकारकः प्रथमान्तपदार्थविशेष्यक एव बोधः श्रद्धेयः । नश्यति नष्टो नक्ष्यतीत्यादौ नञ्धातोरर्थो नाश उत्पत्तिश्चेत्युत्पत्तौ कालत्रयान्वयस्यापि सम्भवात्, आख्यातजन्यसङ्ख्याभावनाप्रकारकबोधे च प्रथमान्तपदजन्यपदार्थोपस्थितेरितरविशेषणत्वतात्पर्याविषयत्वावच्छिन्नविशेष्यतया हेतुत्वान्न गौरवम्, सम्बन्धगौरवस्यादोषत्वात्, केवलं भावनाप्रकारकबोधं प्रति धात्वर्थभावनोपस्थितेः पृथग् हेतुत्वे तवैव गौरवम् । पश्य मृगो धावतीत्यत्र तमिति कर्माध्याहार्यमेव, अन्यथात्रैकवाक्यत्वाय साकाङ्क्षककर्तृकक्रिययोर्यथाकथञ्चिदन्वयस्वीकारे
खिद्यति कूणति वेल्लति, निमिषति तिर्यग् विलोकयति सद्यः । अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणया वधूः शयने ॥ [काव्यप्रकाशः १०.१०३]
Page #117
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का० ३]
८३ प्रमाणं स्यात् । न हि कार्येऽर्थे श्रुतिरपौरुषेयी, न पुनः स्वरूपे, येनापौरुषेय
- अष्टसहस्त्रीतात्पर्यविवरणम्
इत्यादावेककर्तृकनिराकाङ्क्षानेकक्रियाणां प्रत्येकं प्राधान्ये बहुवाक्यभेदापत्तौ अजां निष्कासयतः क्रमेलकागमन्यायापातात् । न च अत्र नवपरिणयवध्वभिन्नकर्तृकस्वेदनाद्यनुकूल एको व्यापारः अस्त्यनुभूयते वा, एकत्रानेकक्रियासम्बन्धघटितदीपकोदाहरणतयैवास्याभिहितत्वात् । न च अत्रोत्थाप्याकाङ्क्षया तत एककर्तृकत्वसम्बन्धेन क्रियाणां परस्परमन्वयः, स्वाभाविकक्रियान्तराकाङ्क्षाविषयतानवच्छेदकरूपवत्वाच्च न क्रियात्वभङ्ग इत्युद्भावनेऽपि वाक्यभेददोष उद्धर्तुं शक्यः, विनिगमनाविरहेण प्रत्येकं क्रियाप्राधान्यापत्तेस्तदवस्थत्वात्, सर्वक्रियाणामाख्यातार्थद्वारा एकत्र द्वयम् इति न्यायेनैकस्मिन् कर्त्तर्यन्वयवादे एव हि तस्योद्धर्तुं शक्यत्वात् । यत्तु अत्रापि निघातानुरोधादेकक्रियाया एव प्राधान्यम्, अन्यासां साधनत्वाच्चैकवाक्यत्वं तिङ्ङतिङः (पा० ८.१.२८) इति सूत्रयता तिङन्तानामप्येकवाक्यत्वस्वीकारात्, एकतिङ् वाक्यम् (पा० ८.१.२३) इत्यस्य वातिकस्य चैकतिविशेष्यकं वाक्यमित्यभिप्रायादिति, तन्न, निघातकृतं प्राधान्यमपि कुत्रेति विनिगन्तुमशक्यत्वात्, चरमपठितत्वस्यापि पश्य मगो धावतीत्यत्रैव व्यभिचारादस्यार्थस्य स्वगृहपरिभाषामात्रत्वाच्च, अन्यथा निघाते क्रियाप्राधान्यं तत्सत्त्वे च स इत्यन्योन्याश्रयस्य दुर्द्धरत्वात् । किञ्च साध्यसाधनवर्तितया क्रिययोः परस्परमन्वयस्वीकारे पाकेन भूयत इत्यर्थे पचति भूयत इत्यादेरपि प्रसङ्गः, पठन् गच्छतीत्यर्थे पठति गच्छतीत्यादेरपि च, मम त्वाख्यातस्य स्वार्थविधेयकशाब्दबोधे एव हेतुत्वान्नायं प्रसङ्गः । किञ्च धात्वर्थप्राधान्याभ्युपगमे धात्वर्थमुख्यविशेष्यकशाब्दबोधजनकसामग्रया धात्वर्थ एव सङ्ख्याबोधकत्वस्वाभाव्यस्य भावस्थले दृष्टत्वात् कर्तृकर्मोक्त्यो मार्थे सङ्ख्यानन्वयप्रसङ्ग इति न किञ्चिदेतत् ।
शब्दसाधनिकयैव वल्गतां, द्राग् जयो भवति शब्दवेदिनाम् । अर्थसाधिमसमर्थने पुनर्योग एव निपुणं प्रगल्भते ॥ [रथोद्धतावृत्तम्]
सर्वज्ञोपज्ञमनेकान्तवादमवलम्बमानैः पुनरस्माभिः सर्वमेवोपपादयितुं शक्यम्, व्यवहारनयानुसारिणां नैयायिकानां नामार्थविशेष्यकस्येव शब्दनयानुसारिणां शाब्दिकानां भावप्रधानमाख्यातमिति वदतां धात्वर्थविशेष्यकस्यापि बोधस्य जायमानस्य वाङ्मात्रेण निराकर्तुमशक्यत्वात्, नयव्युत्पत्तिवैचित्र्याधीनस्य फलीभूतशाब्दबोधवैचित्र्यस्य दृष्टेष्टाविरुद्धत्वात् । अत एवानुलोमप्रतिलोमक्रमेण तत्तत्प्रकारवैचित्र्यभानमपि व्याख्यातम् । हन्तैवं तण्डुलं पचति चैत्र इत्यतश्चैत्रकर्तृकक्रियाफलाश्रयत्वेन तण्डुलमुख्यविशेष्यकोऽपि
Page #118
--------------------------------------------------------------------------
________________
८४
अष्टसहस्त्रीतात्पर्यविवरणम् त्वात्तदन्यतरश्रुतिजनितमेव ज्ञानं प्रमाणं दोषवर्जितैः कारणैर्जनितत्वादुपपद्येत ।
अष्टसहस्रीतात्पर्यविवरणम् बोधः स्यादिति चेत्, तथाव्युत्पन्नस्य स्यादेव, अत्र चानुशासनमूलशब्दनयव्युत्पत्त्यधीनो बोध उद्देश्य इति नायं प्रसङ्गः । पचतीत्यत्र विक्लित्त्यनुकूलव्यापारस्याधःसन्तापनादेः प्रातिस्विकरूपेणाखण्डेन च भावनात्वेन नयव्युत्पत्तिवैचित्र्याद द्विधा भानम्, साध्यत्वस्य च व्यापारे फलस्यानुकूलतारूपसंसर्गावच्छेदकतयैव भानं, साध्यत्वावच्छिन्नानुकूलताया एवं संसर्गत्वोपगमात्, तस्य च साध्यत्वस्य क्रियमाणं कृतमिति नये सिद्धत्वावरुद्धसाध्यत्वत्वेनान्यनये च शुद्धसाध्यत्वत्वेन भानमित्यन्यदेतत् । घटो नश्यतीत्यत्रापि द्रव्यार्थत्वनियामकसम्बन्धेन घटाभिन्नाश्रयकस्य सङ्घातभेदादिरूपनाशानुकूलव्यापारस्य भानं, घटं जानातीत्यत्राप्यनेनैव सम्बन्धेन घटवृत्त्युत्पत्तिकज्ञेयाकाररूपव्यापारभानम् । यत्तु भूषणसारकृतोक्तं सुबर्थनिर्णये जानातीत्यत्रावरणभङ्गावच्छिन्नबोधव्यापार एवार्थोऽतीतानागतस्थलेऽपि ज्ञानजन्यस्यावरणभङ्गस्यावश्यकत्वादतीतो घटो ज्ञायत इत्यादावतीतघटादेस्तदाश्रयता च विषयताया इव नैयायिकानां सत्कार्यसिद्धान्ताद् वा इति, तदापातरमणीयं, नैयायिकसाङ्ख्यमतयोः परस्परपरामर्दोपहतत्वात्, भेदाभेदसदसत्कार्याभ्युपगन्तृस्याद्वादवादिमार्गाश्रयणं विना वाचोऽप्यप्रवृत्तेः । अत एव शब्दानां निष्पत्तिं ज्ञप्ति चाधिकृत्य सिद्धिः स्याद्वादाद् (सिद्ध० १.१.२) इति सूत्रं श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासने आदावुपन्यस्तं प्रभुभिः । इत्थमेवास्तीत्यत्रापि स्वपर्यायोत्पत्त्यनुकूलस्वद्रव्यपरिणतिरूपभावनाप्रतीतिः सङ्गच्छते । स्वार्थफलव्यधिकरणव्यापाराबोधकत्वाच्च धातोर्न सकर्मकत्वं, स्पष्टभावनानवबोधे च फलसामानाधिकरण्यमेव दोषः यत्तु स ततो गतो नवेति प्रश्ने महता यत्नेन तिष्ठतीति प्रयोगात् सत्तारूपफलानुकूला भावनाऽत्र प्रतीयते इति भूषणसारकृतोक्तं, तदसत्, आकाशोऽस्तीत्यादावगतः, तत्र तत्तदवकाशदानादिना विशिष्टोत्पादानुकूलध्रौव्यरूपसत्तास्वीकारे चास्मन्मताश्रयणापत्तेः, त्रैलक्षण्यसत्पदार्थस्यास्माभिरेव स्वीकारात्, तदुवाच वाचकचक्रवर्ती उत्पादव्ययध्रौव्ययुक्तं सत् इति (तत्त्वा० ५.२९) । आत्मानं जानातीत्यादावेकस्यैवात्मनो ज्ञेयाकारप्रतियोगित्वानुयोगित्वादिना कर्मत्वं कर्तृत्वं च, विवक्षातः कारकाणि भवन्तीति न्यायस्य सर्वशाब्दिकानुमतत्वात्, स्वार्थफलाधिकरणाभिन्नाधिकरणवृत्तिव्यापारवाचित्वं सकर्मकत्वमित्यत्र च भेदस्य वैवक्षिकस्यैव निवेशात् । यत्तु अत्र द्वावात्मानौ शरीरात्माऽन्तरात्मा च, तत्रान्तरात्मा तत् कर्म करोति येन
१. तुलना वै० भू० सा० का० २८ । २. तुलना वै० भू० सा० कारिका १२ ।
Page #119
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि० १ - का० ३]
८५
बाधवर्जितत्वं तु नैकत्राप्यस्ति हिंसाद्यभिधायिनः श्वेतमजमालभेत भूतिकामः इत्यादेः
अष्टसहस्त्रीतात्पर्यविवरणम्
शरीरात्मा सुखदुःखेऽनुभवति' इति भूषणसारवचनं, तद्दुर्वचनम्, एकस्यात्मपदस्य धातोश्च विशेषपरत्वापत्तेः, परमात्मात्मानं जानातीत्यत्रागतेश्च । हन्त एवमस्तीत्यादावपि द्रव्यपर्याययोर्व्यापारफलाधारयोर्भेदविवक्षया सकर्मकप्रयोगापत्तिरिति चेत्, सिद्धान्तानभिज्ञोऽसि किं हन्तेति पूत्कारेण ?, अस्तीत्यादौ भेदवचनस्य सम्प्रदायविरुद्धत्वेनानिष्टसाधनत्वज्ञानात्तद्विवक्षाया अयोगात्, इत्थं च
आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते ।
अन्तर्भावाच्च तेनासौ कर्मणा न सकर्मकः ॥१॥ [ वाक्यपदीयम् ३.३.४७] इति ।
बिभ्रदित्यनेन स्वधारणानुकूलो व्यापारोऽत्रापि गम्यत एव तेन कर्मणा सकर्मकत्वं तु न, अन्तर्भावात्=फलांशेन वैयधिकरण्याविवक्षणादिति व्याख्येयम् । न च अत्र साध्यत्वाख्यविषयतामादाय गौणं सकर्मकत्वं यत्नार्थधातोर्नामार्थान्वितसाध्यत्वाख्यविषयतारूपविभक्त्यर्थान्वयित्वेनैव गौणसकर्मकत्वव्यवस्थितेः, यत्यर्थे तु नामार्थान्वितचतुर्थ्यर्थोद्देश्यत्वस्यैवान्वयान्न यतेः सकर्मकत्वमिति भट्टाचार्योक्तं समाधानं रमणीयम्, यतेश्चतुर्यैव साकाङ्क्षत्वमिति नियमस्वीकार एव तथा वक्तुं शक्यत्वात्, न च तत्र प्रमाणमस्ति धर्मे यतेत इत्यादिप्रयोगस्याप्यविगानं दर्शनात् । न च एतदुभयान्तरसाकाङ्क्षत्वेन तत्र यत्नार्थकधातौ साध्यत्वाख्यविषयितान्वयित्वेन सकर्मकत्वव्यवस्थयैव च निस्तारः, सप्तम्या विषयित्वमात्रोपस्थितावपि साध्यत्वाख्यविषयितात्वावच्छिन्नानुपस्थितेरित्यपि शक्यं वक्तुम्, विशेषानुशासनं विना शब्दासाधुत्वस्य भोजनं यतत इत्यादावर्थाबाधेनार्थासाधुत्वस्य चानुपपत्तेरिति दिक् ।
यतते इत्यादौ यत्नानुकूलो व्यापारो योगाख्य एव भावना, यदि यत्नश्चेष्टा यदि च करणवीर्यमसौ तदा लब्धिवीर्यमेव सा, फलव्यापारयोर्धर्मिभेदाभावाच्चाकर्मकत्वं, व्याप्रियत इत्यादावपि शक्तिव्यक्तिभेदेनान्ततः फलसंसृष्टव्यापारमादाय धात्वर्थविशेष्यकबोध: स्वीकर्त्तव्यः, जानातीच्छतीत्यादौ व्यापारद्वयादौ भेदाग्रहादेकरूपावच्छेदेन कारकफलान्वयः, सङ्ग्रहादेशात् व्यापारे फलान्वये समानपदोपात्तत्वस्य भेदाग्रहगर्भस्यैव नियामकत्वात्, अ एव चैत्रमैत्रौ घटं पश्यत इत्यत्राप्यगृहीतभेदे दर्शनद्वये उभयाश्रयकत्वान्वयः, कर्तृभेदोत्थापितव्यापारभेदस्यापि सङ्ग्रहनयादेशप्रतिबन्धेन ग्रहीतुमशक्यत्वादिति मन्तव्यम्, पाक इत्य
१. कर्मवत् कर्मणेतिसूत्रीय (पा० सू० ३.१.८७) भाष्यवचनम् ।
Page #120
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम् [ ] सधनं हन्यात् [ ] इत्यादेरिव धर्मे प्रमाणत्वानुपपत्तेः । पुरुषाद्वैताभिधायिनश्च सर्वं खल्विदं ब्रह्म [ ] इत्यादेः सर्वं प्रधानमेव [ ] इत्यादेरिव स्वविषये प्रमाणत्वायोगात् । अपूर्वार्थत्वं पुनः सर्वस्याः श्रुतेरविशिष्टं, प्रमाणान्तराप्रतिपन्ने धर्मादौ परब्रह्मादौ प्रवृत्तेः ।
- अष्टसहस्रीतात्पर्यविवरणम् त्रैकस्य साध्यसाधनावस्थाभिधानमपि स्याद्वादाश्रयणेनैवाविरुद्धं, रूपभेदेन तदुपपत्तेः, क्रियमाणं कृतम् इति नयेन पचतीत्यादौ सिद्धत्वनियतसाध्यत्वस्य क्रियाकालनिष्ठाकालभेदकृतस्य सर्वत्र भावेऽपि घजन्तस्थले कारकक्रियान्वयकृतसाधनसाध्यावस्थयोः स्वातन्त्र्येण भानान्न विविक्तशाब्दिकव्यवहारोच्छेद इत्यादिकमुपपादितम् Tनयरहस्येऽस्माभिरिति तत एवावगन्तव्यम् ।।
नियोगादिप्रवादानां, परस्परविरोधिनाम् । तत्त्वमेतन्मयाख्यातं स्याद्वादेनाविरोधभाक् ॥ जले जलतरङ्गवन्ननु निमज्जनोन्मज्जने, सृजन्ति निजपर्यवाः प्रतिकलं पदार्थे पृथक् । विमुच्य भजनाविधि, क इव तद्विवेके प्रभुः,
स एव हि विजृम्भते विशदकेवलज्ञानवत् ॥ (पृथ्वी) सधनं हन्यादित्यादेरिवेति तृष्णामूलकहिंसाविषयकत्वेनोभयोरविशेषादित्यर्थः । धर्मे इति धर्मे वाच्ये बलवदनिष्टाननुबन्धित्वांशे वेत्यर्थः । प्रमाणत्वानुपपत्तेरिति न हिंस्यात् सर्वभूतानीति (छान्दोग्य, अ० ८ । कूर्मपूराण १.१६) सामान्यवचनविरोधादित्यर्थः । न च सामान्यशास्त्रतो विशेषशास्त्रस्य बलवत्त्वान्न हिंस्यादित्यतः पूर्व हिंसात्वसामानाधिकरण्येन पापजनकत्वग्रहेऽनन्तरं विशेषशास्त्रपर्यालोचनायां तत्तदितरहिंसात्वेन तत्कल्प्यत इति न विरोध इति वाच्यम् सर्वपदसमभिव्याहारेण हिंसात्वावच्छेदेनैव सामान्यवचनतः पापजनकत्वलाभात्, कार्यान्तरार्थमाश्रितेऽपि विशेषविधावुत्सर्गनिषेधोक्तदोषापरिहाराद्वैद्यकोक्त इव दाहविधौ । तस्मात्तृष्णामूलकहिंसात्वावच्छेदेनैव सामान्यनिषेधपर्यवसानाद्भूत्याधुद्देशेन यागादिविधयस्तद्विरोधित्वादप्रमाणमेव, तदेकवाक्यत्वाच्च निखिलोऽपि वेद इति मन्तव्यम् ।
यत्तु प्रतिपदोक्तफलत्यागेन विविदिषार्थतया कर्मकाण्डस्यापि प्रामाण्यमिति वेदान्तिपशुभिरुख़ुष्यते, तदज्ञानविलसितं, भिन्नाधिकारविहिते कर्मणि तत्त्यागापरप्रवेशाभ्यां विविदिषार्थताया असिद्धेः अन्यथाभिचारोद्देशेन वेदविहितं श्येनयागमपि विविदिषार्थतया
Page #121
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि० १ - का० ३]
[कानिचित् वेदवाक्यानि स्वयं स्वस्यार्थं न प्रतिपादयन्त्यतः वेदस्य प्रामाण्यं न सिद्ध्यति ]
न च काचिच्छुतिः स्वयं स्वार्थं प्रतिपादयत्यन्यव्यवच्छेदेन कार्ये एवार्थे अहं प्रमाणं न स्वरूपे, स्वरूपे एव वा न कार्येऽर्थे सर्वथेत्यविशेषः सिद्धः । ननु च Tपदानि तावल्लोके येष्वर्थेषु प्रसिद्धानि तेष्वेव वेदे, तेषामध्याहारादिभिरर्थस्यापरिकल्पनीयत्वादपरिभाषितव्यत्वाच्च । सति सम्भवे लौकिकपदार्थज्ञश्च विद्वानश्रुतपूर्व काव्यादिवाक्यार्थमवबुध्यमानो दृष्टः । तद्वच्छ्रुतिवाक्यार्थमपि कश्चित्स्वयमेवाश्रुतपूर्वमवबोद्धुमर्हतीति युक्तं श्रुतेः स्वयमेवान्यव्यवच्छेदेन स्वार्थप्रतिपादनम् इति कश्चित् सोऽपि न परीक्षाचतुरः, सर्वस्याः श्रुतेस्तथाभावाविशेषात् । न च भावनैव नियोग एव वा लौकिकवाक्यस्यार्थः शक्यः प्रतिष्ठापयितुं, येन वैदिकवाक्यस्यापि स एवार्थः स्यात्, नापि सन्मात्रविधिरेव कस्यचिद् वाक्यस्यार्थः शक्यप्रतिष्ठो, येन श्रुतिवाक्यस्यापि स एवार्थोऽन्ययोगव्यवच्छेदेन स्यात्, तत्रानेकबाधकोपन्यासात् । ततः सुगतादिवच्छ्रुतयोऽपि न प्रमाणमित्यायातम् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
किमिति नाद्रियेरन् ? । तदवदाम
वेदोक्तत्वान्मनः शुद्धया, कर्मयज्ञोऽपि योगिनः ।
ब्रह्मयज्ञ इतीच्छन्तः, श्येनयागं त्यजन्ति किम् ॥१॥ [ ज्ञानसार० २८.३]
भिन्नोद्देशेन विहितं कर्म कर्मक्षयाक्षमम् ।
क्लृप्तभिन्नाधिकारं च, पुत्रेष्ट्यादिवदिष्यताम् ॥२॥ इति [ ज्ञानसार० २८.५]
८७
अत्यधिकमेतत्तत्त्वं 'लतायां स्फुटीकृतमस्माभिरिति विशेषार्थिना तत एवावधार्यम् । अपूर्वार्थत्वं पुनरिति लोकप्रमाणाविषयार्थत्वं पुनरित्यर्थः तेन अपूर्वप्रतिपादकत्वेन मीमांसैव प्रमाणं नोपनिषदिति रिक्तं वचः, उपनिषदोऽप्यपूर्वपरमब्रह्मप्रतिपादकत्वेनाविशेषात्, ऐच्छिकविशेषग्रहस्य च पक्षपातमात्रत्वादित्युक्तं भवति । स एवार्थः स्यादिति लोके वेदे च शब्दव्युत्पत्तेस्तुल्यत्वादिति भावः । ये तु प्राभाकरा वेदस्यापौरुषेयतया वक्तृज्ञानानुमानानवकाशात् संसर्गे शब्दस्यैव स्वातन्त्र्येण प्रामाण्यमास्थिषत, लोके त्वनुमानत एव वक्तृज्ञानोपसर्जनतया संसर्गस्य सिद्धेरनुवादकतामात्रं वाक्यस्येति निर्णीतवन्तः तेषां
१. द्रष्टव्यं स्याद्वाद - कल्पलता - स्तबक - २ श्लो० ४५-५० ।
Page #122
--------------------------------------------------------------------------
________________
८८
अष्टसहस्त्रीतात्पर्यविवरणम्
[अत्रत्यात् चार्वाकः सर्वज्ञस्याभावं साधयति तस्य निराकरणम्] (भा०) तथेष्टत्वाददोष इत्येकेषामप्रमाणिकैवेष्टिः ।
न कश्चित्तीर्थकरः प्रमाणं, नापि समयो वेदोऽन्यो वा तर्कः, परस्परविरोधात् ।
तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना नैको मुनिर्यस्य वचः प्रमाणम् । धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः ॥ [ ] इति वचनात्
- अष्टसहस्त्रीतात्पर्यविवरणम् लोकवेदसाधारणव्युत्पत्तिबलेनान्विताभिधानं प्रसाधयतां तबलायातप्रतिपादकत्वस्य लोकेऽप्यविशेषादर्द्धजरतीयन्यायापातः, तदुक्तं -
निर्णीतशक्तेर्वाक्याद्धि, प्रागेवार्थस्य निर्णये ।
व्याप्तिस्मृतिविलम्बेन, लिङ्गस्यैवानुवादिता ॥ [न्यायकुसुमाञ्जलि:-३.१४] इति यावती हि वेदे सामग्री तावत्येव लोके भवन्ती कथमिव नार्थमवगमयेत् ? लिङ्गं तु परिपूर्णमप्यवगतमपेक्षणीयव्याप्तिस्मृतिविलम्बात् किं निर्णितुं प्रगल्भताम् ? अन्वयस्य प्रागेव प्रतीतेरनुवादकपङ्क्तिप्रवेशात् । न च लोके वक्तुराप्तत्वनिश्चयोऽपेक्षणीय इति तद्विलम्बादर्थप्रत्यय विलम्बः, लोकेऽप्याप्तोक्तत्वानिश्चयेऽप्यर्थप्रतीतेस्तस्य तदहेतुत्वात्, कथमन्यथा वेदानुकारेण पठ्यमानेषु मन्वादिवाक्येष्वपौरुषेयत्वाभिमानिनो गौडमीमांसकस्यार्थप्रत्ययः ? न चासौ भ्रमः, पौरुषेयत्वनिश्चयेऽपि तदबाधात् । न च अनाप्तोक्तत्वशङ्कानिरासद्वारैव तदुपयोगः स च क्वचिदपौरुषेयत्वनिश्चयात् क्वचिदाप्तोक्तत्वावधारणादिति न दोष इति वाच्यम्, एवं ह्यपौरुषेयत्वस्याप्रतीतौ संदेहे वा वेदो न किञ्चिदभिधत्त इत्याप्तोक्तत्वनिश्चयोत्तरकालं लोके इव वेदेऽप्यपौरुषेयत्वनिश्चयोत्तरकालमनुमानप्रवृत्तावनुवादकत्वाविशेषापत्ते१रुद्धरत्वात् । तदुक्तमुदयनाचार्यैः कुसुमाञ्जलौ
व्यस्तपुंदूषणाशङ्कः, स्मारितत्वात्पदैरमी ।
अन्विता इति निर्णीते, वेदस्यापि न तत् कुतः ? ॥ इति [३.१५] अमी=पदार्थाः, तद्=अनुवादकत्वम् । तस्मादियं प्राभाकरवृद्धकल्पनाज्ञानमूलैवेति मन्तव्यम् । ततः सुगतादिवदिति यथा सुगतादयः परस्परविरुद्धभाषित्वेन न प्रमाणं तथा श्रुतयोऽपि नानावादिविप्रतिपत्तिकवलितार्थाभिधायित्वान्न प्रमाणमित्यर्थः । प्रामाण्यं चात्र प्रमाऽयोगव्यवच्छेदरूपं वाच्यम्, अन्यथा प्रमातृत्वाभिमते सुगतादौ तन्निषेधेऽप्रसक्तप्रतिषेधापत्तेरिति स्मर्त्तव्यम् । चार्वाकमतमुत्थापयितुमाह भाष्यकृत्-तथेष्टत्वादित्यादि । तद्
Page #123
--------------------------------------------------------------------------
________________
८९
प्रथमो भागः [ परि० १-का० ३] कश्चिद् देवतारूपो गुरुवृहस्पतिर्भवेत् संवादकः, प्रत्यक्षसिद्धपृथिव्यादितत्त्वोपदेशात् इति प्रत्यक्षमेकमिच्छन्ति ये तेषां लौकायतिकानामिष्टिरप्रमाणिकैव, प्रत्यक्षतस्तव्यवस्थापनासम्भवात् ।
(भा०) न खलु प्रत्यक्षं सर्वज्ञप्रमाणान्तराभावविषयम्, अतिप्रसङ्गात् ।
सर्वज्ञस्य हि मुनेः प्रमाणान्तरस्य च वेदाद्यागमस्यानुमानस्य च तर्काख्यस्याभावं यदि किञ्चिद् व्यवस्थापयेत्, तत्राप्रवर्त्तमानत्वात्, तदा पुरुषान्तरादिप्रत्यक्षान्तराणामप्यभावं तदेव गमयेत् तद्विषयाणां च क्षमादीनाम् इत्यतिप्रसङ्गः स्वयमिष्टस्य बृहस्पत्यादिप्रत्यक्षस्यापि विषयस्याभावसिद्धेः । [चार्वाकः कथयति अस्मदीयबृहस्पतिगुरोः प्रत्यक्षं स्वस्य पृथिव्यादिचतुष्टयस्य ज्ञानं कारयति इति
मान्यतायां जैनानां प्रत्युत्तरं वर्तते] अथ प्रत्यक्षान्तरं स्वयमात्मानं व्यवस्थापयति पृथिव्यादिस्वविषयं च, तत्र प्रवर्त्तनात्, अतो न तदभावप्रसङ्ग इति मतं तहि सर्वज्ञोऽपि स्वसंवेदनादात्मानं स्वर्गापूर्वादिविषयं च व्यवस्थापयतीति कथं तदभावसिद्धिः ? प्रमाणान्तरस्य च तद्वचनस्य हेतुवादरूपस्याहेतुवादरूपस्य च स एव व्यवस्थापक: स्यादिति कुतस्तदभावसिद्धिः ? सर्वज्ञः स्वपरव्यवस्थापकोऽस्तीत्यत्र किं प्रमाणमिति चेत्, स्वप्रत्यक्षैकप्रमाणवादिनः प्रत्यक्षान्तरं स्वपरविषयमस्तीत्यत्र किं प्रमाणम् ? तथा प्रसिद्धिरन्यत्रापीति न प्रत्यक्षं तदभावावेदकम्, अतिप्रसङ्गस्य दुष्परिहारत्वात् ।
- अष्टसहस्त्रीतात्पर्यविवरणम् व्याचष्टे वृत्तिकृत्-नापि समय इत्यादि । अदेवतारूप इति चार्वाकमताद्यप्रवर्त्तकमनुष्यरूप इत्यर्थः । प्रत्यक्षमेकमिच्छन्ति य इति तथा च भाष्ये एकेषाम् इत्यत्र एकं प्रमाणमिच्छन्तीत्येकेषश्चार्वाकास्तेषामिति व्याख्येयमित्यर्थः, इष्टिः प्रतिज्ञा । अभावसिद्धेरिति अभावप्रसङ्गादित्यर्थः । प्रमाणान्तरस्येति प्रत्यक्षातिरिक्तप्रमाणस्येत्यर्थः । तद्वचनस्य= सर्वज्ञवचनस्य, हेतुवादरूपस्य हेतुग्राह्यार्थविषयस्य, अहेतुवादरूपस्य आज्ञाग्राह्यार्थविषयस्य, स एव सर्वज्ञ एव । अतिप्रसङ्गस्य दुष्परिहरत्वादिति तथा च प्रतियोगितव्याप्येतरयावत्प्रतियोग्युपलम्भकसमवधानरूपायास्तर्कितप्रतियोगिसत्त्वप्रसञ्जितप्रतियोगि
१. देवतारूपः इति अष्टसहस्रीसम्मतः पाठः । २. उपपदसमासोऽयम् ।
Page #124
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) नानुमानम्, असिद्धेः ।
प्रत्यक्षमेकमेव प्रमाणम्, अगौणत्वात्प्रमाणस्य अनुमानादर्थनिश्चयो दुर्लभः । सामान्ये सिद्धसाधनाद्, विशेषेऽनुगमाभावात्, सर्वत्र विरुद्धाव्यभिचारिणः सम्भवात् इति स्वयमनुमानं निराकुर्वन्ननुमानादेव सर्वज्ञप्रमाणान्तराभावं व्यवस्थापयतीति कथमनुन्मत्तः ? प्रतिपत्तुः प्रसिद्धं हि प्रमाणं स्वप्रमेयस्य निश्चायकं, नाप्रसिद्धम्, अतिप्रसङ्गादेव । [चार्वाको ब्रूतेऽहं भवद्भिर्मान्येनानुमानेन स्वप्रत्यक्षप्रमाणमन्तरेण सर्वज्ञस्य भिन्नप्रमाणानां च अभावं
साधयामीति मान्यतायां जैनाः प्रतिबोधयन्ति] परप्रसिद्धमनुमानं सर्वज्ञप्रमाणान्तराभावग्राहकमिति चेत्, तत् परस्य प्रमाणत: सिद्धं प्रमाणमन्तरेण वा ?
अष्टसहस्त्रीतात्पर्यविवरणम्
कत्वरूपाया वा योग्यताया अभावात् योग्यानुपलब्ध्यसम्पत्त्या न प्रत्यक्षं तदभावग्राहकं, तत्सहकृतस्यैव तस्य तदभावग्राहकत्वनियमादिति फलितम् । न च असत एव सर्वज्ञादेः प्रमाणान्तरस्य वाऽऽभाससिद्धस्याभावः शशशृङ्गस्येव प्रत्यक्षतः सुज्ञान इति वक्तुं शक्यम्, अनुपलम्भकाले आभासोपलम्भकसामग्र्या अभावात्, तत्काले चानुपलम्भाभावात् तस्याशक्यनिषेधत्वात् । तदुक्तं -
दुष्टोपलम्भसामग्री, शशशृङ्गादियोग्यता । न तस्यां नोपलम्भोऽस्ति, नास्ति सानुपलम्भने ॥१॥ इति,
न्यायकुसुमाञ्जलि-३.३] शशशृङ्गं नास्तीत्यस्य च शशे शृङ्गाभावोऽस्तीत्येवार्थ इति बोध्यम् । भाष्येअसिद्धेरिति प्रमाणत्वेन वाद्यसिद्धेरित्यर्थः । तामेव प्रदर्शयन् वादिनो विरुद्धभाषित्वमुद्भावयति-प्रत्यक्षमित्यादिना । 'गौणत्वात् प्रमाणस्येति प्रमाणस्य=अनुमानप्रमाणस्य, गौणत्वात् =लौकिकप्रमाणव्यवहारविषयत्वेनोपचरितत्वादित्यर्थः । दुर्लभ इति उपचरितस्य मुख्यकार्याकारित्वादित्यर्थः, न हि गङ्गात्वेनोपचरितं तीरं स्नानावगाहनादिकार्यं साधयति । सामान्य इत्यादि धूमेन वह्निसामान्ये साध्ये सिद्धसाधनं वह्निमात्रस्य सिद्धत्वात्, पर्वतीयवह्नरुद्देश्यस्यासिद्धेः विशेषे= पर्वतीयवह्नौ साध्येऽनुगमाभावो व्याप्त्यभावो, यत्र
१. अगौणत्वात् इति अष्टसहस्रीसम्मतः पाठः ।
Page #125
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का० ३]
(भा०) यदिः प्रमाणतः सिद्धं नानात्मसिद्धं नाम
परस्येवात्मनोऽपि वादिनः सिद्धत्वात् प्रमाणसिद्धस्य सर्वेषामविप्रतिपत्तिविषयत्वाद्, अन्यथातिप्रसङ्गात्, प्रत्यक्षस्यापि प्रमाणसिद्धस्य विप्रतिपत्तिविषयत्वापत्तेरनात्मसिद्धत्वप्रसङ्गात् । ततो यत्परस्य प्रमाणत: सिद्धं तच्चार्वाकस्यात्मसिद्धम्, यथा प्रत्यक्षम् । प्रमाणसिद्धं च परस्यानुमानम्, तस्मान्नानात्मसिद्धम् ।
(भा० ) अन्यथा परस्यापि न सिद्धयेत्
अतिप्रसङ्गादेव । तथा हि, यत् प्रमाणमन्तरेण सिद्धं तत्परस्यापि न सिद्धम्, यथा तदनभिमततत्त्वम् । प्रमाणमन्तरेण सिद्धं च परस्यानुमानम्, तन्न सिद्धं स्वयमनभिमततत्त्वसिद्धिप्रसङ्गात् । [चार्वाकः इन्द्रियप्रत्यक्षेण सर्वत्र सर्वज्ञाभावं कथं साधयेत् ? अस्य विचारः क्रियते ।]
(भा०) तदिमे स्वयमेकेन प्रमाणेन सर्वं सर्वज्ञरहितं पुरुषसमूह संविदन्त एवात्मानं निरस्यन्तीति व्याहतमेतत्
अतिप्रसङ्गादेव । स्वयमनिष्टं ह्यतीन्द्रियप्रत्यक्षमेषां स्यात्, इन्द्रियप्रत्यक्षेण सर्वज्ञरहितस्य पुरुषसमूहस्य संवेदनानुपपत्तेः प्रमाणान्तराभावस्येव प्रमाणान्तरमन्तरेण, इति सर्वत्र सर्वदा सर्वस्य सर्वज्ञत्वाभावं प्रत्यक्षतः संविदन् स्वयं सर्वज्ञः स्यात् । तथा सति व्याहतमेतत् सर्वज्ञप्रमाणान्तराभाववचनं चार्वाकस्य । प्रत्यक्षैकप्रमाणैषणं वा व्याहतमस्य देशकालनरान्तरप्रत्यक्षाणां स्वयं प्रत्यक्षतः प्रामाण्यस्य साधने सर्वसाक्षात्कारित्वप्रसङ्गात्, संवादकत्वादिलिङ्गजनितानुमानात्तत्साधने अनुमान
अष्टसहस्त्रीतात्पर्यविवरणम् धूमस्तत्र पर्वतीयवह्निरित्येवमुदाहर्तुमशक्यत्वात्, सर्वत्र सामान्ये विशेष वा साध्ये विरुद्धाव्यभिचारित्वम्, पक्षे साध्याभावववृत्तित्वसंशयेन तत्संशयात्तर्क स्य चाप्रतिष्ठत्वात्तस्माद् व्याप्तेरगमकत्वान्नानुमानं प्रमाणमित्याशयः । न च व्याप्त्या सामान्यसिद्धिः पक्षधर्मतया च विशेषसिद्धिरिति न दोष इत्यपि वक्तं शक्यम, पित्रोब्राह्मणत्वेन पुत्रब्राह्मणतानुमानात् पक्षधर्मताया अनङ्गत्वादिति भावः । संवादकत्वादीति यद्यपि देशकालनरान्तरप्रत्यक्षाणि प्रमाणानि संवादकत्वात् मत्प्रत्यक्षवदित्यनुमानं कर्तुम
Page #126
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम् प्रामाण्यसिद्धिप्रसक्तेः, परस्य प्रसिद्धनानुमानेन तत्प्रमाणताव्यवस्थापने स्वस्यापि तत्सिद्धेरनिवार्यत्वात् । अन्यथा परस्यापि तदप्रसिद्धः कुतः प्रत्यक्षमेकमेव प्रमाणं न पुनरन्यदिति व्यवस्था स्यात् ?
(भा०) तथेष्टत्वाददोष इत्येकेषामप्रामाणिकैवेष्टिः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
शक्यम्, सार्वझ्यापत्त्या पक्षप्रसिद्धरसम्भवात्, तथापि स्वप्रत्यक्षदृष्टान्तेन संवादकत्वलिङ्गेन प्रत्यक्षत्वावच्छेदेन प्रामाण्यसाधने तात्पर्यं द्रष्टव्यम् । ननु संवादकत्वादिलिङ्गेन प्रामाण्यानुमितावपि नानुमानप्रामाण्यसिद्धिस्तस्याः पक्षागृहीतासंसर्गकार्थस्मृतिरूपाया उत्कटकोटिकसंशयरूपाया वा सम्भावनाया अनतिरिक्तत्वात्, क्वचिन्निविकल्पकपृष्ठभाविसविकल्पकस्य व्यवहारहेतुत्वेऽप्यन्यत्र बहुशः सम्भावनाया एव तथात्वात् तयैव सर्वोपपत्तेः, अनुमानेऽपि च संवादाभिमानात् प्रामाण्यसम्भावनायां न दोषः, अनादिवासनामूलकशशविषाणादिविकल्पव्युदासायाध्यक्षमूलकत्वं विकल्पविशेषणम्, विकल्पाघटित एव वा संवादो ग्राह्यः, अध्यक्षमूलकस्याध्यक्षान्तरस्य सविकल्पकस्य च सम्भवात्, तथा च परप्रत्यक्षादेः संवादकत्वेन प्रामाण्यसम्भावना सुकरैव, स्वाध्यक्षस्यापि निर्विकल्पकस्य सन्मात्रावगाहित्वस्वविषयत्वप्रामाण्यावगाहित्वानां स्वरूपतः स्वग्राह्यतैव, तत्तद्रूपेण तु सम्भावनाविषयतैव, असद्विषयत्वाभावव्याप्येन सद्विषयत्वेन सन्मात्रावलम्बनत्वस्य स्वप्रकाशत्वव्याप्येन प्रकाशत्वेन स्वविषयत्वस्यानवस्थापादकपरग्राह्यत्वशून्यत्वे सति ग्राह्यत्वेन प्रामाण्यस्यापि स्वग्राह्यत्वस्य तथा तथा सम्भावनाविषयत्वात् । न चैवं तेषां रूपाणाम् असत्त्वापत्तिः, स्वरूपातिरिक्तत्वे इष्टत्वात् । न हि निर्विकल्पकं सन्मात्रावलम्बनमित्यादिबुद्धेस्तन्मते प्रमात्वम्, अयं घट इत्यादिधियामपि प्रमात्वापत्तेः, इत्येवं तत्त्वतः प्रत्यक्षमेव प्रमाणं, सम्भावनारूपव्यवहारात्त्वनुमानादिकमपीति चार्वाकमतमुपपत्स्यत इति चेत्, न, स्वरूपतो निर्विकल्पकग्राह्यत्वस्य तत्तद्रूपेण सम्भावनाग्राह्यत्वस्य च भेदाभेदात्मकवस्त्वभ्युपगमं विनानुपपत्तेः, व्यक्तेरिव जात्यादेरपि परमार्थसत्त्वेन सविकल्पकस्यापि सन्मात्रावलम्बनत्वाद्, अनुमिनोमीति विलक्षणप्रतीतिसिद्धप्रमान्तरजनकत्वेनानुमानस्यापि प्रमाणान्तरतायाश्चान्यत्र व्यवस्थापितत्वादिति दिक् ।
शून्यवादिमतमुत्थाप्य दूषयति भाष्यकृत्-तथेष्टत्वादित्यादिना तथेष्टत्वात् = प्रत्यक्षादिप्रमाणं प्रमेयं च सर्वमुपप्लुतमेवेतीष्टत्वान्न दोषः, इति=इयम्, एकेषां प्रत्यक्षाधुच्छेद इत्येकं शून्यमिच्छन्ति ये तेषाम्, अप्रमाणिकैव अप्रमाणसिद्धैव, इष्टिः प्रतिज्ञा,
Page #127
--------------------------------------------------------------------------
________________
प्रथमो भाग: [ परि० १ - का० ३]
९३
एके हि तत्त्वोपप्लववादिनः सर्वं प्रत्यक्षादिप्रमाणतत्त्वं प्रमेयतत्त्वं चोपप्लुतमेवेच्छन्ति । तेषां प्रमाणरहितैव तथेष्टिः सर्वमनुपप्लुतमेवेतीष्टेन विशिष्यते । न खलु प्रत्यक्षं सर्वज्ञप्रमाणान्तराभावविषयम्, अतिप्रसङ्गात्, नानुमानम्, असिद्धेः । सर्वं हि प्रत्यक्षमनुमेयमत्यन्तपरोक्षं च वस्तु जानन्तीति सर्वज्ञानि प्रमाणान्तराणि प्रत्यक्षानुमानागमप्रमाणविशेषा:, तेषामभावं स्वयमसिद्धं प्रत्यक्षमनुमानं वा कथं व्यवस्थापयेद्यतस्तद्विषयं स्यात् ? तथा सति सर्वं प्रमाणं सर्वस्य स्वेष्टतत्त्वविषयं भवेदिति कुतस्तत्त्वोपप्लवः ? ।
[परैर्मान्येन प्रमाणेन सर्वस्य तत्त्वस्याभावं करोति तत्त्वोपप्लववादी तस्य निराकरणम् ]
परस्य सिद्धं प्रमाणं तदभावविषयमिति चेत्, तत् परस्य प्रमाणतः सिद्धं प्रमाणमन्तरेण वा ? यदि प्रमाणतः सिद्धं नानात्मसिद्धं नाम, प्रमाणसिद्धस्य नानात्मनां वादिप्रतिवादिनां सिद्धत्वाविशेषात् । अन्यथा परस्यापि न सिद्ध्येत्, प्रमाणमन्तरेण सिद्धस्यासिद्धत्वाविशेषात् । तदिमे तत्त्वोपप्लववादिनः स्वयमेकेन केनचिदपि प्रमाणेन स्वप्रसिद्धेन परप्रसिद्धेन वा सकलतत्त्वपरिच्छेदकप्रमाणविशेषरहितं सर्वं पुरुषसमूहं संविदन्त एवात्मानं निरस्यन्तीति व्याहतमेतत्, तथा तत्त्वोपप्लववादित्वव्याघातात् ।
[ उपप्लववादी तत्त्ववादिनं दूषयति ]
ननु चानुपप्लुततत्त्ववादिनोऽपि प्रमाणतत्त्वं प्रमेयतत्त्वं च प्रमाणतः सिद्ध्येत् प्रमाणमन्तरेण वा ? प्रमाणतश्चेत्तदपि प्रमाणान्तरतः सिद्धयेदित्यनवस्थानात्कुतः प्रमाणतत्त्वव्यवस्था ? यदि पुनः प्रथमं प्रमाणं द्वितीयस्य व्यवस्थापकं द्वितीयं तु प्रथमस्येष्यते तदेतरेतराश्रयणान्नैकस्यापि व्यवस्था । स्वतः प्रमाणस्य प्रामाण्य
अष्टसहस्त्रीतात्पर्यविवरणम्
सर्वमुपप्लुतमिति वचनमात्रात्तत्त्वोपप्लवसिद्धौ सर्वमनुपप्लुतमिति वचनात् तदनुपप्लवस्यापि सिद्ध्यापत्तेरिति तदर्थः । वृत्तौ न विशिष्यत इत्यनन्तरं वाङ्मात्रेणेति शेषः । स्वयमसिद्धमिति शून्यवादस्य निरस्तत्वादिति भावः । तथा सतीति यदृच्छयेन्द्रियप्रत्यक्षादेः प्रमाणान्तराभावग्राहकत्वे सतीत्यर्थः । स्वेष्टतत्त्वविषयं भवेदिति अन्याभिमतत्त्वा स्वप्रत्यक्षानुमानयोरिव प्रवृत्तेरित्यर्थः । माध्यमिक एव शङ्कते - ननु चेत्यादि ज्ञानप्रामाण्यस्य दुर्ग्रहत्वादगृहीतप्रामाण्यकं ज्ञानं नानुपप्लुततत्त्वं साधयेदिति प्रघट्टकार्थः । स्वतः
Page #128
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम् व्यवस्थितेरयमदोष इति चेत्, न सर्वप्रवादिनां तत्र विप्रतिपत्त्यभावप्रसङ्गात् । कुतश्चित्प्रमाणात्तद्विप्रतिपत्तिनिराकरणे तत्रापि प्रमाणान्तराद् विप्रतिपत्तिनिराकरणेन भाव्यमित्यनवस्थानमप्रतिहतप्रसरमेव । परस्परं विप्रतिपत्तिनिराकरणे चान्योन्यसंश्रयणं दुरुत्तरम् । प्रमाणमन्तरेण तु प्रमाणादितत्त्वं यदि सिद्धयेत्तदा तदुपप्लवव्यवस्थापि तथा दुःशक्या निराकर्तुम् । स्यान्मतम्-'विचारोत्तरकालं प्रमाणादितत्त्वव्यवस्थितिः । विचारस्तु यथाकथञ्चित्क्रियमाणो नोपालम्भार्हः, सर्वथा वचनाभावप्रसङ्गात्' इति । एवं तर्हि तत्त्वोपप्लववादिनामपि विचारादुत्तरकालं तत्त्वोपप्लवव्यवस्था तथैवास्तु, सर्वथा विशेषाभावात् ।
- अष्टसहस्रीतात्पर्यविवरणम् प्रमाणस्येति स्वप्रकाशमहिम्ना स्वेन स्वात्मेव प्रामाण्यमपि गृह्यत इति गुरुमतमाश्रित्यायं पूर्वपक्षः । सर्वप्रवादिनामिति स्वस्वज्ञानस्य स्वतः प्रामाण्यग्रहे सर्वे प्रवादाः सत्याः स्युरिति भावः । अपि च ज्ञानेन स्वतः स्वप्रामाण्यग्रहे ज्ञानप्रामाण्यसंशय एवोच्छिद्येत, ज्ञानग्रहे प्रामाण्यनिश्चयान्निश्चिते च संशयायोगात्तदग्रहे धर्मिज्ञानाभावात्, समानधर्मवत्तया धर्मिज्ञानस्य चान्वयव्यतिरेकाभ्यां संशयहेतुत्वावधारणादित्यपि द्रष्टव्यम् । नन प्रवृत्तिमात्रे न ज्ञानप्रामाण्यनिश्चयो हेतुः, अनभ्यासदशायां प्रामाण्यसन्देहादपि प्रवृत्तिदर्शनात्, प्रामाण्यज्ञानत्वेनैव प्रवृत्तिहेतुत्वात्, प्रवर्तकज्ञानेऽगृहीताप्रामाण्यकत्वनिवेशध्रौव्ये तदहेतुत्वाद्वा, प्रामाण्यनिश्चयस्याभ्यासहेतुसंशयापगमार्थमेवोपयोगात् । न च संशयात् प्रवृत्तौ प्रेक्षावत्त्वहानिः, इष्टत्वात्, प्रेक्षावरणक्षयोपशमस्य सर्वदा सर्वेषामभावेन विना सर्वशं क्वचित्कदाचित्कस्यचिदेव प्रेक्षावत्वव्यवहारात् । तदुक्तं
प्रेक्षावत्ता पुनर्जेया, कदाचित् कस्यचित् क्वचित् ।
अप्रेक्षाकारिताप्येवमन्यत्राशेषवेदिनः ॥१॥ इति, [ यत्तु सकम्पत्वनिष्कम्पत्वे प्रवृत्तिगतजाती प्रामाण्यसंशयनिश्चयजन्यतावच्छेदिके इति, तन्न, अंशे प्रामाण्यसंशयनिश्चयात्मकज्ञानजन्यप्रवृत्तौ तयोरांशिकत्वेन जातित्वासिद्धेः, अव्यवहितोत्तरत्वसम्बन्धेन संशयनिश्चयविशिष्टत्वयोरेव सकम्पनिष्कम्पपदार्थत्वात्, तदिह प्रामाण्यसंशयादेव विचारे प्रवृत्तिर्भवतु तदुत्तरं परीक्षया प्रामाण्यनिश्चयादनुपप्लुतत्वसिद्धिः स्यादित्याशयवान् शङ्कते- स्यान्मतं विचारोत्तरकालमित्यादि । एवं संशयाद्विचारोत्तरं साधकाप्रामाण्यसम्भावनया तत्त्वोपप्लवोऽपि शक्यसाधन इत्याशयवांस्तत्त्वोपप्लववादी स्वमतं समाधत्ते-एवं तीत्यादि । विचार्यत इति तदधीनप्रमेयतत्त्वखण्डनाय
Page #129
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. ३]
[तत्वोपप्लववादी आस्तिक्यवादिनां प्रमाणतत्त्वं दूषयति] एवं च तत्र प्रमाणतत्त्वमेव तावद्विचार्यते, कथं प्रमाणस्य प्रामाण्यम् ? (१) किमदुष्टकारकसन्दोहोत्पाद्यत्वेन, (२) बाधारहितत्वेन, (३) प्रवृत्तिसामर्थ्येन (४) अन्यथा वा ?
प्रथमस्य निर्दोषकारणजन्यत्वहेतोनिराकरणम]
(१) यदि अदुष्टकारकसन्दोहोत्पाद्यत्वेन तदा सैव कारकाणामदुष्टता कुतोऽवसीयते ? न तावत्प्रत्यक्षात् नयनकुशलादेः संवेदनकारणस्यातीन्द्रियस्यादुष्टतायाः प्रत्यक्षीकर्तुमशक्तेः । नानुमानात्, तदविनाभाविलिङ्गाभावात् । विज्ञानं तत्कार्यं लिङ्गमिति चेत्, न विज्ञानसामान्यस्य तदव्यभिचारित्वाभावात् । प्रमाणभूतं विज्ञानं तल्लिङ्गमिति चेत्, कुतस्तस्य प्रमाणभूततावसायः ? तददुष्टकारणारब्धत्वादिति चेत्, सोऽयमन्योन्याश्रयः, सिद्धे विज्ञानस्य प्रमाणभूतत्वे निर्दोषकारणारब्धत्वसिद्धिस्तत्सिद्धौ च प्रमाणभूतत्वसिद्धिरिति । किञ्च चक्षुरादिकारणानां गुणदोषाश्रयत्वे तदुपजनितसंवेदने दोषाशङ्कानिवृत्तिर्न स्यात्, गुणदोषाश्रयपुरुषवचनजनितवेदनवत् । गुणाश्रयतयैव तन्निश्चये तदुत्थविज्ञाने दोषाशङ्कानिवृत्तौ पुंसोऽपि कस्यचिद् गुणाश्रयत्वेनैव निर्णये तद्वचनजनितवेदने दोषाशङ्कानिवृत्तेः किमपौरुषेयशब्दसमर्थनायासेन ? अथ पुरुषस्य गुणाधिकरणत्वमेवाशक्यनिश्चयं, परचेतोवृत्तीनां दुरन्वयत्वात् तद्व्यापारादेः साङ्कर्यदर्शनात्, निर्गुणस्याऽपि गुणवत इव व्यापारादिसम्भवा
अष्टसहस्त्रीतात्पर्यविवरणम्
विचारासहत्वेनोन्नीयत इत्यर्थः । नयनकुशलादेरिति इन्द्रियावरणक्षयोपशमादेरित्यर्थः । तदविनाभाविलिङ्गाभावात् = उक्तादुष्टत्वाविनाभाविलिङ्गाभावात्, तत्कार्यं = नयनकुशलादिकार्यम्, लिङ्गमित्यत्रादुष्टताया इत्यनुषञ्जनीयम्, उपधायकतासम्बन्धो व्याप्यतावच्छेदको विशेषणताविशेषश्च व्यापकतावच्छेदक इति बोध्यम् । तदव्यभिचारित्वाभावादिति ज्ञानमात्रस्योपधायकतासम्बधेन दुष्टकारणचक्रेऽपि सत्त्वाद् व्यभिचारादित्यर्थः । प्रमात्वावच्छेदेनादुष्टकारणारब्धत्वव्याप्तिस्वीकारे गुणवत्कारणारब्धत्वव्याप्तिरपि स्यात्, तथा च वेदे गुणवत्पुरुषप्रणीतत्वस्य बलादापत्तेः, तत्रापौरुषेयत्वमनोरथोऽपि तव न पूर्येतेति मीमांसकं प्रत्याह तत्त्वोपप्लववादी-किञ्चेत्यादिना । नापि बाधानुत्पत्त्येति
Page #130
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम् दुपवर्ण्यते, तर्हि चक्षुरादीनामप्यतीन्द्रियत्वात्तत्कार्यसाङ्कोपलब्धेः कुतो गुणाश्रयत्वनियमनिश्चयः शक्यः कर्तुम् ? कस्यचिदपौरुषेयस्यापि च ग्रहोपरागादेः शुक्लवस्त्रादौ पीतज्ञानहेतोरुपलक्षणाद्वेदस्यापौरुषेयस्यापि मिथ्याज्ञानहेतुत्वसम्भावनायां कथमिव निःशङ्कं याज्ञिकानां तज्जनितवेदने प्रामाण्यनिश्चयः ? ततो नादुष्टकारकजन्यत्वेन कस्यचित्प्रमाणता ।
[द्वितीयस्य बाधारहितत्वहेतोः खण्डनम्] (२) नापि बाधानुत्पत्त्या, मिथ्याज्ञानेऽपि स्वकारणवैकल्याद् बाधकस्यानुत्पत्तिसम्भवात् प्रमाणत्वप्रसक्तेः । अथ यथार्थग्रहणनिबन्धना बाधानुत्पत्तिरप्रमाणासम्भविनी प्रमाणत्वसाधिनीति मतं, कुतस्तस्याः सत्यार्थग्रहणनिबन्धनत्वनिश्चयः ? संविदः प्रमाणत्वनिश्चयादिति चेत्, परस्पराश्रयः, सति प्रमाणत्वनिश्चये संवेदनस्य यथार्थग्रहणनिबन्धनबाधानुत्पत्तिनिर्णयस्तस्मिंश्च सति प्रमाणत्वनिश्चय इति । अन्यतः प्रमाणत्वनिश्चये किमेतया बाधानुत्पत्त्या ? न च बाधानुत्पत्तेर्यथार्थग्रहणनिबन्धनत्वं स्वत एव निश्चीयते, सन्देहाभावप्रसङ्गात्, दृश्यते च सन्देहः, कि यथार्थग्रहणाद नोऽत्र बाधानुत्पत्तिराहोस्वित्स्वकारणवैकल्यादित्युभयसंस्पर्शिप्रत्ययोत्पत्तेः । क्वचिद् दूरे मरीचिकायां जलज्ञाने स्वकारणवैकल्याद् बाधकप्रत्ययानुत्पत्तिप्रसिद्धरभ्यासदेशे तत्कारणसाकल्याद् बाधकज्ञानोत्पादात् ।
- [अर्थज्ञानानन्तरमेव बाधानुत्पत्तिः ज्ञानस्य प्रमाणतां ज्ञापयति सर्वदा वा ?]
किञ्चार्थसंवेदनानन्तरमेव बाधानुत्पत्तिस्तत्प्रमाण्यं व्यवस्थापयेत् सर्वदा वा ? न तावत्प्रथमविकल्पः सम्भवति, मिथ्याज्ञानेऽपि क्वचिदनन्तरं बाधानुत्पत्तिदर्शनात् । सर्वदा बाधानुत्पत्तेः संविदि प्रामाण्यनिश्चयश्चेत्, न तस्याः प्रत्येतुमशक्यत्वात, संवत्सरादिविकल्पेनापि बाधोत्पत्तिदर्शनात । चिरतरकालं बाधस्यानत्पत्तावपि स्वकारणवैकल्यात् कालान्तरेऽप्यसौ नोत्पत्स्यते इति कुतो निश्चयनीयः ? क्वचित्तु मिथ्याज्ञाने तज्जन्मन्यपि बाधा नोपजायते, स्वहेतुवैकल्यात्, न चैतावता तत्प्रामाण्यम् ।
[एकस्मिन् देशे स्थितस्य मनुष्यस्य ज्ञाने बाधानुत्पत्तिः प्रामाण्यहेतुः सर्वत्र वा ?]
किञ्च क्वचिद् देशे स्थितस्य बाधानुत्पत्तिः प्रतिपत्तुः सर्वत्र वार्थसंविदि प्रामाण्यहेतः ? न तावत्प्रथमः पक्षः कस्यचिन्मिथ्यावबोधस्यापि प्रमाणत्वापत्तेः । नापि द्वितीयः, कस्यचिद् दूरे स्थितस्य बाधानुत्पत्तावपि समीपे बाधोत्पत्तिप्रतीते:
Page #131
--------------------------------------------------------------------------
________________
९७
प्रथमो भागः [ परि. १-का. ३] सर्वत्र स्थितस्य बाधानुत्पत्तिसन्देहात्, समीपे बाधानुत्पत्तावपि दूरे बाधोत्पत्तिसम्भावनाच्च ।
[कस्यचित् मनुष्यस्य बाधानुत्पत्तिः सर्वस्य वा ?] किञ्च कस्यचिद् बाधानुत्पत्तिः सर्वस्य वा ? न तावत्कस्यचिद् बाधानुत्पत्तिः संविदि प्रामाण्यहेतुः, विपर्ययेऽपि भावात् । मरीचिकादौ तोयज्ञाने देशान्तरगमनादिना बाधानुत्पत्तावपि प्रमाणत्वाभावात् । सर्वस्य बाधानुत्पत्तिरर्थसंवेदने प्रामाण्यकारणमिति चेत्, न तस्याः किञ्चिज्ज्ञैर्ज्ञातुमशक्तेः शक्तौ वा तस्य सर्वज्ञत्वापत्तेरसर्वज्ञव्यवहाराभावप्रसङ्गात् सर्वदेशकालपुरुषापेक्षया बाधकाभावनिर्णयस्यान्यथानुपपत्तेः, इति न बाधारहितत्वेन संवेदनस्य प्रामाण्यम् ।
[तृतीयेन प्रवृत्तिसामर्थ्यहेतुना ज्ञानस्य प्रमाणत्वनिराकरणम्] (३) नापि प्रवृत्तिसामर्थ्यन, अनवस्थाप्रसक्तेः । प्रवृत्तिसामर्थ्यं हि फलेनाभिसम्बन्धः सजातीयज्ञानोत्पत्तिर्वा ? यदि फलेनाभिसम्बन्धः सोऽवगतोऽनवगतो वा संविदः प्रामाण्यं गमयेत् ? न तावदनवगतः, अतिप्रसङ्गात् । सोऽवगतश्चेत्, तत एव प्रमाणादन्यतो वा ? न तावत्तत एव, परस्पराश्रयानुषङ्गात्, सति फलेनाभिसम्बन्धस्यावगमे तस्य प्रमाणत्वनिश्चयात् तस्मिंश्च सति तेन तदवगमात् । अन्यतः प्रमाणात्सोऽवगत इति चेत्, तदन्यत्प्रमाणं कुतः प्रामाण्यव्यवस्थामास्तिघ्नुते ? प्रवृत्तिसामर्थ्यादिति चेत्, तदपि प्रवृत्तिसामर्थ्य यदि फलेनाभिसम्बन्धस्तदावगतोऽनवगतो वा संविदः प्रामाण्यं गमयेदित्यादि पुनरावर्त्तत इति चक्रकप्रसङ्गः । एतेन सजातीयज्ञानोत्पत्तिः प्रवृत्तिसामर्थ्य संवित्प्रामाण्यस्यागमकं प्रतिपादितं, सजातीयज्ञानस्य प्रथमज्ञानात्प्रामाण्यनिश्चये परस्पराश्रयणस्याविशेषात्, प्रमाणान्तरात्तत्प्रामाण्यनिर्णयेऽनवस्थानुषङ्गात् ।।
- अष्टसहस्त्रीतात्पर्यविवरणम् प्रामाण्यं गृह्यत इत्यनेन योग: । नापि प्रवृत्तिसामर्थ्येनेति अत्रापि प्रामाण्यं गृह्यत इति योजनीयम् । फलेन जलप्राप्त्यादिलक्षणेन, अभिसम्बन्धः =उपधेयोपधायकभावः, तस्याः =संविदः, तस्मिंश्च संविदः प्रमाणत्वनिश्चये च सति, तदवगमात्= फलाभिसम्बन्धावगमात्, पुनरावर्त्तत इति 'चक्रकमिति अन्यतः प्रमाणात् फलाभिसम्बन्धावगमे
१. चक्रकप्रसङ्ग इति अष्टसहस्रीसम्मतः पाठः ।
Page #132
--------------------------------------------------------------------------
________________
९ ८
अष्टसहस्त्रीतात्पर्यविवरणम्
[ प्रवृत्तिशब्दस्य कोऽर्थ इति तत्त्वोपप्लववादी नैयायिकं पृच्छति ]
प्रवृत्तिश्च प्रतिपत्तुः प्रमेयदेशोपसर्पणं प्रमेयस्य प्रतिपत्तौ स्यादप्रतिपत्तौ वा ? न तावदप्रतिपत्तौ, सर्वत्र सर्वस्य प्रवृत्तिप्रसङ्गात् । तत्प्रतिपत्तौ चेत्, निश्चितप्रामाण्यात् संवेदनात्तत्प्रत्तिपत्तिरनिश्चितप्रामाण्याद्वा ? प्रथमपक्षे परस्पराश्रयणमेव, सति प्रवर्त्तकस्य संवेदनस्य प्रामाण्यनिश्चये ततः प्रमेयप्रतिपत्तिः, सत्यां च प्रमेयप्रतिपत्तौ प्रवृत्तेः सामर्थ्यात्तत्प्रामाण्यनिश्चयात् । प्रमाणान्तरात्तत्प्रतिपत्तौ प्रथमसंवेदनस्य वैयर्थ्यं, स एव च पर्यनुयोगोऽनवस्थापत्तिकरः । द्वितीयपक्षे तु प्रामाण्यनिश्चयानर्थक्यं, स्वयमनिश्चितप्रामाण्यादेव संवेदनात्प्रमेयप्रतिपत्तिप्रवृत्तिसिद्धेः । संशयात्प्रवृत्तिदर्शनाददोष इति चेत्, किमर्थमिदानीं प्रमाणपरीक्षणम् ? लोकवृत्तानुवादार्थमिति चेत्, तर्हि लोकवृत्तं कुतो निर्विवादं प्रसिद्धं यस्यानुवादार्थं प्रमाणशास्त्रप्रणयनम् ? न तावत्स्वत एव, प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणमिति परतः प्रामाण्यानुवादविरोधात् । स्वतः प्रसिद्धं हि प्रमाणप्रमेयरूपं लोकवृत्तं तथैवानुवदितुं युक्तं नान्यथा, अतिप्रसङ्गात् । यथानूद्यतेऽस्माभिस्तथैव लोकवृत्तं प्रसिद्धं स्वत इति चेत्, न स्वतः सर्वप्रमाणानां प्रामाण्यमित्यन्यैर्लोकवृत्तस्यानुवादात् तथैव प्रसिद्धिप्रसङ्गात् । स मिथ्यानुवाद इति चेत्, तवापि मिथ्यानुवादः कुतो न भवेत् ?, तथा लोकवृत्तस्य प्रसिद्धत्वादिति चेत्, परोऽप्येवं ब्रूयात् । तथैव लोकवृत्तस्य प्रसिद्धत्वे तथानुवादस्य सत्यत्वं, तत्सत्यत्वाच्च तथैव लोकवृत्तस्य प्रसिद्धत्वमितीतरेतराश्रयत्वमप्युभयोः समानम् । तथा लोकवृत्तान्तरात्तस्य प्रसिद्धौ पुनरनवस्था दुर्निवारैव इति न प्रवृत्तिसामर्थ्यात्संविदः प्रामाण्यअष्टसहस्त्रीतात्पर्यविवरणम्
तत्प्रामाण्यस्य पूर्वज्ञानेन सिद्धावन्योन्याश्रयः फलाभिसम्बन्धान्तरोपजीविप्रमाणान्तराश्रयणे च पुनः पुनर्दोषावृत्तिरित्येवात्र चक्रकं बोध्यम्, न तु तृतीयापेक्षामात्रम्, यद्वा प्रवर्त्तकज्ञानप्रामाण्यनिश्चयात् प्रवृत्तिः, प्रवृत्तेरर्थक्रियानिश्चयस्ततश्च प्रवर्त्तकज्ञानप्रामाण्यनिश्चय इत्येवं चक्रकं योजनीयम् । पुनरावृत्त्यभिधानं चैतद्दार्थ्याय । अदोष इति अनवस्थादोषो नेत्यर्थः । किमर्थमिति प्रामाण्यपरीक्षणं विनाऽपि प्रवृत्तेर्जातत्वादित्यर्थः । लोकवृत्तानुवादार्थमिति प्रेक्षावल्लोकाचारानुरोधार्थमित्यर्थः तथा च प्रेक्षावत्प्रवृत्तौ प्रामाण्यनिश्चयस्य हेतुत्वात् तदादरध्रौव्यमिति लभ्यते । तत्तर्हि लोकवृत्तमित्यादि तथा च प्रामाण्यपरीक्षणं मदिष्टसाधनं
Page #133
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि० १ - का० ३]
निश्चयानुवादो युक्तः । ततो न प्रवृत्तिसामर्थ्येन प्रामाण्यं व्यवतिष्ठते ।
[सौगतः अविसंवादित्वेन ज्ञानस्य प्रमाणतां मन्यते तस्य निराकरणम् ]
(४) नाप्यविसंवादित्वेन, तदविसंवादस्यार्थक्रियास्थितिलक्षणस्यानवगतस्य प्रामाण्यव्यवस्था, हेतुत्वायोगात् । तस्यावगतस्य तद्धेतुत्वे कुतस्तदवगमस्य प्रामाण्यम् ? संवादान्तरादिति चेत्, न तदवगमस्याऽपि संवादान्तरात्प्रामाण्यनिर्णयेऽनवस्थाप्रसङ्गात् । अथाऽर्थक्रियास्थितिलक्षणाविसंवादज्ञानस्याभ्यासदशायां स्वतः प्रामाण्यसिद्धेरदोषः ।
[अभ्यासदशायां अविसंवादज्ञानस्य प्रमाणता स्वतः सिद्ध्यति इति बौद्धः मन्यते तस्य निराकरणम् ]
९९
कोऽयमभ्यासो नाम ? भूयः संवेदने संवादानुभवनमिति चेत्, तज्जातीयेऽतज्जातीये वा ? तत्रातज्जातीये न तावदेकत्र संवेदने भूयः संवादानुभवनं सम्भवति क्षणिकवादिनः । सन्तानापेक्षया सम्भवतीति चेत्, न सन्तानस्यावस्तुत्वादपेक्षानुपपत्तेः । वस्तुत्वे वा तस्यापि क्षणिकत्वसिद्धेः कुतस्तदपेक्षया सोऽभ्यासः ? सन्तानस्याक्षणिकत्वे वा यत्सत्तत्सर्वं क्षणिकमिति न सिद्ध्येत् । तज्जातीये भूयः संवादानुभवनमिति चेत्, न जातिनिराकरणवादिनः क्वचित्तज्जातीयत्वानुपपत्तेः । अन्यापोहलक्षणया जात्या क्वचित्तज्जातीयत्वमुपपन्नमेवेति चेत्, न अन्यापोहस्यावस्तुरूपत्वात्, तस्य वस्तुरूपत्वे वा जातित्वविरोधात् स्वलक्षणस्यासाधारणस्य वस्तुत्वोपगमात् । तदेवं सामान्यतः प्रमाणलक्षणानुपपत्तौ विशेषेणापि प्रत्यक्षादिप्रमाणानुपपत्तेर्न प्रमाणतत्त्वं विचार्यमाणं व्यवतिष्ठते, तदव्यवस्थितौ कुतः प्रमेयतत्त्वव्यवस्थेति विचारात्तत्त्वोपप्लवव्यवस्थितिः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
प्रेक्षावदाचारविषयत्वादित्यादौ प्रेक्षावत्पदार्थाभ्रान्तत्वघटकप्रामाण्यज्ञापकान्वेषणे प्रागुक्तदोषजालोपनिपातो दुर्निवार इति प्रघट्टकार्थः । नाप्यविसंवादित्वेनेति एतेनान्यथा वेति पक्षो व्याख्यातः, एतच्च सौगताभिमतं प्रामाण्यं तत्त्वोपप्लववादिना दूष्यत इति बोध्यम् । तदव्यवस्थितौ =प्रमाणतत्त्वाव्यवस्थितौ कुत इति प्रमाणतत्त्वव्यवस्थाधीनत्वात् प्रमेयतत्त्वव्यवस्थितेरिति भावः । विचारादित्यतः पूर्वं तस्मादित्यध्याहार्यम्, तस्मात्प्रमाणतत्त्वप्रमेयतत्त्वाव्यवस्थानाद्विचारोत्तरं तत्त्वोपप्लवः सिद्ध्यतीत्यर्थः, एवं निर्गलिते तत्त्वो
Page #134
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम्
[अधुना जैनाचार्याः तत्त्वोपप्लववादं निरस्य स्वमतेन प्रमाणस्य प्रमाणतां साधयन्ति]
इत्येतदपि सर्वमसारं, तत्त्वोपप्लवस्यापि विचार्यमाणस्यैवमव्यवस्थितेरनुपप्लुततत्त्वसिद्धिनिराकरणायोगात् । अथ 'तत्त्वोपप्लवः सर्वथा न विचार्य:, तस्योपप्लुतत्वादेव विचारासहत्वादन्यथानुपप्लुततत्त्वसिद्धिप्रसङ्गात् । केवलं तत्त्ववादिभिरभ्युपगतस्य प्रमाणप्रमेयतत्त्वस्य विचारक्षमत्त्वात्तत्त्वोपप्लवसिद्धि:' इति मतं तदपि फल्गुप्रायं, यथातत्त्वमविचारितत्वात् । न ह्यदुष्टकारकसन्दोहोत्पाद्यत्वेन संवेदनस्य प्रमाणत्वं स्याद्वादिभिर्व्यवस्थाप्यते, बाधारहितत्वमात्रेण वा, नापि प्रवृत्तिसामर्थ्येनान्यथा वा, प्रतिपादितदोषोपनिपातात् । किं तर्हि ? सुनिश्चितासम्भवद्बाधकत्वेन । न चेदं स्वार्थव्यवसायात्मनो ज्ञानस्य दुरवबोधम् । अष्टसहस्त्रीतात्पर्यविवरणम्
१००
पप्लववादिपूर्वपक्षे सिद्धान्तमाह स्याद्वादी - इत्येतदपि सर्वमसारमित्यादि । किं तर्हि सुनिश्चितासम्भवद्बाधकत्वेनेति ननु किमिदं प्रामाण्यज्ञापकाभिधानम् उत स्वरूपाभिधानं, नाद्यो ज्ञापकत्वस्येवादुष्टकारकसन्दोहोत्पाद्यत्वादेरपि त्यागायोगात्, ज्ञानधर्मत्वेनाभ्यासानभ्यासकाले ज्ञाप्यज्ञापकभावस्य व्यवहारान्तर्भावानन्तर्भावाभ्यां तद्व्यवस्थायाश्च सर्वत्र वक्तुं शक्यत्वात्, स्ववृत्तितयाभ्यस्तज्ञानगृहीतेन तेन तज्जातीयत्वलिङ्गावतारद्वारा पूर्वज्ञानप्रामाण्यग्रहसाम्ये एकतरपक्षपातायोगाच्च, अत एव न द्वितीयोऽपि, स्वप्रकाशमहिम्ना स्वस्येवोक्तस्य सर्वस्य प्रामाण्यस्यापि स्वधर्मत्वेन ग्रहणाविशेषात्, स्वधर्मोऽपि योग्य एव ग्राह्यो नायोग्यः, अन्यथा स्वर्गप्रापणशक्तेरपि ग्रहणप्रसङ्गादित्यतीन्द्रियादुष्टतादिघटितादुष्टकारकसन्देहोत्पाद्यत्वादेस्त्याग इति चेत्, तर्ह्यसन्निकृष्टसर्वदेशकालगर्भमसम्भवद्बाधकत्वमपि प्रामाण्यं त्यज्यताम्, (शङ्का) तस्य स्वप्रकाशमहिम्ना स्वाश्रयाग्राह्यत्वादिति चेत्, अत्रायमस्माकमाकरग्रन्थ:
ज्ञानस्य प्रमेयाव्यभिचारित्वं प्रामाण्यम्, तदितरत्त्वप्रामाण्यमिति । (प्रमाणनयतत्त्वालोकः १.९९.) प्रमाजनकत्वं प्रामाण्यं भ्रमजनकत्वमप्रामाण्यमित्येतदर्थः अर्थाव्यभिचारित्वोक्तावनुत्पादिताग्निज्ञाने धूमपरामर्शेऽव्याप्तेर्वारणायार्थपदस्थाने प्रमेयपदमभिषिञ्चतामाचार्याणामत्रैव स्वारस्यात्, धूमस्याग्न्यव्यभिचारित्वेऽपि प्रमेयाग्निव्यभिचारित्वस्याग्निप्रमाव्यभिचारेणैवोक्तिसम्भवात्, अव्यभिचारित्वपदेन नियतत्वस्य साक्षादुक्तावनन्यथासिद्धत्वपूर्ववर्त्तित्वयोराक्षेपतो लाभाच्च, जनकत्वं च योग्यव्यक्तावन्वयव्यतिरेकसहचारज्ञानादिसध्रीचीनप्रत्यक्षगम्यं परैरप्युपगम्यत एवेति प्रमाजनकत्वरूपप्रामाण्यस्याप्रमा
Page #135
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का०३]
१०१
[प्रमाणस्य प्रामाण्यमभ्यस्तविषये स्वतोऽनभ्यस्तविषये परतः इति मन्यमानेऽनवस्था परस्पराश्रयो वा
न सम्भवति] सकलदेशकालपुरुषापेक्षया सुष्ठ निश्चितमसम्भवबाधकत्वं हि प्रमाणस्याभ्यस्तविषये स्वत एवावसीयते स्वरूपवत् । अनभ्यस्तविषये तु परत इति नानवस्थेतरेतराश्रयदोषोपनिपातः । स्वार्थव्यवसायात्मकत्वमेव हि सुनिश्चितासम्भवद्बाधकत्वम् । तच्चाभ्यासदशायां न परतः प्रमाणात्साध्यते, येनानवस्था स्यात्, परस्पराश्रयो वा, तस्य स्वत एव सिद्धत्वात् । तथानभ्यासदशायामपि परतः स्वयंसिद्धप्रामाण्याद्वेदनात् पूर्वस्य तथाभावसिद्धे, कुतोऽनवस्थादिदोषावकाशः ?
__ [नित्यानित्यात्मन्यात्मनि अभ्यासानभ्यासौ उभौ अपि सम्भवतः]
क्वचिदभ्यासानभ्यासौ तु प्रतिपत्तुरदृष्टविशेषवशाद्देशकालादिविशेषवशाच्च भवन्तौ सम्प्रतीतावेव, यथावरणक्षयोपशममात्मनः सकृदसकृद्वा स्वार्थसंवेदने
- अष्टसहस्त्रीतात्पर्यविवरणम्
जनकत्वरूपाप्रामाण्यस्य चाभ्यासे स्वाश्रयग्राह्यत्वम्, अनभ्यासे च परतो ग्राह्यत्वमविरुद्धं, प्रामाण्यग्राहकं च परं स्वाश्रयातिरिक्तं संवादकज्ञानमेव, कारणगुणबाधकाभावज्ञानयोरप्येतन्मुखप्रेक्षित्वात् । न च अत्र समानजातीयभिन्नजातीयैकसन्तानभिन्नसन्तानविकल्पकृत दोषोपनिपातः, उभयस्वीकारात्, देवदत्तघटज्ञाने समानजातीयस्य यज्ञदत्तघटज्ञानस्य, प्रथमप्रवृत्तजलज्ञाने भिन्नजातीयस्योत्तरकालभाविस्नानपानावगाहनाद्यर्थक्रियाज्ञानस्यैकसन्तानगतेऽन्धकारकलुषितालोकप्रभवकुम्भज्ञाने निस्तिमिरावलोकप्रभवकुम्भज्ञानस्य भिन्नसन्ताने च समानजातीयकुम्भज्ञानस्योक्तस्य संवादकत्वस्वीकारात्, एकसन्तानेऽभिन्नविषये संवाद्यसंवादकभावाविशेषस्य च मन्दप्रबलसामग्रीसमुत्पाद्यतयैव निरासात्, तथा च संवाद्यत्वनियामकसम्बन्धविशेषेण संवादकज्ञानं यत्र वर्त्तते तत्र प्रामाण्यनिश्चयोत्पत्तिरित्येवं नियमान्न तज्जातीयत्वपरामर्शादिकल्पनाक्लेशः, संवादकत्वव्याप्तिज्ञानाद्यपेक्षानपेक्षाविचारस्यापि तत्र क्षयोपशममुखप्रेक्षित्वात् । एवं च प्रकृतग्रन्थेऽपि सुनिश्चितासम्भवद्बाधकत्वं सुनिश्चितो बाधकाभावस्तेन संवादकज्ञानवत्तोपलक्ष्यत इति तेनैव यथोक्तप्रामाण्यग्रह इत्यत्र तात्पर्यम् । क्वचिदभ्यासानभ्यासौ त्विति तथा चाभ्यासानभ्यासावदृष्टविशेषादिप्रयोज्यौ जातिविशेषावेव ज्ञानगतो, विषयगतत्वं तु तयोरुपचारादिति मन्तव्यम्, तदिदमाहुः
दृष्टादृष्टनिमित्तानां, वैचित्र्यादिह देहिनाम् । जायते क्वचिदभ्यासोऽनभ्यासो वा कथञ्चन ॥१॥ इति, [ ]
Page #136
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम्
ऽभ्यासोपपत्तेः । स्वार्थव्यवसायावरणोदये वासंवेदने सकृत्संवेदने वा संवेदनपौनःपुन्येऽपि वानभ्यासघटनात् । पूर्वापरस्वभावत्यागोपादानान्वितस्वभावस्थितिलक्षणत्वेनात्मनः परिणामिनोऽभ्यासानभ्यासाविरोधात् । सर्वथा क्षणिकस्य नित्यस्य वा प्रतिपत्तुस्तदनुपपत्तेरभीष्टत्वात् । नन्विदं सुनिश्चितासम्भवद्बाधकत्वं संवेदनस्य कथमसर्वज्ञो ज्ञातुं समर्थ इति चेत्, सर्वत्र सर्वदा सर्वस्य सर्वं संवेदनमसुनिश्चितासम्भवद्बाधकमित्यप्यसकलज्ञः कथं जानीयात् ?
१०२
[ तत्त्वोपप्लववादी संशयं कृत्वा प्रमाणस्य प्रलयं कर्तुमिच्छति, तस्य निराकरणम् ]
तत एव संशयोऽस्त्विति चेत्, सोऽपि तथाभावेतरविषयः सर्वस्य सर्वदा सर्वत्रेति कथमसर्वज्ञः शक्तोऽवबोद्धुम् ? स्वसंवेदने तथावबोधात्सर्वत्र तथावबोध इति चेत्, तर्ह्यनुमानमायातं, विवादाध्यासितं संवेदनं सुनिश्चितासम्भवद्बाधकत्वेतराभ्यां सन्दिग्धं, संवेदनत्वादस्मत्संवेदनवदिति, तच्च यदि सुनिश्चितासम्भवद्बाधकं सिद्धं तदा तेनैव साधनस्य व्यभिचारः । अथ न तथा सिद्धं, कथं साध्यसिद्धिनिबन्धनम् ? अतिप्रसङ्गात्, स्वसंवेदनं च प्रतिपत्तुः किञ्चित् क्वचित् कदाचित् सुनिश्चितासम्भवद्बाधकं किञ्चित्तद्विपरीतं प्रसिद्धं न वा ? यदि न प्रसिद्धं, कथं सन्देह : ? क्वचिदप्रसिद्धो भयविशेषस्य तत्सामान्यदर्शनेनैव तत्परामर्शिप्रत्ययस्य सन्देहस्यासम्भवाद् भूभवनसंवर्द्धितोत्थितमात्रस्य तादृशः स्थाणुपुरुषविषयसन्देहवत् । यदि पुनस्तदुभयं प्रसिद्धं तदा स्वतः परतो वा ? अभ्यासदशायां स्वतोऽनभ्यासदशायां परत एवेति चेत्, सिद्धमकलङ्कशासनं, सर्वस्य संवेदनस्य स्यात्स्वतः स्यात्परतः प्रामाण्याप्रामाण्ययोर्व्यवस्थानात्, अन्यथा क्वचिद् व्यवस्थातुमशक्तेः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
ननु कूटस्थनित्यस्यात्मनोऽभ्यासानभ्यासस्वभावत्वं कथं घटेतेति साङ्ख्याशङ्कायाम् आह-पूर्वापरेत्यादि परिणामित्वादात्मन उभयस्वभावत्वं न दुर्घटम्, कूटस्थनित्यश्रुतेर्नयविशेषविषयत्वादात्मान्यद्रव्यत्वस्य परिणामित्वव्याप्यत्वकल्पनापेक्षया द्रव्यत्वस्यैव तत्कल्पने लाघवात्, 'अहं बालो भूत्वा युवा जात' इत्याद्यनुभवस्य सार्वजनीनस्य तत्साधकस्य जागरूकत्वाच्चेति भावः । सर्वस्य संवेदनस्य स्यात् स्वत: स्यात्परत इति, अत्र पद्ये
Page #137
--------------------------------------------------------------------------
________________
प्रथमो भाग: [ परि० १ - का० ३]
१०३
[उपप्लववादी कञ्चित् तत्त्वनिर्णयमनाश्रित्य परस्य तत्त्वस्य कथमुपप्लवं करोति सन्देहो वा कथं विधत्ते ?]
एतेन तत्त्वोपप्लववादिनः किमदुष्टकारकसन्दोहोत्पाद्यत्वेन बाधकानुत्पत्त्या
अष्टसहस्त्रीतात्पर्यविवरणम्
॥ प्रामाण्यवादः ॥
कतिपयकणानुप्त्वा नीरावसिक्तमृदि श्रमाद्, धुरि सुमहतो बीजाबीजे विदन्ति कृषीवलाः । तदनु कलितात् साधर्म्यात्तद्विधामनुमिन्वते, तदुपरि परिस्पष्टाभ्यासाद् विनाप्यनुमाश्रयम् ॥१॥
तथाभ्यासे स्वतो ज्ञेयं, प्रामाण्यमितरत्तथा । अनभ्यासे तु परतो, ज्ञप्तौ यत्नो यथोचितः ॥२॥ इति
ये तु नैयायिकमीमांसका विशेष्यावृत्त्यप्रकारकत्वादिकं नानाविधं प्रवृत्त्यनौपयिकं प्रामाण्यमवगणय्य व्यवहारोपयोगिनस्तद्वति तत्प्रकारकत्वस्यैव ज्ञानगतप्रामाण्यस्य स्वतस्त्वपरतस्त्वयोर्विविधं विप्रतिपद्यन्ते तेषामियं विप्रतिपत्तिः, ज्ञानप्रामाण्यं तदप्रामाण्याग्राहकयावद्ज्ञानग्राहकसामग्रीग्राह्यं न वेति । अत्र सकलानुगतस्यैकस्य प्रामाण्यस्याभावाद् घटज्ञानप्रामाण्यस्य पटज्ञानग्राहकेणाग्रहाच्च घटत्ववति घटत्वप्रकारकत्वादिकं तदप्रामाण्याग्राहकस्वाश्रयग्रहत्वव्यापकविषयताकं न वेति तदर्थः । प्रमेयत्वादिना व्यापकताया अतिप्रसञ्जकत्वात् घटत्ववति घटत्वप्रकारकत्वादिविषयतात्वेन व्यापकत्वस्य च सिद्धयसिद्धिभ्यां व्याघाताद्यथाश्रुतानुपपत्तेश्च घटत्ववति घटत्वप्रकारकत्वविषयतात्वं निरुक्तव्यापकतावच्छेदकं न वेत्यत्रास्यापि तात्पर्यं द्रष्टव्यम् । विधिकोटिर्मीमांसकानां निषेधकोटिर्नैयायिकानाम् । तत्र मीमांसकास्त्रयः प्रभाकरभट्टमुरारिभेदात् । प्राभाकरमते स्वाश्रयग्राहकेण यावता स्वेनैव प्रामाण्यं गृह्यते, भट्टमते ज्ञाततालिङ्गकानुमित्या, मुरारिमिश्रमते स्वानुव्यवसायेनेति, त्रितयसाधारण्येनायं विप्रतिपत्त्युल्लेखः । स्वतस्त्वसाधकं चैषां परतोऽग्राह्यत्वे सति ग्राह्यत्वमेव । नैयायिकास्तु ज्ञानस्य चक्षुराद्ययोग्यत्वाच्चाक्षुषादिज्ञाने तस्याविषयत्वात् स्वप्रकाशत्वमेव नास्तीति कुतः स्वेन स्वप्रामाण्यग्रह: ? इति गुरुमतमयुक्तम्, भट्टमतेऽपि ज्ञाततया ज्ञानानुमितिर्जायमाना कथं तत्प्रामाण्यं विषयीकुरुताम् ? तस्या ज्ञानमात्रेण समं व्याप्तिग्रहात्ततो ज्ञानमात्रस्यैव सिद्धेः, प्रमात्वावच्छिन्नेन च समं व्याप्त्यग्रहात्तद्रूपावच्छिन्नासिद्धेः, व्यापकतावच्छेदकरूपेणैवानुमितौ साध्यभान
Page #138
--------------------------------------------------------------------------
________________
१०४
अष्टसहस्त्रीतात्पर्यविवरणम् प्रवृत्तिसामर्थ्येनान्यथा वेत्यादिविकल्पसन्दोहहेतुकप्रश्नानुपपत्तिः प्रकाशिता, स्वय
- अष्टसहस्त्रीतात्पर्यविवरणम् स्वीकारात्, अन्यथा धूमाद् द्रव्यत्वदीपत्वादिनाऽपि दहनसिद्ध्यापत्तेः । मुरारिमिश्रनये तु यद्यपि प्रामाण्यं प्रथमानुव्यवसायेनैव सुग्रहं, घटघटत्वयोर्व्यवसायोपनीतयोविशेष्यितायाः प्रकारितायाश्च ज्ञाने मनसैव ग्रहसम्भवादुपनयसहकारेण मनसो बहिरर्थेऽपि प्रकाशसामर्थ्यात्, अन्यथा कविकाव्यमूलज्ञानानुपपत्तेः, तथापि नैतावदेव प्रामाण्यं, घटत्ववत्त्वे सति घटवत्त्वेन तदव्यवहारात्, किन्तु तद्वद्विशेष्यकत्वविशिष्टं तत्प्रकारकत्वम् । न च तद्वद्विशेष्यकत्ववैशिष्ट्यमनुव्यवसायो ग्रहीतुम् अर्हति, तद्वद्विशेष्यकत्वस्य पूर्वमनुपस्थितेः संसर्गतयैव विशेष्यताप्रकारताभानात्, स्वरूपतो वा नृसिंहाकारमर्यादया तत्र तद्भानात् । किञ्चैतदपि न प्रामाण्यं, वह्निगुञ्जयोर्गुञ्जावह्नी इति भ्रमेऽतिव्याप्तेः, अस्ति हि तत्र वह्निविशेष्यत्वं वह्नित्वप्रकारकत्वं च, किन्तु तद्वद्विशेष्यकत्वावच्छेदेन तत्प्रकारकत्वम् । न चावच्छेद्यावच्छेदकभावः प्रथमं ग्रहीतुं शक्यः, तद्वद्विशेष्यकत्वस्य पूर्वमनुपस्थितेः, द्वितीयानुव्यवसायेन तु प्रामाण्यग्रहो घटत एव, विशेष्यताप्रकारतयोः प्रथमानुव्यवसाये मन:संयुक्तसमवेतविशेषणतया भातत्वात्तद्वद्विशेष्यकत्वतत्प्रकारत्वयोर्ज्ञाने भानसम्भवात् । न चैवं प्रामाण्यसंशया नुपपत्तिः, दोषवशाद् यत्र प्रामाण्यं न गृहीतमनुव्यवसायेन तत्र तत्संशयसम्भवात्, अन्यथा पुरुषत्वस्य चक्षुर्वेद्यत्वात्तत्संशयोऽपि न स्यात् । न चैवं मिश्रमते स्वतो ग्राह्यत्वम् आगतम्, असति प्रतिबन्धके यावत्स्वाश्रयानुव्यवसायग्राह्यत्वस्य स्वतस्त्वस्य प्रथमानुव्यवसायेन प्रामाण्याग्रहनयेऽसंस्पर्शात् । एवं च साध्यप्रसिद्धावनुमानमपि तद्ग्राहकम्, इदं पुरुषज्ञानं प्रमा करादिमति पुरुषज्ञानत्वात्, सम्प्रतिपन्नवदिति सङ्गच्छते ।
चिन्तामणिकृतस्तु प्रथममप्रामाण्याभाव एव प्रामाण्यं व्यतिरेकिणा साध्यते । न च साध्याप्रसिद्धिः, व्यतिरेकिणि साध्यहेत्वोाप्तिग्रहानपेक्षणात्, किन्तु साध्याभावहेत्वभावयोरेव तदपेक्षणात् साध्याप्रसिद्धरकिञ्चित्करत्वात् । न च साध्याप्रसिद्धौ तदभावाप्रसिद्धिः, प्रतियोगिज्ञानसाध्यत्वादभावज्ञानस्येति वाच्यम्, तस्य प्रतियोगिरूपत्वात्, प्रतियोगिज्ञाने चाभावज्ञानस्याकारणत्वात्, एवं च यद्धावच्छिन्नव्यापकतया यद्धावछिन्नयद्धत्वभावो गृहीतस्तद्धर्मावच्छिन्नेन तेन तद्धर्मावच्छिन्नाभावः सिद्ध्यतीति प्रकृतज्ञाने करादिमद्विशेष्यकत्वावच्छिन्नपुरुषत्वप्रकारकज्ञानत्वेनाप्रामाण्याभावसिद्धिः । न च साध्याज्ञाने कथं
१. ष्यकत्वं इति मुद्रितम् ।
२. तुलना प्रामाण्यवादसिद्धान्तरहस्यं-(तत्त्वचिन्तामणिप्रत्यक्षखण्ड: भा० २ पृ. २५३ ।) अमर पब्लिकेशन ।
Page #139
--------------------------------------------------------------------------
________________
प्रथमो भाग: [ परि० १ - का० ३]
मन्यत्रान्यदा कथञ्चिदप्रतिपन्नतद्विकल्पस्य पुनः क्वचित्तत्परामर्शिसंशयप्रत्ययायोगात् । क्वचित्कदाचिददुष्टकारकसन्दोहोत्पाद्यत्वादिविशेषप्रतिपत्तौ तु कुतस्तत्त्वोपप्लवसिद्धिः ? पराभ्युपगमात् तत्प्रतिपत्तेरदोष इति चेत्, स तर्हि पराभ्युपगमो यदि प्रमाणात्प्रतिपन्नः स्वयं तदा कथं प्रमाणप्रमेयतत्त्वोपप्लवः ?
अष्टसहस्त्रीतात्पर्यविवरणम्
१०५
तद्विशिष्टज्ञानरूपानुमितिरिति वाच्यम्, अप्रामाण्या भावविशेष्यिकाया एवानुमितेरभ्युपगमादिति आहुः । तेषां मते उक्तहेतुतावच्छेदकावच्छिन्नहेतुग्रहः केन वाच्यः ? । अनुव्यवसायेनेति चेत्, तर्हि ततः पुरुषत्ववति पुरुषत्वग्रहः केन वार्यतां ?, यत्तमपहायैष कुसृष्ट्यादर ? इति चिन्त्यम् ।
अत्र मीमांसकमतदूषणे नैयायिकानामेव भारः, नैयायिकमतेऽप्युक्तप्रामाण्यस्य द्वितीयानुव्यवसायादेवावगतौ सकृत्संवेदन एवाभ्यासप्रसङ्गः, सिद्धिप्रतिबन्धकसत्त्वादनन्तरं सर्वानुभूयमानानुमितेरुच्छेदप्रसङ्गश्च । न च द्वितीयानुव्यवसायादिना ज्ञानावच्छेदकतयोक्तप्रामाण्यग्रहेऽपि स्वातन्त्र्येण तदग्रहात् स्वातन्त्र्येण तद्ग्रहायानुमानाश्रयणमावश्यकमिति वाच्यम्, अनुव्यवसाये स्वातन्त्र्येण प्रामाण्याग्राहकतायाः स्वातन्त्र्येण प्रामाण्यग्रहेऽनुव्यवसायसामग्र्याः प्रतिबन्धकत्वकल्पनयैवोपपत्तेः, तदपेक्षयाऽभ्यस्तज्ञानप्रामाण्यग्रहे क्षयोपशमविशेषहेतुत्वे लाघवमित्यस्मन्मतमेव युक्तम् । किञ्च तद्वद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्वमात्रमपि न प्रामाण्यं संशयव्यावृत्त्यर्थं तदभावाप्रकारकत्वस्याप्यधिकस्य देयत्वात्, अन्यथेदंतांशे प्रमाणत्वेन भ्रमस्याप्यव्यावर्त्तनीयत्वप्रसङ्गात्, तद्घटितस्य च प्रामाण्यस्य ज्ञप्तौ स्वतस्त्वपरतस्त्वयोरप्रामाण्यतुल्यकक्षत्वं युक्तिमत् । अपि च प्रामाण्यज्ञानं निश्चिताख्यो बहुबहुविधादिसूत्रे (तत्त्वा. १.१६) मतिज्ञानविशेषः, स च प्रामाण्यघटकयावत्पदार्थे हो पयोगादभ्यासाख्यामास्कन्दति ज्ञाने स्वत एव, अन्यत्र तु परतोऽनुमानादिनेत्यदुष्टकारकसन्दोहोत्पाद्यत्वादेरपि प्रामाण्यस्य ज्ञप्तिः सदीहाशालिनां नानुपपन्ना । अस्तु वा सर्वत्र सर्वदा बाधकाभावपर्यालोचनवतां प्रामाण्यांशे ऊहात्मकमेव ज्ञानम्, एकत्रापि ज्ञाने तत्तद्विषयत्वावच्छेदेन ज्ञानजन्यत्वज्ञानाजन्यत्वाभ्यां परोक्षत्वप्रत्यक्षत्वयोरविरोधात्, बाह्यविषयापेक्षयैव प्रमितिभेदस्य तत्र तत्रोपपादितत्वादीहादिज्ञानजन्येऽपाये च बाह्यविषये एकोपयोगत्वपर्याप्तिमद्भिन्नज्ञानाजन्यत्वेनैव प्रत्यक्षत्वव्यवस्थितेरित्यधिकं मत्कृतन्यायबिन्द्वादेरवसेयम् । कुतस्तत्त्वोपप्लवसिद्धिरिति एकत्र प्रमितस्यैवान्यत्रारोप
Page #140
--------------------------------------------------------------------------
________________
१०६
अष्टसहस्त्रीतात्पर्यविवरणम् पराभ्युपगमान्तरात्तत्प्रतिपत्तौ तदपि पराभ्युपगमान्तरमन्यस्मात् पराभ्युपगमान्तरात्प्रतिपत्तव्यमित्यनवस्था ।
[अधुनोपप्लववादिनः मतस्योपप्लवं कुर्वन्ति जैनाचार्याः] पराभ्युपगमं च स्वयं प्रतीयन्नेव न प्रत्येमीति ब्रुवाणः कथं स्वस्थः ? स्वयमप्रतीयंस्तु पराभ्युपगमं ततः किञ्चित्प्रत्येतीति दुरवबोधं, सोऽयं किञ्चिदपि स्वयं निर्णीतमनाश्रयन् क्वचिद्विचारणायां व्याप्रियत इति न बुध्यामहे, किञ्चिन्निर्णीतमाश्रित्य विचारस्यानिर्णीतेऽर्थे प्रवृत्तेः, सर्वविप्रतिपत्तौ तु क्वचिद्विचारणानवतारात् । तदुक्तं
किञ्चिन्निर्णीतमाश्रित्य विचारोऽन्यत्र वर्त्तते । सर्वविप्रतिपत्तौ तु क्वचिन्नास्ति विचारणा ॥ [तत्त्वा० श्लो० वा० १.१४०] इति ।
ततः सूक्तं, तत्त्वोपप्लववादिनः स्वयमेकेन प्रमाणेन स्वप्रसिद्धेन परप्रसिद्धन वा विचारोत्तरकालमपि प्रमाणतत्त्वं प्रमेयतत्त्वं चोपप्लुतं संविदन्त एवात्मानं निरस्यन्तीति व्याहतिः । [जैनमतमन्तरेण सर्वेऽपि मतावलम्बिनस्तीर्थच्छेदसम्प्रदाया भवन्तीति साध्यते जैनाचार्यैः] तदेवं कारिकाव्याख्यानमनवद्यमवतिष्ठते ।
(भा०) तीर्थच्छेदसम्प्रदायानां तथा सर्वमवगतमिच्छतामाप्तता नास्ति, परस्परविरुद्धाभिधानात्, एकानेकप्रमाणवादिनां स्वप्रमाव्यावृत्तेरिति ।
एकप्रमाणवादिनो हि संवेदनाद्वैतावलम्बिनश्चित्राद्वैताश्रयिणः परब्रह्मशब्दाद्वैतभाषिणश्च सुगतादयो यथा तीर्थच्छेदसम्प्रदायास्तथा प्रत्यक्षमेकमेव प्रमाणमिति वदन्तोऽपि चार्वाकाः, परमागमनिराकरणसमयत्वात् । यथा च कपिलादयोऽनेकप्रमाणवादिनस्तीर्थच्छेदसम्प्रदायास्तथा तत्त्वोपप्लववादिनोऽपि, तैरेकस्यापि प्रमाणस्यानभिधानात्, नैकप्रमाणवादिनोऽनेकप्रमाणवादिन इति व्याख्यानात् । तथा सर्वमाप्तागमपदार्थजातमवगतमिच्छन्तोऽप्यनेकप्रमाणवादिनो वैनयिकास्तीर्थच्छेद
- अष्टसहस्रीतात्पर्यविवरणम् सम्भवादिति भावः । पराभ्युपगममात्रादिति परोपगतप्रमाणजनितविकल्पादित्यर्थः, सर्वमवगतमिच्छतामिति वैनयिकानामित्यर्थः, सर्वमिच्छन्तीति सर्वेषस्तेषामिति व्युत्पत्तिस्वारस्यादेतदर्थलाभः, नैकप्रमाणवादिन इत्यादि नैकमपि प्रमाणं वदन्तीत्येवंशीला अनेकप्रमाणवादिन इत्यसूर्यंपश्या इतिवदसमर्थसमासोऽयं, तेनास्मात्तत्त्वोपप्लववादिलाभः
Page #141
--------------------------------------------------------------------------
________________
१०७
प्रथमो भागः [परि०१-का. ३] सम्प्रदायाः । तेषामशेषाणामाप्तता नास्ति, परस्परविरुद्धयोरर्थयोरभिधानात् ।
[सर्वेषामद्वैतवादिनां निराकरणम्] तत्र संवेदनाद्वैतानुसारिणः स्वपक्षसाधनस्य परपक्षदूषणस्य वा संविदद्वैतविरुद्धस्याभिधानं, तथा द्वैतप्रसिद्धः । संवृत्या तदुपगमे न परमार्थतः संविदद्वैतसिद्धिः, अतिप्रसङ्गात् । एतेन चित्राद्वैतपरब्रह्माद्यवलम्बिनां परस्परविरुद्धाभिधानं प्रतिवर्णितम् ।
___ [प्रत्यक्षैकप्रमाणवादिचार्वाकस्य निराकरणं क्रियते जैनैः] प्रत्यक्षमेकमेव प्रमाणमिति वदतां प्रमाणेतरसामान्यव्यवस्थापनस्य संवादेतरस्वभावलिङ्गजानुमाननिबन्धनस्य परचित्तावबोधस्य च व्यापारादिकार्यलिङ्गोत्थानुमाननिमित्तस्य परलोकादिप्रतिषेधस्य चानुपलब्धिलिङ्गोद्भूतानुमानहेतुकस्य प्रत्य
क्षकप्रमाणविरुद्धस्याभिधानं प्रतिपत्तव्यं, तथा प्रमाणान्तरसिद्धेः । परोपगमात्तत्स्वीकरणे स्वयं प्रमाणेतरसामान्यादिव्यवस्थानुपपत्तेः कुतः प्रत्यक्षैकप्रमाणवादः ? अतिप्रसङ्गात् ।
[तर्केण विनानेकप्रमाणवादिनां प्रमाणव्यवस्थापि न तत्त्वव्यस्वस्थां कर्तुं क्षमा]
तथानेकप्रमाणवादिनां कपिलकणभक्षाक्षपादजैमिनिमतानुसारिणां स्वोपगतप्रमाणसङ्ख्यानियमविरुद्धस्य सामस्त्येन साध्यसाधनसम्बन्धज्ञानस्याभिधानं बोद्धव्यं, प्रमाणान्तरस्योहस्य सिद्धेः । यावान्कश्चिद्धूमः स सर्वोऽप्यग्निजन्माऽनग्निजन्मा वा न भवतीति प्रतिपत्तौ न प्रत्यक्षस्य सामर्थ्य, तस्य सन्निहितविषयप्रतिपत्तिफलत्वात् ।
- अष्टसहस्त्रीतात्पर्यविवरणम् सङ्गत इति द्रष्टव्यम् । तथा द्वैतप्रसिद्धेरिति स्वपक्षसाधने परपक्षदूषणे सति द्वैतप्रसिद्धर्बलादापातादित्यर्थः । संवृत्त्येति संवृत्तिरविद्या तयेत्यर्थः । न परमार्थत इति आविद्यकप्रमाणस्य पारमार्थिकाद्वैतसाधनाक्षमत्वादित्यर्थः । परब्रह्मादीति आदिना शब्दब्रह्मपरिग्रहः । प्रमाणेतरेत्यादिना स्वभावलिङ्गककार्यालिङ्गकानुपलब्धिलिङ्गकानुमानत्रयविषयस्य चार्वाकाभिमतस्य प्रत्यक्षैकप्रमाणाभ्युपगमविरुद्धस्योत्कीर्तनम्, तथोक्तवदभ्युपगमे प्रमाणान्तरस्यानुमानरूपस्य सिद्धेः प्रसङ्गात् । स्वयमिति परोपगमस्य स्वं प्रत्यप्रमाणत्वादिति भावः । अतिप्रसङ्गादिति अनुमानत्रयाभ्युपगन्तुरपि चार्वाकस्यैकप्रमाणवादित्वोक्तौ वैशेषिकादीनामपि तथात्वप्रसङ्गादित्यर्थः । यावान् कश्चिदिति अग्निजन्मेत्यनन्तरं भवतीत्युत्तरस्थं केवलमनुषञ्जनीयम्, अनग्निजन्मेत्यनन्तरं न भवतीति
Page #142
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम्
नाप्यनुमानस्य, अनवस्थानात्, तद्व्याप्तेरप्यपरानुमानगम्यत्वात् इति वैशेषिकस्योहः अष्टसहस्त्रीतात्पर्यविवरणम्
१०८
योजनीयम्, वाकारो भिन्नक्रमस्तदुत्तरं योजनीयस्तेनान्वयव्यतिरेकव्याप्तिप्रतिपत्त्याकारद्वयमुपदर्शितं भवति, यथाश्रुते त्वग्निजन्मानग्निजन्मान्यतरतादात्म्याश्रयत्वनिषेधप्रतीतिरनुद्देश्या प्रसज्येतेति द्रष्टव्यम् ।
॥ ऊहप्रमाणवादः ॥
ननु अत्र व्याप्तिप्रतिपत्तेरेव प्रत्यक्षाद्यकरणकप्रमितित्वेन वैलक्षण्यं साधनीयं तत्करणत्वेनोहस्य प्रमाणान्तरत्वसिद्धेः, तत्प्रदर्शनं च यावान् कश्चिद् धूमः स सर्वो वौ सत्येव भवति तस्मिन्नसति न भवतीत्येतावन्मात्रेणैव भवतीति व्यर्थं जन्मपदमिति चेत्, न, धूमोऽस्तु वह्निर्मास्त्वित्यप्रयोजकत्वशङ्कानिरासद्वारा धूमो यदि वह्निव्याप्यो न स्याद् वह्निजन्यो न स्यादिति विचारपरिणतस्यैवोहस्य व्याप्तिप्रमापकत्वसम्भवात् तादृशविचारोन्नयनार्थं जन्मपदोपादानात् । एतेन प्रथमं धूमस्यानुपलम्भ एकस्तदनन्तरमग्नेरुपलम्भस्ततो धूमस्येत्युपलम्भद्वयं पश्चादग्नेरनुपलम्भोऽनन्तरं धूमस्याप्यनुपलम्भ इति द्वावनुपलम्भाविति प्रत्यक्षानुपलम्भपञ्चकेन धूमेऽग्निकार्यत्वावगतौ तदविनाभावनिश्चयोऽन्यथा नित्यं सत्त्वमसत्त्वं वा तस्य स्यात्, तदुक्तं
धूमाधीर्वह्निविज्ञानं, धूमज्ञानमधीस्तयोः । प्रत्यक्षानुपलम्भाभ्यामिति पञ्चभिरन्वयः ॥ १॥ [
] इति ।
स्वभावहेतौ तु तत्प्रतीतिर्विपक्षे बाधकानुमानात्, अनुपलब्धिस्तु स्वभावहेतावेवान्तर्भवतीति न व्याप्तिग्रहार्थमूहाख्यप्रमाणापेक्षेति मायासूनवीयमतं निरस्तम्, कार्ये तौ प्रत्यक्षानुपलम्भपञ्चकाद् व्याप्तिप्रतिपत्तेरयोगाद्, उपलम्भानुपलम्भस्वभावस्य द्विविधस्यापि प्रत्यक्षस्य सन्निहितमात्रविषयतया सर्वोपसंहारेण व्याप्त्यग्राहकत्वात्, अविचारकतया विपक्षबाधकान्वेषणेऽप्यक्षमत्वात्, ततः स्वभावहेतावपि तदयोगात्, प्रत्यक्षपृष्ठभाविनो विकल्पस्यापि प्रत्यक्षगृहीतमात्राध्यवसायित्वादधिकाध्यवसायित्वे प्रमाणान्तरस्य दुर्निवारत्वात्, विपक्षे बाधकानुमानेऽप्यविनाभावग्रहार्थमनुमानान्तराद्यपेक्षायामनवस्थानादिति ।
'यदपि व्यभिचारादर्शनभूयस्सहचारदर्शनसहकृतं प्रत्यक्षमेव व्याप्तिग्रहे क्षममिति किं तदर्थं प्रमाणान्तरकल्पनेनेति नैयायिकैरुद्घष्यते, तदपि तुच्छं, व्याप्तेः प्रत्यक्षाविषयत्वे सहकारिसहस्रसमवहितेनापि तेन तद्ग्रहायोगात्, प्रत्यक्षविषयत्वे च प्रथमत एव तद्ग्रह - प्रसङ्गात्, धूमव्यापकवह्निसामानाधिकरण्यविशिष्टधूमत्वादिरूपायास्तस्याः स्वरूपतः
Page #143
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि०१-का. ३]
१०९ प्रमाणान्तरमनिच्छतोऽप्यायातम् । एतेन सौगतस्य प्रमाणान्तरमापादितम् । तथागम
- अष्टसहस्त्रीतात्पर्यविवरणम्
सहचारदर्शनादिव्यङ्ग्यताया अपि वक्तुमशक्यत्वात्, व्याप्तित्वेन तत्त्वोपगमस्याप्यतिरिक्तितदनभ्युपगमे तथात्वात्, अतिरिक्तव्याप्तित्वकल्पने च किमपराद्धमतिरिक्तव्याप्त्या यत्प्रमितिवैलक्षण्येनोहः प्रमाणान्तरं न सिद्धयेत् ? न च धूमत्वादिरूपाया अपि व्याप्तेर्व्यापकसामानाधिकरण्यविशिष्टत्वेन ग्रहे सहचारदर्शनाद्यपेक्षेत्यपि वक्तुं युक्तम्, एवं सति दण्डविशिष्टत्वादिना पुरुषग्रहेऽपि दण्डादेर्हेतुतापत्तेः, न च विशिष्टज्ञाने विशेषणज्ञानहेतुत्वमर्यादया इष्टापत्तिः, विशेषस्य चिन्त्यमानत्वात् । किं चैवं सन्निहितव्यक्तिविषयव्याप्तेर्यथाकथञ्चित्प्रतीतावपि समस्तवह्निव्यक्तिनिरूपितसमस्तधूमव्यक्तिनिष्ठव्याप्तेः कथं भानम् ? (शङ्का) न कथञ्चित्, प्रतियोग्यसमानाधिकरणयद्रूपविशिष्टसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदको यो धर्मस्तद्धर्मावच्छिन्नेन येन केनापि समं सामानाधिरण्यं तद्रूपविशिष्टस्य तद्धविच्छिन्नयावन्निरूपिता व्याप्तिरित्येव दीधितिकृता निष्कर्षकरणादिति चेत्, तत्कि व्याप्तिज्ञानानुमितिस्मरणादिकार्यकारणभावे रूपविशेषो निविशते न तु धर्मिविशेषोऽपीति महानसीयवह्निनिरूपितव्याप्त्याश्रयत्वेन ज्ञातादपि धूमाद्वह्नित्वेन पर्वते वयनुमितेरेकत्र व्यक्तौ धूमत्वेन व्याप्तिग्रहेऽप्यपरत्र तथा स्मरणस्य च नानुपपत्तिः, तद्रूपावच्छिन्नेन तेन सामानाधिकरण्यं तद्रूपावच्छिन्नतन्निरूपिता व्याप्तिरित्यभिधाने त्वनन्तहेतुहेतुमद्भावापत्तिः, गन्धत्वादिनैकगन्धादिसामानाधिकरण्यस्य पृथिवीत्वादौ ज्ञानात्तेन रूपेणापरगन्धाद्यनुमितेरनापत्तिश्चेति तवाभिप्रायः ? ओमिति चेत्, सोऽयं दुरभिप्रायः, रूपविशेषस्येव धर्मिविशेषस्यानिवेशे सर्वत्र नियमतो यावद्धर्मिविषयकत्वापत्तेः, सामान्यरुपेणैव व्याप्तिग्रहे क्वचिदपि विशेषव्याप्तिग्रहानापत्तेः, विशेषव्याप्तीनामेवावश्याभ्युपेयानां वह्निव्याप्तित्वेनानुगतीकृतानां सामान्यव्याप्तित्वाभ्युपगमौचित्यात् एकविशेषव्याप्तिज्ञानाद्विना हेतुविशेषणं सामान्यरूपेणाप्यन्यविशेषविषयानुमितेरनभ्युपगमात्, तस्मात् सर्वोपसंहारेण व्याप्तिग्रहार्थमवश्यमहः स्वीकर्तव्यः । अथ सामान्यलक्षणाप्रत्यासत्त्या सकलवह्निधूमव्यक्त्युपस्थितौ सर्वोपसंहारेण व्याप्तिग्रहो विनाप्यूहं न दुर्घट इति चेत्, न, करितुरगरथपदातिविशेषप्रत्ययानन्तरं सेनाख्यसामान्यप्रत्ययस्येव सामान्यप्रत्ययानन्तरं तदाश्रययावद्विशेषप्रत्यक्षस्याप्यूहैकसाध्यत्वेन सामान्यलक्षणप्रत्यासत्तौ मानाभावात् ।
T॥ सामान्यलक्षणाप्रत्यासत्तिवादः ॥ अत्रावसरे तर्करसिकजनमनःप्रसत्तये सामान्यलक्षणप्रत्यासत्तिमेव मनाग् मीमांसामहे, तत्र सामान्यधर्मज्ञानानन्तरं यावत् सामान्याश्रयप्रत्यक्षोदयात् सामान्यलक्षणाप्रत्यासत्तेः
Page #144
--------------------------------------------------------------------------
________________
११०
अष्टसहस्त्रीतात्पर्यविवरणम् स्यापि व्याप्तिग्रहणेऽनधिकारात्कापिलस्योहः प्रमाणं नैयायिकस्य च तत्रोपमान
अष्टसहस्त्रीतात्पर्यविवरणम्
प्रत्यक्षहेतुतां कल्पयन्ति नैयायिकाः । सा च ज्ञायमानं सामान्यं, सामान्यज्ञानं वा । ज्ञानं च तदिन्द्रियजन्यं ग्राह्यं, स्मरणरूपस्य भिन्नेन्द्रियादिजन्यस्य च ज्ञानस्योत्तरकाले यावत्सामान्याश्रयप्रत्यक्षानुदयात्, तथा च घटत्वादिप्रकारतानिरूपितलौकिकान्यघटादिमख्यविशेष्यताशालिचाक्षुषत्वावच्छिन्नं प्रति चाक्षुषप्रकारीभूतघटत्वत्वादिना घटत्वप्रकारकचाक्षुषत्वादिना वा हेतुता कल्प्यते । द्रव्यत्वादिसामान्यलक्षणाजन्यज्ञाने व्यभिचारवारणाय घटत्वादिप्रकारतानिरूपितत्वं विशेष्यतायां निवेशितम्, ज्ञानांशे घटत्वप्रकारकत्वनिवेशे तु घटत्वनिर्विकल्पकोत्तरोत्पन्ने सन्निकृष्टघटांशे घटत्वप्रकारके द्रव्यत्वसामान्यलक्षणाप्रत्यासत्तिजन्ये यावद्र्व्यप्रत्यक्षे व्यभिचार इत्यतस्तत्त्यक्तम् । न च तत्रासन्निकृष्टघटांशेऽपि घटत्वभाने बाधकाभावात्तदंशे लौकिकान्यमुख्यविशेष्यतासत्त्वाद् यथोक्तेनाप्यनिर्वाह इति शङ्कनीयम् घटत्वसामान्यलक्षणाकारणविरहादेव तत्रासन्निकृष्टघटे घटत्वभानासम्भवात्, तत्तद्घटांशे विशेषणज्ञानादिमात्रेण घटत्वप्रकारकबुद्धर्जनयितुमशक्यत्वात्, घटत्वसामान्यलक्षणातत्तद्घटज्ञानात्मकज्ञानलक्षणातत्तद्घटलौकिकसन्निकर्षान्यतमविशेषसामग्रीसहकृतविशेषणज्ञानादीनामेव तत्र तज्जनकत्वात्, यथोक्तस्थले तादृशविशेषसामग्रीविरहेणोक्तापादनासम्भवात्, जातित्वादिना घटत्वविशेष्यकस्मरणानन्तरं यत्र द्रव्यत्वप्रकारकघटविशेष्यकचाक्षुषं तदुत्तरोत्पन्नयावद्द्रव्यप्रत्यक्षे घटत्वस्य प्रकारतया भानं नेष्यत एवेति नानुपपत्तिः एवमिह घटे घटत्वमिति चाक्षुषानन्तरोत्पन्नद्रव्यत्वप्रकारकचाक्षुषोत्तरद्रव्यत्वसामान्यप्रत्यासत्तिजन्यज्ञानस्थलेऽपि द्रष्टव्यम् । लौकिकान्यत्वस्य विशेष्यतायां निवेशान्निर्विकल्पाद्युत्तरोत्पन्नलौकिकप्रत्यक्षे न व्यभिचारः । न च यावद् घटविशेष्यत्वस्य कार्यतावच्छेदककोटिनिवेशध्रौव्यात् किं लौकिकान्यत्वनिवेशेन ? इति वाच्यम्, तदनिवेशेऽपि बाधकविरहेणैव यावद्घटभानोपपत्तौ तन्निवेशे प्रयोजनविरहात्, व्यभिचारवारणाय घटत्वव्यापकविशेष्यताकत्वरूपयावद्घटविशेष्यकत्वापेक्षया लघोलौकिकान्यत्वस्यैव निवेशौचित्यात्, तत्तद्घटादिरूपसामान्यलक्षणास्थले यावत्तदाश्रयविषयकलौकिकस्यापि सम्भवेन तन्निवेशध्रौव्याच्च । मुख्यत्वनिवेशाद घटत्वादिप्रकारकस्मरणादिजन्यघटोपनीतभानादौ न व्यभिचारः, बहिरिन्द्रियजन्ये उपनीतभाने उपनीतस्य विशेषणतयैव भानान्मुख्यत्वस्य च प्रकारतान्यत्वात्मकत्वात्, घटत्वादिविषयकनिर्विकल्पकानन्तरं यावद्घटप्रत्यक्षानुदयात् कारणतावच्छेदककोटौ प्रकारत्वनिवेशः । एकसम्बन्धेन सामान्यप्रकारकज्ञानादन्यसम्बन्धेन सामान्याश्रयप्रत्यक्षापत्तिवारणाय तत्सम्बन्धेन सामान्याश्रयप्रत्यक्षहेतुतायां तत्सम्बन्धा
Page #145
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. ३]
१११ स्याप्यसमर्थत्वात् प्राभाकरस्य चार्थापत्तेरप्यनुमानवत्तत्राव्यापाराद्भट्टमतानुसारिणश्चा
अष्टसहस्त्रीतात्पर्यविवरणम्
वच्छिन्नप्रकारता निवेशनीया । अत्र प्रथमकल्पे कारणतावच्छेदकप्रत्यासत्तिः समवायादिः, कार्यतावच्छेदकप्रत्यासत्तिश्च विषयता, घटादिवृत्तिविषयतात्वेन सम्बन्धत्वाभ्युपगमाच्च न समूहालम्बने व्यभिचारः । एकपुरुषीयसामान्यज्ञानादन्यपुरुषीयसामान्याश्रयप्रत्यक्षवारणाय ज्ञानांशे तत्पुरुषीयत्वं निवेश्यम्, इत्थं च पुरुषभेदेनापि कारणताभेदः । द्वितीयकल्पे कार्यस्य कारणस्य च समवाय एव प्रत्यासत्तिरतो नैकपुरुषीयसामान्यज्ञानादन्यस्य सामान्याश्रयप्रत्यक्षप्रसङ्गः, अत एवैतत्कल्पे पुरुषभेदेन कारणताभेदाभावात्पूर्वकल्पापेक्षया लाघवम् । न चात्र सामान्यानां विशिष्य निवेशनीयतया गौरवं मत्पक्षे तु लौकिकान्यमुख्यविशेष्यतासम्बन्धेन चाक्षुषत्वाद्यवच्छिन्नं प्रति प्रकारतासम्बन्धेन चाक्षुषादिमत्त्वेनैकहेतुताकल्पनयैवोपपत्तौ न सामान्यभेदेन कारणताभेद इति लाघवम्, पुरुषापेक्षया च विषयाणां बहुतरतया सामान्यभेदेन कारणताभेदकल्पनस्यैव पुरुषभेदेन कारणताभेदकल्पनापेक्षया गुरुत्वादिति वाच्यम्, सामान्यधर्माणां विशिष्यानिवेशे द्रव्यत्वप्रकारकचाक्षुषादिकाले घटत्वादिनिर्विकल्पकसत्त्वे तदुत्तरद्रव्यत्वभानप्रतिबन्धकीभूतदोषादिसत्त्वे घटत्वादिना यावद्घटभानापत्तेः, प्रकारतासम्बन्धेन चाक्षुषादिमतो द्रव्यत्वादेरेव यावद्घटेषु सत्त्वात् । न चेष्टापत्तिः, सामान्यप्रकारकज्ञानस्यैव सामान्यलक्षणया जनने द्रव्यत्वाप्रकारकज्ञानस्य द्रव्यत्वसामान्यलक्षणयाजननात् । अथ ज्ञायमानसामान्यप्रत्यासत्तिमतेऽपि स्वप्रकारकचाक्षुषादिसमवायित्वरूपात्मनिष्ठप्रत्यासत्त्यैव सामान्यस्य हेतुता कल्पनीयेति न पुरुषभेदेन कारणताबाहुल्यगौरवमिति चेत्, न, तथापि घटत्वत्वादिरूपेण सामान्यस्य हेतुताया वाच्यतया घटेतरावृत्तित्वविशिष्टयावद्घटवृत्तित्वरूपघटत्वत्वादिनिवेशप्रयुक्तगौरवस्याशक्यपरिहारत्वात्, मन्मते तु स्वरूपत एव घटत्वनिवेशात् । न च घटत्वादीनामाधेयतया घटवत्त्वादिनैव हेतुता न तु घटत्वत्वादिनेति वाच्यम् तथा सति द्रव्यत्वादीनामपि तादृशकारणतावच्छेदकाक्रान्ततया तद्भानप्रतिबन्धकदशायां तत्प्रकारकचाक्षुषाद् घटत्वप्रकारकचाक्षुषापत्तेः । न च घटादिसामान्यलक्षणास्थले सामान्यहेतुताया बाधकाभावस्तत्र स्वरूपतो घटत्वादीनामेव कारणतावच्छेदकत्वे गौरवाभावादिति वाच्यम्, घटनाशादिदशायामपि तदाश्रयप्रत्यक्षोदयात्तत्रापि परम्परासम्बन्धेन घटत्वादीनामेव प्रत्यासत्तितायास्त्वया वाच्यत्वात्, परम्परासम्बन्धेन घटत्वप्रकारकज्ञानविरहदशायामपि साक्षात्सम्बन्धेन घटप्रकारकज्ञानात्तदाश्रयज्ञानोदये तत्रानायत्या घटादेरेव प्रकारतया भानोपगमे तु तस्यातीतत्वदशोत्पन्नतादृशज्ञाने व्यभिचारात् सामान्यज्ञानस्य प्रत्यासत्तित्वमागतम् । एतन्मत एव
Page #146
--------------------------------------------------------------------------
________________
११२
अष्टसहस्त्रीतात्पर्यविवरणम् ऽभावस्यापि तत्रानधिकृतत्वात् । तथैकमपि प्रमाणमनभ्युपगच्छतां तत्त्वोपप्लवाव
अष्टसहस्त्रीतात्पर्यविवरणम्
लौकिकान्यमुख्यविशेष्यतानिरूपितप्रकारतासम्बन्धेन चाक्षुषत्वावच्छिन्नं प्रति प्रकारतासम्बन्धेन चाक्षुषत्वादिना हेतुताकल्पनेन सामान्यभेदे न हेतुताभेदोऽपि, मतान्तरे उक्तसम्बन्धेन चाक्षुषं प्रति तादात्म्येन चाक्षुषत्वेन हेतुत्वेऽनन्तचाक्षुषानां कारणतावच्छेदकत्वे गौरवम्, अत्र च चाक्षुषत्वजातेरेव तथात्वे लाघवमिति द्रष्टव्यम् । न च उक्तसम्बन्धेन चाक्षुषाधिकरणे तदव्यवहितप्राक्कालावच्छेदेन प्रकारतासम्बन्धेन चाक्षुषरूपकारणाभावात्कथं तत्र तदुत्पत्तिः ? तत्कालस्यातीतनिष्ठप्रकारतासम्बन्धावच्छिन्नज्ञानरूपकारणाधिकरणतानवच्छेदकत्वादिति वाच्यम्, विषयतासम्बन्धावच्छिन्नाधिकरणताया अधिकरणासम्बद्धकालस्याप्यवच्छेदकत्वाभ्युपगमात्, अन्यथा ज्ञानेच्छादीनां विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावविलयप्रसङ्गात् । अथवा प्रकृतस्थलेऽवच्छेदकत्वमनन्तर्भाव्य यत्र प्रदेशे यत्क्षणाव्यवहितपूर्वक्षणवृत्तिचाक्षुषादिरूपं कारणं प्रकारतासम्बन्धेन वर्त्तते तत्र तत्क्षणवृत्तिचाक्षुषादिरूपं कार्य प्रकारतासम्बन्धेनोत्पद्यत इत्येवं सामग्रीव्याप्तिरभ्युपगम्यत इति नानुपपत्तिः । अथ विनश्यदवस्थसन्निकर्षजन्यसामान्यप्रकारकचाक्षुषाद्यनन्तरं सामान्यप्रत्यासत्तिजन्यचाक्षुषाद्यापत्तिः, स्वाश्रयविशेष्यतानिरूपितसामान्यप्रकारकत्वसम्बन्धेन चक्षुःसंयोगविशिष्टचाक्षुषत्वादिनात्मनिष्ठप्रत्यासत्त्या स्वाश्रयविशेष्यतानिरूपितत्वसम्बन्धेन चक्षुःसंयोगविशिष्ट प्रकारतात्मकविषयनिष्ठप्रत्यासत्त्या चाक्षुषत्वादिना च हेतुत्वेऽपि यत्र धूलीपटलादिविशेष्यकधूमत्वादिप्रकारकभ्रमो दोषनाशश्च युगपत्तत्र तदुत्तरयावद्धूमप्रत्यक्षापत्तिः, तत्तत्सामान्याश्रयीभूतस्वाश्रयविशेष्यतानिरूपिततत्तत्सामान्यप्रकारताकत्वसम्बन्धेन चक्षुःसंयोगादिविशिष्टचाक्षुषत्वादिसमानाधिकरणवृत्तित्वस्वाश्रयविशेष्यतानिरूपितत्वोभयसम्बन्धेन चक्षुःसंयोगादिविशिष्टप्रकारतासम्बन्धेन चाक्षुषवत्त्वादिना वा हेतुत्वकल्पने तु धूलिपटलादिविशेष्यकधूमत्वादिभ्रमाद्दोषादिसत्त्वकालेऽपि यावधूमत्वाश्रयप्रत्यक्षानुदयप्रसङ्गः, दोषादिवैशिष्ट्यं निवेश्य हेतुत्वान्तरकल्पने तु व्यभिचारवारणमशक्यमिति चेत्, न, सामान्यप्रत्त्यासत्त्या सामान्यप्रकारतानिरूपितलौकिकविशेष्यताशून्यचाक्षुषादीनां कुत्राप्यजननात्, तादृशविशेष्यताशालिचाक्षुषसामग्रीसहकारेणैव सामान्यप्रत्यासत्तेः फलजनकत्वाभ्युगपमेनोपदर्शितापत्त्यसम्भवात् । मानसस्थले च सामान्यप्रकारकज्ञानत्वेनैव हेतुता, स्मरणादितोऽपि मानसप्रत्यक्षोदयात्, कार्यतावच्छेदकं च तादृशज्ञानाव्यवहितोत्तरमानसत्वम्, अव्यवहितोत्तरत्वनिवेशेन यत्र घटत्वादिविशेष्यकात् सम्बन्धान्तरेण तत्प्रकारकाद्वा ज्ञानाद घट इत्याकारकोपनीतभानं तत्र न व्यभिचारः, मानसे
Page #147
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि. १-का. ३]
११३ लम्बिनामनेकप्रमाणवादिनां तत्त्वोपप्लवोपगमस्य प्रमाणसिद्ध्यविनाभाविनः सकल
- अष्टसहस्त्रीतात्पर्यविवरणम् उपनीतस्य मुख्यविशेष्यतयापि भानात् मुख्यविशेष्यतानिवेशेन व्यभिचारवारणं तु कर्तुमशक्यम् । मानसस्थले च सामान्यप्रकारकलौकिकप्रत्यक्षसामग्री नापेक्षिता, घटत्वादिप्रकारकलौकिकप्रत्यक्षसामग्रीकाले मानसस्यैवानुदयादिति ।
सामान्यलक्षणामेवं, गौतमीया असाधयन् । तत्रोच्चैः प्रतिजानीते यतिायविशारदः ॥ सामान्यलक्षणायुक्तिरियं शुक्तिरिवोज्ज्वला ।
ऊहमुक्तामणिव्यक्तिरिमां भित्त्वा विधीयते ॥ इति तत्र तत्तत्सम्बन्धेनैकत्र घटे घटत्वस्यैकघटवृत्तिघटत्वस्य च ज्ञानाद् घटत्ववत्तया यावद्घटानां यावद्घटवृत्तितया घटत्वस्य च प्रतिपत्तिदर्शनात् तत्तत्सम्बन्धावच्छिन्नघटत्वविषयतानिरूपितघटविषयताकज्ञानत्वावच्छिन्नं प्रति तत्तत्सम्बन्धावच्छिन्नघटत्वविषयताकोहत्वेन कारणता कल्प्यते । ऊहत्वं च विशेषग्राहकस्य सामान्यव्यापकविषयताकग्रहपर्यवसायकविचारत्वम् । प्रमाणानुग्राहकस्योहस्य प्रमाणफलेनैव फलवत्वाच्च न पृथक् तत्फलानुधावनं, न तु प्रागुक्तनैयायिकेष्टरूपेण कारणत्वं, घटत्वादिविशेष्यकज्ञानासङ्ग्रहात्, कार्यतावच्छेदके लौकिकान्यत्वादानेनेन्द्रियभेदेन कारणताभेदाभावेन च लाघवात् । तत्तत्सम्बन्धादिविचारसध्रीचीन एव हि स स धर्मो यावत्स्वाश्रयं ग्राहयति, अत एवास्त्यादिपदात्कालाद्यभेदेनाशेषधर्मक्रोडीकृतद्रव्यग्रहः स्वसमयसिद्धः सङ्गच्छते । किञ्च तत्तत्सम्बधेन तत्तद्धर्मस्य तत्तत्सामान्यत्वापरामर्शे न सामान्यप्रकारकज्ञानादपि तेन सम्बन्धेन यावत्स्वाश्रयग्रहः, प्रकृतसम्बन्धेन घटत्वं न घटसामान्यमिति ग्रहकाले ततस्तदभावात्तत्त्वग्रहश्च विचाराधीन इति विचारशीलत्वात् सामान्यप्रत्यासत्तेरूहत्वमागतम् ।
वस्तुतस्तस्या यावदाश्रयज्ञाने द्वित्त्वादावपेक्षाबुद्धेरिव वैजात्येनैव हेतुत्वमुचितमिति तस्या एवोहाख्यत्वं प्रमाणान्तरत्वं च युक्तिमत् । एतेन स्मरणादिसाधारणसामान्यविषयकज्ञानत्वेनैव हेतुता सामान्यप्रकारकप्रत्यक्षत्वेन कार्यता, स्मरणादिकालेऽपि सामान्याश्रयप्रत्यक्षमिष्टमेव, सामान्यप्रत्यासत्तिजन्यचाक्षुषादौ सामान्यप्रकारकलौकिकचाक्षुषसामग्र्या आवश्यकत्वाद् द्वितीयक्षणे सामान्यप्रकारकचाक्षुषोत्पत्त्या तृतीयक्षणे यावत् सामान्याश्रयप्रत्यक्षस्य भवतोऽप्यावश्यकत्वात् सामान्यप्रकारकत्वेन कारणत्वमनादृत्य द्वितीयक्षणे तदुत्पादाभ्युपगमे क्षतिविरहात्, एवं निर्विकल्पोत्तरमपि यावत्सामान्याश्रयप्रत्यक्षमिष्टमेव, द्वितीयक्षणे विशिष्टबुद्ध्युत्पत्त्या तृतीयक्षणे तदुत्पादाभ्युपगमस्य भवतोऽप्यावश्यकत्वात् । न
Page #148
--------------------------------------------------------------------------
________________
११४
अष्टसहस्त्रीतात्पर्यविवरणम्
तत्त्वोपप्लवविरुद्धस्याभिधानमवगन्तव्यम् ।
- अष्टसहस्त्रीतात्पर्यविवरणम्
च सामान्यविषयकज्ञानत्वेन हेतुत्वे विषयतात्वेन प्रकारताविशेष्यतादीनामवच्छेदकत्वापेक्षया प्रकारतात्वेन प्रकारतामात्रस्यैव तथात्वमुचितमिति वाच्यम्, सामान्यप्रकारकज्ञानत्वेन हेतुत्वे लौकिके उपनीतभाने च व्यभिचारवारणाय लौकिकान्यमुख्यविशेष्यतायाः कार्यतावच्छेदककोटौ दाने गौरवात्, तदपेक्षया कारणतावच्छेदककोटौ विषयतात्वेन निवेशस्यैवोचितत्वादित्यादि नवीनोक्तमप्यपास्तम्, निर्विकल्पकस्याविचारकत्वेनाप्रत्यासत्तित्वात् सामान्यविषयकज्ञानत्वेन हेतुत्वायोगात्, एकसम्बन्धेन सामान्यविषयकज्ञानात् सम्बन्धान्तरेण सामान्याश्रयप्रत्यक्षाभ्युपगमस्यानुभवविरुद्धत्वेन तद्वारणाय सम्बन्धविशेषावच्छिन्नविषयतानिवेशध्रौव्ये निर्विकल्पकग्रहायोगाच्च । किञ्च निर्विकल्पकस्य प्रत्यासत्तित्त्वे घटत्वप्रत्यक्षकाले द्रव्यत्वसत्त्वादीनामपि प्रत्यक्षस्यावर्जनीयत्वात्, घटत्वनिर्विकल्पकद्वितीयक्षणे यावद्घटप्रत्यक्षवत् यावद्रव्यप्रत्यक्षस्य यावत्सत्प्रत्यक्षस्य चापत्तिः, सा चानिष्टेति यस्य यावत्सामान्यत्वं द्रव्यार्थादेशेनोह्यते तज्ज्ञानात्तावदव्यक्तिप्रतिपत्तिरूहात्मिका प्रतिपत्तव्या । न चेत् एवं तदा ज्ञायमानात् सामान्याद् यावत्तदाश्रयस्येव ज्ञायमानविशेषात् यावत्तदाश्रितस्यापि प्रत्यक्षोदयाभ्युपगमेन सामान्यलक्षणावद्विशेषलक्षणापि बलात्प्रत्यासत्तिपदवीमासादयेत् । न च तत्र विशेषस्य सामान्यनाममात्रकरणेनापि निस्तारः, पर्यवनयव्युत्क्रान्तानामर्थानां यथोत्तरं युक्तिबाधेन स्वलक्षणमात्रविश्रान्तप्रतीतौ प्रत्यासत्त्यन्तरकल्पनापत्तेः । एवं घटाद्यर्थेऽपि भेदाभेदादिविचारे निविकल्पपर्यवसाने द्रष्टव्यम् । ऊहव्यापारोपगमे तु न कुत्रापीदृशस्थले विचारणीयमस्ति । अत्र फलीभूतबोधापलापे तु सामान्यप्रत्यासत्तिजबोधोऽपीषत्कारापह्नव इति ध्येयम् ।
इदमप्यत्र वदन्ति-निर्विकल्पकसाधारणसामान्यज्ञानस्य प्रत्यासत्तित्वमते ज्ञानप्रत्यासत्तेर्हेतुत्वे मानाभावः, घटो नास्ति सुरभि चन्दनमित्यादौ घटसौरभादीनां घटत्वसौरभत्वसामान्यलक्षणाप्रत्यासत्तिबलादेव भानोपपत्तेः । न च सामान्यप्रत्यासत्त्या फलजनने किञ्चिदंशे सामान्यप्रकारकज्ञानसामाग्रयन्तरस्यापेक्षितत्वादुपदर्शितस्थले च घटाद्यंशे घटत्वप्रकारकज्ञानसामाग्र्यन्तरविरहेण कथं घटत्वादिसामान्यलक्षणया घटादिज्ञानं जननीयम् ? इति वाच्यम्, तत्र सामान्यज्ञानविधया घटादिप्रकारकप्रत्यक्षजनकघटादिज्ञानघटितोपनीतभानसामग्रया एव सत्त्वात्, ज्ञानलक्षणायाः पृथग हेतुत्व एव विवादात् घटसामान्यलक्षणाया अपि च प्रकृतघटत्वादिसामान्यलक्षणातिरिक्ततया सामग्रयन्तरत्वोपपत्तेः, घटत्वसौरभत्वादिसामान्यलक्षणाप्रत्यासत्तेर्जन्यतावच्छेदककोटावपि घटत्व
Page #149
--------------------------------------------------------------------------
________________
प्रथमो भाग: [ परि० १ - का० ३]
११५
अष्टसहस्त्रीतात्पर्यविवरणम्
सौरभत्वादिविषयता निविशते न तु तदाश्रयविषयतेति तद्वृत्तिधर्मज्ञानाभावेन तया तद्भानानिर्वाहान्न तदर्थमपि ज्ञानलक्षणा कल्प्यते । न च रजतत्वादिना शुक्त्याद्युपनीतभानानुरोधेन ज्ञानलक्षणप्रत्यासत्तेः पृथक्कारणत्वकल्पनमावश्यकं तत्र शुक्तिवृत्तिधर्मज्ञानाभावेन सामान्यलक्षणातस्तदनिर्वाहादिति वाच्यम्, रजतत्वसामान्यलक्षणाया रजतत्वाश्रयप्रत्यक्षं प्रत्येव हेतुत्वेऽपि शुक्तेरपि वैज्ञानिकसम्बन्धेन रजतत्वाश्रयत्वात् तद्बलादेव तद्भानोपपत्तेः । वस्तुतो दोषादिरूपकारणबलादेव तत्र शुक्तिभानमिति न तदनुरोधेन ज्ञानप्रत्यासत्तिहेतुताकल्पनम् । न चैवं रजतत्वज्ञाने शुक्तेरज्ञानेऽपि दोषादिबलात्तादृशोपनीत भानापत्तिः, दोषस्य फलबलकल्प्यतया फलाभावेन तत्र दोषाकल्पनात् । न च ज्ञानलक्षणायाः पृथग्हेतुत्वे घटत्वविशेष्यकज्ञानदशायां घटज्ञानाद्यसत्त्वेऽपि घटत्वादिना घटादिमुख्यविशेष्यकमानसोपनीतभानापत्तिः, घटत्वादिसामान्यलक्षणायाः किञ्चिदंशे घटत्वादिप्रकारकज्ञानसामग्र्यन्तरसहकृताया एव फलहेतुत्वेन तत्र तज्जन्यज्ञानमादायेष्टापत्तेः कर्त्तुमशक्यत्वादिति वाच्यम्, एवमपि लौकिकान्यतद्विषयताशालिज्ञानत्वावच्छिन्नं प्रति तद्विषयकज्ञानत्वेनैकहेतुताकल्पनेनैवोपपत्तौ ज्ञानप्रत्यासत्तिसामान्यप्रत्यासत्त्योः पृथक्कारणत्वे मानाभावात् । न च सामान्यप्रत्यासत्तिजन्याज्ञातसामान्याश्रयप्रत्यक्षे व्यभिचारः, अव्यवहितोत्तरत्वस्य कार्यतावच्छेककोटयै निवेशे तदभावात् । न च घटत्वाद्यंशे लौकिकयावद्घटभानस्य लौकिकान्यघटत्वविषयताशून्यत्वेन तत्र घटत्वादिज्ञानस्य पृथग् हेतुत्वकल्पनमावश्यकम् एककारणतया निर्वाहाभावादिति वाच्यम्, तत्र घटत्वांशे द्विविधविषयतास्वीकारे दोषाभावात् अव्यवहितोत्तरत्वनिवेशेनैव लौकिकज्ञाने व्यभिचाराभावेन लौकिकान्यत्वानिवेशाद्वा । न च अज्ञातव्यक्तिभानाय सामान्याश्रयविषयतामन्तर्भाव्य सामान्यज्ञानस्य हेतुत्वान्तरमावश्यकमिति शङ्क्यम्, सामान्यज्ञानजन्यतावच्छेदकोट सामान्याश्रयविषयताया अनिवेशेऽपि तत्तद्विषयकप्रत्यक्षेच्छाविरहविशिष्टविरोधिसामग्रयभावजन्यतावच्छेदकोटौ तत्तत्सामान्याश्रयविषयतानिवेशात् तद्बलादेव सामान्यप्रत्यासत्तिजन्यज्ञानस्य निखिलसामान्याश्रयविषयकत्वोपपत्तेः । न च सामान्यज्ञानशून्यकालेऽपि तादृशकारणबलात् तदापत्तिः, तज्जन्यफलस्य सामान्यज्ञानजन्यतावच्छेदकाक्रान्ततया सामान्यज्ञानं विना तदापत्त्यसम्भवादिति ।
अत्राप्ययमस्माकं मनीषोन्मेष:- यावत्सामान्याश्रयज्ञाने बाधाभावसामान्यज्ञानयोनियमतः सहकारित्वे कल्पनीये सर्वत्र प्रमाणे बाधाभावमुखप्रेक्षिणि तदपेक्षा स्यात्, न चैवमभ्युपगमः, किन्तु सर्वप्रमाणानां सामान्यविषयत्वमुत्सर्गतः स्वसामग्रीबलायात
Page #150
--------------------------------------------------------------------------
________________
११६
अष्टसहस्त्रीतात्पर्यविवरणम्
अष्टसहस्त्रीतात्पर्यविवरणम् मित्येवाभ्युपगम इति । तस्मात् सामान्यज्ञानं यद्येकव्यक्तिविषयं स्याद् बाधाभावेन यावद्व्यक्तिविषयं स्यादित्यूहात्मकमेव यावत्सामान्याश्रयज्ञानमङ्गी व्याप्तिशक्तियोग्यताकाङ्क्षादिज्ञानानां सामान्यविषयत्वादनुमितिशाब्दादीनां सामान्यविषयत्वसङ्गतेाप्तिज्ञानादीनां तर्कानुग्राह्यत्वकल्पनापेक्षया तर्कत्वकल्पनायामेव लाघवात् । एवं सामान्याश्रयप्रत्यक्षत्वं न परमतेऽपि सामान्यज्ञानजन्यतावच्छेदकं, तैरीश्वरप्रत्यक्षोपगमेन तत्र व्यभिचारात्, किन्तु सामान्याश्रयजन्यप्रत्यक्षत्वमिति तदपेक्षया सामान्याश्रयतर्कत्वमेव तथा लाघवादित्यस्मन्मतमेव ज्याय इति बोध्यम् । तत्तत्सामान्याश्रयमूहं विना बाधाभावमात्रेण तद्विषयकभानोपगमे तु नियमेन सर्वत्रानन्तपर्यायभानापत्तिः । एतेन अनुमितौ पक्षतावच्छेदकावच्छिन्नत्वं पक्षतावच्छेदकव्यापकविषयताकत्वं बाधाभावमात्रादित्यपि निरस्तम्, ऊहव्यापारानुसारेणैव तत्र नियतविषयभानादन्यथातिप्रसङ्गात्परामर्शेऽपि तद्भाने कारणस्य मृग्यत्वादिति दिग् ।
एतेन यदि च तत्तत्प्रत्यक्षविषयतायाः कारणतावच्छेदकसम्बन्धेन सन्निकर्षाश्रयत्वनियतत्वं प्रामाणिकं तदा ज्ञानप्रत्यासत्तिसामान्यप्रत्त्यासत्त्योः पृथक्कार्यकारणभावकल्पनमावश्यकं, तथाहि एतन्मते सामान्यलक्षणायाः स्वविषयीभूततत्तत्सामान्यवत्त्वप्रत्यासत्त्या ज्ञानत्वेन तत्तत्सामान्याश्रयवृत्तिविषयतया प्रत्यक्षत्वावच्छिन्ने हेतुता कल्प्या, तथा च घटो नास्ति सुरभि चन्दनमित्यादौ घटत्वसौरभत्ववृत्तिधर्मज्ञानाभावेन सामान्यलक्षणया तद्भानानुपपत्तेलौकिकान्यविषयतया प्रत्यक्षत्वावच्छिन्ने विषयतया ज्ञानत्वेन ज्ञानप्रत्यासर्तेर्हेतुत्वकल्पनमावश्यकम् । न च निर्विकल्पकसाधारणप्रत्यासत्तिमते सामान्यलक्षणाया हेतुत्वे तत्पुरुषीयत्वं न निवेश्यते, विशेषणज्ञानविरहेणैवान्यदीयघटज्ञानाद् घटत्वेन घटप्रत्यक्षवारणसम्भवात्, इत्थं च घटो नास्तीत्यादावन्तत ईश्वरीयघटत्वादिवृत्तिधर्मज्ञानादेवोपपत्तौ किं ज्ञानप्रत्यासत्तिकल्पनया ? सामान्यज्ञानहेतुतायां तत्पुरुषीयत्वादिनिवेशे व्यभिचारविरहेण सामान्यप्रकारकत्वस्य जन्यतावच्छेदककुक्षावप्रवेशात्, सामान्यप्रत्यासत्तिजन्ये घटत्वाद्यंशे घटत्वादिवृत्तिसामान्यधर्माप्रकारकत्वेऽपि दोषाभावादिति वाच्यम्, सामान्यलक्षणायाः फलजनने तत्तत्सामान्यप्रकारकप्रत्यक्षजनकसामग्रयन्तरस्य सहकारित्वाभ्यगमादपदर्शितस्थले घटत्वादिवत्तिसामान्यप्रकारकप्रत्यक्षजनकसामग्रीविरहेण घटत्वादिभानस्य सामान्यलक्षणयानुपपत्तेर्ज्ञानलक्षणायाः पृथक्कारणत्वावश्यकत्वात् । इत्थमेव घटोपस्थितिशून्यकाले घटत्वविशेष्यकज्ञानान्न घटत्वेन घटमुख्यविशेष्यकं मानसमित्युप
१. अयं पक्षः ११९ तमं पत्रं यावदनुवर्तते ।
Page #151
--------------------------------------------------------------------------
________________
प्रथमो भाग: [ परि० १ - का० ३]
११७
अष्टसहस्त्रीतात्पर्यविवरणम्
पद्यते । यत्तु उपदर्शितनियमानुरोधेन विषयतया प्रत्यक्षत्वावच्छिन्ने स्वविषयधर्मवत्त्वसम्बन्धेन विषयतासम्बन्धेन वा ईश्वरज्ञानसाधारणेन ज्ञानत्वेनैकमेव हेतुत्वं । न चैवं घटत्वज्ञानदशायां तदनाश्रयप्रत्यक्षापत्तिः, घटत्वेन तद्भानस्य दोषविरहेणानापत्तेः, सति दोषे चेष्टत्वात्, तदनाश्रयवृत्तिधर्मप्रकारकज्ञानस्य च तादृशविशेषज्ञानसाध्यस्य तद्विरहेणैवायोगादिति, तन्न, उपदर्शितैकहेतुहेतुमद्भावे घटत्वाद्यात्मकयत्किञ्चिद्विशेषणज्ञानसहकृतस्यैव सामान्यज्ञानस्य फलव्याप्यत्वेन यत्किञ्चित्सामान्यज्ञानदशायां प्रमेयमात्रे विषयतया प्रत्यक्षापत्तेर्दुर्वारत्वात्, सामान्यभेदेन विशिष्य हेतुत्वे च तत्सामान्यज्ञानात्तदनाश्रयप्रत्यक्षानापत्तेः, ईश्वरीयप्रमेयत्वादिसामान्यात्तज्ज्ञानशून्यस्य च यत्किञ्चिद्व्यतिरेकिसामान्यज्ञानवतो विश्वविषयकप्रत्यक्षापत्तेश्च प्रमेयत्वादिसामान्यलक्षणायाः फलजनने प्रमेयत्वादिरूपविशेषणज्ञानस्यैव सहकारित्वेन निरसनीयत्वादिति, घटत्वादिना यत्किञ्चिद्धर्मिभासकलौकिकसन्निकर्षादिशून्यकाले घटत्वादिसामान्यलक्षणाजन्यप्रत्यक्षानुदयात् तत्तत्सा मान्यधर्मप्रकारेण यत्किञ्चिद्धर्मविषयकप्रत्यक्षजनकसामग्रयन्तरस्य सामान्यलक्षणासहकारित्वं स्वीकरणीयम्, तच्च लौकिकप्रत्यक्षसामग्री उपनीतभानसामग्री च, तयोश्च प्रत्येकं सहकारिता बोध्या, सा च तज्जन्यतावच्छेदकसमानाधिकरणजन्यतावच्छेदकत्वरूपा । न चैवं क्वचिदापत्तिः सम्भवति, यतः तद्धर्म्मावच्छिन्नयत्किञ्चिद्व्यक्तिनिष्ठकार्यतानिरूपितकारणतावच्छेदकीभूता यावन्तो धर्माः प्रत्येकं तदवच्छिन्नस्तोमात्मकसामग्र्यास्तद्धर्मावच्छिन्नापादकत्वात्, घटत्वाश्रयस्य यस्य कस्यचिल्लौकिकसामग्रयुपनीतभानसामग्रयोरसत्योश्च तादृशसामग्रयेव नास्ति, घटत्वप्रकारकप्रत्यक्षत्वावच्छिन्नस्य घटत्वादिप्रकारतानिरूपितलौकिकविषयताशालितया घटत्वादिनोपनीतयत्किञ्चिद्धर्मविषयतया च द्विविधत्वात् । यत्किञ्चिदित्यनेन प्रथमोपादाने तन्निष्ठकार्यतानिरूपितकारणतावच्छेदकावच्छिन्नस्तोमात्मकलौकिकसन्निकर्षादेरन्त्यस्य चोपादाने तन्निष्ठकार्यतानिरूपितकारणतावच्छेदकावच्छिन्नोपनायकज्ञानादेरभावेन तत्र तद्घटिततादृशस्तोमाभाव इति न काचिदनुपपत्तिः । अथ घटो नास्ति सुरभि चन्दनमित्यादौ यावद्घटसौरभादिभानापत्तिः, यावद्घटादिविषयकप्रत्यक्षत्वस्य सामान्यज्ञानजन्यतानवच्छेदकत्वेन तदवच्छिन्नापत्तेः कर्त्तुमशक्यत्वेऽपि सामान्यप्रत्यासत्तिबलादर्थतो यावद्घटविषयकप्रत्यक्षापत्तेर्दुवारत्वात्, घटत्वेन यत्किञ्चिद्विषयकलौकिकप्रत्यक्षसामग्रीदशायां यावन्तो घटा भासन्ते न तु घटो नास्तीत्यादावित्यत्र नियामकस्यावश्यवक्तव्यत्वाच्चेति चेत्, न घटत्वादिप्रकारतानिरूपितमुख्यविशेष्यताशालिप्रत्यक्षत्वस्य घटत्वादिसामान्यलक्षणाजन्यतावच्छेदकत्वे दोषाभावात्,
Page #152
--------------------------------------------------------------------------
________________
११८
अष्टसहस्त्रीतात्पर्यविवरणम्
अष्टसहस्त्रीतात्पर्यविवरणम्
तदवच्छिन्नफलस्य बहिरिन्द्रियजस्य मानसस्य वा द्विविधस्यापि घट इत्याकारकस्यैवोपगमात् । यत्तु घटत्वप्रकारतानिरूपितलौकिकविषयताया घटत्वज्ञानजन्यतावच्छेदककोटौ निवेशाद् घटो नास्तीत्यादौ घटाद्यंशे लौकिकसन्निकर्षघटितसामग्र्यभावान्नोक्तापत्तिः, ज्ञातघटादिज्ञानं च ज्ञानलक्षणात एवेति, तदसत्, घटत्वादिप्रकारतानिरूपितलौकिकविषयताया जन्यतावच्छेदकोटौ निवेशने सामान्यलक्षणजन्यघटादिमानसासङ्ग्रहात् । अथ सामान्यघटितसामग्रीव्याप्तौ घटत्वादिप्रकारकलौकिकप्रत्यक्षसामग्र्यादेस्तादृशसामग्रीत्वेन घटचक्षुःसंयोगत्वादिना वा न निवेशः, तादृशधर्माणां कारणतानवच्छेदकत्वात्, कारणतानवच्छेदकधर्मावच्छिन्नस्य सामग्रीव्याप्तिमध्ये निवेशनेनातिप्रसङ्गवारणे सर्वमतसिद्धबहुतरकार्यकारणभावविलयप्रसङ्गात्, तथा चालोकसंयोगावच्छिन्नचक्षुःसंयोगत्वादिनैव लौकिकप्रत्यक्षादिहेतवः सामग्रीव्याप्तिमध्ये निवेशनीया इति तादृशचक्षुःसंयोगादिसमवहितं घटत्वादिज्ञानं यदा यत्र कारणतावच्छेदकप्रत्यासत्त्या तदव्यवहितोत्तरक्षणे तत्र कार्यमित्येतादृशी सामग्रीव्याप्तिः स्वीकार्या । तत्र चक्षुसंयोगादिसमवहितत्वमेकक्षणवृत्तित्वसम्बन्धेन, नत्वेकदेशवृत्तित्वसम्बन्धेन, स्वविषयीभूतसामान्याश्रयत्वप्रत्यासत्त्या सामान्यज्ञानहेतुतामते तादृशसम्बन्धेन घटत्वज्ञानादीनां घटचक्षुःसंयोगादिसमानदेशतासम्भवेऽपि पटादौ घटत्वादिभ्रमजनकदोषकाले घटत्वादिज्ञानेन यावद्घटादिचाक्षुषजननादेकदेशवृत्तित्वनिवेशासम्भवात् । एवं च दोषाभावेऽपि पटादिचक्षुःसंयोगमादाय चक्षुःसंयोगादिकालवृत्तित्वविशिष्टसामान्यज्ञानमहिम्ना घटत्वादिज्ञानकार्यापत्तिः, घटचक्षुःसंयोगदशायां व्यभिचारेण सामग्रीव्याप्तौ दोषनिवेशस्याप्यसम्भवादिति चेत्, न, बाधाभावादिघटितसामग्रीव्याप्तावप्यस्य दोषस्य तुल्यत्वात्, तत्रापि घटाभावादिप्रकारकचाक्षुषनिश्चयाभावादिघटितसामग्रीव्याप्तौ सन्निकर्षादीनां घटचक्षःसंयोगत्वादिना निवेशासम्भावाच्चक्षुःसंयोगत्वादिनैव तेषां निवेशनीयतया पटादिचा:संयोगादिकाले विनैव घटचक्षुःसंयोगादिकं तज्जन्यतावच्छेदकीभूतघटत्वादिप्रकारकचाक्षुषत्वाद्यवच्छिन्नापत्तेः । अथ तत्तघटादिवृत्तिविषयतासम्बन्धेन ज्ञानत्वावच्छिन्नं प्रति तादृशसम्बन्धेनेश्वरज्ञानसाधारणज्ञानत्वेन हेतुता कल्प्यते, तथा च घटवृत्तिविषयत्वसमवायादिरूपकार्यतावच्छेदकप्रत्यासत्तिघटितसामानाधिकरण्यसम्बन्धेन तादृशज्ञानविशिष्टचक्षुःसंयोगाद्यात्मकविषयवृत्तिसामग्रीसमवहितघटाभावचाक्षुषाद्यभावस्यैव घटचाक्षुषत्वादिरूपकार्यतावच्छेदकावच्छिन्नव्याप्यत्वमभ्युपेयते, पटचक्षुःसंयोगादीनां च घटवृत्तिविषयतासम्बन्धेन ज्ञानाधिकरणेऽवृत्तेर्न तत्समवहितबाधाभावादिबलाद् घटचाक्षुषाद्यापत्तिरिति चेत्, तुल्यं प्रकृतेऽपि । न च पटे
Page #153
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि. १-का. ३]
११९
अष्टसहस्त्रीतात्पर्यविवरणम्
घटत्वभ्रमजनकदोषसध्रीचीनपटचक्षुःसंयोगकाले घटत्वसामान्यलक्षणाजन्यचाक्षुषोदयात् पटादिवृत्तिविषयतासमवायघटितसामानाधिकरण्यसम्बन्धेन ज्ञानविशिष्टचक्षुःसंयोगाद्यात्मकसामग्रीसमवहितघटत्वज्ञानस्यापि फलव्याप्यत्वोपगमध्रौव्याद्दोषादिविरहकालेऽपि ततो घटत्वसामान्यलक्षणाजन्य ज्ञानापत्तिः, तादृशस्थले दोषस्यापि निवेशात् । न चैवं घटत्वाद्येकैकसामान्यलक्षणप्रत्यासत्तिघटितसामग्रीव्याप्तेरेव घटपटादिभेदेनानन्त्याद् गौरवमिति वाच्यं, तादृस्थले गौरवस्य गत्यन्तराभावेनाकिञ्चित्करत्वात् । यद्वा स्ववृत्तिप्रतियोगिकत्वसम्बन्धेन कृतिविशिष्टघटत्वप्रकारतानिरूपितलौकिकविषयताशालिप्रत्यक्षप्रागभावत्वेन घटत्वादिप्रकारतानिरूपितमुख्यविशेष्यताशालिमानसान्यप्रत्यक्षं प्रति हेतुतात्मनिष्ठप्रत्यासत्त्या कल्प्यते, घटो नास्तीत्यादिप्रत्यक्षे व्यभिचारवारणाय मुख्यविशेष्यताया घट इत्याकारकमानसे च तद्वारणाय मानसान्यत्वस्य निवेशः । तादृशसम्बन्धेन कृतिविशिष्टश्चोक्तप्रागभावः प्रतियोग्यव्यवहितप्राक्क्षण एव वर्त्तत इति नातिप्रसङ्गः । इत्थं चैकात्मवृत्तित्वसम्बन्धेन तादृशप्रागभावविशिष्टघटत्वज्ञानत्वाद्यवच्छेदेन फलनिरूपितैकैकव्याप्तिरेवाभ्युपेयत इति न गौरवम् इत्यादि निरस्तम्,' तत्तत्प्रत्यक्षविषयतायाः कारणतावच्छेदकसम्बन्धेन सन्निकर्षा श्रयत्वनियमस्य चक्षुरप्राप्यकारितावादिभिरस्माभिरनभ्युपगमात्, तदनुरोधेन सामान्यप्रत्यासत्तेः पृथक्कारणत्वे मानाभावात्, घटत्वादिप्रकारतानिरूपितमुख्यविशेष्यताशालिप्रत्यक्षत्वस्य घटत्वादिसामान्यलक्षणाजन्यतावच्छेदकत्वे यो धूमवान् सोऽग्निमानित्यत्र तादात्म्येन व्याप्तिग्रहोच्छेदापत्तेः, धूमत्वसामान्यलक्षणया धूमवदुपसर्जनीभूतसकलधूमग्रहायोगाद् धूमव्यक्तीनां च पृथगननुगतत्वेन ज्ञायमानधूमसामान्यवत्तया सकलधूमवदुपस्थित्ययोगात्, परम्परासम्बन्धेन धूमत्वसामान्यभानस्वीकारे च यो धूमत्ववानिति प्रयोगापत्तेः न च प्रत्यक्षत्वं सामान्यप्रत्यासत्तिजन्यतावच्छेदकं कार्याकार्यवृत्तित्वादित्यामेडितमेव, तस्मात् सामान्यावच्छिन्नविशेषविषयकप्रत्यक्षादौ सामान्यावच्छिन्नविशेषालम्बनस्य विशेषावच्छिन्नसामान्यविषयकप्रत्यक्षादौ विशेषावच्छिन्नसामान्यालम्बनस्योहस्य हेतुत्वमवश्यमेष्टव्यमिति तत एव कार्यसिद्धेः किं सामान्यघटितसामग्रीव्याप्तौ घटत्वप्रकारतानिरूपितलौकिकप्रत्यक्षसामग्र्यादेर्दोषविशेषादेरुपनीतभानसामग्र्यादेश्च निवेशेनाप्रामाणिकगौरवकारिणा ? | स्ववृत्तिप्रतियोगिकत्वसम्बधेनेत्यादिकल्पे तु लाघवात् घटत्वप्रकारकज्ञानत्वावच्छिन्नं प्रति स्ववृत्तिप्रतियोगिकत्वसम्बन्धेन कृतिविशिष्टप्रागभावस्य स्वप्रतियोग्युपयोगसम्बन्धेनैव
१. एतेन यदि च तत्तत्प्रत्यक्षविषयतायाः इत्यादिना आरब्ध पक्षः अत्र समाप्तः ।
Page #154
--------------------------------------------------------------------------
________________
१२०
अष्टसहस्त्रीतात्पर्यविवरणम्
[ परस्परविरोधदोषस्य स्पष्टीकरणम् ]
वैनयिकानां तु सर्वमवगतमिच्छतां परस्परविरुद्धाभिधानं विरुद्धसंवेदनं प्रसिद्धमेव, सुगतमतोपगमे कपिलादिमतस्य विरोधात् । ततः सिद्धो हेतुः परस्परविरोधत इति तीर्थकृत्समयानां सर्वेषामाप्तत्वाभावं साधयति । यदि पुनः 'संविदद्वैतादीनां स्वतः प्रमितिसिद्धेः प्रमाणान्तरतः स्वपरपक्षसाधनदूषणवचनाभावान्न परस्परविरुद्धाभिधानं स्वसंवेदनैकप्रमाणवादिनां नापीन्द्रियजप्रत्यक्षैकप्रमाणवादिनां प्रत्यक्षप्रामाण्यस्य प्रत्यक्षत एव सिद्धेः, अनुमानादिप्रामाण्याभावस्यापि तत एव प्रसिद्धेः प्रमाणान्तराप्रसङ्गात्, तथानेकप्रमाणवादिनामपि स्वोपगतप्रमाणसङ्ख्यानियमस्य स्वत एव सिद्धेः प्रमाणान्तरस्योहस्याप्रसङ्गान्न विरुद्धाभिधानं सम्भवति' इति मतं, तदापि न तेषामाप्ततास्ति । अष्टसहस्त्रीतात्पर्यविवरणम्
हेतुत्वमुचितमलं मानसान्यत्वादेः कार्यतावच्छेदककोटौ निवेशेन । सामान्याश्रयलौकिकप्रत्यक्षसामग्र्यभावेऽपि सामान्येनोत्सर्गतो यावद्विशेषाश्रयेण भवितव्यमित्यूहकाले यावत्सामान्याश्रयज्ञानस्य सर्वसिद्धत्वात् । वस्तुत ऊह इत्यादिप्रतीतिसिद्धवैजात्यशालिज्ञाने स्वप्रयोज्यविजातीयोपयोगसम्बन्धेन सामान्यप्रत्यासत्त्यादिस्थानीयतत्तद्विचाराणां हेतुत्वान्न काचिदनुपपत्तिः घटादौ चरमसंयोगस्येव ज्ञाने विजातीयोपयोगस्य चरमकारणत्वाद् बाह्यहेतूनां तद्वारकतयैव हेतुत्वोपगमादिति । इत्थं चैतदवश्यं तत्तद्विचारफलीभूतमूहवैचित्र्यमभ्युपगन्तव्यम्, यतः सर्वोपसंहारेण व्याप्त्यादिग्रहः, नो चेत् सामान्यप्रत्यासत्त्या यावदाश्रयोपस्थित्यभ्युपगमेऽपि यावत्त्वेनोपस्थितिः कुत: ? न हि धूमत्वमेव धूमनिष्ठं यावत्त्वं, धूमवान् यावद्धूमवानित्यनयोरविशेषप्रसङ्गात् । तथा च यावान् धूमस्तावान् वह्निजन्मेत्यर्थप्रतिपत्तये ऊहप्रमाणमेव शरणं, सामान्यव्यभिचारानुपस्थितिसहकारेण विशेषसहचारज्ञानस्य यावद्धेतौ यावत्साध्यव्याप्तिनिश्चायकत्वमपि तत्त्वेन ग्रहं विनासम्भवदुक्तिकं, तद्ग्रहे चोहप्रमाणं विना नान्यस्य व्यापार इत्याद्यन्यदपि विभावनीयमवहितमानसैः ।
सामान्यलक्षणप्रत्यासत्तिप्रत्यर्थिनिर्जयात् ।
एवमूहप्रमाणस्य राज्यं निष्कण्टकं स्थितम् ॥
अथ प्रकृतम्, एवं तीर्थकृत्समयानां परस्परविरोधेन भ्रमजनकतया आप्तत्वाभावं प्रसाध्य स्वस्ववासनयाविरोधाभ्युपगमेऽपि प्रमाजनकत्वाभावेन तं प्रसाधयितुमाह-यदि पुन
Page #155
--------------------------------------------------------------------------
________________
१२१
प्रथमो भागः [परि०१-का० ३] (भा०) स्वप्रमाव्यावृत्तेरन्यथानैकान्तिकत्वात् ।
[अन्यसिद्धान्तेषु स्वयं स्वस्यैव ज्ञानं न सम्भवति] न हि संविदद्वैतेऽन्यत्र वा स्वस्य स्वेनैव प्रमा सम्भवति, निरंशत्वात्प्रमातृप्रमाणप्रमेयस्वभावव्यावृत्तौ प्रमाया व्यावृत्तेस्तदव्यावृत्तौ प्रमात्रादिस्वभावाव्यावृत्तेरैकान्तिकत्वाभावात् प्रमात्राद्यनेकस्वभावस्यैकसंवेदनस्यानेकान्तात्मनोऽनुमननात्, संवित् स्वयं स्वेन स्वं संवेदयत इति प्रतीतेः ।
[चार्वाकादिमते ज्ञानं स्वसंविदितं नास्ति अतः प्रमाणस्य व्यवस्था तेषां न घटते]
नापीन्द्रियजप्रत्यक्षे स्वप्रमा घटते, भूतवादिभिस्तस्यास्वसंविदितत्त्वोपगमात् । इति सिद्धा तत्र स्वप्रमाया व्यावृत्तिः । ततो न प्रत्यक्षत एव प्रमाणेतर
- अष्टसहस्त्रीतात्पर्यविवरणम्
रित्यादिना । संविदद्वैतादीनामिति अत्रादिपदेन चित्राद्वैतपरब्रह्माद्वैतशब्दब्रह्माद्वैतपरिग्रहः । अन्यत्र वेति चित्राद्वैतादिपक्षे चेत्यर्थः । निरंशत्वादिति अंशरहितस्यैकस्य ग्राह्यग्राहकभावाभावेन न स्वेनैव स्वप्रमेत्यर्थः स्वप्रकाशत्वात्तत्र प्रमात्वं सेत्स्यतीत्यत आहप्रमाणेत्यादि तथा च प्रमात्वव्यापकप्रमाणप्रमेयस्वभावाभावे तत्र प्रमात्वाभाव इति भावः । व्याप्याभावाभावे व्यापकाभावादनेकान्तसिद्धौ परमतभङ्गप्रसङ्ग इत्याह-तदव्यावृत्ताविति तस्या:=प्रमाया अव्यावृतौ=अनिषेधे, एकान्तिकत्वाभावादिति अनेकान्तप्रसङ्गादित्यर्थः । तथा च
Tनान्योऽनुभाव्यो बुद्ध्यास्ति, तस्या नानुभवोऽपरः ।
ग्राह्यग्राहकवैधुर्यात्, स्वयं सेवावतिष्ठते ॥ [प्रमाणवार्तिक ३.२२७] इति । धर्मकीर्युक्तं विप्लवेतेति भावः । परं प्रति प्रसञ्जितमैकान्तिकत्वाभावं स्वातन्त्र्येणापि साधयितुमाह-प्रमात्रादीति तथा च प्रमात्राद्यनेकस्वभावत्वेनानेकान्तात्मनोऽनेकान्तात्मकबाह्याभ्यन्तरार्थग्राहकत्वेनानुभूयमानस्य प्रमाणस्य बलात् संविदद्वैताद्येकान्ताभावसिद्धिरिति भावः । भूतवादिभिरिति भूतवादिभिश्चार्वाकैस्तस्याः स्वप्रमायाः स्वसंविदितत्वोपगमात्, तत्पक्षे च निरंशत्वेन स्वेनैव स्वप्रमायोगात्, प्रमाणप्रमेयस्वभावव्यावृत्तौ च प्रमाया व्यावृत्तेरित्यर्थः तदाह-इति सिद्धा तत्र स्वप्रमाया व्यावृत्तिरिति । कश्चित्तु तस्येन्द्रियजप्रत्यक्षस्यास्वसंविदितत्वोपगमादिति व्याचष्टे, हेतुं च तत्र भूतचतुष्टयोत्पन्न
Page #156
--------------------------------------------------------------------------
________________
१२२
अष्टसहस्रीतात्पर्यविवरणम् सामान्यस्थित्यादिः, तदव्यावृत्तौ वा स्वार्थव्यवसायात्मकत्वसिद्धेः स्याद्वादाश्रयणादैकान्तिकत्वाभावादनैकान्तिकत्वम् । एतेनानेकप्रमाणवादिनामनेकस्मिन् प्रमाणे स्वप्रमाव्यावृत्तिर्व्याख्याता, तदव्यावृत्तौ वानैकान्तिकत्वप्रसक्तिः, अनेकशक्त्यात्मकस्वार्थव्यवसायात्मकानेकप्रमाणसिद्धेः । तत्त्वोपप्लववादिनां तु तत्त्वोपप्लवे स्वप्रमाया व्यावृत्तिः सिद्धैव तदव्यावृत्तौ तत्त्वोपप्लवैकान्तिकत्वाभावप्रसक्तिश्च, ततो नैतेषामाप्तता । किञ्च__ (भा०) सर्वप्रमाणविनिवृत्तेरितरथा संप्रतिपत्तेः ।
ये तावदेकं नित्यं प्रमाणं स्वभावभेदाभावाद्वदन्ति तेषां सर्वप्रमाणविनिवृत्तिः येऽप्यनेकमनित्यं प्रतिक्षणं स्वभावभेदादाचक्षते तेषामपि, प्रत्यक्षादिप्रमाणानां नित्यैकान्ताच्चेतरेणैव प्रकारेण कथञ्चिन्नित्यानित्यात्मकत्वेन संप्रतिपत्तेः । ततो नैतेषां नित्यानित्यैकान्तप्रमाणवादिनां तीर्थकृत्समयानामाप्तता ।
[आवरणरहितज्ञानवतः सर्वज्ञस्य वागादिव्यापारा असाधारणाः सन्ति न तु साधारणाः] किञ्च
(भा०) वागक्षबुद्धीच्छापुरुषत्वादिकं क्वचिदनाविलज्ञानं निराकरोति न पुनस्तत्प्रतिषेधवादिषु तथेति परमगहनमेतत् ।
%3
-
अष्टसहस्रीतात्पर्यविवरणम्
त्वादिति पूरयति, तदनेकग्रन्थविरुद्धं, चार्वाकमते उत्पत्तिपक्षेऽभिव्यक्तिपक्षे वा ज्ञानस्य स्वसंविदितताया एवानेकग्रन्थसिद्धत्वात् । 'कारणगुणा हि' इत्यादिन्यायस्तु भूतचैतन्यमेवोच्छिन्देत्, न तु तस्यास्वसंविदितत्वं साधयेदिति तदभ्युपगमाननुकूल एव । न च मदिरादिदृष्टान्तेन संयोगजज्ञानवादेऽस्य न्यायस्यावकाशोऽपीति यत्किञ्चिदेतत् । एतेन= चार्वाकमतनिराकरणे स्याद्वादाश्रयणपर्यवसानेन, तेषां सर्वप्रमाणविनिवृत्तिरिति, करणफलभावेनाप्यन्ततः स्वभावभेदध्रौव्यादित्यर्थः । तेषामपीत्यनन्तरं सर्वप्रमाणविनिवृत्तिरित्यनुषज्यते । एकोपयोगरूपेणानन्वये कारणफलभावस्यैवाभावादिति भावः । सर्वेषामेकान्तवादिनां प्रमाणलक्षणानुपपत्तौ साधारणमेकं हेतुमाह-प्रत्यक्षादीत्यादि । वागक्षेत्यादि भाष्यं-वागक्षबुद्धीच्छापुरुषत्वादिकं कर्तृ, क्वचित् एकान्तवादिभिरभिमते सर्वज्ञे वादिबाहुल्येऽप्यपकर्षद्योतकमेकवचनम्, अनाविलज्ञानं निरावरणज्ञानं, निराकरोति=
Page #157
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का० ३]
१२३ तथाहि-तीर्थच्छेदसम्प्रदायास्तथैकान्तवादिनो नाऽनाविलज्ञाना अविशिष्टवागक्षबुद्धीच्छादिमत्त्वादविशिष्टपुरुषत्वादेर्वा रथ्यापुरुषवत्, इति नैतेषामाप्तता । तत्प्रतिषेधवादिनां पुनः स्याद्वादिनां नातः कश्चिदविशिष्टवागादिमानविशिष्टपुरुषो वा, तस्य युक्तिशास्त्राविरोधिवाक्त्वेनाभ्युपगतत्वात्, करणक्रमव्यवधानाद्यतिवर्तिबुद्धित्वात्, इच्छारहितत्वाद्विशुद्धपुरुषातिशयत्वादिति । यथा वागादिकं निर्दोषज्ञाननिराकरणसमर्थं न तथा स्याद्वादन्यायवेदिभिरभिष्ट्रयमाने भगवतीति परमगहनमेतत्, अयुक्तिशास्त्रविदामगोचरत्वादकलङ्कधिषणाधिगम्यत्वात् ।
(भा०) इत्थं सिद्धं सुनिश्चितासम्भवबाधकप्रमाणत्वम् । तेन कः परमात्मा चिदेव लब्ध्युपयोगसंस्काराणामावरणनिबन्धनानामत्यये भवभृतां प्रभुः । सकलस्याद्वादन्यायविद्विषामाप्तप्रतिक्षेपप्रकारेण हि स्याद्वादिन एवाप्तस्या
- अष्टसहस्रीतात्पर्यविवरणम्
अनुमितिविषयाभावप्रतियोगि करोति, तत्र तदभावमनुमापयतीत्यर्थः, अविशिष्टवागादेरेव तदभिमतवृत्तित्वात्तस्य च निरावरणज्ञानाभावव्याप्यत्वादिति भावः । न पुनस्तत्प्रतिषेधवादिषु एकान्तनिराकरणवादिषु जैनाभिमतेषु सर्वज्ञेषु वाद्येकत्वेऽप्युत्कर्षद्योतकं बहुवचनं, तथा वागादिकमनाविलज्ञानं निराकरोति, विशिष्टस्यैव तस्य जैनाभिमतसर्वज्ञवृत्तित्वात्, तस्य चानाविलज्ञानव्याप्यत्वादिति भावः । इति एतत् परमगहनं दुर्बोधम्, अतात्पर्यज्ञानामिति शेषः । तात्पर्यज्ञास्तु वागक्षेत्यादि धर्मिभेदेन विशिष्टाविशिष्टपरतया योजयन्त आवृत्तावप्युद्देश्यार्थैक्येनैकवाक्यतां च समर्थयन्तो न गहनमनुप्रविशन्तीति ध्येयम् । अत्र चैकान्तवादित्वावच्छेदेनाविशिष्टवागादिनानाविलज्ञानाभावः साध्यमानस्तदभिमते सर्वज्ञेऽपि सिद्धयत्यनेकान्तवादित्वसामानाधिकरण्येन च विशिष्टवागादिना साध्यमानमनाविलज्ञानं जैनाभिमतसर्वज्ञे सिद्ध्यति शृङ्गग्राहिकया सर्वज्ञप्रसिद्धेर्दुष्करत्वादित्यभिप्रायवान् विवृणोतितथा हि इत्यादि । भाष्ये कः परमात्मेति तात्पर्यविवरणम्, आत्मत्वस्यैव 'क'पदशक्यतावच्छेदकत्वात् । चिदेवेति घटो नील एवेत्यत्रेव सर्वावच्छेदेन विशेषणसम्बन्धस्यैवकारार्थत्वात्, सर्वविषयावच्छिन्नज्ञानवानित्यर्थः । लब्ध्युपयोगेत्यादि तत्त्वे नियामकाभिधानं भवभृतां (भवेतां) प्रभुरिति भवं यन्तीति क्विपि भवेतो भवभृतस्तेषां गुरुः प्रभुरिति कारिकावयवव्युत्पत्तिस्वारस्यादुक्तं वृत्तौ चिदेव ज्ञ एवेति एतावता
Page #158
--------------------------------------------------------------------------
________________
१२४
अष्टसहस्त्रीतात्पर्यविवरणम्
प्रतिक्षेपार्हत्वेन सुनिश्चितासम्भवद्बाधकप्रमाणत्वं सिद्ध्यति ।
[अर्हन् भगवानेव सर्वज्ञो न चान्य इति साधनम् ]
तेनैवं कारिकायास्तुरीयपादो व्याख्यायते । कः परमात्मा, पराऽऽत्यन्तिकी मा लक्ष्मीर्यस्येति विग्रहात् । चिदेव ज्ञ एव न पुनः कथञ्चिदप्यज्ञः, चिदिति शब्दस्य मुख्यवृत्त्याश्रयणात् कथञ्चिदचित्यपि चिच्छब्दस्य प्रवृत्तौ गौणत्वप्रसङ्गात् । [सर्वज्ञः इन्द्रियज्ञानेन सर्वं जानात्यतीन्द्रियज्ञानेन वा ? ]
ननु च परमात्मा साक्षाद्वस्तु जानन्निन्द्रियसंस्कारानुरोधत एव जानीयान्नान्यथा तद्वेदनस्य प्रत्यक्षत्वविरोधात् । न चेन्द्रियसंस्काराः सकृत्सर्वार्थेषु ज्ञानमुपजनयितुमलं, सम्बद्धवर्त्तमानार्थविषयत्वात् सम्बद्धं वर्त्तमानं च गृह्यते चक्षुरादिभिः इति वचनात् [मीमांसाश्लोकवार्तिकम्-सूत्र - ४ श्लो० ८४ ] । ततो न ज्ञ एव, भाव्यतीतासम्बद्धार्थज्ञानाभावादज्ञत्वस्यापि भावात् इति न मन्तव्यं, 'लब्ध्युपयोगसंस्काराणामत्यये इति वचनात् [ ] । लब्ध्युपयोगौ हीन्द्रियं लब्ध्युपयोगौ भावेन्द्रियम् इति वचनात् [तत्त्वार्थसूत्रम् २.१८ ] । तयोः संस्काराः स्वार्थधारणाः । तेषामत्यये सति ज्ञ एव स्यात् ।
[सर्वज्ञस्य भावेन्द्रियवत् द्रव्येन्द्रियाणां विनाशो कथं न भवति ?]
‘कुतः पुनर्भावेन्द्रियसंस्काराणामत्यये सति ज्ञ एव स्यान्न तु द्रव्येन्द्रियाणाअष्टसहस्त्रीतात्पर्यविवरणम्
ऽज्ञत्वव्यवच्छेद एव लभ्यते, न तु सर्वावच्छेदेन ज्ञत्वमिति तल्लाभार्थिना मदुक्तव्याख्यैवानुसरणीया । चिदिति शब्दस्य इत्याद्यभिधानं तु प्रौढ्यैवेति मन्तव्यम्, चिच्छब्दस्य केवलज्ञाने मुख्यवृत्तेर्नयविशेषोपग्रहं विनाग्रहात्, फलितार्थलाभे प्रकारस्य चोक्तत्वात् इन्द्रियसंस्कारानुरोधत एवेति इन्द्रियव्यापारानुसारेणैवेत्यर्थः । इन्द्रियव्यापारश्च शब्दे रूपे रसगन्धस्पर्शेषु च स्पृष्टतास्पृष्टताबद्धस्पृष्टतारूपो द्रष्टव्यः, अन्यथा विषयाप्रतिपत्तेरस्पृष्टता चाभिमुख्योपलक्षणमिति नातिप्रसङ्गः । तयोः संस्काराः = लब्ध्युपयोगयोः संस्काराः, जन्यजनकभावसम्बन्धे षष्ठी, संस्कारशब्दार्थो न स्वरूपार्थग्रहणोन्मुखता, तस्या उपयोगरूपत्वेन तदजन्यत्वादित्यतो व्याचष्टे स्वार्थधारणा इति लब्ध्युपयोगजन्यस्मृतिजनकधारणारूपा इत्यर्थः । तेषां लब्ध्युपयोगसंस्काराणाम्, अत्यये = अभावे सति ज्ञ एव स्यादिति किञ्चिज्ज्ञत्वनियामकलब्ध्युपयोगसंस्काराभावे सत्यर्थत एव सर्वज्ञः स्यात्, तज्ज्ञाने
Page #159
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि. १-का. ३]
१२५ मत्यये, अतीन्द्रियप्रत्यक्षतोऽशेषार्थसाक्षात्कारित्वोपगमात्' इत्यपि न शङ्कनीयं भावेन्द्रियाणामावरणनिबन्धनत्वात् । कात्य॑तो ज्ञानावरणसङ्क्षये हि भगवानतीन्द्रियप्रत्यक्षभाक् सिद्धः । न च सकलावरणसङ्क्षये भावेन्द्रियाणामावरणनिबन्धानां सम्भवः, कारणाभावे कार्यानुपपत्तेः । ननु चावरणक्षयोपशमनिबन्धनत्वाद्भावेन्द्रियाणां कथमावरणनिबन्धनत्वमिति चेद्, देशघातिज्ञानावरणस्पर्द्धकोदये सति सर्वघातिज्ञानावरणस्पर्द्धकानामुदयाभावे सदवस्थायां च तेषां भावादावरणनिबन्धनत्वसिद्धेरचोद्यमेतत ।
- अष्टसहस्रीतात्पर्यविवरणम् इन्द्रियाजन्ये प्रत्यक्षत्वं चातीन्द्रियत्वादेवाविरुद्धम्, व्यवहारप्रत्यक्षत्वे इन्द्रियजन्यत्ववन्निश्चयप्रत्यक्षत्वे इन्द्रियाद्यजन्यत्वस्यापि प्रयोजकत्वादिति भावः । न च प्रत्यक्षत्वमेवेन्द्रियजन्यतावच्छेदकं लाघवादतीन्द्रियसंस्काराभावेऽतीन्द्रियप्रत्यक्षानुपपत्तिरिति शङ्कनीयम्, परेणापीश्वरप्रत्यक्षव्यावृत्त्यर्थं प्रत्यक्षनिष्ठवैजात्यस्यैवेन्द्रियजन्यतावच्छेदकत्वोपगमादस्माकं तत्र केवलज्ञानव्यावृत्तत्वोपगमे दोषाभावात् । अत एव न मतिज्ञानाद्यावरणक्षये क्षायिकमतिज्ञानाद्यापत्तिः, भावेन्द्रियसंस्काररूपकेवलेतरप्रत्यक्षत्वावच्छिन्नसामग्र्यभावात् सामान्यसामग्रीसहकृताया एव विशेषसामग्रयाः फलोपधायकत्वात्, तदिदमाह-कुतः पुनरित्यादि । न च सकलावरणसंक्षय इति, तथा च सकलावरणसंक्षयाविनाभूतो भावेन्द्रियाभाव एवार्थवशसिद्धमतीन्द्रियं सर्वविषयकं प्रत्यक्षमनुमापयतीति भावः । देशघातीत्यादि इहायं सम्प्रदायः-देशघातिनीनां मतिज्ञानावरणादिप्रकृतीनां द्विविधानि रसस्पर्द्धकानि भवन्ति, सर्वघातीनि देशघातीनि च, कानि तानि ? इति चेत्, यानि चतुःस्थानकानि त्रिस्थानकानि च, तानि सर्वाणि सर्वघातीन्येव, यानि पुनर्द्विस्थानकानि तानि मिश्राणि कानिचित्सर्वघातीनि कानिचिच्च देशघातीनीत्यर्थः । यान्येकस्थानकानि तानि तु देशघातीन्येव । तदुक्तं
'चउतिट्ठाणरसाइं, सव्वग्घाईणि हंति फड्डाइं । दुढाणियाणि मीसाणि, देसघाईणि सेसाणि ॥ त्ति, [पञ्चसङ्ग्रह द्वार० ३.२९]
तत्र सर्वघातिरस्पर्द्धकेषु परिणामविशेषेण देशघातितया परिणमितेषु क्षायोपशमिका अवध्यादिगुणाः प्रादुःषन्ति, तदाह
१. (छाया-चतुस्त्रिस्थानरसानि सर्वघातीनि भवन्ति स्पर्द्धकानि ।
द्विस्थानकानि मिश्राणि, देशघातीनि शेषाणि ||)
Page #160
--------------------------------------------------------------------------
________________
१२६
अष्टसहस्त्रीतात्पर्यविवरणम् न कश्चिद्भवभृदतीन्द्रियप्रत्यक्षभागुपलब्धो यतो भगवांस्तथा सम्भाव्यते इत्यपि न शङ्का श्रेयसी, तस्य भवभृतां प्रभुत्वात् । न हि भवभृत्साम्ये दृष्टो धर्मः सकलभवभृत्प्रभौ सम्भावयितुं शक्यः, तस्य संसारिजनप्रकृतिमभ्यतीतत्वात् ।।
[मीमांसको ब्रूते-प्रत्यक्षादिप्रमाणैः सर्वज्ञो न सिद्ध्यत्यतो नास्त्येव] ननु च सुनिर्णीतासम्भवद्बाधकप्रमाणत्वात्तथाविधो भवभृतां प्रभुः साध्यते, तच्चासिद्धं, सुनिश्चितासम्भवत्साधकप्रमाणत्वस्य तद्बाधकस्य सद्भावात् । न हि तत्साधकं प्रत्यक्षं सम्भवति । नाप्यनुमानं, तदेकदेशस्य लिङ्गस्यादर्शनात् । तदुक्तं
- अष्टसहस्त्रीतात्पर्यविवरणम् 'णिहएसु सव्वघाईरसेसु फड्डेसु देसघाईणं ।
जीवस्स गुणा जायंति ओहिमणचक्खुमाईआ ॥१॥ [पञ्चसङ्ग्रह द्वार० ३.३०] एवं चात्रौदयिकभावानुविद्धः क्षायोपशमिकभावः प्राप्तः, अनन्तानुबन्ध्यादिसर्वघातिमोहप्रकृतीनां रसस्तु सर्वोऽपि सर्वघातिप्रकृतिस्वाभाव्यात्तत्रांशेनापि देशघातितया परिणमनमशक्यमिति तास्वौदयिकभावाननुविद्ध एव विपाकोदयविष्कम्भकरणात्मा क्षायोपशमिको भावो भवति, केवलज्ञानके वलदर्शनावरणीययोस्तु विपाकोदयविष्कम्भेऽप्ययोग्यत्वमनन्यगत्या कल्प्यते, अन्यथा तयोः क्षयोपशमप्रसङ्गात्, अधिकं मित्कृतज्ञानबिन्दौ । तदेवं भावेन्द्रियेष्वौदयिकभावानुविद्धस्य क्षयोपशमस्य हेतुत्वात्तेषामावरणनिबन्धनत्वसिद्धिरावरणक्षयोपशमत्वेन क्षीणोपशान्तावरणत्वेन वा हेतुत्वमित्यत्र विनिगमनाविरहस्याप्येतदर्थसाक्षित्वात्, यदि चैवमौपशमिकक्षायिकादिभावस्थलेऽतिप्रसङ्ग इति तदा अस्तु लाघवात् क्षयोपशमघटकं क्षयभागं परित्यज्यावरणविपाकोदयविष्कम्भस्यैव स्वसंवलितोदयसम्बन्धेन हेतुता, उपशमात् क्षयोपशमविशेषस्य प्रदेशानुभवेनैवाभिधानात् तेन दाहे नष्टमणित्वेनेव भावेन्द्रिये क्षीणोपशान्तावरणत्वेन न हेतुत्वमित्युक्तावपि न क्षतिरिति मन्तव्यम् । मीमांसकः प्रत्यवतिष्ठते-ननु चेत्यादि । न हि तत् साधकं प्रत्यक्षं सम्भवतीति प्रत्यक्षस्य तावत्प्रतिनियतासन्नरूपादिगोचरचारित्वेन परसन्तानवतिसंवेदनवेदनमात्रेऽपि न शक्तिः, किं पुनरतीतानागवर्त्तमानसूक्ष्मान्तरितादिस्वभावसकलपदार्थसाक्षात्कारिसंवेदनशालिपुरुषविशेषपरिच्छेदे ? विशेषाग्रहणे विशिष्टाग्रहणादिति भावः । तदेकदेशस्येति स एकदेश आश्रयो यस्य तस्येत्यर्थः, यद्वा तस्य
१. (छाया-निहतेषु सर्वघातिरसेषु स्पर्धकेषु देशघातिनाम् ।
जीवस्य गुणा जायन्ते अवधिमनःचक्षुरादयः ।)
Page #161
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि. १-का. ३]
१२७ सर्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः । दृष्टो न चैकदेशोऽस्ति लिङ्गं वा योऽनुमापयेत् ॥ इति ।
[मीमांसाश्लोकवार्तिकम् चोदनासूत्रम् ११७] आगमोऽपि न तावन्नित्यः सर्वज्ञस्य प्रतिपादकोऽस्ति, तस्य कार्ये एवार्थे प्रामाण्यात् स्वरूपेऽपि प्रामाण्येऽतिप्रसङ्गात् । स सर्ववित् स लोकविद् इत्यादेः हिरण्यगर्भः सर्वज्ञ [ ] इत्यादेश्चागमस्य नित्यस्य कर्मार्थवादप्रधानत्वात् । तात्पर्यासम्भवादन्यार्थप्रधानैर्वचनैरन्यस्य सर्वज्ञस्य विधानासम्भवात् । पूर्वं कुतश्चिदप्रसिद्धस्य तैरनुवादायोगात् । अनादेरागमस्यादिमत्सर्वज्ञप्रतिपादनविरोधाच्च । नाप्यनित्यस्तत्प्रणीत एवागमस्तस्य प्रकाशको युक्तः, परस्पराश्रयप्रसङ्गात् । नरान्तरप्रणीतस्तु न प्रमाणभूतः सिद्धो यतः सर्वज्ञप्रतिपत्तिः स्यात् । असर्वज्ञप्रणीताच्च वचनान्मूलवजितात् सर्वज्ञप्रतिपत्तौ स्ववचनात्किन्न तत्प्रतिपत्तिरविशेषात् । तदुक्तं
न चागमविधिः कश्चिन्नित्यः सर्वज्ञबोधनः । न च मन्त्रार्थवादानां तात्पर्यमवकल्प्यते ॥१॥ [तत्त्वसङ्ग्रहः-३१८७]
- अष्टसहस्त्रीतात्पर्यविवरणम्
धर्मिणः सर्वज्ञस्यैकदेशो धर्मस्तद्रूपस्येत्यर्थः, अस्मिन् पक्षे 'दृष्टो न चैकदेशोऽस्ति लिङ्गं वेति' वक्ष्यमाणसामानाधिकरण्योपपत्तिरिति ध्येयम् । तत्र गम्यगमकसमुदायमध्याल्लिङ्गमेकदेशो ग्राह्य इति त्वाकरे स्पष्टम् । अनिश्चितपक्षधर्मत्वस्य हेतोरगमकत्वादनिश्चिते च धर्मिणि हेतोः पक्षधर्मत्वनिश्चयस्य कर्तुमशक्यत्वान्न केनापि लिङ्गेन सर्वज्ञानुमानं भवतीत्यर्थः । अतिप्रसङ्गादिति अलाबूनि निमज्जन्तीत्यादेरपि प्रामाण्यप्रसङ्गादित्यर्थः । कर्मार्थवादप्रधानत्वादिति हिरण्यगर्भं प्रकृत्य स सर्वविदित्याद्यभिधानस्य कर्मकाण्डफलीभूतहिरण्यगर्भस्तुतिमात्रपरत्वादित्यर्थः । तात्पर्यासम्भवादित्यनन्तरं यथाश्रुत इति शेषः । आदिमदित्यादि अनादिनित्यागमो यदि सर्वज्ञमादिमन्तं प्रतिपादयति तदा स किमभूद् भवति भविष्यति वा? कल्पत्रयेऽपि विरोध एवेति भावः । न च मन्त्रार्थवादानामिति वेदो द्विविधो मन्त्रब्राह्मणभेदात्, तत्र ये वेदभागाः प्रयोगसमवेतमर्थं प्रकाशयन्तः स्वोच्चारणमात्रेण साध्यकर्मणि विनियुज्यन्तेऽभियुक्तयाज्ञिकैश्च मन्त्रत्वेन समाख्यायन्ते ते मन्त्रास्ते च ऋग्यजुःसामभेदेन त्रिप्रकाराः, अवशिष्टो भागो ब्राह्मणं, तच्च विध्यर्थवादभेदाद् द्विधा, तत्र विधिलिङादिगर्भो वाक्यसन्दर्भः, अर्थवादः स्तुतिनिन्दाभेदाद् द्विविधः,
Page #162
--------------------------------------------------------------------------
________________
१२८
न चान्यार्थप्रधानैस्तैस्तदस्तित्वं विधीयते । न चानुवदितुं शक्यः पूर्वमन्यैरबोधितः ॥२॥ [ अनादेरागमस्यार्थो न च सर्वज्ञ आदिमान् । कृत्रिमेण त्वसत्येन स कथं प्रतिपाद्यते ॥३॥ [
तथोक्तं—
अष्टसहस्त्रीतात्पर्यविवरणम्
]
]
अथ तद्वचनेनैव सर्वज्ञोऽज्ञैः प्रतीयते । प्रकल्प्येत कथं सिद्धिरन्योन्याश्रययोस्तयोः ॥४॥ [ तत्त्वसङ्ग्रहः - ३१८८]
सर्वज्ञोक्ततया वाक्यं सत्यं तेन तदस्तिता ।
कथं तदुभयं सिद्ध्येत् सिद्धमूलान्तरादृते ॥ ५ ॥ [तत्त्वसङ्ग्रहः-३१८९]
असर्वज्ञप्रणीतात्तु वचनान्मूलवर्जितात् ।
सर्वज्ञमवगच्छन्तः स्ववाक्याकिं न जानते ॥६॥ इति । [ तत्त्वसङ्ग्रहः - ३१९०]
नोपमानमपि सर्वज्ञस्य साधकं तत्सदृशस्य जगति कस्यचिदप्यभावात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
सर्वज्ञसदृशं कञ्चिद्यदि पश्येम सम्प्रति ।
उपमानेन सर्वज्ञं जानीयामस्ततो वयम् ॥ इति । [ तत्त्वसङ्ग्रहः - ३२१५]
नार्थापत्तिरपि सर्वज्ञस्य साधिका, तदुत्थापकस्यार्थस्याऽन्यथानुपपद्यमान
चोदनाशेषत्वं तत्सामान्यलक्षणं, स पुनरर्थवादो द्विविधोऽपि त्रिविधः, तदुक्तं
विरोधे गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्तद्वादादर्थवादस्त्रिधा मतः ॥ इति, [ ]
तदिह मन्त्रार्थवादानां यथाश्रुते तात्पर्यं नावकल्प्यते, किन्तु न्यायप्राप्त एवेति नोक्तार्थवादात् सर्वज्ञसिद्धिरिति व्यक्तोऽर्थः । स्यादाशङ्का- धर्माद्युपदेशकरणान्यथानुपपत्त्या सर्वज्ञसिद्धिर्भविष्यति, तत्र विकल्पद्वयमुपतिष्ठते, को नामात्र धर्माद्युपदेशोऽन्यथानुपपद्यमानो वाच्यः, सौगतादिसम्बन्धी त्रयीवित्सम्बन्धी वा ? नाद्यः, व्यामोहादेव बौद्धादीनां
Page #163
--------------------------------------------------------------------------
________________
प्रथमो भाग: [ परि० १ - का० ३]
स्याभावात्, धर्माद्युपदेशस्य बहुजनपरिगृहीतस्यान्यथाभावात् । तथा चोक्तम्–
उपदेशो हि बुद्धादेर्धर्माधर्मादिगोचरः ।
अन्यथाप्युपपद्येत सर्वज्ञो यदि नाभवत् ॥ १॥ [ तत्त्वसङ्ग्रहः - ३२२३]
बुद्धादयो ह्यवेदज्ञास्तेषां वेदादसम्भवः ।
उपदेशः कृतोऽतस्तैर्व्यामोहादेव केवलात् ॥२॥ [
]
१२९
ये तु मन्वादयः सिद्धाः प्राधान्येन त्रयीविदाम् ।
त्रयीविदाश्रितग्रन्थास्ते वेदप्रभवोक्तयः ॥ ३ ॥ इति । [ तत्त्वसङ्ग्रहः - ३२२८]
न च प्रमाणान्तरं सदुपलम्भकं सर्वज्ञस्य साधकमस्ति ।
[अत्र भरतक्षेत्रे, दुःषमकाले सर्वज्ञो नास्तीति मा भूत्, किन्तु अन्यत्र विदेहादिदेशे चतुर्थकाले वा सर्वज्ञः सिद्ध्यति न वेति विचारः क्रियते ]
मा भूदत्रत्येदानीन्तनानामस्मदादिजनानां सर्वज्ञस्य साधकं प्रत्यक्षाद्यन्यतमं देशान्तरकालान्तरवर्त्तिनां केषाञ्चिद्भविष्यतीति चायुक्तं ।
यज्जातीयैः प्रमाणैस्तु यज्जातीयार्थदर्शनम् ।
दृष्टं सम्प्रति लोकस्य तथा कालान्तरेऽप्यभूत् ॥ इति वचनात् । [मीमांसाश्लोकवार्तिकम्- चोदनासूत्रम् श्लो० ११३]
तथा हि-विवादाध्यासिते देशे काले च प्रत्यक्षादिप्रमाणमत्रत्येदानीन्तनप्रत्यक्षादिग्राह्यसजातीयार्थग्राहकं भवति, तद्विजातीयसर्वज्ञाद्यर्थग्राहकं वा न भवति, प्रत्यक्षादिप्रमाणत्वादत्रत्येदानीन्तनप्रत्यक्षादिप्रमाणवत् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
धर्माद्युपदेशोपपत्तेरिति गम्यम् । अन्त्ये त्वाह- धर्माद्युपदेशस्येति त्रयीवित्सम्बन्धी धर्माद्युपदेशो अन्यथाऽपि सार्वज्ञ्याभावेऽपि महाजनपरिग्रहेणैवोपपद्यत इति भावः । उपदेशो हि इत्यादि कारिका पूर्वपक्षपरा, बुद्धादयो हि इत्यादिकारिकाद्वयं विकल्पद्वयसमाधानपरम्, तत्र ये त्विति अस्या अयमर्थः - ये तु मन्वादयस्त्रयीविदां मध्ये प्राधान्येन सिद्धाः, कीदृशा इत्याह-त्रयीविद्भिराश्रितो ग्रन्थः स्मृत्यादिरूपो, येषां=कर्तॄणां ते तथा ते मन्वादयो वेदप्रभवोक्तयः साङ्गमीमांसाध्ययनसमासादितव्युत्पत्तिविशेषसध्रीचीनवेदार्थानुसन्धानप्रभवशुद्धधर्माद्युपदेशा इत्यर्थः तथा च तदुपदेशस्य वेदार्थविवेकेनान्यथोप
Page #164
--------------------------------------------------------------------------
________________
१३०
अष्टसहस्त्रीतात्पर्यविवरणम्
[अत्र जैनमतमाश्रित्य कश्चित् शङ्कते] ननु च यथाभूतमिन्द्रियादिजनितं' प्रत्यक्षादि सर्वज्ञाद्यर्थासाधकं दृष्टं तथाभूतमेव देशान्तरे कालान्तरे च तादृशं साध्यतेऽन्यथाभूतं वा ? तथाभूतं चेत्, सिद्धसाधनम् । अन्यथाभूतं चेदप्रयोजको हि हेतुः जगतो बुद्धिमत्कारणकत्वे साध्ये सन्निवेशविशिष्टत्ववद् इति चेत्, तदसत् तथाभूतस्यैव तथासाधनात् सिद्धसाधनस्याप्यभावात्, अन्यादृशप्रत्यक्षाद्यभावात् । तथा हि-विवादापन्नं प्रत्यक्षादिप्रमाणमिन्द्रियादिसामग्रीविशेषानपेक्षं न भवति, प्रत्यक्षादिप्रमाणत्वात्, प्रसिद्धप्रत्यक्षादिप्रमाणवत् । न (च) गृद्धवराहपिपीलिकादिप्रत्यक्षेण सन्निहितदेशविशेषानपेक्षिणा नक्तञ्चरप्रत्यक्षेण वालोकानपेक्षिणानेकान्तः, कात्यायनाद्यनुमानातिशयेन जैमिन्याद्यागमाद्यतिशयेन वा । तस्यापीन्द्रियादिप्रणिधानसामग्रीविशेषमन्तरेणासम्भवात् स्वार्थातिलङ्घनाभावादतीन्द्रियाननुमेयाद्यर्थाविषयत्वाच्च । तथा चोक्तं
यत्राप्यतिशयो दृष्टः स स्वार्थानतिलकुनात् । दूरसूक्ष्मादिदृष्टौ स्यान्न रूपो श्रोत्रवृत्तिता ॥१॥ [मीमांसाश्लो०वा०चो० ११४] येऽपि सातिशया दृष्टाः प्रज्ञामेधादिभिर्नराः । स्तोकस्तोकान्तरत्वेन न त्वतीन्द्रियदर्शनात् ॥२॥ [तत्त्वसङ्ग्रहः-३१३०] प्राज्ञोऽपि हि नरः सूक्ष्मानर्थान् द्रष्टुं क्षमोऽपि सन् । स्वजातीरनतिक्रामन्नतिशेते परान्नरान् ॥३॥ [तत्त्वसङ्ग्रहः-३१६०] एकशास्त्रविचारेषु दृश्यतेऽतिशयो महान् । न तु शास्त्रान्तरज्ञानं तन्मात्रेणैव लभ्यते ॥४॥ [
अष्टसहस्त्रीतात्पर्यविवरणम्
पद्यमानत्वान्न सर्वज्ञगमकत्वमित्यर्थः । न च गृध्रेत्यादि गृध्राणां चक्षुःप्रत्यक्षेण, वराहाणां श्रोत्रप्रत्यक्षेण, पिपीलिकानां च घ्राणप्रत्यक्षेणेत्यर्थः । नक्तञ्चरप्रत्यक्षेण घूकबिडालमूषकतस्करादिप्रत्यक्षेणेत्यर्थः, प्रत्यक्षादीत्यादिनाऽनुमानादेरपि साध्ये सङ्ग्रहात् तत्र व्यभिचारसम्भवप्रदर्शनायाह-कात्यायनादीति । तस्यापीति उक्त प्रत्यक्षादेरपीत्यर्थः । एवं चेन्द्रियाद्यघटितसामग्रीजन्यत्वनिषेधस्य साध्यत्वादवान्तरविशेषेणापि सामान्यसामग्रय
१. दिजमनित्यं....। पाठान्तर ।
Page #165
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का०३]
१३१
ज्ञात्वा व्याकरणं दूरं बुद्धिः शब्दापशब्दयोः । प्रकृष्यते न नक्षत्रतिथिग्रहणनिर्णये ॥५॥ [तत्त्वसङ्ग्रहः-३१६५] ज्योतिर्विच्च प्रकृष्टोऽपि चन्द्रार्कग्रहणादिषु । न भवत्यादिशब्दानां साधुत्वं ज्ञातुमर्हति ॥६॥ [तत्त्वसङ्ग्रहः-३१६६] तथा वेदेतिहासादिज्ञानातिशयवानपि । न स्वर्गदेवताऽपूर्वप्रत्यक्षीकरणे क्षमः ॥७॥ [तत्त्वसङ्ग्रह:-३१६७] दशहस्तान्तरं व्योम्नि यो नामोत्प्लुत्य गच्छति । न योजनमसौ गन्तुं शक्तोऽभ्यासशतैरपि ॥८॥ इति [तत्त्वसङ्ग्रहः-३१६८]
[अतीन्द्रियज्ञानमपि असम्भाव्यमेव] न दृष्टप्रत्यक्षादिविजातीयातीन्द्रियप्रत्यक्षादिसम्भावना यतः सम्भाव्यव्यभिचारिता साधनस्य स्यात् । पुरुषविशेषस्य तत्सम्भावनायां सम्भाव्यव्यभिचारित्वमेवेति चेत्, न तस्यासिद्धत्वात्, साधकाभावात्सर्वपुरुषाणां त्रिविप्रकृष्टार्थसाक्षात्कारित्वानुपपत्तेरिति ।।
[अधुना मीमांसकाभिमतसर्वज्ञाभावस्य मीमांसां कुर्वन्ति जैनाचार्याः] तदेतत्सर्वमपरीक्षिताभिधानं मीमांसकस्य ।
(भा०) न हि सर्वज्ञस्य निराकृतेः प्राक् सुनिश्चितासम्भवत्साधकप्रमाणत्वं सिद्धं येन परः प्रत्यवतिष्ठेत । नापि बाधकासम्भवात्परं प्रत्यक्षादेरपि विश्वासनिबन्धनमस्ति, तत्प्रकृतेऽपि सिद्धं । यदि तत्सत्तां न साधयत् सर्वत्राप्यविशेषात्तदभावे दर्शनं नादर्शनमतिशेतेऽनाश्वासाद्विभ्रमवत् ।
- अष्टसहस्त्रीतात्पर्यविवरणम् नुल्लङ्घनान्न व्यभिचार इति भावः । ननु सर्वमिदं प्रत्यक्षमात्रस्येन्द्रियजन्यत्वसिद्धावुपपद्यते तदेव नास्ति ऐन्द्रियकप्रत्यक्षे एवेन्द्रियस्य हेतुत्वादत आह-न च दृष्टेत्यादि प्रत्यक्षत्वावच्छिन्न एव लाघवेनेन्द्रियस्य हेतुत्वादिन्द्रियजन्यतावच्छेदकजात्यन्तरकल्पने गौरवान्नातीन्द्रियप्रत्यक्षसम्भावनेत्यर्थः । त्रिविप्रकृष्टेति त्रिः स्वभावदेशकालैविप्रकृष्टा इत्यर्थविशेषणम् । नापि बाधकासम्भवादिति यद्यप्येवं साधकप्रामाण्यग्राहकत्वं बाधकासम्भवस्य व्यवतिष्ठते न तु स्वातन्त्र्येण साधकत्वं, तथापि व्यवहारादेः साधकस्य शङ्काशुकेन शिथिलायमानस्यानेन प्रामाण्यनिश्चये दृढं साधकत्वमित्यत्र तात्पर्यम् । त=बाधकासम्भवाख्यं विश्वासनिबन्धनम् प्रकृतेऽपि सर्वज्ञेऽपि, तदभावे=बाधका
Page #166
--------------------------------------------------------------------------
________________
१३२
अष्टसहस्त्रीतात्पर्यविवरणम् स्यान्मतं 'मा सिधत्सर्वज्ञस्य निराकरणात्पूर्वं सुनिश्चितासम्भवत्साधकप्रमाणत्वं स्वप्रत्यक्षस्य सर्वज्ञान्तरप्रत्यक्षस्य च तत्साधकस्य सम्भवात्, परोपदेशलिङ्गाक्षानपेक्षाऽवितथाशेषसूक्ष्माद्यर्थप्रतिपादकतद्वचनविशेषात्मकलिङ्गजनितानुमानस्य च तत्साधकस्य सद्भावादनादिप्रवचनविशेषस्य च तदुद्द्योतितस्य तत्साधकत्वेन सिद्धेः निराकरणादुत्तरकालं तु सिद्धमेव इति । तदपि स्वमनोरथमात्रं, सर्वज्ञनिराकृतेरयोगात् सर्वथा बाधकाभावात् ।। [मीमांसको ब्रूते, अस्तित्वग्राहकपञ्चप्रमाणैः सर्वज्ञो न ज्ञायते अतोऽभावप्रमाणेन सर्वज्ञस्याभावोऽस्ति
किन्तु जैनाचार्याः अभावप्रमाणस्याभावं कृत्वा सर्वज्ञं साधयन्ति ।]
सदुपलम्भकप्रमाणपञ्चकनिवृत्तिलक्षणं ज्ञापकानुपलम्भनं सर्वज्ञस्य बाधकमिति चेत्, न तस्य स्वसम्बन्धिनः परचेतोवृत्तिविशेषादिना व्यभिचारात्, सर्वसम्बन्धिनोऽसिद्धत्वात् । तदुक्तं तत्त्वार्थश्लोकवात्तिके
स्वसम्बन्धि यदीदं स्याद् व्यभिचारि पयोनिधेः । अम्भःकुम्भादिसङ्ख्यानैः सद्भिरज्ञायमानकैः ॥१॥ सर्वसम्बन्धि तद्बोद्धं, किञ्चिद् बोधैर्न शक्यते । सर्वबोधोऽस्ति चेत्कश्चित्तद्बोद्धा किं निषिध्यते ॥२॥ सर्वसम्बन्धि सर्वज्ञज्ञापकानुपलम्भनम् । न चक्षुरादिभिर्वेद्यमत्यक्षत्वाददृष्टवत् ॥३॥ नानुमानादलिङ्गत्वात् क्वार्थापत्त्युपमागतिः । सर्वज्ञस्यान्यथाभावसादृश्यानुपपत्तितः ॥४॥ सर्वप्रमातृसम्बन्धिप्रत्यक्षादिनिवारणात् । केवलागमगम्यं च कथं मीमांसकस्य तत् ॥५॥ कार्येऽर्थे चोदनाज्ञानं प्रमाणं यस्य सम्मतम् । तस्य स्वरूपसत्तायां तन्नैवातिप्रसङ्गतः ॥६॥ तज्ज्ञापकोपलम्भस्याभावोऽभावप्रमाणतः । साध्यते चेन्न तस्यापि सर्वत्राप्यप्रवृत्तितः ॥७॥
- अष्टसहस्रीतात्पर्यविवरणम् सम्भवाभावे, मा 'साद्यत्=मा प्रापत्, तज्ज्ञापकोपलभ्भस्येति अभावप्रमाणवादिभट्टमतमुपन्यस्य दूषयिष्यन्निदमाह, न तु प्राभाकरं प्रत्ययं सङ्गरः, तस्याभावप्रमाणा
१. सिधत् - इत्यष्टसहस्रीसम्मतः पाठः ।
Page #167
--------------------------------------------------------------------------
________________
प्रथमो भाग: [ परि० १ - का० ३]
गृहीत्वा वस्तुसद्भावं स्मृत्वा तत्प्रतियोगिनम् । मानसं नास्तिताज्ञानं येषामक्षानपेक्षया ॥८॥ तेषामशेषनृज्ञाने स्मृते तज्ज्ञापके क्षणे । जायते नास्तिताज्ञानं मानसं तत्र नान्यथा ॥९॥ न चाशेषनरज्ञानं सकृत्साक्षादुपेयते । न क्रमादन्यसन्तानप्रत्यक्षत्वानभीष्टितः ॥ १० ॥
'यदा च क्वचिदेकत्र भवेत्तन्नास्तितागतिः । नैवान्यत्र तदा सास्ति क्वैवं सर्वत्र नास्तिता ॥११॥ प्रमाणान्तरतोऽप्येषां न सर्वपुरुषग्रहः । तल्लिङ्गादेरसिद्धत्वात् सहोदीरितदूषणात् ॥१२॥ तज्ज्ञापकोपलम्भोऽपि सिद्धः पूर्वं न जातुचित् । यस्य स्मृतौ प्रजायेत नास्तिताज्ञानमाञ्जसम् ॥१३॥ परोपगमतः सिद्धः स चेन्नास्तीति साध्यते । व्याघातस्तत्प्रमाणत्वेऽन्योन्यं सिद्धो न सोऽन्यथा ॥१४॥
नन्वेवं सर्वथैकान्तः परोपगमतः कथम् । सिद्धो निषिध्यते जैनैरिति चोद्यं न धीमताम् ॥१५॥
१३३
अष्टसहस्त्रीतात्पर्यविवरणम्
नभ्युपगन्तृत्वादिति द्रष्टव्यम् । अयं सर्वज्ञग्राहकप्रमाणाभावः स्वसम्बन्धी सर्वसम्बन्धी वा तदभावसाधक उपेयः । आद्ये आह- सर्वत्राप्यप्रवृत्तित इति, स्वसम्बन्धिनस्तस्य स्वमात्रविश्रान्तत्वान्न सर्वत्र सर्वज्ञाभावसाधकत्वमिति भावः । अन्त्ये त्वाह- गृहीत्वेत्यादि तथा च सर्वसम्बन्धिनः सर्वज्ञग्राहकप्रमाणाभावस्य दुर्ज्ञानत्वान्न प्रकृताभावसाधकत्वमिति भावः । परोपगमत इति, स सर्वज्ञः परोपगमतः = परसिद्धान्तेन सिद्धो नास्तीति यदि साध्यते मीमांसकेन, तदा स परोपगमः प्रमाणमप्रमाणं वेति विकल्पद्वयमुपतिष्ठते । आद्ये आह-तस्येति तस्य = परोपगमस्य प्रमाणत्वे व्याघातस्तदभावग्राहकस्य, प्रमाणसिद्धस्यार्थस्य निषेद्धुमशक्यत्वादिति भावः । अन्त्ये आह- अन्यथेति अन्यथा = परोपगमस्याप्रमाणत्वे, स सर्वज्ञः, अन्योन्यं = वादिप्रतिवादिनोः सिद्धो न वादिन एवासिद्धत्वात्, तथा च तस्य नास्तित्वमनुमानेन साधयितुमशक्यम्, 'धर्मिहेतुदृष्टान्ता उभयवादिसिद्धा वक्तव्या' इति
१. ११ तः १६ पर्यन्ताः श्लोकाः मोहनलालशास्त्रिसम्पादिते पुस्तके नास्ति (१९२८) । २. तदिति एतत् पदं तस्य इति पदेनोद्धृतम् ।
Page #168
--------------------------------------------------------------------------
________________
१३४
प्रतीतेऽनन्तधर्मात्मन्यर्थे स्वयमबाधिते । को दोषः सुनयैस्तत्रैकान्तोपप्लवसाधने ॥१६॥
अनेकान्ते हि विज्ञानमेकान्तानुपलम्भनम् । तद्विधिस्तन्निषेधश्च मतो नैवान्यथा गतिः ॥१७॥
भावात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
नैव सर्वत्र सर्वज्ञज्ञापकानुपदर्शनम् ।
सिद्धं तद्दर्शनारोपो येन तत्र निषिध्यते ॥१८॥ इति ।
[ तत्त्वार्थ श्लोकवार्तिक १.१३-२३]
[ सर्वज्ञस्य साधकं निर्दोषप्रमाणमस्ति ।]
तदेवमसिद्धं ज्ञापकानुपलम्भनं सर्वज्ञस्य न बाधकमिति सिद्धं सुनिश्चितासम्भवद्बाधकप्रमाणत्वमेव साधकम् । तथा हि-अस्ति सर्वज्ञः सुनिश्चितासम्भवद्बाधकप्रमाणत्वात्प्रत्यक्षादिवत् । प्रत्यक्षादेस्तावद्विश्वासनिबन्धनं बाधकासम्भव एव सुनिश्चितः । न ततोऽपरं संवादकत्वं प्रवृत्तिसामर्थ्यमदुष्टकारणजन्यत्वं वा, तस्य तत्रावश्यं भावादिति । प्रत्यक्षादिप्रमाणमुदाहरणं, वादिप्रतिवादिनोः प्रसिद्धत्वात् साध्यसाधनधर्माविकलत्वात् । सुनिश्चितासम्भवद्बाधकप्रमाणश्च स्यादविद्यमानश्चे सन्दिग्धविपक्षव्यावृत्तिकमिदं साधनं न मन्तव्यं, विपक्षे बाधकसद्भावात् । तथाहियदसत् तन्न सुनिश्चितासम्भवद्बाधकप्रमाणम्, यथा मरीचिकायां तोयं सम्भवद्बाधकप्रमाणं, मेरुमूर्द्धनि मोदकादिकं च सन्दिग्धासम्भवद्बाधकम् । सुनिश्चितासम्भवद्बाधकप्रमाणश्च सर्वज्ञः इति प्रकृते सर्वज्ञे सिद्धमपि साधनं यदि सत्तां न साधयेत्तदा दर्शनं नादर्शनमतिशयीत, अनाश्वासात् स्वप्नादिविभ्रमवत्, तस्य सुनिश्चितासम्भवद्बाधकप्रमाणत्वस्याभावे सर्वत्र दर्शने दर्शनाभासे च विशेषा
अष्टसहस्त्रीतात्पर्यविवरणम्
समयबन्धादिति भावः । अत्राह मीमांसकः - नन्वेवमिति एवं = परप्रमाणमात्रसिद्धस्यानिषेध्यत्वे, सर्वथैकान्तः परोपगमसिद्धः कथं जैनैर्निषिध्यते ? अत्रोत्तरम्, इति धीमतां न चोद्यं=न प्रष्टव्यम्, यतोऽनन्तधर्मात्मन्यर्थे प्रमाणाबाधिते सिद्धे तत्रैकान्ताभावसाधने न दोषः, अनेकान्तात्मज्ञानस्यैवैकान्तानुपलम्भत्वेनानेकान्तात्मतांशे विधिरूपत्वादेकान्तात्मतांशे च निषेधरूपत्वात्, अत एव गवादौ शृङ्गादिज्ञानस्यैव शशशृङ्गानुपलम्भरूपत्वे शशशृङ्गाभावप्रसिद्धिः सङ्गच्छतेऽनुयोगित्वप्रतियोगित्वादेर्वैज्ञानिकस्य वस्त्वसाधकत्वात्, इष्यते च
Page #169
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. ३]
१३५
[सर्वज्ञस्य साधकबाधकप्रमाणे स्तोऽतः सर्वज्ञस्य सद्भावे संशयोऽस्तीति मन्यमाने प्रत्युत्तरम्]
साधकबाधकप्रमाणभावात्सर्वज्ञे संशयोऽस्तु इत्ययुक्तम्
(भा०) यस्मात्साधकबाधकप्रमाणयोनिर्णयात् भावाभावयोरविप्रतिपत्तिरनिर्णयादारेका स्यात् ।
साधकनिर्णयात्तत्सत्तायामविप्रतिपत्तिर्बाधकनिर्णयात्त्वसत्तायाम् । उभयनिर्णयस्तु न सम्भवत्येव क्वचित्, व्याघातात् साधकबाधकाभावनिर्णयवत् । साधकानिर्णयात्पुनः सत्तायामारेका स्याद् बाधकानिर्णयादसत्तायामिति विपश्चितामभिमतो न्यायः । ततो भवभृतां प्रभौ सुनिश्चतासम्भवद्बाधकप्रमाणत्वं सत्तायाः साधकं सिद्ध्यत् सुनिश्चितासम्भवत्साधकप्रमाणत्वं व्यावर्त्तयत्येव, विरोधात् । नैवमेतत्तत्र सिध्यति येन सुनिश्चितासम्भवबाधकप्रमाणत्वस्य व्यावर्त्तकं स्यात् । ततः सिद्धो भवभृतां प्रभुः सर्वज्ञ एव ।
[मीमांसक आत्मानं ज्ञानस्वभावं न मन्यते तस्योत्तरम्] (भा०) न खलु ज्ञस्वभावस्य कश्चिदगोचरोऽस्ति यन्न क्रमेत,
अष्टसहस्त्रीतात्पर्यविवरणम् विशिष्टानतिरेकेऽपि विशिष्टधर्मावच्छिन्नप्रतियोगिता परैरपि, तद्वदिहापि शशीयत्वशृङ्गत्वोभयपर्याप्तावच्छेदताकप्रतियोगिताकाभावाभ्युपगमे न काचिदनुपपत्तिः, वैज्ञानिकसम्बन्धेन शशीयत्वस्यापि प्रतियोगिवृत्तित्वाद्विशिष्टनिषेधव्यवहारे परं विशिष्टप्रतियोगिप्रतिपत्तये विकल्परूपा खण्डशः प्रसिद्धिरुपेयते, एतेन भाववदभावो न सप्रतियोगिकः, किन्तु तद्व्यवहार इत्ययमपि नयपक्षोऽनुगृहीतो भवति, सर्वत्र सर्वज्ञज्ञापकानुपलम्भे च नेयं गतिः, सर्वत्र किञ्चिज्ज्ञज्ञानस्यैव तद्रूपत्वात्, तस्य चात्यन्तमसम्भवादिति सर्वं सुस्थम् । साधकानिर्णयादिति साधकत्वप्रकारकनिश्चयाभावात् सत्तायां बाधकत्वप्रकारकनिश्चयाभावाच्चासत्तायामनुत्कटकोटिकेतरांशे चोत्कटकोटिकारेका स्यादित्यर्थः । न साधकानिश्चयान्न वा बाधकानिश्चयात् संशयः, किन्तु ज्ञानप्रामाण्यसंशयादित्यन्ये, प्रकृतज्ञानेऽगृहीताप्रामाण्यकत्वस्यावश्यदेयत्वाद् गृहीताप्रामाण्यकस्य संशयकल्पत्वं, न तु प्रामाण्यसंशयादर्थसंशय इत्यपरे । ननु भवभृतां प्रभुः सर्वज्ञ एवेति कोऽयं विधिः ? शब्दब्रह्मपरमब्रह्माद्यभीष्टकतिपयार्थज्ञत्वेनैव भवभृत्प्रभुत्वसिद्धेरनभिमतकीटसङ्ख्यादिपरिज्ञानस्याकिञ्चित्करत्वादित्याशङ्कायाम् आह भाष्यकृत् न खल्विति तथा च ज्ञानस्य सर्वविषयकत्वमात्मनश्च
Page #170
--------------------------------------------------------------------------
________________
१३६
अष्टसहस्त्रीतात्पर्यविवरणम्
तत्स्वभावान्तरप्रतिषेधात् ।
कुतः पुनस्तस्याज्ञत्वलक्षणस्वभावान्तरप्रतिषेधः सिद्धो यतोऽसौ ज्ञस्वभाव एव स्यात् ? सर्वश्चार्थस्तस्य विषयः स्यात् ? ततस्तं क्रमेतैव ? इति चेत्, चोदनाबलाद्भूताद्यशेषार्थज्ञानान्यथानुपपत्तेः । सोऽयं Tचोदना हि भूतं भवन्तं भविष्यन्तं विप्रकृष्टमित्येवंजातीयकमर्थमवगमयितुमलं पुरुषविशेषानिति स्वयं प्रतीयन् सकलार्थज्ञानस्वभावतामात्मनो न प्रत्येतीति कथं स्वस्थः ? तच्च न ज्ञानमात्मनो भिन्नमेव मीमांसकस्य कथञ्चिदभेदोपगमादन्यथा मतान्तरप्रसङ्गात् । ततो नाज्ञस्वभावः पुरुषः क्वचिदपि विषये, सर्वविषये चोदनाज्ञानोत्पत्तेविकल्पज्ञानोत्पत्तेर्वा सर्वत्र तदनुपपत्तौ विधिप्रतिषेधविचाराघटनात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
सर्वविषयकज्ञानवत्त्वं स्वभाव एवेत्याविर्भूतशुद्धस्वभावे भवेत्प्रभौ सर्वज्ञत्वमर्थसिद्धतयैवावर्जनीयमिति भावः । यं न क्रमेतयं नावगाहेत । तत्स्वभावान्तरनिषेधात् = अज्ञत्वस्वभावनिषेधात् । ननु अज्ञत्वमप्यात्मनः स्वभाव एव, ज्ञानाज्ञानोभयरूपस्यैवात्मनो भट्टैः स्वीकारात्, सुखमहमस्वाप्सं न किञ्चिदवेदिषमिति परामर्शानुरोधेनात्मन एव बोधांशस्य प्रकाशस्य द्रव्यांशस्य चाशेषविज्ञानाभावरूपस्याप्रकाशस्य सुषुप्तौ जाग्रदवस्थायामपि मामहं न जानामीत्यात्मनि कर्तरि भासमाने तदज्ञानानुभवेन द्विरूपताया अनपह्नवनीयत्वादित्याशयवान् शङ्कते-कुतः पुनरित्यादि यतोऽसावित्यादि क्रमेतैवेत्यन्तं अज्ञत्वस्वभावप्रतिषेधफलदर्शनम्, अज्ञानस्वभावाभ्युपगमे तद्विषयानाक्रमणसम्भवात् तं सर्वमर्थं क्रमेतैवेत्यस्यानुपपत्तेः । स एव च प्रतिषेधः कुतः स्वभावद्वयेऽपि साधकस्याभिहितत्वादिति प्रश्नार्थः । चोदनाज्ञान एव त्वयाऽशेषविषयत्वोपगमात् तदृष्टान्तेनात्मनः सर्वज्ञत्वस्वभावसिद्धौ तद्विप्रतिषेधान्नाज्ञस्वभावत्वं कल्पनीयम्, मां न जानामीत्यस्य विशेषज्ञानाभावपरत्वेनाप्युपपत्तेः, रूपिद्रव्येऽरूपस्येव चिद्रव्येऽप्रकाशस्य द्रव्यांशस्याभ्युपगन्तुमशक्यत्वात् । एतेन वेदान्तिनां भावरूपाज्ञानवादोऽपि निरस्तः, तादृशस्यापि तस्य ज्ञानविरुद्धत्वात्, समवायतदितरप्रत्यासत्तिभ्यां ज्ञानाज्ञानयोविरोधनिराकरणे च कर्मण एवाज्ञाननामपर्यवसानात्, कर्मकृतेन चाज्ञानेन चिद्विवर्तेन त्रैकालिकस्यात्मनो ज्ञस्वाभाव्यस्याप्रतिघातादित्युत्तरग्रन्थार्थः । कथमेवमिति सर्वज्ञस्वभावत्वे ह्यात्मनः कदाचिदप्य
१. 'प्रतिषेधात्' इति भाष्यकारसम्मतः पाठः ।
Page #171
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि० १ - का० ३]
[यदि आत्मा ज्ञानस्वभावोऽस्ति तर्हि संसारावस्थायामज्ञानादि भावो कथं दृश्यते ? ] कथमेवं कस्यचित् क्वचिदज्ञानं स्यादिति चेदुच्यते,
( भा० ) चेतनस्य सतः सम्बन्ध्यन्तरं मोहोदयकारणकं मदिरादिवत् । तत्कुतः सिद्धम् ? विवादाध्यासितो जीवस्य मोहोदयः सम्बन्ध्यन्तरकारणको मोहोदयत्वान्मदिराकारणकमोहोदयवदित्यनुमानात् । यत्तत्सम्बन्ध्यन्तरं तदात्मनो ज्ञानावरणादि कर्मेति ।
१३७
(भा०) तदभावे साकल्येन विरतव्यामोहः सर्वमतीतानागतवर्तमानं पश्यति प्रत्यासत्तिविप्रकर्षयोरकिञ्चित्करत्वात् ।
कथं पुनर्ज्ञानावरणादिसम्बन्ध्यन्तरस्याभावे साकल्येन विरतव्यामोहः स्याद्यतः सर्वमतीतानागतवर्त्तमानान्तार्थव्यञ्जनपर्यायात्मकं जीवादितत्त्वं साक्षात्कुर्वीतेति चेद्, इमे ब्रूमहे - यद्यस्मिन् सत्येव भवति तत्तदभावे न भवत्येव, यथाग्नेरभावे धूमः । सम्बन्ध्यन्तरे सत्येव भवति चात्मनो व्यामोहस्तस्मात्तदभावे स न भवतीति निश्चीयते ।
[मोहरहितोऽपि आत्मा विप्रकृष्टपदार्थान् ज्ञातुं न शक्नोति ]
देशकालतः प्रत्यासन्नमेव पश्येद्विरतव्यामोहोऽपि सर्वात्मना, न पुनर्विप्रकृष्टमित्ययुक्तं, प्रत्यासत्तेर्ज्ञानाकारणात्वाद्विप्रकर्षस्य चाज्ञानानिबन्धनत्वात्, तद्भावोऽपि ज्ञानाज्ञानयोरभावान्नयनतारकाञ्जनवच्चन्द्रार्कादिवच्च । योग्यतासद्भावेतराभ्यां ज्ञाना
अष्टसहस्त्रीतात्पर्यविवरणम्
ज्ञानोदयो दुर्घट इत्ययं प्रश्नः । मिथ्यात्वमोहनीयकर्मोदयसध्रीचीनकेवलज्ञानावरणप्रतिबद्धाशेषज्ञस्वभावत्वप्रतिबन्धकज्ञानावरणकर्मोदयमहिम्ना तत्सिद्धिरित्याशयेनोत्तरमाह-उच्यते इत्यादिना । सम्बन्ध्यन्तरं क्षीरनीरन्यायेन स्वभिन्नं स्वसम्बन्धि, मोहोदयकारणकं= मोहोदयकारणं, कप्रत्ययः स्वार्थे, बहुव्रीहौ पृष्टाज्ञानकारणाप्राप्तावुत्तरवैफल्यापत्तेः, वक्ष्यमाणानुमानविरोधाच्चेति द्रष्टव्यम् । अनन्तार्थव्यञ्जनपर्यायात्मकमिति अत्रार्थव्यञ्जनपर्यायलक्षणविवेकार्थमयं श्लोकः
स्थूलो व्यञ्जनपर्यायो, वाग्गम्यो नश्वरः स्थिरः ।
सूक्ष्मः प्रतिक्षणध्वंसी, पर्यायश्चार्थसञ्ज्ञकः ॥ इति,
तारकाञ्जनवदिति तारका च अञ्जनं च तारकाञ्जने ते इव तद्वदिति समासः ।
Page #172
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम्
१३८
ज्ञानयोः क्वचिद्भावे योग्यतैव ज्ञानकारणं, प्रत्यासत्तिविप्रकर्षयोरकिञ्चित्करत्वात् । सा पुनर्योग्यता देशतः कार्त्स्यतो वा व्यामोहविगमस्तत्प्रतिबन्धिकर्मक्षयोपशमअष्टसहस्त्रीतात्पर्यविवरणम्
॥ द्रव्यचाक्षुषहेतुतावादः ॥
सा पुनर्योग्यतेति ननु एवं द्रव्यचाक्षुषादौ तत्प्रतिबन्धककर्मक्षयोपशमत्वादिना हेतुता वाच्या, तद्धेतुता च चक्षुः सन्निकर्षादेरेवेति 'तद्धेतोः' इत्यादिन्यायेन प्रत्यक्षे इन्द्रियार्थसन्निकर्षस्य हेतुत्वं युक्तमिति चेत्, न तत्रापि तद्धेतोरित्यादिन्यायस्य सुलभत्वेनान्तरङ्गप्रत्यासत्तेः क्षयोपशमहेतुतायामेव विनिगमकत्वात् । एतेन स्थैर्यपक्षे विषयनिष्ठाया योग्यताया अपरावृत्तेर्नयनसन्निकर्षस्याहेतुत्वे भित्त्याद्यावृतस्य चाक्षुषापत्तिरित्यादिकम् अपास्तम्, आवृतचाक्षुषजनकक्षयोपशमवतां तदापत्तेरिष्टत्वात्, अनावृतचाक्षुषे चावरणेनैव क्षयोपशमप्रतिबन्धात्, अपरेषां तु दिव्याञ्जनादिसंस्कृतचक्षुषामनुभूयमानमित्याद्यावृतचाक्षुषानुपपत्तिः, तत्र चाक्षुषत्वापलापे च घटादिज्ञानेऽपि तदपलापप्रसङ्गो विकल्पज्ञानस्य सर्वस्य समानसत्ताया एव युक्तत्वात् । किञ्च प्रत्यासत्तिहेतुतावादिना नेत्राञ्जनसूक्ष्मतारकाद्यप्रत्यक्षत्वायाऽत्यासत्त्यतिदूरत्वयोर्दोषत्वं वाच्यम्, आदर्शसाम्मुख्याञ्जनादिसन्निधाने च तत्प्रत्यक्षत्वाय तत्तद्विषये तदभावविशिष्टतत्तदासत्त्यतिदूरत्वाभावस्य चाक्षुषहेतुत्वं वाच्यमित्यतिगौरवम्, मम तु क्षयोपशमे विशिष्य हेतुता, चाक्षुषादौ तु विलक्षणक्षयोपशमत्वेनैव समानविषयत्वप्रत्यासत्त्येति लाघवम् । किञ्चेन्द्रियप्रत्यासत्तेरपि क्षयोपशमाधायकतयैव प्रत्यक्षहेतुता वाच्या, असङ्ख्येयसमयप्रविष्टानामेव पुद्गलानां ग्रहणयोग्यतायाः पारमर्षेऽभिधानात् सकृत्सम्बन्धे बोधाननुभवेन तस्य च यौक्तिकत्वादसङ्ख्येयैश्च समयैः क्षयोपशमपुष्टेरेव सिद्धेः । तथा च योग्येन्द्रियविषयसम्बन्धानकामेनापि क्षयोपशमहेतुत्वेनानुगमय्य प्रत्यक्षहेतुतां वदता विलक्षणक्षयोपशमत्वेनैव हेतुतायां किं लाघवं नोद्वीक्ष्यते ? । एतेन तुरगादौ वेगेन गच्छतो युगपदनेकवृक्षसन्निकर्षेऽपि क्वचिदेव प्रतिनियतधर्मप्रकारकग्रहो नान्यत्रेति नियमाय चक्षुः सन्निकर्षविषयमाहात्म्यादीनां विशेष्यग्रहसामग्रीत्वेनानुगतानां हेतुत्वमित्यपि व्याख्यातम् तत्रौपधायकतासम्बन्धेन विलक्षणक्षयोपशमवत्त्वस्यैव सामग्रीपदार्थत्वात्, तस्या यावत्कारणरूपत्वेऽतीतानागतकतिपयचक्षुःसन्निकर्षाभावे चाक्षुषानुपपत्तेः । एतेनैव तद्व्यक्तिविषयकचाक्षुषे तद्व्यक्तिचक्षुःसंयोगत्वेनैव व्यासज्यवृत्तिधर्मप्रत्यक्षानुरोधेन कारणता कल्प्यते तत एव तद्व्यक्तिवृत्तिगुणकर्माभावचाक्षुषनिर्वाहाच्चक्षुः संयुक्तसमवायादिप्रत्यासत्त्यकल्पनलाघवादिति नवीननैयायिकोक्तमपि अपास्तं, सामान्यलक्षणादिप्रत्यासत्त्यासन्निकृष्टतद्व्यक्तिविषयकप्रत्यक्षवारणाय तद्व्यक्तिनिष्ठलौकिक विषयताशालित्वस्य कार्यतावच्छेदककोटा
Page #173
--------------------------------------------------------------------------
________________
१३९
प्रथमो भागः [परि०१-का.३] क्षयलक्षणः इति साकल्येन विरतव्यामोह: सर्वं पश्यत्येव । तदुक्तं
- अष्टसहस्त्रीतात्पर्यविवरणम्
वावश्यनिवेशनीयतया तद्व्यक्तिनिष्ठायास्तद्गतगुणकर्माभावादिनिष्ठायाश्च लौकिकविषयताया नियमाय तव प्रत्यासत्तिविशेषस्य मम तत्स्थाने क्षयोपशमविशेषस्य च हेतुताया आवश्यकत्वात् । किञ्च व्यासज्यवृत्तिधर्मस्य घटाकाशसंयोगादेर्गुरुत्वादिवदयोग्यत्वादेव न प्रत्यक्षं, चक्षुःसंयुक्ततदसंयुक्तघटपटसंयोगाप्रत्यक्षत्वस्य तु नोक्तकार्यकारणभावादपि निर्वाहः । संयोगादिप्रत्यक्षस्य यावदाश्रयविषयकत्वनियमोक्तावपि परस्परानवच्छेदकावच्छेदेन घटचक्षुःसंयोगपटचक्षुःसंयोगोभयसत्त्वे घटपटसंयोगादिप्रत्यक्षापत्तेर्दुर्वारत्वात्, स्वावच्छेदकावच्छिन्नघटवृत्तिपटसंयोगावच्छेदकावच्छिन्नत्वसम्बन्धेन घटचक्षुःसंयोगविशिष्टपटचक्षुःसंयोगत्वादिना तद्धेतुत्वे तु विनिगमनाविरहादनन्तकार्यकारणभावापत्तेश्च महागौरवम् । तस्माद् द्रव्यसमवेताव्याप्यवृत्तिप्रत्यक्ष व्याप्यवृत्तेरप्यवच्छेदकस्वीकारे वा द्रव्यसमवेतप्रत्यक्षत्वावच्छिन्न एव चक्षुःसंयोगावच्छेदकावच्छिन्नसमवायसम्बन्धावच्छिन्नाधारतानिरूपकत्वस्य प्रत्यासत्तित्वं परस्य वक्तुमुचितमिति यत्किञ्चिदेतत् । वस्तुतो द्रव्यविषयचाक्षुषसामग्रयैव न तवृत्तिगुणकर्माभावप्रत्यक्षनिर्वाहो, द्रव्याविषयकस्यापि परमाणुवाय्वोर्महत्त्वरूपाभावचाक्षुषस्य परैरभ्युपगमात्तद्वत्तादृशरूपादिचाक्षुषस्यापि तैरभ्युपगन्तुं शक्यत्वादिति । द्रव्यार्थतश्चाक्षुषादेः सार्वत्रिकत्वेऽपि पर्यायार्थतस्तत्तच्चाक्षुषविशेषे क्षयोपशमविशेषस्य हेतुत्वमवश्यं वाच्यम्, अन्यथा नियतधर्मोल्लेखानुपपत्तेः, तथा च प्रत्यासत्तीनां विशिष्य हेतुत्वमनतिप्रयोजनं, चाक्षुषत्वावच्छिन्ने चक्षुराभिमुख्यस्यैकस्यैव प्रत्यासत्तिस्थानेऽभिषेकौचित्यादित्यस्मत्सम्प्रदायानुगतो नवीनः पन्थाः । एतेन घटाकाशसंयोगादेविशिष्यायोग्यत्वकल्पनपरिहाराय व्यासज्यवृत्तिधर्मप्रत्यक्षे यावदाश्रयप्रत्यक्षस्य हेतुत्वं कल्पनीयम्, तत्र कारणतावच्छेदकं कार्यतावच्छेदकं पर्याप्तिमत्त्वमेव, कारणतावच्छेदकतावच्छेदकः सम्बन्धः स्वावच्छिन्नाधारतावच्चाक्षुषत्वं, कारणतावच्छेदकः स्वविषयवृत्तिता, कार्यतावच्छेदकतावच्छेदक: स्वावच्छिन्नाधेयतावच्चाक्षुषत्वं, कार्यतावच्छेदकः सम्बन्धो विशेष्यतेति नाननुगम इत्यादि नवीनतरोक्तमपि अपास्तं, सति क्षयोपशमविशेषे यावदाश्रयप्रत्यक्षोत्पत्तिकाल एव द्वित्वसंयोगादिप्रत्यक्षोपगमेन तस्य तद्धेतुत्वे मानाभावाद् द्रव्यजात्यन्यचाक्षुषे चाक्षुषान्यसमवेतत्वस्य प्रतिबन्धकत्वेनैव घटाकाशसंयोगाद्यप्रत्यक्षत्वोपपत्तेः । इत्थमेव क्रमिकद्वित्रिपदार्थगतद्वित्वत्रित्वादिप्रत्यक्षस्यैकत्वद्वयप्रत्यक्षोत्पत्तिकाले द्वित्वादिप्रत्यक्षस्य चोपपत्तिः । किञ्च संयोगत्वादिना पर्याप्तिमत्प्रत्यक्षे न यावदाश्रयप्रत्यक्षं हेतः, किन्तु घटादिप्रकारकसंयोगादिप्रत्यक्षे, तत्र च
Page #174
--------------------------------------------------------------------------
________________
१४०
अष्टसहस्त्रीतात्पर्यविवरणम्
ज्ञो ज्ञेये कथमज्ञः स्यादसति प्रतिबन्धने । दाह्येऽग्निर्दाहको न स्यादसति प्रतिबन्धने ॥१॥ इति । [योगबिन्दु-४३१]
[सर्वज्ञभगवतो ज्ञानमिन्द्रियानपेक्षमतीन्द्रियमस्त्येव] (भा०) अत एवाक्षानपेक्षाऽञ्जनादिसंस्कृतचक्षुषो यथालोकाऽनपेक्षा ।
अत एव । कुत एव ? साकल्येन विरतव्यामोहत्वादेव सर्वदर्शनादेव वा । यो हि देशतो विरतव्यामोह: किञ्चिदेवास्फुटं पश्यति वा तस्यैवाक्षापेक्षा लक्ष्यते न पुनस्तद्विलक्षणस्य प्रक्षीणसकलव्यामोहस्य सर्वदर्शिनः, सर्वज्ञत्वविरोधात् । न हि सर्वार्थैः सकदक्षसम्बन्धः सम्भवति साक्षात्परम्परया वा । नन चावधिमन:पर्ययज्ञानिनोर्देशतो विरतव्यामोहयोरसर्वदर्शनयोः कथमक्षानपेक्षा सलक्षणीया ? तदावरणक्षयोपशमातिशयवशात्स्वविषये परिस्फुटत्वादिति ब्रूमः । न चैवं साकल्येन
अष्टसहस्रीतात्पर्यविवरणम्
विशेषणतावच्छेदकप्रकारकज्ञानमुद्रयैव घटादिज्ञानस्य हेतुत्वान्न यावदाश्रयप्रत्यक्षत्वेन हेतुत्वम्, अन्यथा घटपटोभयाभावप्रत्यक्षादौ यावत्प्रतियोगिज्ञानत्वेनापि हेतुतापत्तेरिति विना क्षयोपशमानुसरणं न कुत्राप्युपपत्तिरिति दृढतरमनुसन्धेयम्, अधिकमस्मत्कृतस्याद्वादरहस्यस्याद्वादकल्पलतादौ [स्तबक १.८४] तत्सिद्धमेतत् प्रतिबन्धककर्मक्षयोपशमक्षयलक्षणैव प्रत्यक्षजननयोग्यतेति । साकल्येन विरतव्यामोहः सर्वं पश्यत्येवेति । ज्ञो ज्ञेय इति संवादकारिकाया अयमर्थः-यथा सर्वदाह्यदाहकत्वं वह्नेः स्वभावो मणिसम्बद्धकरतलादावदाहस्तु ततः प्रतिबन्धककृतस्तथा सर्वज्ञेयावभासित्वं चिदात्मनः स्वभाव एव, छद्मस्थे तत्प्रतिबन्धस्तु प्रतिबन्धककृत इति, सकलतदपगमेऽर्थसिद्धमेव भगवतः सर्वज्ञत्वमिति । अत एवाक्षानपेक्षेति भाष्यप्रतीके भवभृत्प्रभोरिति योजनीयम्, तदावरणेति अक्षापेक्षा हि ज्ञाने विषयस्पष्टत्वार्थं तच्चावधिमनःपर्याययोः क्षयोपशमातिशयादेवेति तयोस्तदनपेक्षत्वेऽपि न क्षतिरिति भावः । स्वविषये परिस्फुटत्वादिति ब्रूम इति तथा च प्रत्यक्षत्वे स्पष्टतैव प्रयोजिका, सा च द्विविधा, सकलस्पष्टता देशस्पष्टता च, आद्यायामावरणक्षयः प्रयोजकः, द्वितीयायां च क्वचिदिन्द्रियं क्वचिद् गुणविशेषः, मतिश्रुतयोः परोक्षत्वनये तु गुणविशेष एवेति मन्तव्यम् ॥
एवं सति प्रकृतेऽप्रयोजकत्वं स्यादक्षापेक्षत्वेऽपि गुणविशेषादतिस्पष्टत्वसम्भवादित्याशङ्क्य समाधत्ते-न चैवं साकल्येनेत्यादिना । एवम् अवधिज्ञानमन:पर्यायज्ञान
Page #175
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. ३]
१४१ विरतव्यामोहत्वस्य सर्वदर्शनस्य वानै कान्तिकत्वं शङ्कनीयं, विपक्षेऽक्षापेक्षे मतिश्रुतज्ञाने तदसम्भवात् । अवधिमन:पर्ययज्ञाने तदसम्भवात् पक्षाव्यापकत्वादहेतुत्वमिति चेत्, न सकलप्रत्यक्षस्यैव पक्षत्ववचनात्, तत्र चास्य हेतोः सद्भावात्, विकलप्रत्यक्षस्यावधिमनःपर्यायाख्यस्यापक्षीकरणात् । न चास्मदादिप्रत्यक्षेऽक्षापेक्षोपलक्षणात्सकलवित्प्रत्यक्षेऽपि सास्त्येवेति वक्तुं शक्यम्, अञ्जनादिभिरसंस्कृतचक्षुषोऽस्मदादेरालोकापेक्षोपलक्षणात् तत्संस्कृतचक्षुषोऽपि कस्यचिदालोकापेक्षाप्रसङ्गात् । नक्तञ्चराणामालोकापायेऽपि स्पष्टरूपावलोकनप्रसिद्ध लोको नियतं कारणं प्रत्यक्षस्येति चेत्, तहि सत्यस्वप्नज्ञानस्येक्षणिकादिज्ञानस्य च स्पष्टस्य चक्षुराद्यनपेक्षस्य प्रसिद्धरक्षमपि नियतं प्रत्यक्षकारणं मा भूत् । ततो यथाञ्जनादिसंस्कृतचक्षुषामालोकानपेक्षा स्फुटं रूपेक्षणे तथा साकल्येन विरतव्यामोहस्य सर्वसाक्षात्करणेऽक्षानपेक्षा । इति करणक्रमव्यवधानातिवतिसकलप्रत्यक्षो भवभृतां गुरुः प्रसिद्धयत्येव ॥३॥ [पूर्वोक्तकारिकात्रयकथितहेतुभिर्भगवान् महान् नास्ति, प्रत्युत दोषावरणरहितत्वादेव महान्]
यतश्चासौ न देवागमादिविभूतिमत्त्वादध्यात्म बहिरपि दिव्यसत्यविग्रहादिमहोदयाश्रयत्वाद्वा महान्, नापि तीर्थकृत्त्वमात्रात्, यतश्च तीर्थच्छेदसम्प्रदायोऽपि वैदिको नियोगभावनादिसम्प्रदायो न संवादकः प्रत्यक्षकप्रमाणवादिसम्प्रदायस्तत्त्वोपप्लववादिसम्प्रदायो वा सर्वाप्तवादो वा न प्रमाणभूतो
- अष्टसहस्रीतात्पर्यविवरणम् योरक्षानपेक्षत्वे तत्साधर्म्यण केवलज्ञानस्य तथात्वप्राप्तौ भगवत्प्रत्यक्षमक्षानपेक्षं साकल्येन विरतव्यामोहत्वात् सर्वदर्शनत्वाद्वा, यन्नैवं तन्नैवं, यथाऽस्मदादिप्रत्यक्षमिति व्यतिरेकिणि हेतोरनैकान्तिकत्वमप्रयोजकत्वं न शनीयम्, कुत इत्याह-विपक्ष इति अवधीति च । उभाभ्यामक्षापेक्षत्वस्य स्पष्टताप्रयोजकत्वं खण्डितं भवति, तथा चाक्षापेक्षत्वं देशस्पष्टत्वेऽपि न प्रयोजकं किं पुनः सर्वस्पष्टत्वे ? इति, हेतुसत्त्वे साध्यासत्त्वे प्रकृते सर्वस्पष्टत्वानुपपत्तिर्बाधकस्तर्क इति नाप्रयोजकत्वमिति भावः । न च अपेक्षत्वेऽपि गुणविशेषात् सर्वस्पष्टत्वोपपत्तिः केवलज्ञानोत्पादकगुणस्यैव लाघवादिन्द्रियसंस्कारनाशकत्वेन तस्य तद्विरुद्धत्वादिति द्रष्टव्यम् । विकलप्रत्यक्षस्येति पारमार्थिकप्रत्यक्षमात्रस्य पक्षीकरणे तु भागासिद्धतयाऽस्याहेतुत्वं स्यादेवेत्यर्थः । तर्हि सत्यस्वप्न इति नन एवं स्वाप्नज्ञानविशेषे
Page #176
--------------------------------------------------------------------------
________________
१४२
अष्टसहस्त्रीतात्पर्यविवरणम्
व्यवतिष्ठते, ततः सुनिश्चितासम्भवद्बाधकप्रमाणो भगवन् भवानेव भवभृतां प्रभुरात्यन्तिकदोषावरणहान्या साक्षात्प्रबुद्धाशेषतत्त्वार्थत्वेन च मुनिभिः सूत्रकारादिभिरभिष्टृयते इति समन्तभद्राचार्यैर्निरूपिते सति कुतस्तावदात्यन्तिकी दोषावरणहानिर्मयि विनिश्चितेति भगवता पर्यनुयुक्ता इवाचार्याः प्राहुः
"दोषावरणयोर्हानिर्निःशेषास्त्यतिशायनात् ।
क्वचिद्यथा स्वहेतुभ्यो बहिरन्तर्मलक्षयः ॥४॥
दोषावरणसामान्ययोर्हाने: प्रसिद्धत्वाद्धर्मित्वं न विरुध्यते, तत्प्रसिद्धिः पुनरस्मदादिषु देशतो निर्दोषत्वस्य ज्ञानदेश्च कार्यस्य निश्चयाद्भवत्येव, अन्यथा
अष्टसहस्त्रीतात्पर्यविवरणम्
चक्षुराद्यनपेक्षायां चाक्षुषादौ तदपेक्षानियमभङ्गः (शङ्का) कथमिति चेत्, सत्यं पश्यामीत्यनुभवानुरोधेन स्वाप्नविशेषेऽपि चाक्षुषत्वसिद्धेस्तत्र च चक्षुराद्यपेक्षाव्यतिरेकस्य स्पष्टत्वादित्यवेहि । (शं०) पश्यामीत्यभिलापे विषयताविशेष एव प्रयोजको न तु चाक्षुषत्वं जातिः, स च चक्षुः सन्निकर्षप्रयोज्यो दोषविशेषप्रयोज्यश्चेति न दोष इति चेत्, न, सत्यत्वस्य स्वप्नविशेषणस्याभिधानेन दोषविशेषप्रयोज्यव्यावृत्तेः तादृशविषयताविशेषावच्छिन्नेऽनुगतक्षयोपशमविशेषस्यैव हेतुत्वेनालोकवच्चक्षुषस्तत्रानियतहेतुताया एव युक्तत्वात् द्रव्यचक्षुर्व्यापाराभावेऽपि भावचाक्षुषस्य पंचिदिओ व्व बउलो' [ विशे० भा० ३००१] इत्यादिदृष्टान्तसिद्धत्वेनापसिद्धान्तायोगादिति दिक् ||३||
दोषावरणयोरिति दोषावरणयोर्हानिः क्वचिदात्मनि निःशेषा भवति, अतिशयवतीत्वात्, या हानिरतिशायिनी सा क्वचिन्निः शेषा भवति, यथा कनकपाषाणादौ किट्टकालिकादिबहिरन्तर्मलहानिरिति प्रयोगोऽत्र द्रष्टव्यः । अत्रातिशायिनीत्वमाश्रयभेदव्यापारप्रयुक्ताल्पाल्पतरबहुबहुतरप्रतियोगिकत्वं, निःशेषत्वं च स्वसमानाधिकरणस्वप्रतियोगिजातीयप्रागभावकालीनभिन्नत्वम्, अतो न जातिरूपातिशयपरमुक्तिसङ्क्रमाद्यसम्भवप्रयुक्तदोषावकाशः । यदि चैवमपि साध्यहेत्वोर्व्यधिकरणत्वमुत्प्रेक्ष्यते, तदा दोषावरणहानित्वं पक्षीकृत्य तत्र निरुक्तातिशयितवृत्तित्वेन निःशेषवृत्तित्वसाधने तात्पर्यं द्रष्टव्यम् । देशतो निर्दोषत्वस्येति यद्यपि देशतो दोषहानेर्देशतो निर्दोषत्वं न कार्यम्, अभेदे
१. (छाया - पञ्चेन्द्रिय इव बकुल: ।)
Page #177
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि० १-का. ४]
१४३ तदनुपपत्तेः । सा क्वचिन्नि:शेषास्तीति साध्यते, वादिप्रतिवादिनोरत्र विप्रतिपत्तेः । अतिशायनादिति हेतुः । क्वचित्कनकपाषाणादौ किट्टकालिकादिबहिरन्तर्मलक्षयो यथेति दृष्टान्तः, प्रसिद्धत्वात् । स हि कनकपाषाणादौ प्रकृष्यमाणो दृष्टो निःशेषः । तद्वद्दोषावरणहानिरपि प्रकृष्यमाणा अस्मदादिषु प्रतीता सती क्वचिन्निःशेषाऽस्तीति सिद्ध्यति । कः पुनर्दोषो नामावरणाद्भिन्नस्वभाव इति चेदुच्यते
(भा०) वचनसामर्थ्यादज्ञानादिर्दोषः स्वपरपरिणामहेतुः ।
न हि दोष एवावरणमिति प्रतिपादने कारिकाया दोषावरणयोरिति द्विवचनं समर्थम् । ततस्तत्सामर्थ्यादावरणात्पौद्गलिकज्ञानावरणादिकर्मणो भिन्नस्वभाव एवाज्ञानादिर्दोषोऽभ्यूह्यते । तद्धेतुः पुनरावरणं कर्म जीवस्य पूर्वस्वपरिणामश्च ।
[बौद्धो दोषान् स्वहेतुकान् साङ्ख्यश्च परहेतुकानेव मन्यते
किन्तु जैनाचार्या दोषानुभयहेतुकानेव मन्यन्ते] स्वपरिणामहेतुक एवाज्ञानादिरित्ययुक्तं, तस्य कादाचित्कत्वविरोधाज्जीवत्वादिवत् । परपरिणामहेतुक एवेत्यपि न व्यवतिष्ठते, मुक्तात्मनोऽपि तत्प्रसङ्गात्, सर्वस्य कार्यस्योपादानसहकारिसामग्रीजन्यतयोपगमात्तथाप्रतीतेश्च, तथा च दोषो जीवस्य स्वपरपरिणामहेतुकः, कार्यत्वान्माषपाकवत् ।।
नन्वेवं नि:शेषावरणहानौ दोषहानेः सामर्थ्यसिद्धत्वाद्दोषहानौ वावरणहानेरन्यतरहानिरेव निःशेषतः साध्येति चेत्, न दोषावरणयोर्जीवपुद्गलपरिणामयोरन्योन्यकार्यकारणभावज्ञापनार्थत्वादुभयहानेनिःशेषत्वसाधनस्य । दोषो हि तावदज्ञानं
अष्टसहस्त्रीतात्पर्यविवरणम् कार्यकारणभावविरोधात्, तथापि तदुपलक्षिता देशतः शुद्धिः स्वानुभवसाक्षिका कार्यत्वेन द्रष्टव्या । स्वपरिणामहेतुक एवेत्यादि अत्राज्ञानादिः (१) स्वपरिणाममात्रहेतुको न भवति कादाचित्कत्वात्, व्यतिरेके जीवत्ववत् (२) परपरिणाममात्रहेतुको न भवति जीवधर्मत्वाद, व्यतिरेकेऽजीवत्ववत् (३) स्वपरपरिणामहेतुको भवति कार्यत्वान्माषपाकवदित्यनुमानत्रयं द्रष्टव्यम् । प्रथमे कादाचित्कत्वं न कालवृत्त्यभावप्रतियोगित्वं, स्वपरिणाममात्रहेतुके भव्यत्वे तत्सत्त्वेन व्यतिरेकव्याप्तौ व्यभिचारात्, किन्त्वभूत्वाभावित्वं, विसभागसन्तत्यवच्छिन्नकार्यत्वं वा तत्, व्यतिरेके दृष्टान्तीभूतस्य जीवत्वस्य च व्यञ्जनपर्यायतया स्वरूपतोऽहेतुकत्वेऽपि शुद्धर्जुसूत्राभिमतार्थपर्यायाभेदनिरूपितं स्वपरिणाममात्रहेतुकत्वं, तच्च
Page #178
--------------------------------------------------------------------------
________________
१४४
अष्टसहस्त्रीतात्पर्यविवरणम् ज्ञानावरणस्योदये जीवस्य स्याद्, अदर्शनं दर्शनावरणस्य, मिथ्यात्वं दर्शनमोहस्य, विविधमचारित्रमनेकप्रकारचारित्रमोहस्य, अदानशीलत्वादिर्दानाद्यन्तरायस्येति । तथा ज्ञानदर्शनावरणे तत्प्रदोषनिह्नवमात्सर्यान्तरायाऽऽसादनोपघातेभ्यो जीवमास्रवतः, केवलिश्रुतसङ्घधर्मदेवावर्णवादाद्दर्शनमोहः, कषायोदयात्तीव्रपरिणामाच्चारित्रमोहः, विघ्नकरणादन्तराय इति तत्त्वार्थे प्ररूपणात् । समर्थयिष्यते चायं कार्यकारणभावो दोषावरणयोः कामादिप्रभवश्चित्रः कर्मबन्धानुरूपतः इत्यत्र (कारिका-९९) । [बौद्धो दोषानेव संसारस्य कारणं मन्यते किन्तु जैनाचार्या उभयौ एव कारणे इति कथयन्ति]
अथ दोष एवाविद्यातृष्णालक्षणश्चेतसोऽनादितद्वासनोद्भूतः संसारहेतुर्नावरणं पौद्गलिकं, तेन मूर्तिमता चित्तस्यामूर्तस्यावरणायोगादिति वदतो बौद्धान्निराकर्तुमावरणग्रहणं, मूर्तिमतापि मदिरादिना चित्तस्यामूर्तस्यावरणदर्शनात्, तत्सम्बन्धाद्विभ्रमसंवेदनादन्यथा तदनुपपत्तेः । मदिरादिनेन्द्रियाण्येवावियन्ते इति चेत्, न तेषामचेतनत्वे तदावरणासम्भवात् स्थाल्यादिवद्विभ्रमायोगात् । चेतनत्वे तेषाममूर्तत्वेऽपि मूर्तिमतावरणमायातमिति प्रायेणान्यत्र चिन्तितम् । ततो दोषहानिवदावरणहानिरपि नि:शेषा क्वचित्साध्या, तदावरणस्य दोषादन्यस्य मूर्तिमतः प्रसिद्धः ।
[दोषावरणयोर्हानिः प्रध्वंसाभावरूपाऽस्ति न त्वत्यन्ताभावरूपा] (भा०) अत एव लोष्टादौ निःशेषदोषावरणनिवृत्तेः सिद्धसाध्यतेत्यसमीक्षिताभिधानं, साध्यापरिज्ञानात् ।
- अष्टसहस्त्रीतात्पर्यविवरणम्
कार्यतावच्छेदकानवच्छिन्नत्वेनोपस्थित एव विवक्ष्यत इति नार्थपर्यायान्तरेऽतिप्रसङ्गः । द्वितीयेऽप्यनयैव रीत्या परपरिणाममात्रहेतुकत्वं परमिष्टः पारिणामिकभाव इति मुक्तात्मनस्तत्प्रसङ्गो विपर्यये बाधक उक्तो ग्रन्थकृता । तृतीये कार्यत्वस्योद्भूतकार्यत्वादित्यर्थः, तेन जीवत्वादौ न व्यभिचारो नित्यत्वेनापिते तत्रानित्याभेदारोपप्रयुक्तकार्यत्वादित्यस्यानुद्भूतत्वादिति ध्येयम् । साध्यापरिज्ञानादिति उद्देश्यानुमितिविषयापरिज्ञानादित्यर्थः, साध्यः=उद्देश्यानुमितिविषयः तस्य= दोषावरणात्यन्ताभावस्य अनिष्टत्वान् मुक्तित्वेनानाभिमतत्वात्, तस्य मुक्तित्वे सदात्मनो मुक्तिप्रसङ्गात् त्रैकालिक्यास्तादात्म्यपरिणाम
Page #179
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का० ४]
१४५ प्रध्वंसाभावो हि दोषावरणयोः साध्यो न पुनरत्यन्ताभावः, तस्यानिष्टत्वात्, सदात्मनो मुक्तिप्रसङ्गात् । नापीतरेतराभावः, तस्य प्रसिद्धत्वात्, दोषावरणयोरनात्मत्वादात्मनश्चादोषावरणस्वभावत्वात् । प्रागभावोऽपि न साध्यस्तत एव, प्रागविद्यमानस्य दोषावरणस्य स्वकारणादात्मनि प्रादुर्भावाभ्युपगमात् । न च लोष्टादौ दोषावरणयोः प्रध्वंसाभावः सम्भवति, तस्य भूत्वा भवनलक्षणत्वात् तयोस्तत्रात्यन्तमभावात् तन्न सिद्धसाध्यता । [शङ्काकारो बुद्धस्तरतमतां दृष्ट्वा अतिशायनहेतुमनैकान्तिकं मन्यते किन्तु जैनाचार्याः क्वचित्
___ लोष्टादौ बुद्धरपि अभावं स्वीकृत्य हेतुमनैकान्तिकं न मन्यन्ते] नन्वेवं,
(भा०) दोषावरणयोर्हानेरतिशायनान्निःशेषतायां साध्यायां बुद्धेरपि किन्न परिक्षयः स्याद् ? विशेषाभावादतोऽनैकान्तिको हेतुरित्यशिक्षितलक्षितं, चेतनादिगुणव्यावृत्तेः सर्वात्मना पृथिव्यादेरभिमतत्वात् ।
ननु च पृथिव्यादौ सर्वात्मना चेतनादिगुणप्रध्वंसाभावस्याभावाद् बुद्धिहान्यानैकान्तिकमेवातिशायनमित्यप्यनवबोधविजृम्भितं, पृथिव्यादौ पुद्गले पृथिवीकायिकादिभिरात्मभिः शरीरत्वेन गृहीते स्वायुषः क्षयात् त्यक्ते चेतनादिगुणस्य व्यावृत्तेः सर्वात्मना प्रध्वंसाभावरूपत्वेन स्याद्वादिभिरभिमतत्वात्, न हि स कश्चित्पुद्गलोऽस्ति यो न जीवैरसकृद्भुक्तोज्झितः इति वचनात् [ ] । प्रसिद्धश्च पृथिव्यादौ चेतनादिगुणस्याभावः, अनुपलम्भाऽन्यथानुपपत्तेः ।
- अष्टसहस्रीतात्पर्यविवरणम् निवृत्तेरत्यन्ताभावत्वाद्दोषावरणयोस्तादात्म्यपरिणामस्य चात्मनि नित्यनिवृत्तत्वादिति भावः । यद्यपि आवरणतादात्म्यमात्मतो नित्यनिवत्तमभ्युपगन्तं शक्यम, भिन्नद्रव्यत्वात, दोषतादात्म्यन्तु न, तत्कालावच्छिन्नतत्तादात्म्यस्यात्मन्यवर्जनीयत्वात्, तथापि एकसत्त्वेऽप्युभयाभावाभ्युपगमेनावरणोदयपरिणतिरूपदोषाभिप्रायेण वेदमभिधानमिति मन्तव्यम् । तत एव प्रसिद्धत्वादेव, तदेव स्पष्टीकर्तुमाह-प्रागविद्यमानस्येत्यादि । प्रध्वंसाभावे साध्ये न सिद्धसाध्यतेत्युपदर्शयति-न च लोष्टादावित्यादिना । शरीरत्वेन गृहीत इति १अण्णुण्णाणुगयाणं' इत्यादि सम्मत्युक्तरीत्या शरीरात्मनोः कथञ्चिदेकत्वेन तथैव लोक
१. अवग्रहोऽत्र हस्तप्रतौ दृश्यते तथापि स स्थानपूरणार्थं भविष्यति इति सम्भाव्यते ।
Page #180
--------------------------------------------------------------------------
________________
१४६
अष्टसहस्त्रीतात्पर्यविवरणम्
[अदृश्यपदार्थस्याभावं कथं भविष्यतीति शङ्कायां लौकिकजना अपि अदृश्यस्याभावं मन्यन्ते एवेत्युत्तरम् ]
(भा०) अदृश्यानुपलम्भादभावासिद्धिरित्ययुक्तं, परचैतन्यनिवृत्तावारेकापत्तेः, संस्कर्तॄणां पातकित्वप्रसङ्गाद्, बहुलमप्रत्यक्षस्यापि रोगादेर्विनिवृत्तिनिर्णयात् ।
स्यान्मतं ते
(भा०) व्यापारव्याहाराकारविशेषव्यावृत्तिसमयवशात्तादृशं लोको विवेचयति
नास्त्यत्र मृतशरीरे चैतन्यं व्यापारव्याहाराकारविशेषानुपलब्धेः, कार्यविशेषानुपलम्भस्य कारणविशेषाभावाविनाभावित्वात्, चान्दनादिधूमानुपलम्भस्य तत्समर्थचान्दनादिपावकाभावाविनाभावित्ववत् । तथा - नास्त्यस्य रोगो ज्वरादिः, स्पर्शादिविशेषानुपलब्धेर्भूतग्रहादिर्वा चेष्टाविशेषानुपलब्धेः । सम्यग्वैद्यशास्त्रभूततन्त्रादिसमयवशादत्यन्ताभ्यस्तचैतन्यरोगादिकार्यविशेषाणां लोकानां तद्विवेकोपपत्तिः इति ।
[जैनाचार्या भस्मलोष्ठादीनचेतनान् साधयन्ति ]
तदेतत्पृथिव्यादौ सर्वात्मना चेतनादिगुणव्यावृत्तावपि समानम् । नास्त्यत्र भस्मादिपृथिव्यादौ पृथिवीचेतनादिगुणः
(भा०) व्यापारव्याहाराकारविशेषव्यावृत्तेरिति समयवशात्तत्सिद्धान्तविल्लोको विवेचयति ।
स्यादाकूतं ते व्यापारादिविशेषस्यानुपलब्धेस्तज्जननसमर्थचेतनादिगुणव्यावृत्तिसिद्धावपि तज्जननासमर्थचेतनादिव्यावृत्त्यसिद्धेर्न सर्वात्मना तद्व्यावृत्तिसिद्धिः इति, तदसमञ्जसं, व्यापाराद्यशेषकार्यजननासमर्थस्य शरीरिणां चेतनादेरसम्भवात्, अष्टसहस्त्रीतात्पर्यविवरणम्
लोकोत्तरानुभवसिद्धत्वेन चात्मगृहीतमुक्ते पृथिव्यादिशरीरे बुद्ध्यादिनिःशेषध्वंसस्य युक्तियुक्तत्वादिति भावः । न हि प्रतियोगिसमवायिदेश एव ध्वंसप्रागभावौ स्त इति नैयायिकवचनं श्रद्धातुमर्ह, समवायिकारणनाशजन्यद्रव्यनाशस्य निरधिकरणत्वापत्तेः । न च समवायिकारणसमवायिकारणमेव तत्राधिकरणं, तन्नाशस्थलेऽप्यधिकरणचिन्तायां
Page #181
--------------------------------------------------------------------------
________________
प्रथमो भाग: [ परि० १ - का० ४]
१४७
सम्भवे वा शरीरित्वविरोधात् । ततः कार्यविशेषानुपलब्धेः सर्वात्मना चेतनादि - गुणव्यावृत्तिः पृथिव्यादेः सिद्ध्यत्येव, मृतशरीरादेः परचैतन्यरोगादिनिवृत्तिवत् ।
( भा०) यदि पुनरयं निर्बन्धः सर्वत्र विप्रकर्षिणामभावासिद्धेस्तदा कृतकत्वधूमादेर्विनाशानलाभ्यां व्याप्तेरसिद्धेर्न कश्चिद्धेतुः । ततः शौद्धोदनिशिष्यकाणामनात्मनीनमेतत्, अनुमानोच्छेदप्रसङ्गात् ।
न हि जैमिनीयमतानुसारिणो विप्रकर्षिणामर्थानामभावासिद्धिमनुमन्यन्ते, वेदे कर्त्रभावसिद्धिप्रसङ्गात् सर्वज्ञाद्यभावसाधनविरोधाच्च । ते तामनुमन्यमाना वा शौद्धोदनिशिष्यका एव । न चैषामेतदात्मनीनं, अनुमानोच्छेदस्य दुर्निवारत्वात्, साध्यसाधनयोर्व्याप्यसिद्धेः । परोपगमाद्व्याप्तिसिद्धेर्नानुमानोच्छेद इति चेत्, न तस्यापि परोपगमान्तरात्सिद्भावनवस्थाप्रसङ्गात् तस्यानुमानात्सिद्धौ परस्पराश्रयप्रसङ्गात् । प्रसिद्धेऽनुमाने ततः परोपगमस्य सिद्धिस्तत्सिद्धौ च ततो व्याप्तिसिद्धेरनुमानप्रसिद्धिरिति । ततो न श्रेयानयं निर्बन्धः सर्वात्मना चेतनादिगुणव्यावृत्तिः पृथिव्यादेर्न सिद्ध्यत्येवेति तत्प्रसिद्धौ च न बुद्धिहान्या हेतोर्व्यभिचारः, तस्याः सपक्षत्वात् । तथा हि
( भा० ) यस्य हानिरतिशयवती तस्य कुतश्चित्सर्वात्मना व्यावृत्तिः, यथा बुद्ध्यादिगुणस्याश्मनः, तथा च दोषादेर्हानिरतिशयवती कुतश्चिन्निवर्त्तयितुमर्हति सकलं कलङ्कमिति कथमकलङ्कसिद्धिर्न भवेत् ?
[कर्मद्रव्यस्य प्रध्वंसाभावरूपाभावे मन्यमाने सति दोषारोपणं, स्याद्वादिभिस्तद्दोषनिराकरणम् ]
ननु च यदि प्रध्वंसाभावो हानिस्तदा सा पौद्गलिकस्य ज्ञानावरणादेः कर्मद्रव्यस्य न सम्भवत्येव नित्यत्वात्तत्पर्यायस्य तु हानावपि कुतश्चित् पुनः प्रादुर्भावान्न निःशेषा हानिः स्यात् । निःशेषकर्मपर्यायहानौ वा कर्मद्रव्यस्यापि
अष्टसहस्त्रीतात्पर्यविवरणम्
परमाणुविश्रामापत्तेः, तद्गतस्य च तस्य यथाप्रतीति सम्बन्धविशेषेण स्थूलावयवनिष्ठताभ्युपगमे किमपराद्धमधिकरणान्तरेण ? येन तत्र तद्वत्ताप्रतीतिसिद्धाप्यपलप्येतेति दिक् । आवरणहानिर्न साध्या द्रव्यार्थपर्यायार्थविकल्पानुपपत्तेरित्याशयवानाह-पूर्वपक्षे ननु च यदीत्यादि स्वसमानाधिकरणस्वप्रतियोगिजातीयप्रागभावासमानकालीनत्वविशेषणादा
Page #182
--------------------------------------------------------------------------
________________
१४८
अष्टसहस्त्रीतात्पर्यविवरणम् हानिप्रसङ्गः, तस्य तदविनाभावात्, तथा च निरन्वयविनाशसिद्धरात्मादिद्रव्याभावप्रसङ्ग इति कश्चित्, सोऽप्यनवबुद्धसिद्धान्त एव यस्मात् ।
(भा० ) मणेर्मलादेर्व्यावृत्तिः क्षयः, सतोऽत्यन्तविनाशानुपपत्तेः । तादृगात्मनोऽपि कर्मणो निवृत्तौ परिशुद्धिः ।
प्रध्वंसाभावो हि क्षयो हानिरिहाभिप्रेता, सा च व्यावृत्तिरेव मणेः कनकपाषाणाद्वा मलस्य किट्टादेर्वा । न पुनरत्यन्तविनाशः, स हि द्रव्यस्य वा स्यात्पर्यायस्य वा ? न तावद् द्रव्यस्य, नित्यत्वात्, नापि पर्यायस्य द्रव्यरूपेण ध्रौव्यात् । तथा हि-विवादापन्नं मण्यादौ मलादि पर्यायार्थतया नश्वरमपि द्रव्यार्थतया ध्रुवं, सत्त्वान्यथानुपपत्तेः ।
[शब्दविद्युद्दीपादयोऽपि कथञ्चिन्नित्याः सन्ति] शब्देन व्यभिचार इति चेत्, न तस्य द्रव्यतया ध्रौव्याभ्युपगमात् । विद्युत्प्रदीपादिभिरनेकान्त इत्ययुक्तं, तेषामपि द्रव्यत्वतो ध्रुवत्वात्, क्षणिकैकान्ते सर्वथार्थक्रियाविरोधस्याभिधानात्, ततो यादृशी मणेर्मलादेर्व्यावृत्तिर्हानिः परिशुद्धिस्तादृशी जीवस्य कर्मणां निवृत्तिर्हानिः, तस्यां च सत्यामात्यन्तिकी शुद्धिः सम्भाव्यते. सकलकर्मपर्यायविनाशेऽपि कर्मद्रव्यस्याविनाशात्तस्याकर्मपर्यायाक्रान्त
- अष्टसहस्रीतात्पर्यविवरणम्
वरणत्वावच्छिन्नध्वंसस्य वा साध्यत्वान्न दोष इत्यभिप्रायवान् सिद्धान्तयति-सोऽप्यनवबुद्धतत्त्व' इत्यादिना । सकलकर्मपर्यायनाशस्य कर्मत्वविशिष्टद्रव्यनाशनियतत्वेऽपि तदुपलक्षितद्रव्यनाशानियतत्वान्न निरन्वयनाशापत्तिरित्याह-सकलकर्मेत्यादि ननु कर्मपर्यायत्वानवच्छिन्ने कर्मद्रव्यत्वेनाकर्मपर्यायत्वावच्छिन्ने चाकर्मद्रव्यत्वेन हेतुत्वात् कथं मुक्तौ कर्मद्रव्यस्य कर्मपर्यायाक्रान्ततया परिणमनम् ? इति चेत्, न, पुद्गलद्रव्यस्यैवावस्थाविशेषेण कर्माकर्मात्मकतया परिणमनादन्योन्याभावस्याव्याप्यवृत्तित्वादुभयरूपतोपपत्तेः । ननु एवं जीवद्रव्यमपि निःशेषितजीवपर्यायमजीवपर्यायानाददानमजीवद्रव्यं स्यात्, तद्रव्यस्य तदन्यद्रव्यपर्यायपरिणमनाभावव्याप्यत्वोपगमे च कर्मद्रव्यमप्यकर्मपर्यायपरिणामि न स्यादिति चेत्, न जीवाजीवपरिणामयोः प्रदेशविरोधस्य कर्माकर्मपरिणामयोश्च
१. सिद्धान्त इति अष्टसहस्रीसम्मतः पाठः ।
Page #183
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि० १ - का० ४]
तया परिणमनाद्, मलद्रव्यस्य मलात्मकपर्यायतया निवृत्तावप्यमलात्मकपर्यायाविष्टतया परिणमनवत् । तदेतेन तुच्छः प्रध्वंसाभावः सर्वत्र प्रत्याख्यातः, कार्योत्पादस्यैव पूर्वाकारक्षयरूपत्वप्रतीतेः । समर्थयिष्यते चैतत् कार्योत्पादः क्षयो हेतोर्नियमात् इत्यत्र (कारिका-५८) ।
१४९
( भा० ) तेन मणेः कैवल्यमेव मलादेर्वैकल्यम् । कर्मणोऽपि वैकल्यमात्मकैवल्यमस्त्येव ततो नातिप्रसज्यते ।
द्रव्यार्थतया बुद्धेरात्मन्यप्यविनाशात्सर्वात्मना परिक्षयाप्रसङ्गात् पर्यायार्थतया परिक्षयेऽपि सिद्धान्ताविरोधात् । ननु च यथा कर्मद्रव्यस्य कर्मस्वभावपर्यायनिवृत्तावप्यकर्मात्मकपर्यायरूपतयावस्थानं तथात्मनो बुद्धिपर्यायतया निवृत्तावप्यबुद्धिरूपपर्यायतयावस्थानात् सिद्धान्तविरोध एवेत्यतिप्रसज्यते इति चेत्, न वैषम्यात् । कर्मद्रव्यं हि पुद्गलद्रव्यम्, तस्यात्मनि पारतन्त्र्यं कुर्वतः कर्मत्वपरिणामस्तदकुर्वतोऽकर्मत्वपरिणामेनावस्थानं, रूपादिमत्त्वसामान्यलक्षणत्वात्पुद्गलद्रव्यस्य कर्मत्वलक्षणत्वाभावादविरुद्धमभिधीयते । बुद्धिद्रव्यं तु जीवः, तस्य बुद्धिः पर्यायः । तत् सामान्यं लक्षणम्, उपयोगो लक्षणम् इति वचनात् [ तत्त्वार्थसूत्रम् २-८] । न च लक्षणाभावे लक्ष्यमवतिष्ठते, तस्य तदलक्षणत्वप्रसक्ते र्ये नाबुद्धिपर्यायात्मकतयावस्थानं जीवस्य निःशेषतो बुद्धिपरिक्षयेऽप्यविरुद्धं स्यात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
कालविरोधस्य सिद्धान्तसिद्धत्वेनोक्तप्रतिबन्द्ययोगात्, द्रव्यत्वसाक्षाद्व्याप्यजात्यवच्छेदेन नियतपर्यायारम्भवादो, न तु तदवान्तरजात्यवच्छेदेनेति परमार्थः । युक्तं चैतत् परेषां जन्यपृथिवीत्वाद्यवच्छिन्ने पृथिवीत्वादिना हेतुत्वे गौरवादित्यादि विपञ्चितमन्यत्र । एतेन=उत्तरपर्यायस्यैव पूर्वपर्यायध्वंसत्वेन, तुच्छः=षट्पदार्थीभिन्नत्वेनाभिमतः । नातिप्रसज्यत इति कर्मवैकल्येऽप्यात्मकैवल्यवद् बुद्धिवैकल्येऽप्यात्मकैवल्यं स्यादित्यतिप्रसङ्गो नापद्यते, स्वलक्षणीभूतनिःशेषपर्यायवैकल्यस्यासाध्यत्वादसत्त्वाच्चेति भावः । न च लक्षणाभाव इत्यादि तथा च बुद्धिपर्यायः स्वाश्रयद्रव्ये निःशेषतो हीयते पर्यायत्वादित्यत्र स्वलक्षणतावच्छेदकानवच्छिन्नत्वस्योपाधेः सत्त्वादगमकत्वमिति भावः । यद्यपि कर्म - पर्यायत्वमपि कर्मद्रव्यलक्षणतावच्छेदकमेव, तथापि द्रव्यविभाजकोपाध्यवच्छिन्नलक्ष्यतानिरूपितलक्षणतावच्छेदकानवच्छिन्नत्वमुपाधिरित्यत्र तात्पर्यम् । न पुनर्द्रव्यार्थतयेति
Page #184
--------------------------------------------------------------------------
________________
१५०
अष्टसहस्त्रीतात्पर्यविवरणम्
[ अज्ञानादिदोषाणामभावो कथं भविष्यति ? ]
नन्वेवमज्ञानादेर्दोषस्य पर्यायार्थतया हानिर्निः शेषा सिध्येदावरणवन्न पुनर्द्रव्यार्थतया बुद्धिवत् । ततो दोषसामान्यस्यात्मन्यवस्थानान्न निर्दोषत्वसिद्धिरित्यपरः, सोऽप्यतत्त्वज्ञ एव यतः ।
( भा० ) प्रतिपक्ष एवात्मनामागन्तुको मलः परिक्षयी स्वनिर्ह्रासनिमित्तविवर्द्धनवशात् ।
[आत्मनः परिणामो कतिविध: ?]
द्विविधो ह्यात्मनः परिणामः, स्वाभाविक आगन्तुकश्च । तत्र स्वाभाविकोऽनन्तज्ञानादिरात्मस्वरूपत्वात् । मलः पुनरज्ञानादिरागन्तुकः, कर्मोदयनिमित्तकत्वात्, स चात्मनः प्रतिपक्ष एव ततः परिक्षयी । तथा हि- यो यत्रागन्तुकः स तत्र स्वनिर्ह्रासनिमित्तविवर्द्धनवशात्परिक्षयी, यथा- जात्यहेम्नि ताम्रादिमिश्रणकृतः कालिकादिः, आगन्तुकश्चात्मन्यज्ञानादिर्मलः, इति स्वभावहेतुः । न तावदयमसिद्धः । कथम् ? यो यत्र कादाचित्कः स तत्रागन्तुकः, यथा - स्फटिकाश्मनि लोहिताद्याकारः । कादाचित्कश्चात्मनि दोष इति । न चेदं कादाचित्कत्वमसिद्धं, सम्यग्ज्ञानादिगुणाविर्भावदशायामात्मनि दोषानुपपत्तेः ।
[मीमांसको जीवस्य स्वभावं दोषं मन्यते तस्य निराकरणम् ]
ततः प्राक् तत्सद्भावाद् गुणाविर्भूतिदशायामपि तिरोहितदोषस्य सद्भावान्न कादाचित्कत्वं, सातत्यसिद्धेरिति चेत् न, गुणस्याप्येवं सातत्यप्रसङ्गात्, तथा च हिरण्यगर्भादेर्वेदार्थज्ञानकालेऽपि वेदार्थाज्ञानप्रसङ्गः । ज्ञानाज्ञानयोः परस्परविरुद्धत्वादेकत्रैकदा न प्रसङ्ग इति चेत्, तत एव सकलगुणदोषयोरेकत्रैकदा प्रसङ्गो मा भूत् । पुनर्दोषस्याविर्भावदर्शनाद् गुणकालेऽपि सत्तामात्रसिद्धिरिति चेत्, तर्हि गुणस्यापि पुनराविर्भूतिदर्शनाद्दोषकालेऽपि सत्तामात्रसिद्धिः, सर्वथा विशेषाभावात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
द्रव्यार्थतया हानेरतद्द्रव्यस्वरूपत्वादिति भावः । कादाचित्कश्चात्मनि दोष इति, तथा च कादाचित्कत्वादज्ञानादेर्दोषस्य द्रव्यार्थतया हानिरविरुद्धेति सा चास्मदुक्तविशेषणमुद्रयैव भावनीया । कादाचित्कत्वं च यद्यपि बुद्ध्यादेरप्यस्ति तथापि अधिकृतपर्याय
Page #185
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. ४]
१५१ तथा चात्मनो दोषस्वभावत्वसिद्धिवद् गुणस्वभावत्वसिद्धिः कुतो निवार्येत ? विरोधादिति चेद्, दोषस्वभावत्वसिद्धिरेव निवार्यतां, तस्य गुणस्वभावत्वसिद्धेः । कुतः सेति चेद्, दोषस्वभावत्वसिद्धिः कुतः ? संसारित्वान्यथानुपपत्तेरिति चेत्, संसारित्वं सर्वस्यात्मनो यद्यनाद्यनन्तं तदा प्रतिवादिनोऽसिद्धं, प्रमाणतो मुक्तिसिद्धेः ।
[क्वचिदात्मनि संसारस्याभावो भवतीति जैनाचार्याः साधयन्ति] कुत इति चेदिमे प्रवदामः-क्वचिदात्मनि संसारोऽत्यन्तं निवर्तते तत्कारणात्यन्तनिवृत्त्यन्यथानुपपत्तेः । संसारकारणं हि मिथ्यादर्शनादिकमुभयप्रसिद्धं क्वचिदत्यन्तनिवृत्तिमत्, तद्विरोधिसम्यग्दर्शनादिपरमप्रकर्षसद्भावात् । यत्र यद्विरोधिपरमप्रकर्षसद्भावस्तत्र तदत्यन्तनिवृत्तिमद्भवति, यथा चक्षुषि तिमिरादि । नेदमुदाहरणं साध्यसाधनधर्मविकलं, कस्यचिच्चक्षुषि तिमिरादेरत्यन्तनिवृत्तिमत्त्वप्रसिद्धस्तद्विरोधिविशिष्टाञ्जनादिपरमप्रकर्षसद्भावसिद्धेश्च निर्विवादकत्वात् । कथं मिथ्यादर्शनादिविरोधि सम्यग्दर्शनादि निश्चीयते ? इति चेत्, तत्प्रकर्षे तदपकर्षदर्शनात् । यद्धि प्रकृष्यमाणं यदपकर्षति तत् तद्विरोधि सिद्धम् । यथोष्णस्पर्शः प्रकृष्यमाणः शीतस्पर्शमपकर्षस्तद्विरोधी । मिथ्यादर्शनादिकमपकर्षति च प्रकृष्यमाणं क्वचित्सम्यग्दर्शनादि तत् तद्विरोधि । कथं पुनः सम्यग्दर्शनादेः क्वचित्परमप्रकर्षसद्भावः सिद्धः ? इति चेत्, प्रकृष्यमाणत्वात्, यद्धि प्रकृष्यमाणं तत्क्वचित्परमप्रकर्षसद्भावभाग्दृष्टम्, यथा नभसि परिमाणम् । प्रकृष्यमाणं च सम्यग्दर्शनादि, तस्मात्परमप्रकर्षसद्भावभाक । परत्वापरत्वाभ्यां व्यभिचार इति चेत्, न तयोरपि सपर्यन्तजगद्वादिनां परमप्रकर्षसद्भावभाक्त्वसिद्धः । न चापर्यन्तं जगदिति वक्तुं शक्यं, विशिष्टसन्निवेशत्वात्पर्वतवत् । यत्पुनरपर्यन्तं तन्न विशिष्टसन्निवेशं सिद्धं, यथा व्योम, विशिष्टसन्निवेशं च जगत्, तस्मात्सर्वतः सपर्यन्तमिति निगदितमन्यत्र ।
- अष्टसहस्त्रीतात्पर्यविवरणम् - तावच्छेदकावच्छेदेन तत्त्वं द्रव्यार्थतया निःशेषहानिव्याप्यं, न च बुद्धिपर्यायत्वावच्छेदेन तत्त्वमस्ति स्वलक्षणत्वव्याघाताद्, वस्तुतः शुद्धद्रव्यार्थताया हानिरप्रसिद्धैव, आदिष्टद्रव्यार्थतया त्वज्ञानस्येव बुद्ध्यादेरपि हानेः पर्यार्यार्थतापर्यवसन्नत्वान्न दोषावहत्वं, केवलज्ञानस्यापि जे संघयणाईआ (२.३५) इत्यादिग्रन्थेन भवस्थकेवलिपर्यायतया हाने:
Page #186
--------------------------------------------------------------------------
________________
१५२
अष्टसहस्त्रीतात्पर्यविवरणम्
[अभव्यजीवेषु मिथ्यादर्शनादेः परमप्रकर्षो लभ्यते ]
संसारेणानेकान्त इति चेत्, न तस्याप्यभव्यजीवेषु परमप्रकर्षसद्भावसिद्धौ प्रकृष्यमाणत्वेन प्रतीतेः । एतेन मिथ्यादर्शनादिभिर्व्यभिचारः प्रत्याख्यातः, तेषामप्यभव्येषु परमप्रकर्षसद्भावात् । ततो नानैकान्तिकं प्रकृष्यमाणत्वं परमप्रकर्षसद्भावे साध्ये | नापि विरुद्धं, सर्वथा विपक्षाद् व्यावृत्तेः, इति क्वचिन्मिथ्यादर्शनादिविरोधिसम्यग्दर्शनादिपरमप्रकर्षसद्भावं साधयति, स च सिध्यन्मिथ्यादर्शनादेरत्यन्तनिवृत्तिं गमयति, सा च गम्यमाना स्वकार्यसंसारात्यन्तनिवृत्ति निश्चाययति । यासौ संसारस्यात्यन्तनिवृत्तिः सा मुक्तिरिति ।
तदन्यथानुपपत्तेरात्मनो ज्ञानादिगुणस्वभावत्वसिद्धेर्न दोषस्वभावत्वसिद्धिः, विरोधात् । प्रसिद्धायां क्वचिदात्मनि निःश्रेयसभाजि गुणस्वभावतायामभव्यादावपि तन्निर्णयः, जीवत्वान्यथानुपपत्तेः ।
प्रसिद्धे च सर्वस्मिन्नात्मनि ज्ञानादिगुणस्वभावत्वे दोषस्वभावत्वासिद्धेः सिद्धं दोषस्य कादाचित्कत्वमागन्तुकत्वं साधयति, ततः स एव परिक्षयी स्वनिहूस - निमित्तविवर्द्धनवशादिति सुस्पष्टमाभाति, दोषनिर्ह्रासनिमित्तस्य सम्यग्दर्शनादेर्विशेषेण वर्द्धनप्रसाधनात् । इत्यावरणस्य द्रव्यकर्मणो दोषस्य च भावकर्मणो भूभृत इव महतोऽत्यन्तनिवृत्तिसिद्धेः कर्मभूभृतां भेत्ता मोक्षमार्गस्य प्रणेता स्तोतव्यः समवतिष्ठते विश्वतत्त्वानां ज्ञाता च ॥४॥
[कर्मरहितोऽपि आत्मात्यन्तपरोक्षपदार्थान् कथं जानीयात् ?]
( भा० ) ननु निरस्तोपद्रवः सन्नात्मा कथमकलङ्कोऽपि विप्रकर्षिणमर्थं प्रत्यक्षीकुर्यात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
सम्मत्यादिसिद्धत्वेनापसिद्धान्तगन्धस्याप्यभावात्, केवलं प्रवाहतः पर्यायार्थतयाऽज्ञानादेर्हार्न तु बुद्ध्यादेः, तत्र च प्रतीत्यसमुत्पादापेक्षया द्रव्यार्थत्वमुच्यत इत्येतावान् स्वसमयसिद्धो विवेकः, तिरोभावादिना गुणवद्दोषस्य सातत्यं त्वनुपदमेव निराकरिष्यत इति सर्वमवदातम् । जीवत्वान्यथानुपपत्तेरिति जीवस्य सतोऽभव्यादेरप्यावरणवत्त्वादावरणेन च सतामेव ज्ञानादिगुणानामभिभवस्य कर्तुं शक्यत्वादभव्यादेरपि ज्ञानादिगुणस्वभावत्वमेवेत्यर्थः ।
Page #187
--------------------------------------------------------------------------
________________
१५३
प्रथमो भागः [परि०१-का. ५]
न हि नयनं निरस्तोपद्रवं विगलिततिमिरादिकलङ्कपटलमपि देशकालस्वभावविप्रकर्षभाजमर्थं प्रत्यक्षीकुर्वत् प्रतीतं, स्वयोग्यस्यैवार्थस्य तेन प्रत्यक्षीकरणदर्शनात् । निरस्तग्रहोपरागाद्युपद्रवोऽपि दिवसकर: प्रतिहतघनपटलकलङ्कश्च स्वयोग्यानेव वर्तमानार्थान् प्रकाशयन्नुपलब्धो नातीतानागतानर्थानयोग्यानिति जीवोऽपि निरस्तरागादिभावकर्मोपद्रवः सन् विगलितज्ञानावरणादिद्रव्यकर्मात्मककलङ्कोऽपि च कथं विप्रकृष्टमर्थमशेषं प्रत्यक्षीकर्तुं प्रभुः ? मुक्तात्मा भवन्नपि न चोदनाप्रामाण्यप्रतिबन्धविधायी, धर्मादौ तस्या एव प्रामाण्यप्रसिद्धः मुक्तात्मनस्तत्राप्रमाणत्वात्तस्यानन्दादिस्वभावपरिणामेऽपि धर्मज्ञत्वाभावादप्रतिषेध्यत्वात् । तदुक्तं
Tधर्मज्ञत्वनिषेधस्तु केवलोऽत्रोपयुज्यते ।
सर्वमन्यद्विजानंस्तु पुरुषः केन वार्यते ? ॥ [तत्त्वसङ्ग्रह:-३१२८] इति वदन्तमिव स्तोतुः प्रज्ञातिशयचिकीर्षया भगवन्तं प्रत्याहु:
सूक्ष्मान्तरितदूरार्थाः प्रत्यक्षाः कस्यचिद्यथा ।
अनुमेयत्वतोऽग्न्यादिरिति सर्वज्ञसंस्थितिः ॥५॥ सूक्ष्माः स्वभावविप्रकर्षिणोऽर्थाः परमाण्वादयः, अन्तरिताः कालविप्रकर्षिणो रामादयो, दूरास्तु देशविप्रकर्षिणो हिमवदादयस्ते कस्यचित्प्रत्यक्षा, अनुमेयत्वाद्यथाऽग्न्यादिरित्येवं सर्वज्ञस्य सम्यक् स्थिति: स्यात् ।
अष्टसहस्रीतात्पर्यविवरणम् यद्यपि अभव्यादावात्मनि गुणदोषोभयस्वभावत्वमविरुद्धं, परेषामवयविगुणेऽवयवगुणस्येवास्माकं विभावगुणपर्याये स्वभावगुणपर्यायस्य हेतुत्वसम्भवात्, शुद्धात्मत्वावृतत्वावच्छेदकभेदेन चोभयसमावेशस्याप्यविरोधादात्माष्टकनिर्देशकपारमर्षस्य (भग० १२.१०.१) अप्येतदर्थानुकूलत्वात् तथापि प्राधान्येन व्यपदेशा भवन्तीति न्यायानुसारिणीयमुक्तिरिति ध्येयम् ॥४॥
यथाऽग्न्यादिरिति । तथा च कारिकायाम् अनुमेयत्वतोऽग्न्यादिः इत्यत्राग्न्यादिरित्यतः प्राग् यथेत्यध्याहृत्य योजनीयम्, अन्यथा शाब्दबोधानुपपत्तेरिति ध्येयम् । तस्य स्वभावभेदाभावादिति यद्यपि स्वभावभेदाभावेऽप्यनुकूलतर्कानवतारेऽप्रयोजकत्वशङ्का
Page #188
--------------------------------------------------------------------------
________________
१५४
अष्टसहस्त्रीतात्पर्यविवरणम्
[सूक्ष्माद्यर्था येन प्रकारेण कस्यचित् प्रत्यक्षाः दृष्टाः तेनैव साध्यन्तेऽन्यप्रकारेण वा ?] अथ मतमेतत्
सूक्ष्मादयोऽर्था यथाभूताः कस्यचित्प्रत्यक्षा दृष्टास्तथाभूता एव तथानुमेयत्वेन साध्यन्तेऽन्यथाभूता वा ? यथाभूताश्चेत्सिद्धसाध्यता, सूक्ष्माणां सहस्रधा भिन्नकेशाग्रादीनामन्तरितानां च प्रपितामहादीनां दूरार्थानां च हिमवदादीनां कस्यचित्प्रत्यक्षत्वप्रसिद्धः । अन्यथाभूतानां तु कस्यचित्प्रत्यक्षत्वसाधनेऽनुमेयत्वादित्यप्रयोजको हेतुः क्ष्माधरादीनां बुद्धिमत्कारणत्वे साध्ये सन्निवेशविशिष्टत्वादिवत् । धर्म्यसिद्धिश्च, परमाण्वादीनामप्रसिद्धत्वात् इति तदयुक्तं, विवादाध्यासितानां सूक्ष्माद्यर्थानां कस्यचित्प्रत्यक्षत्वेन साध्यत्वाद् 'अप्रसिद्ध साध्यमिति' वचनात् । धर्मादयो हि कस्यचित्प्रत्यक्षत्वेन वादिप्रतिवादिनोविवादापन्नास्ते एव कस्यचित्प्रत्यक्षा इति साधयितुं युक्ता न पुनरन्ये, न चैवं धर्म्यसिद्धिः, धादीनामसर्वज्ञवादिनोऽपि याज्ञिकस्य सिद्धत्वात् । नन्वेवं भूधरादीनां धीमद्धेतुकतया विवादापन्नानां तथा साध्यत्वे कथमप्रयोजको हेतुः सन्निवेशविशिष्टत्वादिरिति चेत् स्वभावभेदात् ।
अष्टसहस्रीतात्पर्यविवरणम्
हितव्यभिचारसंशयोऽनुमिति प्रतिबध्नीयात्, स्वभावभेदेऽपि च क्षित्यादिकं सकर्तृकं कार्यत्वादित्यत्र कार्यत्वावच्छिन्नं प्रति कर्तृत्वेन कारणत्वनिश्चयाल्लाघवतर्कानवतारे नाप्रयोजकत्वमिति नैयायिकैरिष्यते तथा च प्रकृतेऽनुकूलतर्काभावादप्रयोजकत्वं स्यादिति शक्यं शङ्कितुम्, तथापि प्रकृते निरुपाधिसहचारस्यैवानुकूलतर्कस्य सत्त्वान्नाप्रयोजकत्वमित्यत्र तात्पर्यं द्रष्टव्यम् । ईश्वरसाधकानुमानखण्डनं तु मीमांसकेन कार्यत्वावच्छिन्ने कर्तृत्वेन हेतुतारूपानुकूलतर्कखण्डनेनैव विधेयम्, घटादौ कुलालादेविशिष्यहेतुतावश्यकत्वे सामान्यतः कार्यत्वावच्छिन्ने कर्तृत्वेन हेतुत्वे मानाभावात्, 'यद्विशेषयोः' इत्यादिन्यायस्य नियुक्तिकत्वादन्यथा करणस्याप्येकस्य सिद्ध्यापत्तेः । यत्तु घटत्वावच्छिन्नेऽपि न कुलालत्वादिना कलालादिकतित्वादिना वा हेतत्वं खण्डघटाद्यत्पत्तिकाले कलालादिकतेरसत्त्वात. किन्तु कर्तत्वेन कतित्वेन वेतीश्वरसिद्धिरिति दीधितिकतोक्तं तदयक्तं, कलालादिकते: स्वप्रयोज्यविजातीयसंयोगसम्बन्धेन तत्कालेऽपि सत्त्वात्, वैशेषिकनये श्यामघटादिनाशोत्तरं रक्तघटाद्युत्पतिकाले प्राक्तनपरमाणुद्वयसंयोगद्व्यणुकादिनाशेऽपि पूर्वसंयोगादिध्वंसानामुत्तरसंयोगादौ कालोपाधितयाऽपि जनकत्वात्, तत्कालेऽपि कुलालादिकृतेः स्वप्रयोज्य
Page #189
--------------------------------------------------------------------------
________________
१५५
प्रथमो भागः [परि० १-का. ५] यादृशमभिनवभवनादिषु सन्निवेशविशिष्टत्वमक्रियादर्शिनोऽपि कृतबुद्ध्युत्पादकं धीमद्धेतुकत्वेन व्याप्तं प्रतिपन्नं तादृशमेव जीर्णप्रासादादिषूपलभ्यमानं धीमद्धेतुकत्वस्य प्रयोजकं स्यान्नान्यादृशं भूधरादिषु प्रतीयमानमकृतबुद्ध्यूत्पादकमिति स्वयं मीमांसकैरभिधानात् । नैवमनुमेयत्वं, तस्य स्वभावभेदाभावात् । न हि साध्याविनाभावनियमनिश्चयैकलक्षणलिङ्गजनितज्ञानविषयत्वमनुमेयत्वमग्न्यादौ धर्मादौ च लिङ्गिनि भिद्यते येन किञ्चित्प्रयोजकमपरमप्रयोजकमिति विभागोऽवतरेत् ।
[परोक्षवर्तिपदार्थान् ज्ञापयितुमनुमेयत्वहेतुरसिद्ध इति मान्यतायां प्रत्युत्तरम्]
(भा० ) स्वभावकालदेशविप्रकर्षिणामनुमेयत्वमसिद्धमित्यनुमानमुत्सारयति यावान् कश्चिद् भावः स सर्वः क्षणिक इत्यादिव्याप्तेरसिद्धौ प्रकृतोपसंहारायोगादविप्रकर्षिणामनुमितेरानर्थक्यात् । सत्त्वादेरनित्यत्वादिना व्याप्तिमिच्छतां सिद्धमनुमेयत्वमनवयवेनेति न किञ्चिद् व्याहतं पश्यामः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
विजातीयसंयोगेन विद्यमानत्वाविरोधादन्यथा दण्डादिहेतुताया अपि दुर्घटत्वात्, घटत्वाद्यवच्छिन्ने विजातीयकृतित्वेन तद्वत्त्वेन वा हेतुत्वे सम्भवति व्यापकधर्मेण कृतित्वेन कृतिमत्त्वेन वा हेतुत्वायोगाच्चेति दिक् । हेत्वसिद्धि परिहर्तुमाह-भाष्यकृत् स्वभावेत्यादि । इत्यनुमानमुत्सारयतीति इति वदन्ननुमानमात्रमुच्छेदयतीत्यर्थः, अत्रानुमानोत्सारकत्वम् अनुमानदूषणत्वं, तच्च यद्यपि हेत्वसिद्धेर्न त्वसिद्धस्य हेतोस्तथापि 'सविशेषणे हि' इतिन्यायानुसरणाददोषः । यावानिति तथा च मीमांसकस्यापि पर्यायत्वादिना धर्मादेरनेकक्षणास्थायित्वरूपक्षणिकत्वानुमितौ सर्वोपसंहारेण व्याप्तिग्राहकस्यावश्यानुसरणीयत्वात्तस्य चानुमानरूपत्वाद्विप्रकर्षिणामननुमेयत्वे सामान्यव्याप्तिमूलकानुमित्यनुपपत्तिरित्यर्थः । अविप्रकर्षिणामिति आनर्थक्यादिति प्रत्यक्षादिना सिद्धौ सत्यां तत्प्रतिबन्धेनानुमितेरलब्धास्पदत्वादित्यर्थः । तथा च प्रत्यक्षीभूतसाध्यहेतुव्यक्तिकव्याप्तिमूलानुमितेरप्यनुपपत्तिरित्यनुमानमात्रोच्छेदो व्यक्त एव तद्भयेन विप्रकर्षिणामप्यवश्यमनुमेयत्वमभ्युपगन्तव्यमिति नासिद्धता हेतोरित्याह-सत्त्वादिनेति' इतः पूर्वं तथा चेति शेषः । हेतुद्वयस्यानिष्टप्रसङ्गे योजितत्वेनेष्टसिद्धिहेतो रित्थमेव लाभादन्यथा हेत्वाकाङ्क्षानुपरमापत्तेरिति ध्येयम् । अनवयवेनेति कात्स्न्येनेत्यर्थः । वृत्तौ ततो
१. 'सत्वादेरनित्यत्वादिना' इति अष्टसहस्रीसम्मतः पाठः ।
Page #190
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम्
स्यान्मतं-केचिदर्थाः प्रत्यक्षा, यथा घटादयः, केचिदनुमेया ये कदाचित्क्वचित् प्रत्यक्षप्रतिपन्नाविनाभाविलिङ्गाः केचिदागममात्रगम्याः सर्वदा स्वभावादिविप्रकर्षिणो धर्मादयः, तेषां सर्वप्रमातृसम्बन्धिप्रत्यक्षादिगोचरत्वायोगात् । तदुक्तं
सर्वप्रमातृसम्बन्धिप्रत्यक्षादिनिवारणात् ।
केवलागमगम्यत्वं लप्स्यते पुण्यपापयोः ॥ इति । [त० श्लो० वा० १.१८] ततो धर्मादीनामनुमेयत्वमसिद्धमुद्भावयन्नपि नानुमानमुत्सारयति, तस्यानुमेयेऽर्थे व्यवस्थानात् इति, तदसत्, धर्मादीनामप्यनित्यत्वादिस्वभावतयानुमेयत्वोपपत्तेः ।
१५६
[धर्माधर्मादिपर्यायाः अनित्याः सन्ति पर्यायत्वात् इति जैनाः कथयन्ति ।]
तथा हि-यावान्कश्चिद्भावः पर्यायाख्यः स सर्वोऽनेकक्षणस्थायितया क्षणिको यथा घटस्तथा च धर्मादिरिति मीमांसकैरपि कुतश्चित् पर्यायत्वादेरनित्यत्वेन व्याप्तिः साधनीया, तदसिद्धौ प्रकृतेऽपि धर्मादौ पर्यायश्च धर्मादिरित्युपसंहारायोगात् । कथं चायं स्वभावादिविप्रकर्षिणामनुमेयत्वमसिद्धमभिदधानः सुखादीनामविप्रकर्षिणामनुमितेरानर्थक्यं परिहरेत् ? शश्वदविप्रकर्षिणामनुमितेरनिष्टेरदोष इति चेत्, क्व पुनरियमनुमितिः स्यात् ? कदाचिद् विप्रकर्षिणामन्यदा देशादिविप्रकृष्टानां प्रतिपन्नाविनाभाविलिङ्गानामनुमितिरिति चेत्, कथमेवं शश्वदप्रत्यक्षाया बुद्धेरनुमानं यत इदं शोभेत ? ज्ञाते त्वर्थेऽनुमानादवगच्छति बुद्धिम् इति [ ]। अर्थापत्तेर्बुद्धिप्रतिपत्तेरदोष इति चेद्, धर्मादिप्रतिपत्तिरपि तत एवास्तु । यथैव हि बहिरर्थपरिच्छित्त्यन्यथानुपपत्तेर्बुद्धिप्रतिपत्तिस्तथा श्रेयः प्रत्यवायाद्यन्यथानुपपत्त्या धर्माधर्मादिप्रतिपत्तिरपि युक्ता भवितुम् । श्रेयः प्रत्यवायादेरन्यथाप्युपपत्तेः क्षीणार्थापत्तिरिति चेत्, न तदुत्पत्तौ दृष्टकारणव्यभिचाराददृष्टकारणप्रतिपत्तेः, रूपादिज्ञानादिन्द्रियशक्तिप्रतिपत्तिवत्, न चार्थापत्तिरनुमानादन्यैव, अनुमानस्यैवार्थापत्तिरिति नामकरणात् । ततो बुद्ध्यादेः शश्वद्विप्रकर्षिणोऽनुमेयत्वसिद्धौ धर्मादेरपि तत्सिद्धिः । ये तु ताथा
अष्टसहस्त्रीतात्पर्यविवरणम्
धर्मादीनामिति आगमैकगम्यानां धर्मादिपदार्थानामनुमेयत्वासिद्धयुद्भावयितुर्नानुमानमात्रोच्छेदकत्वं पृथगवस्थितेऽनुमेयेऽर्थेऽनुमानप्रवृत्तेरस्खलितत्वादित्यर्थः । तदाहतस्यानुमेयेऽर्थे व्यवस्थानादिति तस्य = अनुमानस्य, व्यवस्थानाद् = लब्धास्पदत्वात् ।
Page #191
--------------------------------------------------------------------------
________________
प्रथमो भाग: [ परि० १ - का० ५ ]
गतादयः सत्त्वकृतकत्वादेरनित्यत्वादिना व्याप्तिमिच्छन्ति तेषां सिद्धमनुमेयत्वमनवयवेनेति न किञ्चिद् व्याहतमसर्वज्ञवादिनां सर्वज्ञवादिनां च स्वभावादिविप्रकृष्टेष्वर्थेष्वनुमेयत्वव्यवस्थितेः । एतेनात्यन्तपरोक्षेष्वर्थेष्वनुमेयत्वाभावाद्भागासिद्धमनुमेयत्वमित्येतदपि प्रत्याख्यातं, तेषामपि कथञ्चिदनेकान्तात्मकत्वादिस्वभावतयानुमेयत्वसिद्धेः ।
[अनुमेयत्वं श्रुतज्ञानाधिगम्यत्वमित्यपि अर्थो भवितुमर्हति]
अथवानुमेयत्वं श्रुतज्ञानाधिगम्यत्वं हेतुः, मतेरनु पश्चान्मीयमानत्वाद्, अनुमेयाः सूक्ष्मादयोऽर्था इति व्याख्यानान्मतिपूर्वज्ञानस्य श्रुतत्वात्,
श्रुतं मतिपूर्वम् इति वचनात् [ तत्वार्थ० १.२० ] ।
न चैतदसिद्धं प्रतिवादिनोऽपि सर्वस्य श्रुतज्ञानाधिगम्यत्वोपगमात् । चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवंजातीयकमर्थमवगमयितुमलमिति स्वयमभिधानात् । तदुक्तं तत्त्वार्थश्लोकवार्तिके
सूक्ष्माद्यर्थोऽपि चाध्यक्षः कस्यचित्सकलः स्फुटम् । श्रुतज्ञानाधिगम्यत्वान्नदीद्वीपादिदेशवत् ॥
१५७
न हेतोः सर्वथैकान्तैरनेकान्तः कथञ्चन । श्रुतज्ञानाभिगम्यत्वात्तेषां दृष्टेष्टबाधनात् ॥
अष्टसहस्त्रीतात्पर्यविवरणम्
एतेनेत्यादि एतेन=विप्रकर्षिणामनुमेयत्वव्यवस्थापनेन । भागासिद्धमिति विप्रकर्षिणामेवार्थानां पक्षत्वे भागासिद्धत्वमप्रसक्तमिति तन्निषेधोऽयुक्तः 'प्रसक्तमेव प्रतिषिध्यत' इति न्यायात् तथापि पदार्थत्वावच्छेदेन प्रत्यक्षत्वसाधनेऽयमाक्षेपपरिहारश्चतुरस्र इति मन्तव्यम् । अनुमेयत्वहेतोरर्थान्तरेणाप्युभयवादिसिद्धतां प्रदर्शयन्नज्ञानासिद्धि परि जिहीर्षुराह अथवानुमेयत्वमित्यादि । न हेतोरिति सर्वथैकान्तेषु श्रुतज्ञानाधिगम्यत्वमस्ति प्रत्यक्षत्वं च नास्तीति हेतोर्व्यभिचारित्वं नोद्भावनीयम्, यतस्तेषां दृष्टेष्टबाधितत्वमस्ति अबाधितश्रुतज्ञानविषयत्वं च हेतुविवक्षितः स च श्रुताज्ञानविषये नास्तीति । एतेन अत्यन्तासत्यपि इति न्यायेन शाब्दबोधविषये शशशृङ्गादावपि न व्यभिचार इत्युक्तं भवति ।
Page #192
--------------------------------------------------------------------------
________________
१५८
अष्टसहस्त्रीतात्पर्यविवरणम् स्थानत्रयाविसंवादि श्रुतज्ञानं हि वक्ष्यते ।
तेनाधिगम्यमानत्वं सिद्धं सर्वत्र वस्तुनि ॥३॥ इति [१.१०-११-१२] ततोऽनुमेयाः सूक्ष्माद्यर्थाः कस्यचित्प्रत्यक्षाः सिद्धा एव ।
[सर्वेऽप्यर्थाः अनुमेयाः स्युः प्रत्यक्षाश्च न स्युः, का हानि: ?] (भा० ) तेऽनुमेया, न कस्यचित्प्रत्यक्षाश्च स्युः, किं व्याहन्यते ? इति समानमग्न्यादीनाम् ।
अग्न्यादयोऽनुमेयाः स्युः कस्यचित्प्रत्यक्षाश्च न स्युरिति । ( भा० ) तथा चानुमानोच्छेदः स्यात् ।
सर्वानुमानेषूपालम्भस्य समानत्वात् । शक्यं हि वक्तुं धूमश्च क्वचित्स्यादग्निश्च न स्यादिति ।
[प्रत्यक्षैकप्रमाणवादिनं चार्वाकमनुमानप्रमाणं स्वीकारयन्ति जैनाचार्याः] (भा०) तदभ्युपगमेऽस्वसंवेद्यविज्ञानव्यक्तिभिरध्यक्षं किं लक्षयेत् प्रमाणतया परमप्रमाणतयेति न किञ्चिदेतत् तया नैतत्तया वा अयमभ्युपगन्तुमर्हति ।
प्रत्यक्षं प्रमाणमविसंवादित्वादनुमानादिकमप्रमाणं, विसंवादित्वादिति लक्षयतोऽनुमानस्य बलाद् व्यवस्थितेर्न प्रत्यक्षमेकमेव प्रमाणमिति व्यवतिष्ठते । ततोऽनुमानमिच्छता याज्ञिकेनेव लौकायतिकेनापि प्रसिद्धाविनाभावनियमनिश्चयलक्षणादनुमेयत्वहेतोः सूक्ष्माद्यर्थानां कस्यचित्प्रत्यक्षत्वसिद्धिरेषितव्या । [मीमांसको ब्रूते न कश्चित् सूक्ष्माद्यर्थान् प्रत्यक्षीकर्तुं क्षमः प्रमेयत्वादित्यादिस्तस्य निराकरणं
कुर्वन्ति जैनाचार्याः] स्यान्मतं, बाधितविषयोऽयं हेतुरनुमानेन पक्षस्य बाधनात् । तथा हि-न कश्चित् सूक्ष्माद्यर्थसाक्षात्कारी, प्रमेयत्वात्सत्त्वाद्वस्तुत्वादस्मदादिवत् । न चेदं
- अष्टसहस्त्रीतात्पर्यविवरणम् स्थानत्रयाविसंवादि=सूक्ष्मान्तरितदूरस्थलत्रयेऽपि विसंवादरहितम् । अप्रयोजकत्वशङ्कानिरासपरः तेऽनुमेया इत्यादिर्भाष्यवृत्तिग्रन्थस्तत्र बीजं निरुपाधिसहचार एव, ज्ञानं
Page #193
--------------------------------------------------------------------------
________________
प्रथमो भाग: [ परि० १ - का० ५]
साधनमसिद्धं व्यभिचारि वा, प्रत्यक्षाद्यविसंवादित्वात् । तदुक्तं
प्रत्यक्षाद्यविसंवादि प्रमेयत्वादि यस्य तु ।
सद्भाववारणे शक्तं को नु तं कल्पयिष्यति ॥ इति । [ मीमांसा श्लोकवार्तिकम् - १३२] तदप्यसम्यक्, तत एव कस्यचित्सूक्ष्माद्यर्थसाक्षात्कारित्वसिद्धेः । सूक्ष्माद्यर्थाः कस्यचित्प्रत्यक्षाः प्रमेयत्वात्सत्त्वाद्वस्तुत्वाद्वा स्फटिकादिवत् । अनुमेयेनात्यन्तपरोक्षेण चार्थेन व्यभिचार इति चेत्, न तस्य पक्षीकरणात् ।
१५९
( भा० ) तदेवं प्रमेयत्वसत्त्वादिर्यत्र हेतुलक्षणं पुष्णाति तं कथं चेतनः प्रतिषेद्धुमर्हति संशयितुं वा ? |
सूक्ष्माद्यर्थसाक्षात्कारिणस्तस्यैव सुनिश्चितासम्भवद्बाधकत्वादस्तित्वसिद्धेरबाधितविषयत्वस्यापि परोपगतहेतुलक्षणस्य प्रकृतहेतोः पोषणात् ।
[सर्वज्ञास्तित्वे साध्ये हेतुः सर्वज्ञभावधर्मोऽभावधर्म उभयधर्मो वेति प्रश्ने विचारः क्रियते जैनाचार्यैः]
ननु च सर्वज्ञस्यास्तित्वे साध्ये सुनिश्चितासम्भवद्द्बाधकप्रमाणत्वं हेतुः सर्वज्ञभावधर्मश्चेदसिद्धः । को हि नाम सर्वज्ञभावधर्मं हेतुमिच्छन् सर्वज्ञमेव नेच्छेत् ? । सर्वज्ञाभावधर्मश्चेद्विरुद्धः, ततः सर्वज्ञनास्तित्वस्यैव सिद्धेः । सर्वज्ञभावाभावधर्मश्चेद् व्यभिचारी, सपक्षविपक्षयोर्वृत्तेः ? तदुक्तम्
असिद्धो भावधर्मश्चेद्व्यभिचार्युभयाश्रयः ।
विरुद्धो धर्मोऽभावस्य स सत्तां साधयेत् कथम् ? ॥ इति । [ ] ( भा० ) धर्मिण्यसिद्धसत्ताके भावाभावोभयधर्माणामसिद्धविरूद्धा
अष्टसहस्त्रीतात्पर्यविवरणम्
क्वचिदाश्रितं गुणत्वादित्याद्यनुमानसहस्रे तस्यैव तर्कस्य सम्भवाल्लाघवादिरपि तस्यैवोपजीव्यत्वादिति ध्येयम् । यत्र = सर्वज्ञे साध्ये, तं = सर्वज्ञम्, कथमिति न कथञ्चिदित्यर्थः । न च उक्तदिशा सत्प्रतिपक्षावतारादत्र हेत्वाभासत्वमित्यपि शङ्कनीयम्, एकत्र साध्यतदभावसाधकहेतुद्वयोपनिपात एव तदभिधानात् सूक्ष्माद्यर्थानां प्रत्यक्षत्वे साध्ये तदभावसाधकहेत्वनुत्थानात्, सूक्ष्माद्यर्थसाक्षात्कारिणोऽसिद्धौ तन्नास्तित्वसाधकस्य चाश्रयासिद्धत्वादिति भावः । दिङ्नागमतमालम्ब्य शङ्कते ननु च सर्वज्ञस्येत्यादि । अनुमान
Page #194
--------------------------------------------------------------------------
________________
१६०
अष्टसहस्त्रीतात्पर्यविवरणम् नैकान्तिकत्वात्कथं सकलविदि सत्त्वसिद्धिरिति ब्रुवन्नपि देवानांप्रियस्तद्धर्मिस्वभावं न लक्षयति ।
स हि तावदेवं सौगतमतमाश्रित्य ब्रुवाणः प्रष्टव्यः
(भा०) शब्दानित्यत्वसाधनेऽपि कृतकत्वादावयं विकल्पः किं न स्याद् ? इति ।
शक्यं हि वक्तुं, कृतकत्वादिहेतुर्यद्यनित्यशब्दधर्मस्तदाऽसिद्धः । को नामानित्यशब्दधर्मं हेतुमिच्छन्ननित्यशब्दमेव नेच्छेत् ? अथ नित्यशब्दधर्मस्तदा विरुद्धः, साध्यविरुद्धसाधनात्, अथोभयधर्मस्तदा व्यभिचारी, सपक्षेतरयोवर्तमानत्वात्, इति सर्वानुमानोच्छेदः, क्वचित्पावकादौ साध्ये धूमवत्त्वादावपि विकल्पस्यास्य समानत्वात् ।
(भा०) विमत्यधिकरणभावापन्नविनाशर्मिधर्मत्वे कार्यत्वादेरसम्भवबाधकत्वादेरपि सन्दिग्धसद्भावधर्मिधर्मत्वं सिद्धं बोद्धव्यम् ।
[मीमांसको ब्रूते जैनानां सर्वज्ञधर्मी प्रसिद्धसत्ताको नास्तीति जैनाचार्याः समादधति ।]
ननु च शब्दादेर्धर्मिणः शब्दत्वादिना प्रसिद्धसत्ताकस्य सन्दिग्धानित्यत्वादिसाध्यधर्मकस्य धर्मो हेतुः कृतकत्वादिरिति युक्तं, सर्वथाप्यसिद्धसत्ताकस्य तु सर्वज्ञस्य कथं विवादापन्नसद्भावधर्मकस्य धर्मो हेतुरसम्भवद्बाधकत्वादियुज्यते, प्रसिद्धो धर्मी अप्रसिद्धधर्मविशेषणविशिष्टतया स्वयं साध्यत्वेनेप्सितः पक्ष इति वचनात्, [ ] कथञ्चिदप्यप्रसिद्धस्य धर्मित्वायोगात्, इति कश्चित्, सोऽपि यदि सकलदेशकालवतिनं शब्दं धर्मिणमाचक्षीत तदा कथं प्रसिद्धो धर्मीति ब्रूयात् ? तस्याप्रसिद्धत्वात् । परोपगमात्सकलः शब्दः प्रसिद्धो धर्मीति चेत्, स्वाभ्युपगमात्सर्वज्ञः प्रसिद्धो धर्मी किन्न भवेत् ? हेतुधर्मवत् । परं प्रति समर्थित एव हेतुधर्मः साध्यसाधन इति चेत्, धर्म्यपि परं प्रति समर्थित एवास्तु, विशेषाभावात् ।
अष्टसहस्रीतात्पर्यविवरणम् मात्रोच्छेदकत्वादयं विकल्पो नाश्रयणीय इत्याशयवानुत्तरयति-स हि तावदेवमित्यादिना ।
Page #195
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि. १-का. ५]
१६१ [धर्मिणः सत्ता सर्वथा प्रसिद्धास्ति कथञ्चिद्वा ?] किञ्च सर्वथा प्रसिद्धसत्ताको धर्मी कथञ्चिद्वा ? सर्वथा चेत्, शब्दादिरपि धर्मी न स्यात्, तस्याप्रसिद्धसाध्यधर्मोपाधिसत्ताकत्वात् । कथञ्चित्प्रसिद्धसत्ताक: शब्दादिर्धर्मीति चेत्, सर्वज्ञः कथं धर्मी न स्यात् ? प्रसिद्धात्मत्वादिविशेषणसत्ताकस्याप्रसिद्धसर्वज्ञत्वोपाधिसत्ताकस्य च धर्मिणोऽभ्युपगमे सर्वथा नाप्रसिद्धसत्ताकत्वं, कथञ्चित्प्रसिद्धसत्ताकत्वात् । स्याद्वादिनो हि कश्चिदात्मा सर्वज्ञोऽस्तीति पक्षप्रयोगमाचक्षते, नान्यथा, ततोऽयमुपालभमानो धर्मिस्वभावं न लक्षयत्येव, प्रकृतानुमाने सर्वज्ञस्य धर्मित्वावचनाच्च । सूक्ष्माद्यर्था एव ह्यत्र धर्मिणः प्रसिद्धा युक्तास्तावत्प्रसिद्धसत्ताका एव, परमाण्वादीनामपि प्रमाणसिद्धत्वेन वक्ष्यमाणत्वात् ।
[सूक्ष्मादिपदार्था इन्द्रियप्रत्यक्षेण कस्यचित् प्रत्यक्षाः सन्ति मानसप्रत्यक्षेण वा ?]
ननु सूक्ष्मादयोऽर्थाः किमिन्द्रियप्रत्यक्षेण कस्यचित्प्रत्यक्षाः साध्या उतातीन्द्रियप्रत्यक्षेण ? प्रथमविकल्पेऽनुमानविरुद्धः पक्षः, सूक्ष्माद्यर्था न कस्यचिदिन्द्रियज्ञानविषयाः, सर्वथेन्द्रियसम्बन्धरहितत्वात् । ये तु कस्यचिदिन्द्रियज्ञानविषयास्ते न सर्वथेन्द्रियसम्बन्धरहिता दृष्टाः, यथा घटादयः । सर्वथेन्द्रियसम्बन्धरहिताश्च सूक्ष्माद्यर्थास्तस्मान्न कस्यचिदिन्द्रियज्ञानविषयाः इति केवलव्यतिरेकिणानुमानेन बाध्यमानत्वात् । न च सर्वथेन्द्रियसम्बन्धरहितत्वमसिद्धं, साक्षात्परमाणुधर्मादीनामिन्द्रियसम्बन्धाभावात् । तथा हि-न कस्यचिदिन्द्रियं साक्षात्परमाण्वादिभिः सम्बध्यते, इन्द्रियत्वादस्मदादीन्द्रियवत् ।
[नैयायिको ब्रूते योगजधर्मानुगृहीतेन्द्रियाणि परमाण्वादीन् पश्यन्ति तस्य निराकरणम्]
योगजधर्मानुगृहीतमिन्द्रियं योगिनस्तैः साक्षात्सम्बध्यते इति चेत्, कोऽयमिन्द्रियस्य योगजधर्मानुग्रहो नाम ? स्वविषये प्रवर्तमानस्यातिशयाधानमिति चेत्, तदसम्भव एव, परमाण्वादौ स्वयमिन्द्रियस्य प्रवर्तनाभावात्, प्रवर्तने वा योगज
अष्टसहस्त्रीतात्पर्यविवरणम्
न सम्बध्यत इति न साक्षात्कारजनकप्रत्यासत्त्याश्रयो भवतीत्यर्थः, तेन यं कञ्चित् सम्बन्धमादाय न बाधः । प्रवर्त्तनाभावाद् द्रव्यचाक्षुषादिजनकविलक्षणचक्षुःसंयोगादि
Page #196
--------------------------------------------------------------------------
________________
१६२
अष्टसहस्त्रीतात्पर्यविवरणम् धर्मानुग्रहस्य वैयर्थ्यात्, तत एवेन्द्रियस्य परमाण्वादिषु प्रवृत्तौ परस्पराश्रयप्रसङ्गः, सतीन्द्रियस्य योगजधर्मानुग्रहे परमाण्वादिषु प्रवृत्तिः, सत्यां च तस्यां योगजधर्मानुग्रह इति । परमाण्वादिष्विन्द्रियस्य प्रवृत्तौ सहकारित्वं योगजधर्मानुग्रह इति चेत्, न स्वविषयातिक्रमेण तस्य तत्र तदनुग्रहायोगात्, अन्यथा कस्यचिदेकस्येन्द्रियस्य सकलरसादिषु प्रवृत्तौ तदनुग्रहप्रसङ्गात् । दृष्टविरोधान्नैवमिति चेत्, समानमन्यत्र । यथैव हि चक्षुरादीनि प्रतिनियतरूपादिविषयाणि दृष्टानि नाप्रतिनियतसकलरूपादिविषयाणि तथोपलब्धिलक्षणप्राप्तानि महत्त्वोपेतानि पृथिव्यादिद्रव्याणि तत्समवेतरूपादीनि चक्षुरादीन्द्रियगोचरतया प्रसिद्धानि, न पुनः परमाण्वादीनि । समाधिविशेषोत्थधर्ममाहात्म्याद् दृष्टातिक्रमेण परमाण्वादिषु चक्षुरादीनि प्रवर्तन्ते न पुना रसादिष्वेकमिन्द्रियम्, इति न किञ्चिद्विशेषव्यवस्थानिबन्धनमन्यत्र जाड्यात् । एतेन परम्परया परमाणुरूपादिष्विन्द्रियसम्बन्धः प्रतिध्वस्तः, संयोगाभावे संयुक्तसमवायादीनामसम्भवात् श्रोत्रे सकलशब्दसमयावासम्भवे शब्दत्वेन समवेतसमवायासम्भववत् ।
[मानसप्रत्यक्षेणापि सूक्ष्मादिपदार्थस्य ज्ञानं न भवति] यदि पुनरेकमेवान्तःकरणं योगजधर्मानुगृहीतं युगपत्सकलसूक्ष्माद्यर्थविषयमिष्यते तदापि दृष्टातिक्रम एव, मनसो युगपदनेकत्र विषये प्रवृत्त्यदर्शनात् । तत्र दृष्टातिक्रमेष्टौ वा स्वयमात्मैव समाधिविशेषोत्थधर्मविशेषवशादन्तःकरणनिरपेक्षः साक्षात् सूक्ष्माद्यर्थान् पश्यतु किमिन्द्रियेणेवान्त:करणेन ? तथा च नेन्द्रियज्ञानेन कस्यचित्प्रत्यक्षाः सूक्ष्माद्याः सम्भाव्यन्ते । अतीन्द्रियप्रत्यक्षेण कस्यचित्प्रत्यक्षाः साध्यन्ते इति चेदप्रसिद्धविशेषणः पक्षः, क्वचिदतीन्द्रियज्ञानप्रत्यक्षत्वस्याप्रसिद्धः साङ्ख्यं प्रति विनाशी शब्द इत्यादिवत् । साध्यशून्यश्च दृष्टान्तः स्यादग्न्यादेरतीन्द्रियप्रत्यक्षविषयत्वाभावात् इति केचित्तेऽपि न सम्यग्वादिनः ।
- अष्टसहस्त्रीतात्पर्यविवरणम्
रूपव्यापारजननाभावादित्यर्थः । किमिन्द्रियेणेवान्तःकरणेनेति साक्षात्कारत्वावच्छिन्नं प्रतीन्द्रियत्वेनेव जन्यज्ञानत्वावच्छिन्नं प्रति मनस्त्वेनापि हेतुत्वाभावात् योगजधर्मानुगृहीतात्मन एव साक्षात् सूक्ष्मार्थदर्शित्वौचित्यादिति भावः । न च श्रवणादिजन्यतावच्छेदिका मोक्षजनकतावच्छेदिका च तत्त्वज्ञाननिष्ठामानसत्वव्याप्या जातिः कल्प्यत इति योगिज्ञानं
Page #197
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का०५]
१६३
[इन्द्रियानिन्द्रयानपेक्षप्रत्यक्षेण सूक्ष्मादिपदार्थाः ज्ञायन्ते इति स्याद्वादिभिः कथ्यते]
सूक्ष्माद्यर्थानामिन्द्रियजप्रत्यक्षेण कस्यचित्प्रत्यक्षत्वासाधनात्तत्पक्षनिक्षिप्तदोषानवतारात् । तथा साधयतां स्याद्वादिभिरपि तद्दोषसमर्थनात् । नाप्यतीन्द्रियप्रत्यक्षेण कस्यचित्प्रत्यक्षत्वं साध्यते येनाप्रसिद्धविशेषणः पक्षः ।
साध्यशून्यश्च दृष्टान्तः स्यात् ।
प्रत्यक्षसामान्येन कस्यचित्सूक्ष्माद्यर्थप्रत्यक्षत्वसाधनात्, प्रसिद्धे च सूक्ष्माद्यर्थानां सामान्यतः कस्यचित्प्रत्यक्षत्वे सर्वज्ञत्वस्य सम्यस्थित्युपपत्तेस्तत्प्रत्यक्षस्येन्द्रियानिन्द्रियानपेक्षत्वं सिद्ध्यत्येव । तथा हि- योगिप्रत्यक्षमिन्द्रियानिन्द्रियानपेक्षं, सूक्ष्माद्यर्थविषयत्वात् । यन्नेन्द्रियानिन्द्रियानपेक्षं तन्न सूक्ष्माद्यर्थविषयं दृष्टं, यथा
अष्टसहस्त्रीतात्पर्यविवरणम्
मानसमेवेत्यपि वक्तुं युक्तम्, मानससामग्र्याः सर्वापेक्षया दुर्बलत्वेन चाक्षुषादिसामग्रीकाले तदनुत्पत्त्यापत्तेर्भोगेतरत्ववत्तत्त्वज्ञानेतरत्वस्यापि चाक्षुषसामग्र्यादिप्रतिबध्यतावच्छेदककोटौ दाने च महागौरवात्, किञ्चैवं योगजधर्मानुग्रहस्य योगिन आत्मनि सदा सत्त्वेन तत्त्वज्ञानेतरज्ञानस्य कदाप्यनुत्पत्तिप्रसङ्गस्तथा चापसिद्धान्तः परेषां ध्यानस्तमित्यदशायामेव तैस्तत्त्वज्ञानस्यान्यदा च योगिनां चाक्षुषादिज्ञानस्याभ्युपगमात् । एतेन भोगान्यज्ञानप्रतिबन्धकतावच्छेदकतया समानीतजातिविशेषवतां सुखदुःखानामिव तत्त्वज्ञानेतरज्ञानप्रतिबन्धकतावच्छेदकतया समानीतजातिविशेषवतः समाधिविशेषस्योत्तेजकत्वकल्पोऽपि निरस्तः, अनन्तचाक्षुषादिसामग्रीप्रतिबन्धकतायां तदुत्तेजकत्वकल्पनापेक्षया तस्यैन्द्रियकज्ञानमात्रप्रतिबन्धकत्वकल्पन एव लाघवात्, एवं च योगजधर्मानुगृहीतात्मन एव साक्षात् सूक्ष्माद्यर्थदर्शित्वमिति जैनाभ्युपगम एव श्रेयान् सकलकलङ्कराहित्यव्यवस्थितेः । एवं हि तत्तदात्मसाक्षात्कारे तत्तदात्मत्वे स्वाव्यवहितोत्तरज्ञाने च समाधिविशेषत्वेन हेतुत्वेन गौरवं सर्वविषयकत्वस्य केवलज्ञाने स्वभावमहिम्नैव सिद्धेस्तस्य कस्यचिदपि कार्यतानवच्छेदकत्वात्, निखिलजात्यंशे निरवच्छिन्नप्रकारताकज्ञानत्वं तु न समाधिविशेषजन्यतावच्छेदकम्, अभावादिविषयासङ्ग्रहात्, निरवच्छिन्ननिखिलविशेषविषयताकज्ञानत्वस्य कार्यतावच्छेदकत्वे विनिगमकाभावाच्चेति दिक । प्रत्यक्षसामान्येनेति न चैवं सामान्यलक्षणप्रत्यासत्तिजन्यप्रत्यक्षविषयतया सूक्ष्माद्यर्थानां सिद्धसाधनम्, तदनभ्युपगमात्, तदजन्यत्वं
Page #198
--------------------------------------------------------------------------
________________
१६४
अष्टसहस्त्रीतात्पर्यविवरणम् स्मदादिप्रत्यक्षम् । सूक्ष्माद्यर्थविषयं च योगिनः प्रत्यक्षं सिद्धं, तस्मादिन्द्रियानिन्द्रियानपेक्षम् । नावधिमनःपर्ययप्रत्यक्षाभ्यां हेतुर्व्यभिचारी, तयोरपीन्द्रियानिन्द्रियानपेक्षत्वसिद्धेः । [सूक्ष्मादिपदार्थान् कः प्रत्यक्षेण जानाति, अर्हद् भगवान्, बुद्धादयो उभयव्यतिरिक्तः कश्चिद् वा ?
इत्यादिप्रश्नानां विचारः] __ननु च कस्येदं सूक्ष्माद्यर्थप्रत्यक्षत्वं साध्यते ? अर्हतोऽनर्हतः सामान्यात्मनो वा ?
(भा०) यदि विप्रकृष्टार्थप्रत्यक्षत्वमर्हतः साध्यते पक्षदोषोऽप्रसिद्धविशेषणत्वम् । तत एव व्याप्तिर्न सिध्येत् । अनर्हतश्चेदनिष्टानुषङ्गोऽपि । कः पुनः सामान्यात्मा तदुभयव्यतिरेकेण यस्य विवक्षितार्थप्रत्यक्षत्वम् ? इत्येतद्विकल्पजालं शब्दनित्यत्वेऽपि समानं, न केवलं सूक्ष्मादिसाक्षात्करणस्य प्रतिषेधने संशीतौ वा । तदयमनुमानमुद्रां भिनत्ति ।
न कश्चित्सूक्ष्मादिसाक्षात्कारी, पुरुषत्वादेः, रथ्यापुरुषवत् । विवादापन्नः पुरुषः सूक्ष्मादिसाक्षात्कारित्वेन संशयित एव विप्रकृष्टस्वभावत्वात् पिशाचादिवत्, इति सूक्ष्मादिसाक्षात्करणस्य प्रतिषेधने संशीतौ वा तावदिदं विकल्पजालं समानं सिद्धमेव । स हि तत्र प्रतिषेधं संशयं वा साधयन् किमर्हतः साधयेदनर्हतः सामान्यात्मनो वा ? अर्हतश्चेदप्रसिद्धविशेषणः पक्षो व्याप्तिश्च न सिध्येद्, दृष्टान्तस्य साध्यशून्यतानुषङ्गात् ।अनर्हतश्चेत्स एव दोषो बुद्धादेः परस्यासिद्धरनिष्टानुषङ्गश्च, अर्हतस्तत्प्रत्यक्षत्वविधाननिश्चयात् । कः पुनः सामान्यात्मा तदुभयव्यतिरेकेण यस्य विवक्षितार्थप्रत्यक्षत्वप्रतिषेधसंशयौ साध्येते ? इति । [मीमांसको यया प्रश्नोत्तरमालिकया सर्वज्ञाभावं करोति जैनाचार्या अपि तैः प्रश्नैरेव
तस्याभीष्टशब्दान् दूषयन्ति] तद्वच्छब्दनित्यत्वसाधनेऽपि समानमेतद्विकल्पजालम् । तथा हि-अयं शब्दानां नित्यत्वं साधयन् सर्वगतानां साधयेदसर्वगतानां वा सामान्यात्मनां वा ?
अष्टसहस्त्रीतात्पर्यविवरणम् वा प्रत्यक्षविशेषणं देयमिति न दोष इत्यभिप्रायात् । यदि च प्रकृतानुमाने द्रव्यार्थतया
Page #199
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि० १-का. ५]
___ (भा०) वर्णानां नित्यत्वमकृतकत्वादिना सर्वगतानां यदि साधयति स्यादप्रसिद्धविशेषणः पक्षः इतरथानिष्टानुषङ्गः । कीदृक् पुनः सामान्यं नाम यदुभयदोषप्रसङ्गपरिहाराय कल्प्येत ? सर्वगतत्वसाधनेऽपि समानम् ।
तद्धि वर्णानाममूर्तानां साधयेन्मूर्तानां तदुभयसामान्यात्मनां वा ? यद्यमूर्तानां सर्वगतत्वं साधयेत्तदाप्रसिद्धविशेषणता पक्षस्य । अथ मूर्तानामनिष्टानुषङ्गः । कीदृक् पुनः सामान्यं नाम यदुभयदोषप्रसङ्गपरिहाराय कल्प्येत ? सर्वगतेतरसामान्यात्मन इव मूर्तेतरसामान्यात्मनोऽसम्भवाद्वर्णेषु । तदयमनुमानमुद्रां सर्वत्र भिनत्तीति नानुमानविचारणायामधिकृतः स्यात् ।
(भा०) अविवक्षितविशेषस्य पक्षीकरणे समः समाधिरित्यलमप्रतिष्ठितमिथ्याविकल्पौधैः ।
यथैव हि शब्दस्याविवक्षितसर्वगतत्वासर्वगतत्वविशेषस्याकृतकत्वादिहेतुना नित्यत्वे साध्ये न कश्चिद्दोषः स्यात्, नाप्यविवक्षितामूर्त्तत्वेतरविशेषस्य सर्वत्रोपलभ्यमानगुणत्वादिना सर्वगतत्वे, तथैवाविवक्षितार्हदनर्हद्विशेषस्य कस्यचित्पुरुषस्य विप्रकष्टार्थसाक्षात्करणेऽपि साध्येऽनमेयत्वादिहेतना न कञ्चिद्दोषं पश्यामोऽन्यत्राप्रतिष्ठितमिथ्याविकल्पौघेभ्यः प्रकृतसाधनाप्रतिबन्दिभ्यः, तेषामप्रतिष्ठितत्वात्, साधनाभासे इव सम्यक्साधनेऽपि स्वाविषयेऽवतारात्, ततो निरवद्यमिदं साधनं कस्यचित्सूक्ष्मादिसाक्षात्कारित्वं साधयति ॥५॥
नन्वस्तु नामैवं कस्यचित्कर्मभूभृद्भेदित्वमिव विश्वतत्त्वसाक्षात्कारित्वं, प्रमाणसद्भावात् । स तु परमात्माईन्नेवेति कथं निश्चयो यतोऽहमेव महानभिवन्द्यो भवतामिति व्यवसिताभ्यनुज्ञानपुरस्सरं भगवतो विशेषसर्वज्ञत्वपर्यनुयोगे सतीवाचार्याः प्राहुः
अष्टसहस्त्रीतात्पर्यविवरणम्
प्रत्यक्षत्वेन सिद्धसाधनमुद्देश्यासिद्धिर्वा विशेष्यप्रत्यक्षत्वे तु साध्ये व्याप्त्याग्रहः अनुमितमात्रनष्टेऽर्थे विशिष्यप्रत्यक्षत्वस्यासिद्धेरप्रयोजकत्वं चेति विभाव्यते तदा प्रत्यक्षत्वं सर्वांशनिरावरणवृत्ति किञ्चिदंशनिरावरणवृत्तित्वादालोकत्ववद् व्यतिरेके घटत्वादि
Page #200
--------------------------------------------------------------------------
________________
१६६
अष्टसहस्रीतात्पर्यविवरणम् स त्वमेवासि निर्दोषो युक्तिशास्त्राविरोधिवाक् ।
अविरोधो यदिष्टं ते प्रसिद्धेन न बाध्यते ॥६॥ दोषास्तावदज्ञानरागद्वेषादय उक्ताः । निष्क्रान्तो दोषेभ्यो निर्दोषः । प्रमाणबलात्सिद्धः सर्वज्ञो वीतरागश्च सामान्यतो यः स त्वमेवार्हन्, युक्तिशास्त्राविरोधिवाक्त्वात् । यो यत्र युक्तिशास्त्राविरोधिवाक् स तत्र निर्दोषो दृष्टो, यथा क्वचिद् व्याध्युपशमे भिषग्वरः । युक्तिशास्त्राविरोधिवाक् च भगवान् मुक्तिसंसारतत्कारणेषु, तस्मान्निर्दोष इति निश्चयः ।
___ युक्तिशास्त्राभ्यामविरोधः कुतो मद्वाचः सिद्धोऽनवयवेनेति चेद्, यस्मादिष्टं मोक्षादिकं ते प्रसिद्धेन प्रमाणेन न बाध्यते । तथा हि-यत्र यस्याभिमतं तत्त्वं प्रमाणेन न बाध्यते स तत्र युक्तिशास्त्राविरोधिवाक्, यथा रोगस्वास्थ्यतत्कारणतत्त्वे भिषग्वरः । न बाध्यते च प्रमाणेन भगवतोऽभिमतं मोक्षसंसारतत्कारणतत्त्वम्, तस्मात्तत्र त्वं युक्तिशास्त्राविरोधिवाक्, इति विषयस्य युक्तिशास्त्राविरोधित्वसिद्धेविषयिण्या भगवद्वाचो युक्तिशास्त्राविरोधित्वसाधनम् । कथमत्र कारिकायामनुपात्तो भिषग्वरो दृष्टान्तः कथ्यते इति चेत्, स्वयं ग्रन्थकारेणान्यत्राऽभिधानात् ।
त्वं सम्भवः सम्भवतर्षरोगैः, सन्तप्यमानस्य जनस्य लोके ।। आसीरिहाकस्मिक एव वैद्यो, वैद्यो यथा नाथ रुजां प्रशान्त्यै ॥
इति स्तोत्रप्रसिद्धः [बृहत्स्वयम्भूस्तोत्र-११] । इह दृष्टान्तावचनं तु सङ्क्षपोपन्यासान्न विरुध्यते, अन्यथानुपपन्नत्वनियमैकलक्षणप्राधान्यप्रदर्शनार्थं वा ।
अष्टसहस्रीतात्पर्यविवरणम् वदित्यादिना सर्वविषयकज्ञानवत्पुरुषधौरेयसिद्धिरित्यत्र तात्पर्यमिति दिक् ॥५॥
इह दृष्टान्तावचनं त्विति हेतुः यद्यपि हेतुगर्भविशेषणमहिम्नैव लभ्यते योजना वाक्यात् यथास्थितोद्देश्यविधेयभावलाभेन व्युत्पत्तिमहिम्नैव हेतुहेतुमद्भावलाभात् तथापि दृष्टान्तलाभे शाब्दसामग्री न व्याप्रियत इत्याक्षेपात् तल्लाभः शब्दाध्याहाराच्च शाब्दबोधे प्रवेश इति 'सक्षेपान्न विरुध्यत इत्यनेनोच्यत इति विभावनीयं सुधीभिः । अन्यथानुपपन्न
१. सक्षेपोपन्यासान्न इति अष्टसहस्रीसम्मतः पाठः ।
Page #201
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि. १-का०६]
१६७
[मोक्षतत्कारणतत्त्वस्य सिद्धिः] तत्र भगवतोऽभिमतं मोक्षतत्त्वं तावन्न प्रमाणेन बाध्यते, प्रत्यक्षस्य तद्बाधकत्वायोगात् । नास्ति कस्यचिन्मोक्षः, सदुपलम्भकप्रमाणपञ्चकाविषयत्वात् कूर्मरोमादिवदित्यनुमानेन बाध्यते इति चेत्, न मोक्षस्यानुमानादागमाच्च प्रसिद्धप्रामाण्यादस्तित्वव्यवस्थापनात्, क्वचिद्दोषावरणक्षयस्यैवानन्तज्ञानादिस्वरूपलाभफलस्यानुमानागमप्रसिद्धस्य मोक्षत्वात्, बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः इति वचनात् [तत्त्वार्थसूत्रम्-१.२] ।
तत एव नागमेनापि मोक्षतत्त्वं बाध्यते, तस्य तत्सद्भावावेदकत्वव्यवस्थितेः । तथा मोक्षकारणतत्त्वमपि न प्रमाणेन विरुध्यते प्रत्यक्षतोऽकारणकमोक्षप्रतिपत्तेरभावात्तेन तद्बाधनायोगात् । नानुमानेनापि तद्बाधनं, ततो मोक्षस्य कारणवत्त्वसिद्धेः सकारणको मोक्षः. प्रतिनियतकालादित्वात् पटादिवत् । तस्याकारणकत्वे सर्वदा सर्वत्र सद्भावानुषङ्गः, परापेक्षारहितत्वादिति । नागमेनापि मोक्षकारणतत्त्वं बाध्यते, तस्य तत्साधकत्वात् सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः इति वचनात् [तत्त्वार्थसूत्रम् १.१] ।
[चार्वाक: संसारतत्त्वं न मन्यते तस्य विचारः] तथा संसारतत्त्वमपि न प्रसिद्धेन बाध्यते, प्रत्यक्षतः संसाराभावासिद्धेस्तस्य तद्बाधकत्वाघटनात् । स्वोपात्तकर्मवशादात्मनो भवान्तरावाप्तिः संसारः । स न प्रत्यक्षविषयो येन प्रत्यक्षं तं बाधेत ।
[चार्वाकः संसारतत्त्वं निराकरोति तस्य समाधानं] अनुमानं तद्बाधकमिति चेत्, न तदभावप्रतिबद्धलिङ्गाभावाद् । गर्भादिमरणपर्यन्तचैतन्यविशिष्टकायात्मनः पुरुषस्य जन्मनः पूर्वं मरणाच्चोत्तरं नास्ति भवान्तरम्, अनुपलब्धेः खपुष्पवदित्यनुपलम्भः संसाराभावग्राहकः संसारतत्त्वबाधक इति चेत्, न तस्यासिद्धेः । प्राणिनामाद्यं चैतन्यं चैतन्योपादानकारणकं, चिद्वि
- अष्टसहस्त्रीतात्पर्यविवरणम् त्वेत्यादि पक्षधर्मत्वादिपञ्चरूपोपन्न एव हेतुरिति नैयायिकाः, त्रिरूपोपन्न इति सौगताः, अन्यथानुपपत्त्येकलक्षणो हेतुरिति जैना इति विभागात् स्वाभीष्टचरमपक्षप्राधान्यं स्फोरयितु
Page #202
--------------------------------------------------------------------------
________________
१६८
अष्टसहस्रीतात्पर्यविवरणम् वर्तत्वान्मध्यचैतन्यविवर्तवत् । तथा अन्त्यचैतन्यपरिणामश्चैतन्यकार्यः, तत एव तद्वत् इत्यनुमानेन पूर्वोत्तरभावोपलम्भाद्यथोक्तसंसारतत्त्वसिद्धेः । गोमयादेरचेतनाच्चेतनस्य वृश्चिकादेरुत्पत्तिदर्शनात्तेन व्यभिचारी हेतुरिति चेत्, न तस्यापि पक्षीकरणात् । वृश्चिकादिशरीरस्याचेतनस्यैव गोमयादेः सम्मूर्च्छनं, न पुनर्वृश्चिकादिचैतन्यविवर्तस्य, तस्य पूर्वचैतन्यविवर्तादेवोत्पत्तिप्रतिज्ञानात् । खड्गिचरमचित्तेन चित्तान्तरानुपादानेन व्यभिचारः साधनस्येत्यपि मनोरथमात्रं, तस्य प्रमाणतोऽप्रसिद्धत्वात्, निरन्वयक्षणक्षयस्य प्रतिक्षेपात् ।
[वने प्रथमाग्निः स्वयमेवोत्पद्यते पश्चादग्निपूर्वक एवेति मान्यतायां विचार:]
ननु च यथाद्यः पथिकाग्निररणिनिर्मथनोत्थोऽनग्निपूर्वको दृष्टः परस्त्वग्निपूर्वक एव तथाद्यं चैतन्यं कायाकारादिपरिणतभूतेभ्यो भविष्यति, परं तु चैतन्यपूर्वकं, विरोधाभावात्, इति कस्यचित्प्रत्यवस्थितिः स्वपक्षघातिनी जातिरेव, चिद्विवर्तत्वस्य हेतोः साध्येन व्याप्तेरखण्डनात् । प्रथमपथिकाग्नेरनग्न्युपादानत्वे जलादीनामप्यजलाधुपादानत्वोपपत्तेः पृथिव्यादिभूतचतुष्टयस्य तत्त्वान्तरभावविरोधः । तथा हि-येषां परस्परमुपादानोपादेयभावस्तेषां न तत्त्वान्तरत्वम् । यथा क्षितिविवर्तानाम्, परस्परमुपादानोपादेयभावश्च पृथिव्यादीनाम्, इत्येकमेव पुद्गलतत्त्वं पृथिव्यादिविवर्त्तमवतिष्ठेत । अथ क्षित्यादीनां न परस्परमुपादानोपादेयभावः,
- अष्टसहस्त्रीतात्पर्यविवरणम् - मित्यर्थः । चिद्विवर्त्तत्वात् चित्त्वव्याप्तकार्यत्वादिच्छादीनामपि चिदनुस्यूतत्वेन चैतन्योपादानकारणकत्वस्याभीष्टत्वादित्यर्थः । पूर्वचिद्व्याप्तक्षणोपमर्दैनोत्तरचिव्याप्तक्षणोत्पत्तेः परस्परं तेषामुपादानोपादेयभावस्य चार्वाकेणाभ्युपगमात् । न च एवम्भूतोपादेयचैतन्यवादे भूतानामपि चिद्विवर्त्तत्वादाद्यचैतन्यस्य भूतात्मकचैतन्योपादेयत्वेन अर्थान्तरत्वम्, अविशिष्टभूते घटादौ चैतन्यादर्शनेन चिद्विवर्त्तत्वेन भूतव्यावृत्तेनैव प्रकृतोपादनसम्भवात्, तत्त्वं च तस्य विषयालोकमनस्कारादीनां परस्परसहभावनैयत्येऽपि नियतोपादानत्वाभ्युपगमवन्न दुष्कराभ्युपगममिति दिक् । जातिरेव असदुत्तरमेव, अर्थान्तरत्वेन निग्रहस्थानमेव वा, प्रकृतानुमानप्रतिकूलानभिधानेन परस्यैव पराजयादिति भावः । तत्त्वान्तरभावविरोधादिति अत्र तत्त्वान्तरत्वं भिन्नपदार्थविभाजकोपाध्यवच्छिन्नत्वम् । पृथिव्यादिविवर्त्तमिति पृथिव्यादिः पृथिवीत्वाद्यवच्छिन्नो विवर्त्तः पर्यायो यस्य तत्तथा । अनुपादानस्येति तथा च
१. विरोध इति अष्टसहस्रीसम्मतः पाठः ।
Page #203
--------------------------------------------------------------------------
________________
प्रथमो भाग: [ परि० १ - का० ६ ]
सहकारिभावोपगमात् । कथमपावकोपादानः प्रथमः पथिकपावकः प्रसिद्धयेद्यतस्तद्वदचेतनपूर्वकं प्रथमचैतन्यं प्रसज्येत ? यथैव हि प्रथमाविर्भूतपावकादेस्तिरोहितपावकान्तरादिपूर्वकत्वं तथा गर्भचैतन्यस्याविर्भूतस्वभावस्य तिरोहितचैतन्यपूर्वकत्वमिति किन्न व्यवस्था स्यात् ? स्यान्मतं - सहकारिमात्रादेव प्रथमपथिकाग्नेरुपजननोपगमात्तिरोहिताग्न्यन्तरोपादानत्वमसिद्धमिति तदसत्, अनुपादानस्य कस्यचिदुपजननादर्शनात् ।
१६९
[शब्दविद्युदादय उपादानमन्तरेणोत्पद्यन्ते इति चार्वाकमान्यतायां प्रत्युत्तरम्]
शब्दविद्युदादेरुपादानादर्शनाददोष इति चेत्, न शब्दादिः सोपादान एव, कार्यत्वाद् घटादिवदित्यनुमानात्तस्य अदृश्योपादानस्यापि सोपादानत्वस्य साधनात् । [भूतचतुष्टयचेतनयोर्भिन्नलक्षणत्वेन पृथक् पृथक् तत्त्वमेवेति कथयन्ति जैनाचार्याः]
नन्वस्तु सर्वोऽग्निरग्न्यन्तरोपादान एव सर्वस्य सजातीयोपादानत्वव्यवस्थितेः । चेतनस्य तु चेतनान्तरोपादानत्वनियमो न युक्तः, तस्य भूतोपादानत्वघटनात्, भूतचेतनयोः सजातीयत्वात्तत्त्वान्तरत्वासिद्धेरिति चेत्, न तयोर्भिन्नलक्षणत्वात्तत्वान्तरत्वोपपत्तेः, तोयपावकयोरपि तत एव परैस्तत्त्वान्तरत्वसाधनात् । तथा हितत्त्वान्तरं भूताच्चैतन्यं, तद्भिन्नलक्षणत्वान्यथानुपपत्तेः । न तावदसिद्धो हेतुः क्षित्यादिभूतेभ्यो रूपादिसामान्यलक्षणेभ्यः स्वसंवेदनलक्षणस्य चैतन्यस्य तद्भिन्नलक्षणत्वसिद्धेः । न हि भूतानि स्वसंवेदनलक्षणानि, अस्मदाद्यनेकअष्टसहस्त्रीतात्पर्यविवरणम्
जन्यपृथिवीत्वाद्यवच्छिन्ने पृथिवीत्वादिना समवायिकारणत्वं नैयायिकाद्यभ्युपगतमकामेनापि चार्वाकेणावश्यमाश्रयणीयमित्यर्थः । स्याद्वादिना तु तादात्म्येन पृथिवीत्वाद्यवच्छिन्ने स्वध्वंसत्वसम्बन्धेन पृथिवीत्वादीना हेतुत्वं वाच्यम्, विभागजातोत्पत्तिस्थलेऽपि द्व्यणुकादिध्वंसरूपाया एव परमाणूत्पत्तेः स्वीकारादिति युक्तं पश्यामः । शब्दादिरिति अनेनानुमानेन शब्दस्य भाषावर्गणोपादानत्वं विद्युदादेश्चाग्न्याद्युपादानत्वं साधनीयमिति भावः । तयोर्भिन्नलक्षणत्वादिति भिन्नं लक्षणं तयोर्बहिरन्तर्मुखतया च प्रतीयमानत्वमेवेति द्रष्टव्यम् । तत एव = भिन्नलक्षणत्वादेव तदाह-अयमेव हि भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः कारणभेदश्चेति [ ] । अस्मदादिप्रत्यक्षत्वादिति
१. अस्मदाद्यनेकप्रतिपतृप्रत्यक्षत्वादिति अष्टसहस्रीसम्मतः पाठः ।
Page #204
--------------------------------------------------------------------------
________________
१७०
अष्टसहस्त्रीतात्पर्यविवरणम् प्रतिपत्तृप्रत्यक्षत्वात् । यत्पुनः स्वसंवेदनलक्षणं तन्न तथा प्रतीतं, यथा ज्ञानम्, तथा च भूतानि, तस्मान्न स्वसंवेदनलक्षणानि । अनेकयोगिप्रत्यक्षेण सुखादिसंवेदनेन व्यभिचारी हेतुरिति न शङ्कनीयम्, अस्मदादिग्रहणात् ।
[ज्ञानमस्वसंविदितमस्तीति मान्यतायां जैनाचार्याः समादधते ।] ज्ञानस्य स्वसंवेदनलक्षणत्वमसिद्धमिति चेत्, न बहिरर्थपरिच्छेदकत्वान्यथानुपपत्त्या तस्य स्वसंवेदनलक्षणत्वसिद्धेः । यो ह्यस्वसंवेदनलक्षणः स न बहिरर्थस्य परिच्छेदको दृष्टो, यथा घटादिरिति विपक्षे बाधकप्रमाणसद्भावात्सिद्धा हेतोरन्यथानुपपत्तिः । प्रदीपादिनानेकान्त इति चेत्, न तस्य जडत्वेन बहिरर्थपरिच्छेदकत्वासम्भवात्, बहिरर्थपरिच्छेदज्ञानोत्पत्तिकारणत्वात्तु प्रदीपादेर्बहिश्चक्षुरादेखि परिच्छेदकत्वोपचारात् । न चोपचरितेनार्थपरिच्छेदकेन प्रदीपादिना मुख्यस्यार्थपरिच्छेदकत्वस्य हेतोर्व्यभिचारचोदनं विचारचतुरचेतसां कर्तुमुचितम्, अतिप्रसङ्गात् ।
[सुखं सुखस्य ज्ञानमपि कथञ्चित् पृथक् पृथक् एव] स्वरूपमात्रपरिच्छेदनव्यापृते सुखादिज्ञाने बहिरर्थपरिच्छेदकत्वाभावात्पक्षाव्यापको हेतुरिति चेत्, न तस्यापि स्वतो बहिर्भूतसुखादिपरिच्छेदकत्वाद् बहिरर्थ
अष्टसहस्त्रीतात्पर्यविवरणम्
अस्मदाद्यनेकप्रतिपत्तृप्रत्यक्षत्वादित्यर्थः तेन ज्ञाने न व्यभिचारः । घटादिवदिति न चैवं घटादावेव पक्षतावच्छेदकसाध्यसामानाधिकरण्यसिद्धरनुमानवैफल्यमिति शङ्कनीयम्, पृथिवीतरेभ्यो भिद्यत इत्यत्रेव प्रकृते पक्षतावच्छेदकावच्छेदेन साध्या सिद्धरुद्देश्यत्वेन तदवैफल्यमित्यभिप्रायात् । न चोपचरितेनेति अन्यथोपचरितधूमेन बाष्पादिना वक़्यादेरपि व्यभिचारडिण्डिमोद्घोषः सकर्णकर्णारुन्तुदः स्यादिति भावः । स्वतो बहिर्भूतेति तथा च प्रकृते बहिरर्थप्रदं स्वाभिन्नपरमेवेति भावः । स्वभिन्नत्वमपि न स्वप्रतियोगिकभेदवत्त्वमात्रं यत्किञ्चिदयावद्विकल्पयोः, आद्ये स्वस्मिन्नेव स्वभेदप्रसङ्गात्, अन्त्ये च कुत्रापि तदप्रसिद्धेः सत्त्वादिना भेदस्य कुम्भादावप्यभावात्, किन्तु स्वनिष्ठज्ञानत्वावच्छिन्नप्रतियोगिताकभेदवत्त्वम्, तच्च सुखादिसंवेदनापेक्षया सुखादावपि सिद्धम्, इति न तत्र
१. यथा घटादिरिति अष्टसहस्रीसम्मतः पाठः । २. साध्य इति भाव्यम् ।
Page #205
--------------------------------------------------------------------------
________________
प्रथमो भाग: [ परि० १ - का० ६ ]
परिच्छेदकत्वसिद्धेः कुम्भादिवेदनस्यापि सर्वथा स्वबहिर्भूतार्थपरिच्छेदकत्वानुपपत्तेः सदाद्यात्मना कुम्भादेः संवेदनादभेदप्रतीतेः, अन्यथा तदसत्त्वप्रसङ्गात् । कथञ्चित्स्वबहिर्भूतत्वं तु सुखादिसंवेदनात्सुखादेरपि प्रतीयत एव सुखादितत्संवेदनयोः कारणादिभेदाद्भेदव्यवस्थिते: । तर्हि घटादिज्ञानवत् सुखादिज्ञानस्यापि स्वबहिर्भूतार्थपरिच्छेदकत्वात्ततोऽन्यस्य विज्ञानस्यासम्भवात्कि स्वस्य संवेदकं ज्ञानं स्यादिति चेत्, न तस्यैव घटादिसुखादिज्ञानस्य स्वरूपसंवेदकस्य सतः परसंवेदकत्वोपगमात् स्वसंवेदनसिद्धेः, स्वपरव्यवसायात्मकत्वात् सर्वसंवेदनस्य ।
१७१
[ स्वात्मनि क्रियाविरोधात् ज्ञानं स्वं न जानाति अस्य विचारः क्रियते ।]
स्वात्मनि क्रियाविरोधान्न स्वरूपसंवेदकं ज्ञानमिति चेत्, का पुनः क्रिया स्वात्मनि विरुध्यते ? न तावद्धात्वर्थलक्षणा, भवनादिक्रियायाः क्षित्यादिष्वभावप्रसङ्गात् । परिस्पन्दात्मिका क्रिया स्वात्मनि विरुद्धेति चेत्, कः पुनः क्रियायाः स्वात्मा ? क्रियात्मैवेति चेत्, कथं तस्यास्तत्र विरोध: ? स्वरूपस्य विरोधकत्वायोगात् । अन्यथा सर्वभावानां स्वरूपविरोधान्निस्स्वरूपतानुषङ्गात् । विरोधस्य द्विष्ठत्वाच्च न क्रियायाः स्वात्मनि विरोधः । क्रियावदात्मा क्रियायाः स्वात्मेति चेत्, कथं तत्र विरोध: ? क्रियावत्येव सर्वस्याः क्रियायाः प्रतीतेरविरोधसिद्धेः । अथ क्रिया, करणं निष्पादनं स्वात्मनि विरुद्धमित्यभिमतं तर्हि न ज्ञानं स्वरूपं निष्पादयतीत्युच्यते येन विरोधः स्यात् इत्यसिद्धः स्वात्मनि क्रियाविरोधः, स्वकारणविशेषान्निष्पद्यमानस्य ज्ञानस्य स्वपरप्रकाशनरूपत्वात्, प्रदीपस्य स्वपरोद्द्योतनरूपत्ववत् । यथैव हि रूपज्ञानोत्पत्तौ प्रदीपः सहकारित्वाच्चक्षुषो रूपस्योद्द्योतकः कथ्यते तथा स्वरूपज्ञानोत्पत्तौ तस्य सहकारित्वात्स्वरूपोद्योतकोऽपि । ततो ज्ञानं स्वपररूपयोः परिच्छेदकं तत्राज्ञाननिवृत्तिहेतुत्वान्यथानुपपत्तेः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
बहिरर्थपरिच्छेदकत्वासिद्धिरित्याशयेनाह - कुम्भादिवेदनस्यापीति । सुखादीति सुखादे: कारणं सातवेदनीयकर्मोदयादिः, तत्संवेदनस्य कारणं च ज्ञानावरणकर्मक्षयोपशमादिः इत्येवं कारणभेदादप्यनयोर्भेदो न केवलमाह्लादनपरिच्छेदाकाररूपलक्षणभेदादिति भावः । तस्यैवे विषयविनिर्मुक्तज्ञानानुभवाभावात्तदुपरक्तस्यैव तस्य स्वांशे स्वसंवेदकत्वं विषयांशे च परसंवेदकत्वमविरुद्धमिति भावः । अविरुद्धं पश्याम इति ननु कथमेतदविरुद्धं प्रत्यक्ष
Page #206
--------------------------------------------------------------------------
________________
१७२
अष्टसहस्त्रीतात्पर्यविवरणम्
[भूतचैतन्ययोर्लक्षणं पृथक् पृथगेव] इत्यविरुद्धं पश्यामः स्वसंवेदनमन्तस्तत्त्वस्य लक्षणं भूतासम्भवीति भिन्नलक्षणत्वं तयोः सिद्धयत्येव । तच्च सिध्यत्तत्त्वान्तरत्वं साधयति, तच्चासजातीयत्वम्, तदप्युपादानोपादेयभावाभावं, तयोस्तत्प्रयोजकत्वात् । तदेवं भूतचैतन्ययो स्त्युपादानोपादेयभावो, विभिन्नलक्षणत्वात्, इति व्यापकविरुद्धव्याप्तोपलब्धिः, उपादानोपादेयभावव्यापकस्य सजातीयत्वविशेषस्य विरुद्धेन तत्त्वान्तरभावेन व्याप्ताद्भिन्नलक्षणत्वात्प्रतिषेध्याभावसाधनात् । न ह्यत्र सजातीयत्वविशेषस्योपादानोपादेयभावव्यापकत्वमसिद्धं विजातीयत्वाभिमतयोः पयःपावकयोः सत्त्वादिना सजातीययोरपि तदनुपगमात् कथञ्चिद्विजातीययोरपि मृत्पिण्डघटाकारयोः पार्थिवत्वादिना
अष्टसहस्त्रीतात्पर्यविवरणम् विषयताया इन्द्रियसन्निकर्षप्रयोज्यत्वेन ज्ञाने सन्निकृष्टबाह्यार्थविषयत्वोपपत्तावपि स्वविषयतानुपपत्तेः स्वविषयतायाः प्रत्यक्षत्वनियताया अभ्युपगमात्तादृश्याश्च तस्याः प्रयोजकाभावादिति चेत्, न, प्रत्यक्षविषयतामात्रस्येन्द्रियसन्निकर्षप्रयोज्यत्वे मानाभावादसन्निकृष्टे बहुलं प्रत्यक्षविषयतायास्तत्र तत्रोपपादितत्वाच्छुक्तिसन्निकर्षेऽपि रजतविषयकप्रत्यक्षस्य सावर्जनीनत्वाच्चेन्द्रियसन्निकर्षवद्दोषादेरपि प्रत्यक्षविषयताप्रयोजकत्वाभ्युपगमे च तादात्म्येन ज्ञानस्यापि तत्त्वं किमिति न रोचयेः ? ज्ञानस्य ज्ञानान्तरवेद्यत्वेऽनवस्थानाद् ज्ञानमानसादौ चाक्षुषादिसामग्र्यादेः प्रतिबन्धकत्वाकल्पनलाघवाच्च स्वसंवेद्यताया एव युक्तत्वादिति दिक् । विजातीयत्वाभिमतयोरिति सत्त्वादिना सजातीययोरपि जलानलयोर्जलत्वानलत्वाभ्यां विजातीययोर्यथा नोपादानोपादेयभावश्चार्वाकैरभ्युपगम्यते, तथाऽस्माभिर्भूतचैतन्ययोरिति साजात्यविशेषस्योपादानोपादेयभावप्रयोजकत्वं नाप्रामाणिकमिति भावः ।
॥ आरम्भवादः ॥ पार्थिवत्वादिनेति ननु एवं घटत्वपटत्वाद्यवच्छिन्ने कपालत्वतन्तुत्वादिना हेतुत्वं न स्यादिति चेत्, न तथाहेतुत्वेऽपि ययोरुपादानोपादेयभावस्तयोः पदार्थविभाजकोपाधिना साजात्यमिति नियमस्याभङ्गात्, साजात्यविशेषेण नियतारम्भस्य सुव्यवस्थितत्वात् । केचित्तु नास्त्येव पटत्वाद्यवच्छिन्ने तन्तुत्वादिना हेतुत्वमत एव क्वचिद् द्वितन्तुकपटादेस्तन्त्वन्तरसंयोगे पटाद्युत्पत्तिर्घटते, एकैकतन्तुसंयोगे द्वितन्तुकादेर्नाशे त्रितन्तुकाद्युत्पत्तिः, पुनरेकैकतन्तुवियोगे त्रितन्तुकादिनाशे द्वितन्तुकाद्युत्पत्तिरिति कल्पनाया गौरवग्रासाद् इत्याहुः, असदेतत्, अनन्यथासिद्धान्वयव्यतिरेकानुविधानात् तथाहेतुत्वसिद्धः, त्रितन्तुकपटादेरपि
Page #207
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का०६]
१७३ विशिष्टसामान्येन सजातीययोरुपादानोपादेयभावसिद्धेः कथं तर्हि सजातीयत्व
- अष्टसहस्त्रीतात्पर्यविवरणम्
तन्तावेवोत्पत्तिस्वीकारात् युगपत्तन्तुत्रयादिसंयोगे तन्तोरेव तदुत्पत्तेर्दर्शनात्, द्वितन्तुकादिक्रमेणोत्पन्नचतरादितन्तकपटस्य द्वितन्तकासमवायिकारणसंयोगनाशाद द्वितन्तकादिनाशक्रमेण नाशोऽन्तरा पुनर्द्वितन्तुकादिक्रमेणोत्पत्तिरिति तवापि कल्पनागौरवसाम्ये तन्तौ पट इति प्रतीतेभ्रंमत्वायोगाच्च, न हि पटे पट इति कश्चित् प्रत्येति । अत एव तन्त्वाकाशसंयोगत्वेन पटाकाशादिविजातीयसंयोगत्वेन हेतुहेतुमद्भावाद्युपपत्तिरिति अन्ये । एतेन तन्तुभ्यां तदारब्धद्वितन्तुकपटेन च तन्त्वन्तरयोगे त्रितन्तुकोत्पत्तिरेवं चतुरणुकादेरपीत्यारभ्यारम्भवादो युक्त इत्यपि अपास्तम् । अपरे तु क्रियमाणं कृतमिति नयानुसारिणस्तन्तुसंयोगत्वेनैव पटोत्पत्तिव्याप्यत्वमिच्छन्त आद्यतन्तुद्वयसंयोगकालादेवानवरतमवान्तरनानापटोत्पत्तिश्चरमतन्तुसंयोगकाले च महापटोत्पत्तिरिति तन्तुत्वेन पटहेतुत्वेऽपि द्वितन्तुकादिपटवत्तन्तुद्वयादावेव तन्त्वतरादियोगात्रितन्तुकपटाद्युत्पत्तिं स्वीकुर्वते । न च द्रव्यवति द्रव्योत्पत्तिस्वीकारे उत्पन्नद्वितन्तुकपटस्य पुनरुत्पत्तिः स्यादिति वाच्यम्, तत्प्रागभावस्य नष्टत्वात् तयोः संयोगान्तराद्भावी द्वितन्तुकपटस्तु तदा नोत्पद्यते तत्संयोगान्तरविरहात्, अन्यथा प्रथमं तवापि कथं नाग्रिमद्वितन्तुकोत्पत्तिः ? एवं च दशतन्तुकादेश्चरमतन्तुसंयोगवियोगक्रमेण नाशे नवतन्तुकाद्युपलब्धिनिराबाधा, प्रथमतन्तुसंयोगक्रमेण नाशे वाऽस्तु तवैव दशतन्तुकनाशानन्तरं नवतन्तुकोत्पत्तिर्दशतन्तुकोत्पत्तिकाल एव वा चरमतन्तुपर्यन्ते द्वितीयमादाय नवतन्तुकोत्पत्तिः । न चैवं प्रतिलोमक्रमेणानन्तपटकल्पनापत्तिद्वितीयमादाय नवतन्तुकस्येव तृतीयमादायाष्टतन्तुकस्यापि सम्भवादिति वाच्यम् । यस्त्वयाग्रे स्वीक्रियते तस्यैव मया प्रथमतः स्वीकारान्नवतन्तुकादौ दशतन्तुकादिध्वंसस्य हेतुत्वे मानाभावादन्यत्र प्रागभावाभावेनैव तद्विरहोपपत्तेः । न च व्यक्तिस्थानीयापत्तिविरहाद् द्रव्यत्वावच्छिन्नाभावस्य कारणत्वेनानतिप्रसङ्गे किमनन्तकार्यकारणभावकल्पनेनेति वाच्यम्, दशाद्यवच्छेदेन तत्सत्त्वेन पटादिमत्यपि तदुत्पत्त्यापत्तेदीर्घतन्त्वादौ वस्त्रयुग्माद्यनुत्पत्त्यापत्तेश्च, अस्तु वा द्रव्यत्वावच्छिन्नाभावस्य जन्यद्रव्यत्वावच्छिन्ने हेतुत्वं कर्मणः संयोग इव तथापि स्वाश्रयैकदेशवृत्तितबलाद् द्वितन्तुकादिमति त्रितन्तुकाद्युत्पत्तिनिराबाधैव स्वोत्पत्तिव्याप्यद्रव्यत्वावच्छिन्नाभावस्य हेतुत्वोपगमे तु द्वितन्तुकादिमति तन्त्वतरादियोगादेकतन्तुकोत्पत्तेर्दुर्वारत्वापत्तेः इत्याहः ॥ क्षमाश्रमणपूज्यपादानुसारिणस्तु चरमतन्तुसंयोगकाल एव क्रियमाणं कृतमिति नयेन पटोत्पत्तिं स्वीकुर्वते, तत्प्राक्कालीनकार्यकोटिषु पटधीस्तु पटगताभिलाषोत्कर्षदोषात्तदुक्तं घटमाश्रित्य महाभाष्ये
Page #208
--------------------------------------------------------------------------
________________
१७४
अष्टसहस्त्रीतात्पर्यविवरणम् विशेषस्य तत्त्वान्तरभावेन विरोध इति चेत्, तत्त्वान्तरभूतयोस्तदनुपलम्भात्, पूर्वाकारापरित्यागाऽजहवृत्तोत्तराकारान्वयप्रत्ययविषयस्योपादानत्वप्रतीतेः, परित्यक्त
अष्टसहस्रीतात्पर्यविवरणम्
'पइसमयकज्जकोडीणिरवेक्खो घडगयाहिलासो सि ।।
पइसमयकज्जकोडिं थूलमइ ! घडमि लाएसि ॥ त्ति, [विशेषावश्यकभा० ४२३]
एवं चैकः पट इत्यादेर्बोधस्य लोके शास्त्रे च व्यवहारस्य चोपपत्तिः, न हि नाना पटाः प्रतीयन्ते व्यवह्रियन्ते च । न च चाङ्गलीभूतलसंयोगाद्यवच्छेदेन पाण्याद्यनन्तसंयोगानुपलब्ध्यादिवत् सादृश्यादिवशान्नानापटानुपलब्ध्युपपत्तिः, उभयत्रैकयुक्त्यभावात्, महापटकाले द्वितन्तुकादेः स्वीकारे तन्त्वाकाशसंयोगादितोऽनन्तद्वितन्तुकाकाशसंयोगादेद्वितन्तुकत्रितन्तुकादेः परस्परकर्मजसंयोगद्वित्वत्रित्वादेर्वाय्वाद्यनन्तसंयोगादेश्च कल्पनामपेक्ष्य तेषां नाशस्य क्वचिदन्येषां कल्पनस्यैव च लाघवेनौचित्यात् । जन्यद्रव्ये द्रव्याभावस्य तु निरवच्छिन्नविशेषणतया हेतुत्वाद्दशाद्यवच्छेदेन पटाद्यभावसत्त्वेऽपि न दोषः । वस्त्रयुग्मादिव्यवहारस्त्वेकस्मिन् हस्तयुग्मादिव्यवहारवदुपपादनीयः । एकतन्तुकाद्युत्पत्त्यनापत्तिस्तु निर्द्रव्यद्रव्यस्य विजातीयसंयोगेन जन्यद्रव्यहेतुत्वाद् इत्याहुः ॥
सर्वेऽप्येते नयवादा वस्तुत एगसमयंमि एगदवियस्स बहुआ वि हुंति उप्पायारे इत्यादिपर्यालोचनया संयोगविभागजानन्तोत्पादतावन्नाशकिम्मीरित(?) ध्रौव्यैकस्वभाववस्त्वभ्युपगमादापेक्षिकानापेक्षिकनानापटपरिणामात्मकतन्तूत्पादाभ्युपगमादस्माकं न काप्यनुपपत्तिः, एकस्मिन् पटे हस्तादिभेदेन नानापटव्यवहारस्यापि स्कन्धदेशप्रदेशरूपद्रव्यविभागेनैवोपपत्तेः, उपादानता तु तत्र व्यवहारतस्तन्तुत्वादिना निश्चयतस्तु शक्तिविशेषेणेति तन्तोरिव द्वितन्त्वादेरपि न पटानुत्पत्तिः । इत्थं च पार्थिवत्वादिनाप्युपादानोपादेयभावो नियतारम्भनयेऽन्यथा तु शक्तिविशेषेण जलादिपरमाणोरपि पाथिवारम्भस्य बहुलमुपलम्भात्, पुद्गलपर्यायत्वावच्छिन्ने पुद्गलद्रव्यत्वेनोपादानोपादेयभावस्तु कल्पनीयोऽन्यथाऽसमानजातीयद्रव्यपर्याये मनुष्यादौ पुद्गलान्त्यविशेषानुपलम्भापत्तेः, इत्थमपि च चिदचितोभिन्नोपादानोपादेयत्वमव्याहतमव्यासज्यवृत्तिधर्मत्वादिति दिक् ।
१. छाया-प्रतिसमयकार्यकोटिनिरपेक्षो घटगताभिलाषोऽसि ।
प्रतिसमयकार्यकोटि स्थूलमते ! घटे लगयसि ॥ २. कज्जकालं इति भाष्ये । ३. एकसमय एकद्रव्यस्य बहवोऽपि भवन्ति उत्पादाः ।
Page #209
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि० १-का०६]
१७५ पूर्वाकारेण द्रव्येणात्मसात्क्रियमाणोत्तराकारस्योपादेयत्वनिर्ज्ञानादन्यथातिप्रसङ्गात ।
[भिन्नलक्षणत्वहेतुर्भिन्नभिन्नतत्त्वेन कथं व्याप्त इति प्रश्ने सति समाधानम्]
कथं तत्त्वान्तरभावेन भिन्नलक्षणत्वं व्याप्तमिति चेत्, तदभावेऽनुपपद्यमानत्वात् । किण्वादिमदिरादिपरिणामयोरतत्त्वान्तरभावेऽपि भिन्नलक्षणत्वस्य दर्शनात्तस्य तेनाव्याप्तिरिति चेत्, न तयोभिन्नलक्षणत्वासिद्धेः, किण्वादेरपि मदजननशक्तिसद्भावान्मदिरादिपरिणामवत् । सर्वथा मदजननशक्ति विकलत्वे हि किण्वादेर्मदिरादिपरिणामदशायामपि तद्वैकल्यप्रसङ्गः । नन्वेवं भूतान्तस्तत्त्वयोरपि भिन्नलक्षणत्वं मा भूत्, कायाकारपरिणतभूतविशेषावस्थातः प्रागपि क्षित्यादिभूतानां चैतन्यशक्तिसद्भावादन्यथा तदवस्थायामपि चैतन्योद्भूतिविरोधादिति न प्रत्यवस्थेयं, चेतनस्यानाद्यनन्तत्वप्रसिद्धरात्मवादिनामिष्टप्रतिष्ठानात् । न चैवं चैतन्यं भूतविवर्त्तः, क्षित्यादितत्त्वस्यापि तद्विवर्त्तत्वप्रसङ्गात्, अनाद्यनन्तत्वाविशेषात्, ततो भिन्नलक्षणत्वं तत्त्वान्तरत्वेन व्याप्तं भूतचैतन्ययोस्तत्त्वान्तरत्वं साधयत्येव, इति चैतन्यपरिणामोपादान एवाद्यचैतन्यपरिणामः प्राणिनामन्त्यचैतन्योपादेयश्च जन्मान्तराद्यचैतन्यपरिणामः सिद्धः । पूर्वभवपरित्यागेन भवान्तरपरिग्रह एव च संसारः इति प्रसिद्धेन प्रमाणेन संसारतत्त्वं न बाध्यते । नानुमानेन, नाप्यागमेन, तस्य तत्प्रतिपादकतया श्रुतेः, संसारिणस्त्रसस्थावराः इति वचनात् [तत्त्वार्थसूत्रम् २.१२] ।
[संसारस्य कारणभूततत्त्वानां विचारः] तथा संसारोपायतत्त्वमपि न प्रसिद्धेन बाध्यते, प्रत्यक्षस्य तदबाधकत्वात् ।
- अष्टसहस्त्रीतात्पर्यविवरणम् पूर्वाकारेति द्रव्यार्थिकनयेनात्र देवादिपर्यायध्वंसविशिष्टात्मत्वेन तदव्यवहितोत्तरपर्यायत्वेनोपादानोपादेयभावः, पर्यायार्थिकनयेन तु स्वध्वंसत्वसम्बन्धेन देवादिपर्यायस्य मनुष्यादिपर्यायत्वावच्छिन्ने तादात्म्येनेति विशेषो द्रष्टव्यः । तस्य तेनाव्याप्तिरिति भिन्नलक्षणत्वस्य तत्त्वान्तरभावेन सह व्याप्यव्यापकभावाभाव इत्यर्थः । मदजननशक्तिसद्भावादिति तथा च साजात्यविशेषेण भिन्नलक्षणत्वविरोधादित्यर्थः । इष्टप्रतिष्ठानादिति चैतन्यशक्त्यन्वयिन आत्मद्रव्यस्यैव सिद्धेर्वीतरागजन्मादर्शनन्यायात्तस्य भूतनामकरणेऽपि वस्त्वव्याघातादित्यर्थः । तद्विवर्त्तत्वप्रसङ्गादिति साजात्यविशेषस्य विनिगमकस्यानभ्युपगमादित्यर्थः । कादाचित्कत्वाच्चितो न विवर्त्तवत्त्वं भविष्यतीत्यत आह
Page #210
--------------------------------------------------------------------------
________________
१७६
अष्टसहस्त्रीतात्पर्यविवरणम् निर्हेतुकः संसारोऽनाद्यनन्तत्वादाकाशवदित्यनुमानेन तद् बाध्यते इति चेत्, न पर्यायार्थादेशात्संसारस्यानाद्यनन्तत्वासिद्धः, दृष्टान्तस्यापि साध्यसाधनविकलत्वाद्, द्रव्यार्थादेशात्तु तस्य तथासाधने सिद्धसाध्यतानुषक्तेः । सुखदुःखादिभावविवर्त्तनलक्षणस्य संसारस्य द्रव्यक्षेत्रकालभावभवविशेषहेतुकत्वप्रतीतेश्च नाहेतुकसंसारसाधनानुमानमनवद्यम् इति न किञ्चिदनुमानं संसारोपायतत्त्वस्य बाधकम् । नाप्यागमः, तस्य तत्साधकत्वात् मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः इति वचनात् [तत्त्वार्थसूत्रम्-८.१], बन्धहेतूनामेव संसारहेतुत्वात् ।।
तदेवं मोक्षसंसारतत्कारणतत्त्वं भगवतोऽभिमतं प्रसिद्धेन प्रमाणेन युक्ति शास्त्राख्येनाबाध्यं सिध्यत्तद्वाचो युक्तिशास्त्राविरोधित्वं साधयति, तच्च निर्दोषत्वम् इति त्वमेव स सर्वज्ञो वीतरागश्च स्तोतुं युक्तो नान्य इत्युच्यते ।
__ (भा०) विप्रकर्ण्यपि भिन्नलक्षणसम्बन्धित्वादिना कस्यचित्प्रत्यक्षं सोऽत्र 'भवानहन्नेव ।
दृश्यलक्षणाद्भिन्नलक्षणमदृश्यस्वभावस्तत्सम्बन्धित्वेन विप्रकर्षि परमाण्वादिकम् । तथा वर्तमानात्कालाद्भिन्नः कालोऽतीतोऽनागतश्च, तत्सम्बन्धित्वेन रावणशङ्खादि । तथा दर्शनयोग्याद्देशाद्भिन्नदेशोऽनुपलब्धियोग्यस्तत्सम्बन्धित्वेन मकराकरादि । तद्भिन्नलक्षणसम्बन्धित्वादिना स्वभावकालदेशविप्रकर्ण्यपि कस्यचित्प्रत्यक्षं साधितम् । सोऽत्र भवानहन्नेव, न पुनः कपिलादय इति । एतत्कुतो निश्चितमिति चेत्,
(भा० ) अन्येषां न्यायागमविरुद्धभाषित्वात् ।
ये न्यायागमविरुद्धभाषिणस्ते न निर्दोषा यथा दुर्वैद्यादयः, तथा चान्ये कपिलादय इत्यनुमानान्न्यायागमाविरुद्धभाषिण एव भगवतोऽर्हतो निर्दोषत्वमवसीयते, न चात्र न्यायागमविरुद्धभाषित्वं कपिलादीनामसिद्धं, तदभिमतस्य मोक्षसंसारतत्कारणतत्त्वस्य प्रसिद्धेन प्रमाणेन बाधनात् ।
- [साङ्ख्याभिमतमोक्षस्य निराकरणं] तत्र कपिलस्य तावत् T‘स्वरूपे चैतन्यमात्रेऽवस्थानमात्मनो मोक्ष' इत्यभिमतं
१. भगवानिति पाठान्तरम् ।
Page #211
--------------------------------------------------------------------------
________________
१७७
प्रथमो भागः [परि०१-का०६] तत्प्रमाणेन बाध्यते, चैतन्यविशेषेऽनन्तज्ञानादौ स्वरूपेऽवस्थानस्य मोक्षत्वसाधनात् । न ह्यनन्तज्ञानादिकमात्मनोऽस्वरूपं, सर्वज्ञत्वादिविरोधात् । प्रधानस्य सर्वज्ञत्वादि स्वरूपं, नात्मन इति चेत्, न तस्याचेतनत्वादाकाशवत् । ज्ञानादेरप्यचेतनत्वादचेतनप्रधानस्वभावत्वं युक्तमेवेति चेत्, कुतस्तदचेतनत्वसिद्धिः ? अचेतना ज्ञानादय उत्पत्तिमत्त्वाद् घटादिवदित्यनुमानादिति चेत्, न हेतोरनुभवेन व्यभिचारात्, तस्य चेतनत्वेऽप्युत्पत्तिमत्त्वात् । कथमुत्पत्तिमाननुभव इति चेत्, परापेक्षत्वाद् बुद्ध्यादिवत् । परापेक्षोऽसौ बुद्ध्यध्यवसायापेक्षत्वात् बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयते इति वचनात [ ]। बद्ध्यध्यवसितार्थानपेक्षत्वेऽनभवस्य सर्वत्र सर्वदा सर्वस्य पुंसोऽनुभवप्रसङ्गात् सर्वस्य सर्वदर्शित्वापत्तेस्तदुपायानुष्ठानवैयर्थ्यमेव स्यात् । यदि पुनरनुभवसामान्यमात्मनो नित्यमनुत्पत्तिमदेवेति मतं तदा ज्ञानादिसामान्यमपि नित्यत्वादनुत्पत्तिमद् भवेदित्यसिद्धो हेतुः । ज्ञानादिविशेषाणामुत्पत्तिमत्त्वान्नासिद्ध इति चेत्, तहनुभवविशेषाणामप्युत्पत्तिमत्त्वादनैकान्तिकोऽसौ कथं न स्यात् ? नानुभवस्य विशेषाः सन्तीति चायुक्तं, वस्तुत्वविरोधात् । तथा हि- नानुभवो वस्तु, सकलविशेषरहितत्वात्, खरविषाणवत् । नात्मनानेकान्तः, तस्यापि सामान्यविशेषात्मकत्वादन्यथा तद्वदवस्तुत्वापत्तेः । कालात्ययापदिष्टश्चायं हेतुः, ज्ञानादीनां स्वसंवेदनप्रत्यक्षत्वाच्चेतनत्वप्रसिद्धरध्यक्षबाधितपक्षानन्तरं प्रयुक्तत्वात् । [चेतनसंसर्गादचेतना अपि ज्ञानादयः चेतनत्वेन प्रतीयन्ते इति साङ्ख्यमान्यतायाः निराकरणम्]
अथ चेतनसंसर्गादचेतनस्यापि ज्ञानादेश्चेतनत्वप्रतीतिः प्रत्यक्षतो भ्रान्तैव । तदुक्तंतस्मात्तत्संसर्गादचेतनं चेतनवदिह लिङ्गम् इति [साङ्ख्यकारिका २०] ।
- अष्टसहस्रीतात्पर्यविवरणम् अनाद्यनन्तत्वाविशेषादिति भूतचैतन्ययोरित्यर्थः । तथा चेच्छामात्रेणोपादानोपादेयभावाभ्युपगमेऽतिप्रसङ्गो दुर्वार इति भावः । चैतन्यविशेषे इति अनावृतसर्वविषयकचैतन्य इत्यर्थः । न च कूटस्थनित्यात्मश्रुतिश्चैतन्यविशेषावस्थानाभ्युपगम विरोधिनी निर्द्धर्मकत्वस्य कूटस्थपदार्थत्वे चित्त्वधर्मस्याप्युच्छेदापत्तेस्तस्याश्रयाभिन्नातव्यावृत्त्यात्मकत्वेऽनन्तविशेषाणामपि तथात्वसम्भवात् सामान्यप्रतिज्ञाव्याघातान्नित्यत्वस्यापि च कथञ्चिन्नयविशेषेणैवोपपत्तेरिति । अनुभवेन=बुद्धिनिष्ठप्रतिबिम्बहेतुबिम्बचैतन्यलक्षणेनेत्यर्थः । बुद्ध्यध्यवसितं=बुद्धिप्रतिबिम्बितम्, चेतयते निश्चिनोति । तदुपायानुष्ठानवैयर्थ्यमेव
Page #212
--------------------------------------------------------------------------
________________
१७८
अष्टसहस्त्रीतात्पर्यविवरणम् तदप्यचर्चिताभिधानं, शरीरादेरपि चेतनत्वप्रतीतिप्रसङ्गाच्चेतनसंसर्गाविशेषात् । शरीराद्यसम्भवी बुद्ध्यादेरात्मना संसर्गविशेषोऽस्तीति चेत्, स कोऽन्योऽन्यत्र कथञ्चित्तादात्म्यात्, तददृष्टकृतकत्वादिविशेषस्य शरीरादावपि भावात् । ततो नाचेतना ज्ञानादयः, स्वसंविदितत्वादनुभववत् । स्वसंविदितास्ते, परसंवेदनान्यथानुपपत्तेरिति प्रतिपादितप्रायम् । तथा चात्मस्वभावा ज्ञानादयः, चेतनत्वादनुभववदेव इति न चैतन्यमात्रेऽवस्थानं मोक्षः, अनन्तज्ञानादिचैतन्यविशेषेऽवस्थानस्य मोक्षत्वप्रतीतेः ।
__ [वैशेषिकाभिमतमोक्षस्य निराकरणम्] एतेन T'बुद्ध्यादिविशेषगुणोच्छेदादात्मत्वमात्रेऽवस्थानं मुक्तिः' इति कणभक्षाक्षपादमतं प्रमाणेन बाधितमुपदर्शितं, पुंसोऽनन्तज्ञानादिस्वरूपत्वसाधनात्, स्वरूपोपलब्धेरेव मुक्तित्वसिद्धः । स्यान्मतं-'न बुद्ध्यादयः पुंसः स्वरूपं, ततो भिन्नत्वादर्थान्तरवत् । ततो भिन्नास्ते तद्विरुद्धधर्माधिकरणत्वाद् घटादिवत् । तद्विरुद्धधर्माधिकरणत्वं पुनस्तेषामुत्पादविनाशधर्मकत्वादात्मनोऽनुत्पादाविनाशधर्मकत्वात्प्रसिद्धम्' इति, तदयुक्तं, विरुद्धधर्माधिकरणत्वेऽपि सर्वथा भेदासिद्धेर्मेचकज्ञानतदाकारवत् ।
[चित्रज्ञानमेकरूपमनेकरूपं वेति विचारः] एकं हि मेचकज्ञानमनेकश्च तदाकारो नीलादिप्रतिभासविशेष इत्येकत्वानेकत्वविरुद्धधर्माधिकरणत्वेऽपि मेचकज्ञानतत्प्रतिभासविशेषयोन भेदोऽभ्युपगम्यते, मेचकज्ञानत्वविरोधात् । यदि पुनर्युगपदनेकार्थग्राहि मेचकज्ञानमेकमेव, न तत्रानेकप्रतिभासविशेषसम्भवो यतो विरुद्धधर्माधिकरणत्वमभेदेऽपि स्यादिति मतं तदापि तत्किमनेकया शक्त्याने कमर्थं युगपद् गृह्णाति किं वैकया ? यद्यनेकया तदैकमनेकशक्त्यात्मकमिति स एव विरुद्धधर्माध्यासः । ततोऽनेकशक्तेरनेकत्वधर्माधारभूतायाः पृथक्त्वात् तस्य त्वेकत्वधर्माधारत्वान्नैकत्र विरुद्धधर्माध्यास इति चेत्, कथमनेका शक्तिस्तस्येति व्यपदिश्यते ? ततो भेदादर्थान्तरवत् । सम्बन्धादिति चेत्, तहि तदनेकया शक्त्या सम्बध्यमानमनेकेन रूपेण कथमनेकरूपं न स्यात् ?
- अष्टसहस्रीतात्पर्यविवरणम् स्यादिति सर्वज्ञत्वोपायानां ध्यानमौनाचरणादीनां निरर्थकतैव स्यादित्यर्थः । स कोऽन्य इति एतेन दर्पणे मुखप्रतिबिम्बस्थानीयो बुद्धावहमिति पुरुषोपरागो, मुखरक्ततासंसर्गस्थानीयो
Page #213
--------------------------------------------------------------------------
________________
१७९
प्रथमो भागः [परि० १-का०६] तस्याप्यनेकरूपस्य ततोऽन्यत्वात्तदेकमेवेति चेत्, कथं तत्तस्येति व्यपदेष्टव्यम् ? सम्बन्धादिति चेत्, स एव दोषोऽनिवृत्तश्च पर्यनुयोगोऽनवस्थानात् । यदि पुनरेकेनैव रूपेणानेकया शक्त्या सम्बध्यते तदानेकविशेषणत्वविरोधः । पीतग्रहणशक्त्या हि येन स्वभावेन सम्बध्यते तेनैव नीलादिग्रहणशक्त्या चेत्, पीतग्राहित्वविशेषमेव मेचकज्ञानं स्यान्न नीलादिगाहित्वविशेषणमिति पीतज्ञानमेव स्यान्न तु मेचकज्ञानम् । अथैकया शक्त्यानेकमर्थं तद् गृह्णातीति द्वितीयविकल्पः समाश्रीयते तदापि सर्वार्थग्रहणप्रसङ्गः । पीतग्रहणशक्त्या ह्ये कया यथा नीलादिग्रहणं तथातीतानागतवर्तमानाशेषपदार्थग्रहणमपि केन निवार्येत ? अथ न पीतग्रहणशक्त्या नीलग्रहणशक्त्या वा पीतनीलाद्यनेकार्थग्राहि मेचकज्ञानमिष्यते । किं तर्हि ? नीलपीतादिप्रतिनियतानेकार्थग्रहणशक्त्यैकयेति मतं तदा न कार्यभेद: कारणशक्तिभेदव्यवस्थाहेतुः स्यादित्येकहेतुकं विश्वस्य वैश्वरूप्यं प्रसज्येत । तथा चानेककारणप्रतिवर्णनं सर्वकार्योत्पत्तौ विरुध्यते । तदभ्युपगच्छता मेचकज्ञानमनेकार्थग्राहि नानाशक्त्यात्मकमुररीकर्त्तव्यम् । तेन च विरुद्धधर्माधिकरणेनैकेन प्रकृतहेतोरनैकान्तिकत्वान्न ज्ञानादीनामात्मनो भेदैकान्तसिद्धिर्येनात्मानन्तज्ञानादिरूपो न भवेत् । निराकरिष्यमाणत्वाच्चाग्रतो गुणगुणिनोरन्यतैकान्तस्य, न ज्ञानादयो गुणाः सर्वथात्मनो भिन्नाः शक्याः प्रतिपादयितुं यतोऽशेषविशेषगुणनिवृत्तिर्मुक्तिर्व्यवतिष्ठेत ।।
[मुक्तौ क्षयोपशमिकादिज्ञानसुखादीनामभावो न चानन्तसुखादीनाम्] ननु च धर्माधर्मयोस्तावन्निवृत्तिरात्यन्तिकी मुक्तौ प्रतिपत्तव्या, अन्यथा तदनुपपत्तेः, तन्निवृतौ च तत्फलबुद्ध्यादिनिवृत्तिरवश्यम्भाविनी, निमित्तापाये नैमित्तिकस्याप्यनुपपत्तेः । मुक्तस्यात्मनोऽन्तःकरणसंयोगाभावे वा न तत्कार्यस्य बुद्ध्यादेरुत्पत्तिः इत्यशेषविशेषगुणनिवृत्तिर्मुक्तौ सिद्ध्यत्येवेति केचित् तेऽप्यदृष्टहेतुकानां बुद्ध्यादीनामात्मान्त:करणसंयोगजानां च मुक्तौ निवृत्तिं ब्रुवाणा न निवार्यन्ते ।
अष्टसहस्त्रीतात्पर्यविवरणम्
घट इत्यादिविषयोपरागो, बिम्बचलनावेशस्थानीयः करोमीति व्यापारावेश इत्यंशत्रयकल्पनम् अपास्तम्, सम्बन्धसामान्यस्यातिप्रसञ्जकत्वात् सम्बन्धविशेषस्य च तादात्म्यातिरिक्तस्य युक्तिरिक्तत्वादमूर्तस्यात्मनः प्रतिबिम्बादिकल्पनाया बालक्रीडाप्रायत्वादिति द्रष्टव्यम् । न निवार्यन्त इति न च ज्ञानत्वाद्यवच्छिन्न एवादृष्टान्तःकरणादिहेतुत्वान्मुक्तौ
Page #214
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम्
कर्मक्षयहेतुकयोस्तु प्रशमसुखानन्तज्ञानयोर्निवृत्तिमाचक्षाणास्ते न स्वस्थाः प्रमाणविरोधात् । ततः कथञ्चिद् बुद्ध्यादिविशेषगुणानां निवृत्तिः कथञ्चिदनिवृत्तिर्मुक्तौ व्यवतिष्ठते । न चैवं सिद्धान्तविरोधः ।
बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः [तत्त्वार्थसूत्रम् - १०.२] इत्यनुवर्तमाने औपशमिकादिभव्यत्वानां च,
अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः । इति [ तत्त्वार्थसूत्रम् १०.३,४] सूत्रसद्भावात् । तत्रौपशमिक क्षायोपशमिकौदयिकपारिणामिकभावानां दर्शनज्ञानगत्यादीनां भव्यत्वस्य च विप्रमोक्षो मोक्ष इत्यभिसम्बन्धान्मुक्तौ विशेषगुणनिवृत्तिरिष्टा, अन्यत्र केवलज्ञानदर्शनसिद्धत्वेभ्य इति वचनादनन्तज्ञानदर्शनसिद्धत्वसम्यक्त्वानामनिवृत्तिश्चेति युक्तं तथा वचनम् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
१८०
तदजन्यज्ञानाद्यनुपपत्तिरिति वक्तुं युक्तम्, परैरपीश्वरज्ञानादिव्यावृत्तये जन्यत्वस्य कार्यतावच्छेदककोटौ दानात् तस्य च ध्वंसप्रतियोगित्वरूपत्वात्, ध्वंसाप्रतियोगिज्ञानादीनां मुक्तावनुपपत्त्यभावात् । न च जन्यत्वेन ज्ञानादीनां मुक्तावपि ध्वंस आवश्यक इति वाच्यम्, जन्यत्वेन ध्वंसहेतुत्वे मानाभावात्, प्रतियोगिनो विशिष्य हेतुत्वेऽपि मुक्तज्ञानादीनां ध्वंसाहेतुत्वकल्पन एव लाघवात् । न च उपयोगस्य संसारदशायामन्तर्मुहूर्त्तादिकालनाश्यत्वदर्शनान्मुक्तावपि कालान्नाशप्रसङ्ग इति वाच्यम् केवलज्ञानादीनां कालानाश्यत्वस्य तदुपयोगक्षणिकत्वे च प्रवाहतस्तदानन्त्यस्य सिद्धान्तसिद्धत्वादित्याद्यधिकमस्मत्कृतन्यायालोकादौ ।
अन्यत्र केवलेत्यादि । विशेषनिषेधस्य शेषाभ्यनुज्ञाफलकत्वादौपशमिकादिभावमध्यपतितस्य चारित्रादेः क्षायिकभावस्यापि सिद्धिसमये नाश इत्यस्माद्वचनाल्लभ्यते, यो यः क्षायिको भावः स स नाशाप्रतियोगीतिनियमस्यानेनैव निरासात्, केवलसम्यक्त्वाद्यन्यभावमात्रनाशेऽयोगिगुणस्थानचरमसमयस्य हेतुत्वात् । क्षायिको भावः साद्यनन्त एवेति तु मतान्तरम्, तदाश्रयणे तु सिद्धानामपि चारित्रं भवत्येव परं तन्मते सिद्धो नो चरित्री नो अचरित्री, चारित्रलब्धिकानां मनःपर्यायवर्जानि चत्वारि ज्ञानानि भजनयेत्यादि - सिद्धान्तवचनानुपष्टम्भ इत्येतन्महता प्रबन्धेनोपपादितमस्माभिरध्यात्ममतपरीक्षायामिति त
१. अध्या० - १५०, इत्यादौ सिद्धानां चारित्रसत्त्वविचारे (गाथा १३१ - १५८)
Page #215
--------------------------------------------------------------------------
________________
१८१
प्रथमो भागः [परि०१-का०६]
__कथमेवमनन्तसुखसद्भावो मुक्तौ सिद्धयेदिति चेत्, सिद्धत्ववचनात् सकलदुःखनिवृत्तिरात्यन्तिकी हि भगवतः सिद्धत्वम्, सैव चानन्तप्रशमसुखम्, इति सांसारिकसुखनिवृत्तिरपि मुक्तौ न विरुध्यते ।
- अष्टसहस्त्रीतात्पर्यविवरणम् एवावगन्तव्यम् । तथा वचनं कथञ्चिद्विशेषगुणनिवृत्त्यनिवृत्तिवचनम् । कथमेवमिति अनन्तसुखस्य कण्ठतोऽनभिधानादयं प्रश्नः । सिद्धत्ववचनादिति तथा च सिद्धत्वेनाक्षेपात्तल्लाभ इति भावः । सैव चेति आत्यन्तिकी दुःखनिवृत्तिरेव चेत्यर्थः अभावस्य भावान्तरस्वरूपत्वादिति भावः । यद्यपि एवं दुःखनिवृत्त्युत्तरपरिणाममात्रेऽतिप्रसङ्गः, तथापि उपस्थितदुःखकारणनिवृत्त्यादेः सुखहेतुत्वस्य लोकशास्त्रसिद्धत्वात्तदात्यन्तनिवृत्त्यादिजन्यमनन्तसुखं मोक्षे सिद्ध्यतीत्यत्र तात्पर्यम् । तदाहुः श्रीहरिभद्राचार्याः
'जं सव्वसत्तु तह सव्ववाहि सव्वट्ठसव्वमिच्छाणं । खयविगमजोगपत्तीहिं होइ तत्तो अणंतगुणं ॥१॥ इति, [विंशतिविशिका-२०.३]
वाचकचक्रवर्तिनोऽप्याहुः
देहमनोवृत्तिभ्यां भवतः शारीरमानसे दुःखे । तदभावात्तदभावे, सिद्धं सिद्धस्य सिद्धिसुखम् ॥१॥ इति, [प्रशमरति-२९५]
अथ अन्यत्र शत्रुक्षयादिज्ञानादेव सुखोत्पाददर्शनात् स्वरूपसत्या अत्यन्तदुःखनिवृत्तेरनन्तसुखहेतुत्वमयुक्तमिति चेत्, न, मूर्छाद्यवस्थाव्यावृत्तज्ञायमानदुःखनिवृत्तेरेव सुखहेतुत्वात्तस्याश्च मुक्तावप्यव्याहतत्वात् । तथापि सिद्धत्वमष्टकर्मक्षयजनितः साद्यनन्तः पारिणामिको भावः, सिद्धिसुखं च वेदनीयकर्मक्षयजनितम्, इति केयं वाचोयुक्तिः सिद्धत्वमेवानन्तसखमिति ? समनियतत्वेन चैक्याश्रयणे सिद्धगणाष्टकोपदर्शकव्याघात इति सिद्धत्वग्रहणेऽप्यनन्तसुखाग्रहणान्न्यूनत्वदोषः सूत्रस्यापरिहृत एवेति चेन्मैवम, सिद्धत्वेनानन्तं सखमपलक्ष्यत इति न न्यनत्वमित्यत्र तात्पर्यात, अन्यत्रोपलक्षणत्वेनाविवक्षायां च सत्रकर्त्तः स्वतन्त्रेच्छत्वस्यैव शरणत्वात्, अत एवोचुः कण्ठरवेण विहितसहृदयालादाः क्षमाश्रमणपादाः
१. छायाः यत् सर्वशत्रु तथा सर्वव्याधि सर्वार्थसर्वेच्छानाम् ।
क्षयविगम-योग-प्राप्तिभिः भवति ततो अनन्तगुणम् ॥
Page #216
--------------------------------------------------------------------------
________________
१८२
अष्टसहस्त्रीतात्पर्यविवरणम्
[वेदान्तिभिर्मतस्य मोक्षस्य निराकरणम्] अनन्तसुखमेव मुक्तस्य, न ज्ञानादिकमिति आनन्दैकस्वभावाभिव्यक्तिर्मोक्ष इत्यपरः सोऽपि युक्त्यागमाभ्यां बाध्यते । तदनन्तं सुखं मुक्तौ पुंसः संवेद्यस्वभावमसंवेद्यस्वभाव वा ? संवेद्यं चेत्, तत्संवेदनस्यानन्तस्य सिद्धिः, अन्यथानन्तस्य सुखस्य स्वयं संवेद्यत्वविरोधात् । यदि पुनरसंवेद्यमेव तत्तदा कथं सुखं नाम ? सातसंवेदनस्य सुखत्वप्रतीतेः । स्यान्मतं ते-अभ्युपगम्यते एवानन्तसुखसंवेदनं परमात्मनः, केवलं बाह्यार्थानां ज्ञानं नोपेयते तस्येति, तदप्येवं सम्प्रधार्यम्, किं बाह्यार्थाभावाद् बाह्यार्थसंवेदनाभावो मुक्तस्येन्द्रियापायाद्वा ? प्रथमपक्षे सुखस्यापि संवेदनं मुक्तस्य न स्यात्, तस्यापि बाह्यार्थवदभावात् । पुरुषाद्वैतवादे हि बाह्यार्थाभावो यथाभ्युपगन्तव्यस्तथा सुखाभावोऽपि, अन्यथा
अष्टसहस्त्रीतात्पर्यविवरणम्
तस्सोदइआईआ भव्वत्तं च विणिवत्तए समयं ।
सम्मत्तनाणदंसणसुहसिद्धत्ताइ मोत्तूणं ॥ इति, [विशे० भा० ३०८७]
इत्यपर इति तौतातित इत्यर्थः । तदाहुरुदयनाचार्याः नित्यनिरतिशयसुखाभिव्यक्तिर्मुक्तिः इति 'तौतातिता [ ] इति । सोऽपीति युक्त्यागमबाधश्च तौतातितस्य, सुखमात्रस्यादृष्टादिजन्यत्वेन नित्यसुखे मानाभावादात्मरूपस्यैव सुखस्योपगमे तन्नित्यतया सुखनित्यत्वे संसारदशायामप्यात्माभिन्नतदभिव्यक्तौ मुक्तिप्रसङ्गाद्दुःखात्यन्तनिवृत्तेरेव नित्यसुखत्वप्रकारकाभिव्यक्तिहेतुत्वे विशेषणासिद्ध्या तस्या भ्रमजनकत्वापत्तेरस्यार्थस्य निष्कर्ष नित्यस्य सुखस्याभिव्यक्तिनित्या वा सुखाभिव्यक्तिो क्ष इत्यनुच्छिद्यमानसुखज्ञानधारात्मकमोक्षवादिदीघितिकृन्मतस्यैव पर्यायार्थादेशपेशलमतिप्रपञ्चितस्य साम्राज्यापत्तेः, द्रव्यार्थादेशे तु साद्यनन्तं सुखं तादृशी तदभिव्यक्तिश्चेत्युभयमपि मुक्तौ प्रामाणिकम्, तदाह-तदनन्तं सुखमित्यादि । सातसंवेदनस्येति सुखमात्रस्य स्वसंवेदनव्याप्यसत्ताकत्वनियमेनासंवेद्यमानस्य सुखत्वविरोधादित्यर्थः । ते वेदान्तिनः परमात्मन इति तस्यैव सच्चिदानन्दरूपत्वेन श्रुत्युक्तत्वादित्यर्थः । एवं सम्प्रधार्यम्=एवं विचारणीयम् । अन्यथा द्वैतप्रसङ्गादिति सुखं ब्रह्म चेत्युभयस्य जागरूकत्वादित्यर्थः ।
१. छायाः तस्यौदयिकादयो भव्यत्वं च विनिवर्तते समकम् ।
सम्यक्त्वज्ञानदर्शनसुखसिद्धत्वादीन् मुक्त्वा ॥ इति ।
Page #217
--------------------------------------------------------------------------
________________
प्रथमो भाग: [ परि० १ - का० ६ ]
द्वैतप्रसङ्गात् । अथ द्वैतवादावलम्बिनां सतोऽपि बाह्यार्थस्येन्द्रियापायादसंवेदनं मुक्तस्येति मतं तदप्यसङ्गतं, तत एव सुखसंवेदनाभावप्रसङ्गात् । अथान्तःकरणाभावेऽपि मुक्तस्यातीन्द्रियसंवेदनेन सुखसंवेदनमिष्यते तर्हि बाह्यार्थसंवेदनमस्तु तस्यातीन्द्रियज्ञानेनैवेति मन्यतां, सर्वथा विशेषाभावात् ।
१८३
[ बौद्धाभिमतमोक्षस्य निराकरणम् ]
येऽपि निरास्त्रवचित्तसन्तानोत्पत्तिर्मोक्षः इत्याचक्षते तेषामपि मोक्षतत्त्वं युक्त्याभ्युपायेन च बाध्यते प्रदीपनिर्वाणोपमशान्तनिर्वाणवत् चित्तानां तत्त्वतोऽन्वितत्वसाधनात् सन्तानोच्छेदानुपपत्तेश्च निरन्वयक्षणक्षयैकान्ताभ्युपायेन च मोक्षाभ्युपगमबाधनस्य वक्ष्यमाणत्वात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
अथ सुखव्यावृत्तिरेव सुखं ब्रह्मेति न द्वैतप्रसङ्ग इति यदि विभाव्यते, तदाऽतद्व्यावृत्त्याऽनन्तगुणात्मस्वभावावस्थितिरूपमुक्तिवादेऽपि न द्वैतप्रसङ्गो भविष्यतीति सन्तोष्टव्यम् । मन्यतामिति योगजधर्ममहिम्ना जातस्य सर्वविषयकज्ञानस्य नाशकाभावेन आकालमनुवृत्तेरित्यर्थः । न च तपोविशेषफलं सार्वज्ञ्यं शापानुग्रहादिसामर्थ्यवत् कस्यचिदेव, मुक्तिस्तु सर्वस्य नित्यसत्यचिदानन्दस्वरूपैवेत्यपि वक्तुं युक्तम्, सार्वज्ञस्यात्मस्वभावताया व्यवस्थापितत्वात्तत्प्रतिबन्धककर्मक्षयस्य सर्वमुक्तसाधारणत्वात्तपोविशेषस्यापि ब्रह्मप्राप्त्यर्थिना सार्वज्ञ्यसिद्धये क्रियमाणत्वाच्चेति दिक् । सौगतमतमुपन्यस्य दूषयति येऽपीत्यादिना । प्रदीपेत्यादि प्रदीपनिर्वाणोपमं शान्तस्य निर्वाणमित्येतन्मतं यथा युक्त्याभ्युपायेन च बाध्यते पूर्वावस्थात उत्कृष्टजात्यप्राप्तेः तदर्थिप्रवृत्त्यौपयिकयुक्तिबाधान्नाशस्य निर्हेतुकत्वाभ्युपगमेन कारणबाधाच्च, तथा निराश्रवचित्तसन्तानोत्पत्तिर्मुक्तिः इति मतमपि आश्रवानाश्रवचित्तानां बन्धमोक्षसामानाधिकरण्यानुरोधार्थमेकद्रव्यान्वयाश्रयणावश्यकत्वे केवलपर्यायोद्देश्यकप्रवृत्त्यनुकूलयुक्तिबाधादाश्रवचित्तध्वंसरूपायास्तस्या निर्हेतुकत्वेनाभ्युपायबाधाच्च, तथा च मोक्षः पुरुषार्थो न स्यात् अनाश्रवचित्तक्षणेष्वेकां जातिमङ्गीकृत्य तदवच्छिन्ने चरमाश्रवचित्तक्षणस्य हेतुत्वे त्वेकैकक्षणस्य कार्यकारणकोटिमध्यप्रवेशे विनिगमकाभावस्तत्तत्क्षणस्य कुर्वद्रूपत्वानिश्चये प्रवृत्त्यभावश्च । (शं०) तात्त्विकोऽयं कार्यकारणभावो व्यावहारिकस्त्वन्य एवेति न मोक्षार्थं मायासूनवीयशास्त्रसिद्धदीक्षादिग्रहणानुपपत्तिरिति चेत्, न चित्तात्मनः परिणामित्वमविद्यादिशब्दवाच्यमर्थान्तरं
Page #218
--------------------------------------------------------------------------
________________
१८४
अष्टसहस्त्रीतात्पर्यविवरणम्
[साङ्ख्यादिमान्यमोक्षकारणतत्त्वमपि निराक्रियते जैनाचार्यै: ]
तथा मोक्षकारणतत्त्वमपि कपिलादिभिर्भाषितं न्यायागमविरुद्धम् ।
[साङ्ख्याभिमतमोक्षकारणतत्त्वस्य खण्डनम् ]
तद्विज्ञानमात्रं न परनिःश्रेयसकारणं, प्रकर्षपर्यन्तावस्थायामप्यात्मनि शरीरेण सहावस्थानान्मिथ्याज्ञानवत् । न तावदिहासिद्धो हेतु:, सर्वज्ञानामपि कपिलादीनां स्वयं प्रकर्षपर्यन्तावस्थाप्राप्तस्यापि ज्ञानस्य शरीरेण सहावस्थानोपगमात् । साक्षात्सकलार्थज्ञानोत्पत्त्यनन्तरं शरीराभावे कुतोऽयमाप्तस्योपदेशः प्रवर्तते ? अशरीरस्याप्तस्योपदेशकरणविरोधादाकाशवत् । तस्यानुत्पन्ननिखिलार्थज्ञानस्योपदेश इति चेत्, न तस्याप्रमाणत्वशङ्काऽनिवृत्तेरन्याज्ञानपुरुषोपदेशवत् । यदि पुनः शरीरान्तरानुत्पत्तिर्निःश्रेयसं न गृहीतशरीरनिवृत्तिः । तस्य साक्षात्सकलतत्त्वज्ञानं कारणं, न तु गृहीतशरीरनिवृत्तेः, फलोपभोगात्तदुपगमात् । ततः पूर्वोपात्तशरीरेण सहावतिष्ठमानात्तत्त्वज्ञानादाप्तस्योपदेशो युक्त इति मतं, तदा हेतुः सिद्धोऽभ्युपगतस्तावत्, स च परनिःश्रेयसाकारणत्वं तत्त्वज्ञानस्य साधयत्येव, भाविशरीरस्येवोपात्तशरीरस्यापि निवृत्तेः परनिःश्रेयसत्वात्, तस्य च तद्भावेऽप्यभावात् । फलोपभोगकृतोपात्तकर्मक्षयापेक्षं तत्त्वज्ञानं परनिःश्रेयसकारणमित्यप्यनालो
अष्टसहस्त्रीतात्पर्यविवरणम्
योगसामर्थ्यनाश्यं तन्मुक्तियोग्यतां च व्यवहारतो मोक्षार्थिप्रवृत्तेः कथमप्यघटनात्तत्त्रितयोपगमे च स्याद्वादिमतस्यैव साम्राज्यादित्यधिकं समर्थितमनेकान्तव्यवस्थायामस्माभिः । शरीरेणेति शरीरनिवृत्तिरूपे मोक्षे शरीरसहावस्थिततत्त्वज्ञानस्य हेतुत्वायोगादित्यर्थः । साक्षादिति साक्षात्काररूपम् अपरोक्षमिथ्याज्ञानेऽपरोक्षतत्त्वज्ञानस्यैव नाशकत्वाद्दिङ्मोहादौ तथा दर्शनादिति भावः । शरीराभावे इति साक्षात्तत्त्वज्ञानस्य शरीरनिवृत्तिरूपमोक्षहेतुत्वे तदुत्पत्त्यनन्तरं तदभावस्य बलादापत्तेरिति भावः । ननु तत्त्वज्ञानस्य मिथ्याज्ञानादिनिवृत्तिद्वारा शरीरान्तरानुत्पत्तौ कारणता, तथा च न्यायसूत्रं द्वितीयं दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः इति, एवं चोत्पन्नतत्त्वज्ञानस्य यावच्छरीरस्थितिनोपदेशविरोध इत्याशड्क्य दूषयितुमाह-यदि पुनरित्यादिना । उपात्तशरीरस्यापीति एकविंशतिभेदभिन्नदुःखनिवृत्तेरेव नैयायिकसाम्प्रदायिकैर्मोक्षत्वाभिधानादुक्तसूत्रस्य चार्थसिद्धक्रमाभिधानपरत्वादिति भावः । वस्तुतो मुख्यदुःखध्वंसविशेषो मुक्तिः इत्य
Page #219
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का०६]
१८५ चिताभिधानं, फलोपभोगस्यौपक्रमिकानौपक्रमिकविकल्पानतिक्रमात् । तस्यौपक्रमिकत्वे क्षुतस्तदुपक्रमोऽन्यत्र तपोऽतिशयात् ? इति तत्त्वज्ञानतपोऽतिशयहेतुकं परनिःश्रेयसमायातम् । समाधिविशेषादुपात्ताशेषकर्मफलोपभोगोपगमाददोष इति चेत्, कः पुनरसौ समाधिविशेषः ? स्थिरीभूतं ज्ञानमेव स इति चेत्, तदुत्पत्तौ परनिःश्रेयसस्य भावे स एवाप्तस्योपदेशाभावः । सकलतत्त्वज्ञानस्यास्थैर्यावस्थायामसमाधिरूपस्योपजनने युक्तोऽयं योगिनस्तत्त्वोपदेश इति चेत्, न सकलतत्त्वज्ञानस्यास्थैर्यविरोधात्तस्य कदाचिच्चलनानुपपत्तेः, अक्रमत्वाद्विषयान्तरसञ्चरणाभावात, अन्यथा सकलतत्त्वज्ञानत्वासम्भवादस्मदादिज्ञानवत । अथ तत्त्वोपदेशदशायां योगिनोऽपि ज्ञानं विनेयजनप्रतिबोधाय व्याप्रियमाणमस्थिरसमाधिरूपं पश्चान्निवृत्तसकलव्यापारं स्थिरं समाधिव्यपदेशमास्कन्दतीत्युच्यते, तर्हि समाधिश्चारित्रमिति नाममात्रं भिद्यते, नार्थः । तत्त्वज्ञानादशेषाज्ञाननिवृत्तिफलादन्यस्य परमोपेक्षालक्षणस्वभावस्य समुच्छिन्नक्रियाऽप्रतिपातिपरमशुक्लध्यानस्य तपोऽतिशयस्य समाधिव्यपदेशकरणात् । तथा चारित्रसहितं तत्त्वज्ञानमन्तर्भूततत्त्वार्थश्रद्धानं परनिःश्रेयसमनिच्छतामपि कपिलादीनामग्रे व्यवस्थितम्, ततो न्यायविरुद्धं सर्वथैकान्तवादिनां ज्ञानमेव मोक्षकारणतत्त्वम् स्वागमविरुद्धं च, सर्वेषामागमे प्रव्रज्याद्यनुष्ठानस्य सकलदोषोपरमस्य च बाह्यस्याभ्यन्तरस्य च चारित्रस्य मोक्षकारणत्वश्रवणात् ।
- अष्टसहस्रीतात्पर्यविवरणम् क्तिनमतमप्ययुक्तम्, उत्पन्नानुत्पन्नदुःखविकल्पग्रासेन तस्यापुरुषार्थत्वाद् उत्पन्नस्य स्वत एव नाशाद् अनुत्पन्नस्य च नाशयितुमशक्यत्वात् । न च चरमदुःखमुत्पाद्यतत्त्वज्ञानं तन्नाशयतीति न मुक्तेरपुरुषार्थत्वमित्यपि युक्तम्, दुःखे प्रवृत्तेः कथमपि कस्याप्ययोगाच्चरमत्वस्यार्थसमाजसिद्धत्वेन कार्यतानवच्छेदकत्वात् सुखान्तमुक्तेरसम्भवप्रसङ्गाच्चेति दिक् । तथा च चारित्रसहितमिति ननु के वलज्ञानस्येव यथाख्यातचारित्रस्य परनिःश्रेयसरूपफलजनने विलम्बस्तुल्य एव परमशुक्लध्यानरूपसमाधेरविलम्बेन तदुत्पत्त्युपगमे च तस्यैव परनिःश्रेयसहेतुत्वमुच्यतां किं ज्ञानचारित्रयोस्तत्कल्पनयेति चेत् न, अन्वयव्यतिरेकाभ्यामागमाच्च ज्ञानचारित्रयोः परनिःश्रेयसहेतुत्वसिद्धावुक्तसमाधेारत्वकल्पनेनाविरोधात् । न च मिथ्याज्ञानवासनायाः संसारहेतुत्वात्तद्विरोधितत्त्वज्ञानस्यैवोक्त
१. तथा चारित्रमिति अष्टसहस्रीसम्मतः पाठः ।
Page #220
--------------------------------------------------------------------------
________________
१८६
अष्टसहस्त्रीतात्पर्यविवरणम्
[ अन्यैः कल्पितं संसारतत्त्वमपि सर्वथा विरुद्धमेव ]
तथा संसारतत्त्वं चान्येषां न्यायागमविरुद्धम् । तथा हि- नास्ति नित्यत्वाद्येकान्ते कस्यचित्संसारः, विक्रियानुपलब्धेः इति न्यायविरोधः । समर्थयिष्यते तदागमविरोधश्च, स्वयं पुरुषस्य संसाराभाववचनाद् गुणानां संसारोपपत्तेः परेषां संवृत्त्या संसारव्यवस्थितेः ।
[साङ्ख्याभिमतसंसारकारणनिराकरणम् ]
तथा संसारकारणतत्त्वं चान्येषां न्यायागमविरुद्धम् । तद्धि मिथ्याज्ञानमात्रं
अष्टसहस्त्रीतात्पर्यविवरणम्
समाधिद्वारा मुक्तिहेतुत्वमिति वाच्यम् । उक्तसमाधेरपि मुक्तिवत्कालान्तरभावित्वेन तत्रापि कर्मनिर्जराद्वारा ज्ञानस्य हेतुत्वे कल्पनीये मुक्तावेव ज्ञानकर्मणोस्तुल्यवत्समुच्चयबोधकागमेन ज्ञानवत्तथाचारित्रस्यापि हेतुताया अवर्जनीयत्वात् । न च ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुनइति [ भगवद्गीता ४.३७] वचनात् सञ्चितकर्मनाशे ज्ञानमेव कारणं प्रारब्धनाशस्तु भोगादेव, क्रियमाणं तु योगिकर्म मिथ्याज्ञानवासनाभावान्नादृष्टोत्पादकमिति न क्वापि चारित्रोपयोग इति शङ्कनीयम्, ज्ञानाग्निरित्यादेर्ज्ञानस्तुतिमात्रपरत्वात्, सङ्कोचावश्यकत्वे ज्ञानचारित्रयोः स्वस्वजन्यकर्मनाशे पृथग्हेतुत्वावश्यकत्वाद्विना चारित्रव्यापारमौपक्रमिकफलोपभोगस्य कथमप्यनुपपत्तेः । सम्मतश्चायमर्थ:
तण्डुलस्य यथा वर्म यथा ताम्रस्य कालिका । नश्यति क्रियया पुंसः पुरुषस्य तथा मलम् ॥ [
]
इत्यादि वाशिष्ठग्रन्थादिनापि । नयवादास्तु तपः संयमज्ञानानां मुक्तिहेतुत्वे भिन्नरुचिरूपतयैव व्यवतिष्ठन्ते, तथा च पारमर्षम्
तवसंजमो अणुमओ णिग्गंथं पवयणं च ववहारे ।
सहुज्जुसुआणं पुण णिव्वाणं संजमो चेव त्ति ॥ [विशेषावश्यकम् २६२१]
इति अलमतिविस्तरेण ।
गुणानां=महदादिपरिणामानाम्, संसारोपपत्तेः = संसारसम्भवदर्शनात् परेषां =
१. छाया - तप:संयमोऽनुमतो नैर्ग्रन्थं प्रवचनं च व्यवहारः । शब्दर्जुसूत्रयोः पुनर्निर्वाणं संयम एव ॥
Page #221
--------------------------------------------------------------------------
________________
प्रथमो भाग: [ परि० १ - का० ६ ]
तैरुररीकृतम्, न च तत्कारणः संसारः, तन्निवृत्तावपि संसारानिवृत्तेः । यन्निवृत्तावपि यन्न निवर्त्तते न तत्तन्मात्रकारणम् । यथा तक्षादिनिवृत्तावप्यनिवर्तमानं देवगृहादि न तन्मात्रकारणम् । मिथ्याज्ञाननिवृत्तावप्यनिवर्त्तमानश्च संसारः । तस्मान्न मिथ्याज्ञानमात्रकारणक इति । अत्र न हेतुरसिद्धः सम्यग्ज्ञानोत्पत्तौ मिथ्याज्ञाननिवृत्तावपि दोषानिवृत्तौ संसारानिवृत्तेः स्वयमभिधानात् । दोषाणां संसारकारणत्वावेदकागमस्वीकरणाच्च तन्मात्रं संसारकारणतत्त्वं न्यायागमविरुद्धं सिद्धम् । तदेवमन्येषां न्यायागमविरुद्धभाषित्वादर्हन्नेव युक्तिशास्त्राविरोधिवाक् सर्वज्ञो वीतरागश्च निश्चीयते, ततः स एव सकलशास्त्रादौ प्रेक्षावतां संस्तुत्यः ।
[बौद्धः शङ्कते यत् वीतरागोऽपि सरागवत् चेष्टां कर्तुं शक्नोति शरीरित्वात्, जैनाचार्या अस्य समाधानं कुर्वन्ते ]
१८७
ये त्वाहुः-‘सतोऽपि यथार्थदर्शिनो वीतरागस्येदन्तया निश्चेतुमशक्तेस्तत्कार्यस्य व्यापारादेस्तद्व्यभिचारादवीतरागेऽपि दर्शनात्, सरागाणामपि वीतरागवच्चेष्टमानानामनिवारणान्न कस्यचित् स त्वमेवाप्त इति निर्णयः सम्भवति' इति तेषामपि,
(भा०) विचित्राभिसम्बन्धतया व्यापारव्याहारादिसाङ्कर्येण क्वचिदप्यतिशयानिर्णये कैमर्थक्याद्विशेषेष्टिः, ज्ञानवतोऽपि विसंवादात्, क्व पुनराश्वासं लभेमहि ?
न हि ज्ञानवतो वीतरागात्पुरुषाद्विसंवादः क्वचित्सम्भवति सुगतादावप्यनाश्वासप्रसङ्गात् तस्य कपिलादिभ्यो विशेषेष्टेरानर्थक्यप्रसङ्गात् । न च व्यापारव्याहाराकारविशेषाणां तत्र साङ्कर्यं सिद्ध्यति, विचित्राभिसन्धितानुपपत्तेः तस्याः पृथग्जने
अष्टसहस्त्रीतात्पर्यविवरणम्
साङ्ख्यानाम्, संवृत्या = उपचारमात्रेण, तत्कारणः = तन्मात्रकारणक:, तेन नोपक्रमोपसंहारविरोधः, कारणं चात्रोपादानरूपं बाह्यं तेन न वक्ष्यमाणव्याप्त्यनुपपत्तिः, सिद्धान्ते मिथ्याज्ञानाविरत्यादिनानासंसारोपादानाभ्युपगमेऽपि तद्विशिष्टात्मनः कारणस्यैकत्वान्न काप्याशङ्का, पर्यायार्थतया नानोपादानत्वस्य द्रव्यर्थतयैकोपादानत्वस्य चाविरोधादिति द्रष्टव्यम् । भाष्ये कैमर्थक्येति मत्वर्थीयाचा किमर्थेत्यर्थः । विशेषेष्टेर्विशेषणमेतद् द्रष्टव्यम् । तत्र=सुगतादौ, साङ्कर्यम् = अन्यत्र परिदृष्टजातीयत्वम्, विचित्राभिसन्धितानुपपत्तेरिति तथा च विचित्राभिसन्धित्वाभावाद् व्यापारादिसाङ्कर्याभावस्तद्विशेषाच्चातिशयः सर्वज्ञे
Page #222
--------------------------------------------------------------------------
________________
१८८
अष्टसहस्त्रीतात्पर्यविवरणम् रागादिमत्यज्ञे प्रसिद्धेः प्रक्षीणदोषे भगवति निवृत्तेः, अस्य यथार्थप्रतिपादनाभिप्रायतानिश्चयात् । कुतश्चायं सर्वस्य विचित्राभिप्रायतामदृश्यां व्यापारादिसाङ्कर्यहेतुं निश्चिनुयात् ? शरीरित्वादेर्हेतोः स्वात्मनीवेति चेत्, तत एव सुगतस्यासर्वज्ञत्वनिश्चयोऽस्तु । तत्रास्य हेतोः सन्दिग्धविपक्षव्यावृत्तिकत्वान्न तन्निश्चयः । शरीरी च स्यात्सर्वज्ञश्च, विरोधाभावात्, विज्ञानप्रकर्षे शरीराद्यपकर्षादर्शनादिति चेत्, तत एव सर्वज्ञस्य विचित्राभिप्रायतानिश्चयोऽपि मा भूत्, तत्रापि प्रोक्तहेतोः सन्दिग्धविपक्षव्यावृत्तिकत्वाविशेषात् । सोऽयं विचित्रव्यापारादिकार्यदर्शनात्सर्वस्य विचित्राभिसन्धितां निश्चिनोति, न पुनः कस्यचिद्वचनादिकार्यातिशयनिश्चयात् सर्वज्ञत्वाद्यतिशयमिति कथमनुन्मत्तः ? ।
कैमर्थक्याच्चास्य सन्तानान्तरस्वसन्तानक्षणक्षयस्वर्गप्रापणशक्त्यादेविशेषस्येष्टिः ?, विप्रकृष्टस्वभावत्वाविशेषात्, वेद्यवेदकाकाररहितस्य वेदनाद्वैतस्य वा विशेषस्य प्रमाणभूतस्य जगद्धितैषिणः शास्तुस्तायिनः शोभनं गतस्य सम्पूर्णं वा गतस्य पुनरनावृत्त्या सुष्ठ वा गतस्य विशेषस्येष्टिः ? सर्वत्रानाश्वासाविशेषात् ।
अष्टसहस्रीतात्पर्यविवरणम्
सिद्धयत्येवेति भावः । ननु असिद्धमेतद्विपरीतव्याप्तेरत आह-कुतश्चायमिति तत्र सुगते अस्य=शरीरित्वादेः, सन्दिग्धविपक्षव्यावृत्तिकत्वात् अप्रयोजकत्वाहितव्यभिचारसंशयास्कन्दितत्वादित्यर्थः । अप्रयोजकत्वबीजविपक्षबाधकतर्काभावप्रचिकटयिषयाऽऽहविज्ञानप्रकर्ष इति । प्रतिबन्द्या समाधत्ते तत एवेत्यादि तत एव प्रयोजकत्वाहितव्यभिचारसंशयादेव । दुर्बलबलवदनुमानयोरविशेषापन्नं प्रतिवादिनमाक्षिपति-सोऽयमित्यादि कथमनुन्मत्त इति उन्मत्त एवेत्यर्थः । आक्षेपान्तरमाह-कैमर्थक्याच्चेत्यादि कैमर्थक्याच्च किमर्थाच्च, सन्तानान्तरे स्वभिन्नयज्ञदत्तादिसन्ताने, तथा स्वसन्ताने क्षणक्षयस्य स्वर्गप्रापणशक्त्यादेश्च दानादिक्षणभिन्नतया । विशेषस्येष्टिः= प्रतिज्ञा, सर्वज्ञत्वाद्यतिशय इव तत्र विप्रकृष्टस्वभाववत्त्वस्याविशेषात्, तत्रापि संशयसम्भवात्, तत एव चित्रज्ञानस्य ज्ञानाद्वैतस्य वा विशेष्यस्य कथमिष्टिः कथं वा प्रमाणभूतत्वादिना सुगतगतस्य विशेषस्येति स्वाभ्युपगमविरुद्धमेतदखिलमिति भावः । प्रमाणभूतस्येत्यादिना
'प्रमाणभूताय जगद्धितैषिणे प्रणम्य शास्त्रे सुगताय तायिने इति [ ] सुगतस्तोत्रप्रतीकोत्कीर्तनं कृतं वृत्तिकृता । क्वचित् सामान्ये विशेषव्यभिचार
Page #223
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि० १-का. ६]
१८९ ____ (भा०) न चैवं वादिनः किञ्चिदनुमानं नाम, निरभिसन्धीनामपि बहुलं कार्यस्वभावानियमोपलम्भात्, सति काष्ठादिसामग्रीविशेषे क्वचिदुपलब्धस्य तदभावे प्रायशोऽनुपलब्धस्य मण्यादिकारणकलापेऽपि सम्भवात् । यज्जातीयो यतः संप्रेक्षितस्तज्जातीयात्तादृगिति दुर्लभनियमतायां धूमधूमकेत्वादीनामपि व्याप्यव्यापकभावः कथमिव निर्णीयेत ? वृक्षः शिंशपात्वादिति लताचूतादेरपि क्वचिदेव दर्शनात् प्रेक्षावतां किमिव निःशङ्कं चेतः स्यात् ? तदेतददृष्टसंशयैकान्तवादिनां विदग्धमर्कटानामिव स्वलाङ्गुलभक्षणम् ।
ननु च काष्ठादिसामग्रीजन्योऽग्निर्यादृशो दृष्टो न तादृशो मण्यादिसामग्रीप्रभव इति यज्जातीयो यतो दृष्टः स तादृशादेव न पुनरन्यादृशादपि, यतो धूमपावकयोाप्यव्यापकभावो न निर्णीयते, तथा यादृशं चतत्वं वक्षत्वेन व्याप्तं तादृशं न लतात्वेन, यतः शिंशपात्ववृक्षत्वयोरपि व्याप्यव्यापकभावनियमो दुर्लभः स्यात् इति कश्चित्सोऽपि प्रतीतेरपलापकः, कार्यस्य तादृशतया प्रतीयमानस्यापि कारणविशेषातिवृत्तिदर्शनात् ।
- अष्टसहस्रीतात्पर्यविवरणम् दर्शनात् विशेषहेतावपि तद् दृष्टान्तोपष्टम्भेन व्यभिचारसंशयोद्भावनेऽनुमानमात्रोच्छेदप्रसङ्ग इत्याह-न चैवं वादिन इति निरभिसन्धीनामित्यनन्तरम् अनुमानानामिति विपरिणतस्यानुषङ्गः, निर्गतोऽभिसन्धिर्विशेषाभिप्रायो येभ्यस्तेषामनुमानानां वह्निचूतत्वादीनां ज्ञायमानलिङ्गानामपि । बहुलं= भूम्ना, कार्यस्वभावानियमस्य= कार्यस्वभावप्रतिबद्धव्याप्त्यभावस्य= उपलम्भा=अन्यत्र तादृगनुमानसहस्रेऽप्यनाश्वासप्रसङ्गादित्यर्थः, दुर्लभविनियमतायां विशिष्टनिश्चयदौर्लभ्येऽकाष्ठजातीयादपि वह्निजातीयदर्शनादित्यर्थः । कथमिव निर्णीयेतेति अवह्निजातीयादपि धूमजातीयसम्भावनादित्यर्थः । वृक्षः शिंशपात्वादिति इत्यपि कथमिव निर्णयेतेति योजनीयम् । लतेति चूतादेवृक्षत्वव्यभिचारित्वेन तज्जातीयतया शिंशपायामपि वृक्षत्वव्यभिचारसंशयसम्भवादित्यर्थः । अदृष्टेति अदृष्टे वस्तुन्येकान्ततः संशयवादिनां सौगतानामित्यर्थः । सोऽपि प्रतीतेरपलापकः सोऽपि=सौगतः प्रतीयमानापह्नवकारी, कार्यस्येति कार्यस्य वद्यादेः, तादृशतया=वह्नित्वादिनैकजातीयतया । प्रतीयमानस्यापि ज्ञायमानस्यापि, कारणविशेषस्य काष्ठादेः, अतिवृत्तेः=अतिक्रमस्य दर्शनात् नन काष्ठादिजन्यतावच्छेदकतया वहनौ वैजात्यं कल्पयिष्यते तदवच्छिन्नादेव कारणविशेषोऽनुमास्यत इत्येवं न प्रतीत्यपलापो, विशेषापरिज्ञानं तु पुरुषदोषो न तु वस्तुदोष
Page #224
--------------------------------------------------------------------------
________________
१९०
अष्टसहस्त्रीतात्पर्यविवरणम् [यत्नेन परीक्षितकार्याणि कारणान्यनुवर्तते] (भा०) यत्नतः परीक्षितं कार्यं कारणं नातिवर्तते इति चेत् स्तुतम्
प्रस्तुतं, व्यापारादिविशेषस्यापि किञ्चिज्ज्ञरागादिमदसम्भविनो यत्नतः परीक्षितस्य भगवति ज्ञानाद्यतिशयानतिवृत्तिसिद्धेः । एतेन यत्नतः परीक्षितं व्याप्यं व्यापकं नातिवर्तते इति ब्रुवतापि स्तुतं प्रस्तुतमित्युक्तं वेदितव्यं, पुरुषविशेषत्वादेः स्वभावस्य व्याप्यस्य सर्वज्ञत्वव्यापकस्वभावानतिक्रमसिद्धस्तद्वदविशेषात् ।
(भा०) ततोऽयं प्रतिपत्तुरपराधो नानुमानस्येत्यनुकूलमाचरति ।
मन्दतरधियां धूमादिकमपि परीक्षितुमक्षमाणां ततो धूमध्वजादिबुद्धेरपि व्यभिचारदर्शनात् । प्रज्ञातिशयवतां तु सर्वत्र परीक्षाक्षमाणां यथा धूमादि पावकादिकं न व्यभिचरति तथा व्यापारव्याहाराकारविशेषः क्वचिद्विज्ञानाद्यतिशयमपीत्यनुकूलाचरणम् । एवं युक्तिशास्त्राविरोधिवाक्त्वं भगवतोऽर्हत एव सर्वज्ञत्वं साधयतीत्यभिधाय,
[सर्वे सत्यहेतवोऽर्हति भगवति एव सर्वज्ञत्वं साधयति नान्येषु] (भा०) तदेवं तत् सुनिश्चितासम्भवबाधकप्रमाणत्वमहत्येव सकलज्ञत्वं साधयति नान्यत्रेत्यविरोध इत्यादिना स्पष्टयति ।
स्वामीति शेषः यद्यस्मादविरोधः सुनिश्चितासम्भवद्बाधकप्रमाणत्वं त्वय्येव तस्माच्च त्वमेव स इत्यभिधानसम्बन्धात । स एवाविरोधः कतः सिद्धः ? इत्यारेकायां यदिष्टं ते प्रसिद्धेन न बाध्यते इत्यभिधानात् ।
[इच्छामन्तरेणापि भगवतः वाचः निर्दोषा सन्ति] (भा०) तत्रेष्टं मतं शासनमुपचर्यते, निराकूतवाचोऽपि क्वचिद
अष्टसहस्रीतात्पर्यविवरणम् इति नानुपपत्तिरिति मनसिकृत्य आह भाष्यकृत्-यत्नत इत्यादि । यत्नतः परीक्षितं= सूक्ष्मेक्षिकया विशेष पर्यवसायितम्, कार्यं कारणं नातिवर्त्तते कारणव्यभिचारशङ्कास्पदं न भवतीत्यर्थः । स्तुतं प्रस्तुतमिति अस्माभिः प्रकृतं त्वयाऽभीष्टत्वेन स्तुतिविषयीकृतमित्यर्थः । अनतिवृत्तिः=अव्यभिचारः । उपचर्यत इति अत्यन्ततिरस्कृतवाच्यध्वनि
Page #225
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का०६]
१९१ विप्रतिषेधात् ।
न पुनरिच्छाविषयीकृतमिष्टं, प्रक्षीणमोहे भगवति मोहपर्यायात्मिकायास्तदिच्छायाः सम्भवाभावात् । तथा हि-नेच्छा सर्वविदः शासनप्रकाशननिमित्तं, प्रणष्टमोहत्वात् । यस्येच्छा शासनप्रकाशननिमित्तं, न स प्रणष्टमोहो यथा किञ्चिज्ज्ञः । प्रणष्टमोहश्च सर्ववित्प्रमाणतः साधितस्तस्मान्न तस्येच्छा शासनप्रकाशननिमित्तम् इति केवलव्यतिरेकी हेतुनिराकूतवाचं साधयति, अव्यभिचारात् । न सर्वविदिच्छामन्तरेण वक्ति, वक्तृत्वादस्मदादिवदित्यनेन निराकूतवाचो विप्रतिषेध इति चेत्, नायं नियमोऽस्ति । तदभ्युपगमे को दोष इति चेत् ।।
(भा०) नियमाभ्युपगमे सुषुप्त्यादावपि निरभिप्रायप्रवृत्तिर्न स्यात् । न हि सुषुप्तौ गोत्रस्खलनादौ वाग्व्याहारादिहेतुरिच्छास्ति ।
(भा०) प्रतिसंविदिताकारेच्छा तदा सम्भवन्ती पुनः स्मर्येत वाञ्छान्तरवत् ।
न ह्यप्रतिसंविदिताकारेच्छा सम्भवति या पश्चान्न स्मर्यते । पूर्वकालभाविनीच्छा तदा वागादिप्रवृत्तिहेतुरप्रतिसंविदिताकारानुमेया सम्भवत्येवेति चेत्, किं पुनस्तदनुमानम् ? विवादाध्यासिता वागादिप्रवृत्तिरिच्छापूर्विका, वागादिप्रवृत्तित्वात्, प्रसिद्धेच्छापूर्वकवागादिप्रवृत्तिवदिति चेत्, न हेतोरप्रयोजकत्वात् । यथाभूतस्य हि जाग्रतोऽनन्यमनसो वा वागादिप्रवृत्तिरिच्छापूर्विका प्रतिपन्ना देशान्तरे कालान्तरे च तथाभूतस्यैव तत्प्रवृत्तिरिच्छापूर्विका साधयितुं शक्या न पुनरन्यादृशोऽतिप्रसङ्गात् । न च सुषुप्तस्यान्यमनस्कस्य वा तत्प्रवृत्तिरिच्छापूर्वकत्वेन व्याप्तावगता, तदवगतेरसम्भवात् । सा हि स्वसन्ताने तावन्न सम्भवति, सुषुप्त्यादिविरोधात् । सुषुप्तोऽन्यमनस्कश्च प्रवृत्तिमिच्छापूर्विकामवगच्छति चेति व्याहतमेतत् । पश्चादु
अष्टसहस्त्रीतात्पर्यविवरणम्
महिम्नेत्यर्थः । अनिर्वचनीयप्रभावास्पदत्वं व्यङ्ग्यम् । क्वचिदविप्रतिषेधादिति सुषुप्त्यादौ निराकृतवाचोऽविगानेनोपलम्भादित्यर्थः । पुनः स्मर्येतेति इच्छानुभवस्येच्छास्मृत्तौ हेतुत्वादित्पर्थः । न च स्मर्यते सुप्तोत्थितेन तस्मात्सुषुप्तावनाकृतवचनहेतुः प्रतिसंविदिताकारेच्छा नास्तीति भावः । तीज्ञातनष्टा सा तदा भविष्यतीत्याशङ्कते-अप्रतिसंविदिताकारेत्यादि
Page #226
--------------------------------------------------------------------------
________________
१९२
अष्टसहस्त्रीतात्पर्यविवरणम् त्थितोऽवगच्छतीति चेदिदमपि तादृगेव । स्वयमसुषुप्तोऽनन्यमनाश्च सुषुप्तान्यमनस्कप्रवृत्तिमिच्छापूर्वकत्वेन व्याप्तामवगच्छतीति ब्रुवाणः कथमप्रतिहतवचनपथ: स्वस्थैरास्थीयते ? । तदानुमानात्तदवगतेरदोष इति चेत्, न, अनवस्थाप्रसङ्गात्, तदनुमानस्यापि व्याप्तिप्रतिपत्तिपुरस्सरत्वात् तद्व्याप्तेरप्यनुमानान्तरापेक्षत्वात्, सुदूरमपि गत्वा प्रत्यक्षतस्तद्व्याप्तिप्रतिपत्तेरघटनात् । एतेन सन्तानान्तरे तद्व्याप्तेरवगतिरपास्ता, अनुमानात्तदवगतावनवस्थानाविशेषात्, प्रत्यक्षतस्तदवगतेरसम्भवाच्च, इति नानुमेया सुषुप्त्यादाविच्छास्ति तत्काला पूर्वकाला वा, तदनुमानस्यानुदयात्, तथा च सर्वज्ञप्रवृत्तेरिच्छापूर्वकत्वे साध्ये वक्तृत्वादेर्हेतोः सुषुप्त्यादिना व्यभिचारात्तदनियम एव ।
(भा०) ततश्चैतन्यकरणपाटवयोरेव साधकतमत्वम् ।
__ [वक्तुमिच्छापि सर्वज्ञवचने सहकारिणीति मान्यताया निराकरणम्]
ननु च सत्यपि चैतन्ये करणपाटवे च वचनप्रवृत्तेरदर्शनाद्विवक्षापि तत्सहकारिकारणमपेक्ष्यते एवेति चेत्,
(भा०) सहकारिकारणान्तरं न वै नियतमपेक्षणीयं, नक्तञ्चरादेः संस्कृतचक्षुषो वानपेक्षितालोकसन्निधेः रूपोपलम्भात् । न चैवं संवित्करणपाटवयोरप्यभावे विवक्षामात्रात्कस्यचिद्वचनप्रवृत्तिः प्रसज्यते, संवित्करण
अष्टसहस्त्रीतात्पर्यविवरणम् -
इच्छायाः स्वसमानाधिकरणज्ञानविषयत्वनियमेनाज्ञाततदसम्भव इत्यर्थः । तदनियम एवेति वागादिप्रवृत्तेरिच्छापूर्वकत्वानियम एवेत्यर्थः । ननु वचनमात्रे विवक्षाया हेतुत्वात्तन्नियमो भविष्यतीत्यत आह-ततश्चैतन्येत्यादि चैतन्यकरणपाटवे तावद्वचनं प्रति नियते हेतू, विवक्षा तु कण्ठाद्यभिघातजनकप्रवृत्तिजनके च्छाजनकेष्टसाधनताज्ञानविषयस्येष्टतासम्पादनार्थं क्वचिदुपयुज्यमाना न नियतहेतुर्वचनहेतोः, कण्ठाद्यभिघातस्य विनापीच्छां गात्रस्य स्खलनादावदृष्टविशेषादुपपत्तेस्तद्वदेव वीतरागस्याप्यनाकूतवाचस्तीर्थकरनामकर्मोदयसामर्थ्यादुपपत्तेरिति निगर्वः । ननु सुषुप्तावनाकूतवाचोदोषमहिम्नैव दर्शनाद्दोषजातेर्वाग्घेतुत्वं स्यात्तथा च न निर्दोषस्य सर्वस्य तदुपपत्तिरित्याशक्य आह भाष्यकृत्-न चेत्यादि वाक्प्रकर्षापकर्षयोर्दोषजातिप्रकर्षापकर्षाननुविधायित्वान्न तस्यास्तद्धेतृत्वमिति भावः । वाञ्छन्तो वेति वा
Page #227
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का.६]
१९३ वैकल्ये यथाविवक्षं वाग्वृत्तेरभावात् ।
न हि शब्दतोऽर्थतश्च शास्त्रपरिज्ञानाभावे तद्व्याख्यानविवक्षायां सत्यामपि तद्वचनप्रवृत्तिदृश्यते, करणपाटवस्य चाभावे स्पष्टशब्दोच्चारणं, बालमुकादेरपि तत्प्रसङ्गात् । ततश्चैतन्यं करणपाटवं च वाचो हेतुरेव नियमतो, न विवक्षा, विवक्षामन्तरेणापि सुषुप्त्यादौ तदर्शनात् ।।
[कश्चिन्मन्यते दोषसमूहः सर्वज्ञवचने हेतुस्तस्य निरासः क्रियते जैनैः]
(भा०) न च दोषजातिस्तद्धेतुर्यतस्तां वाणी नातिवर्तेत, तत्प्रकर्षापकर्षानुविधानाभावाद् बुद्धयादिवत् ।
न हि यथा बुद्धेः शक्तेश्च प्रकर्षे वाण्याः प्रकर्षोऽपकर्षे वापकर्षः प्रतीयते, तथा दोषजातेरपि, तत्प्रकर्षे वाचोऽपकर्षात् तदपकर्षे एव तत्प्रकर्षात्, यतो वक्तुर्दोषजातिरनुमीयेत । सत्यपि च रागादिदोष कस्यचिद् बुद्धेर्यथार्थव्यवसायित्वादिगुणस्य सद्भावात्, सत्यवाक्प्रवृत्तेरुपलम्भात्, कस्यचित्तु वीतरागद्वेषस्यापि बुद्धेरयथार्थाध्यवसायित्वादिदोषस्य भावे वितथवचनस्य दर्शनाद्विज्ञानगुणदोषाभ्यामेव वाग्वृत्तेर्गुणदोषवत्ता व्यवतिष्ठते, न पुनर्विवक्षातो दोषजातेर्वा । तदुक्तं
विज्ञानगुणदोषाभ्यां वाग्वृत्तेर्गुणदोषता ।
वाञ्छन्तो वा न वक्तार: शास्त्राणां मन्दबुद्धयः ॥ इति । [ ततः साधूपादेशि 'तत्रेष्टं मतं शासनमुपचर्यते' इति ।
[भगवतोऽनेकान्तमतं प्रसिद्धेन न बाध्यते]
तत्प्रसिद्धेन न बाध्यते ।
(भा० ) प्रमाणतः सिद्धं प्रसिद्धम् । तदेव कस्यचिद् बाधनं युक्तम् । विशेषणमेतत्परमतापेक्षम्, अप्रसिद्धेनाप्यनित्यत्वाद्येकान्तधर्मेण बाधाकल्पनात् ।
- अष्टसहस्त्रीतात्पर्यविवरणम् शब्दोऽप्यर्थः, वक्तुमित्यध्याहार्यम् । तथा च वक्तुं वाञ्छन्तोऽपि मन्दबुद्धयः शास्त्राणां वक्तारो न भवन्तीति विवक्षावचनेन नियतहेतुरिति नियूंढम् । भाष्ये बाधनमिति करणेऽनट बाधकमित्यर्थः । परमतापेक्षमिति परमतत्वस्य वस्तुतः प्रसिद्धत्वाभावादित्यर्थः ।
Page #228
--------------------------------------------------------------------------
________________
१९४
अष्टसहस्त्रीतात्पर्यविवरणम् न ह्यनेकान्तशासनस्य प्रत्यक्षतः सिद्धोऽस्त्यनित्यत्वधर्मो बाधकः, सर्वथा नित्यत्वादिधर्मवत् । अनुमानात्सिद्धो बाधक इति
(भा०) चेत्, नर्ते प्रमाणात्प्रतिबन्धसिद्धेरभ्युपगमात् । न खलु परेषां प्रत्यक्षमग्निधूमयोः क्षणभङ्गसद्भावयोर्वा साकल्येन व्याप्ति प्रति समर्थम्, अविचारकत्वात्सन्निहितविषयत्वाच्च ।
अस्मदादिप्रत्यक्षं हि साध्यसाधनयोर्व्याप्तिग्राहि परैरभ्युपगन्तव्यं, न योगिप्रत्यक्षम्, अनुमानवैयर्थ्यप्रसङ्गात्, योगिप्रत्यक्षेण देशतः कात्य॑तो वा नि:शेषसाध्यसाधनव्यक्तिसाक्षात्करणे समारोपस्याप्यभावात् तद्व्यवच्छेदनार्थमप्यनुमानोपयोगायोगात्, तच्च निर्विकल्पकमिव सविकल्पकमपि न विचारकं, पूर्वापरपरामर्शशून्यत्वादभिलापसंसर्गरहितत्वात्, सन्निहितविषयं च, देशकालस्वभावविप्रकृष्टार्थागोचरत्वात् । तन्न साकल्येन व्याप्तिग्रहणसमर्थम् ।
(भा०) न चानुमानमनवस्थानुषङ्गात् ।
व्याप्तिग्राहिणोऽनुमानस्यापि व्याप्तिग्रहणपुरस्सरत्वात्तद्व्याप्तेरनुमानान्तरापेक्षत्वात् क्वचिदप्यवस्थानाभावात् । एवमप्रसिद्धव्याप्तिकं च कथमनुमानमेकान्तवादिनामनित्यत्वाद्येकान्तधर्मस्य साधकं येन प्रमाणसिद्धः सर्वेथैकान्तोऽनेकान्तशासनस्य बाधकः स्यात् ? स्याद्वादिनां तु
( भा० ) परोक्षान्त विना नस्तर्केण सम्बन्धो व्यवतिष्ठेत तस्य विचारकत्वात् ।
- अष्टसहस्त्रीतात्पर्यविवरणम्
परमतप्रसिद्धेनैकान्तनित्यत्वादिना त्वदिष्टमनेकान्ततत्त्वं न बाध्यते तत्प्रसिद्धरप्रामाण्यशङ्काकलङ्कितत्वात्, त्वदिष्टतत्त्वे च विपर्यये व्याघातदण्डभयेनैव विरोधिशङ्कानुत्थानादिति निर्गलितोऽर्थः । तद्व्यवच्छेदनार्थमपीति अध्यक्षं हि स्वलक्षणविषयत्वेन प्रमाणम्, अनुमानं तु समारोपव्यवच्छेदकत्वेन । न च योगिप्रत्यक्षस्यानुमानमूलव्याप्तिग्राहकत्वाभ्युपगमे तत एव समारोपनिवृत्तौ क्वचिदनुमानप्रमाणं प्रवतेत्यपेरर्थः । पूर्वापरेति पूर्व कारणमपरं= कार्यं तयोः परामर्शः तद्ज्ञानपूर्वकान्वयव्यतिरेकादिज्ञानं तच्छून्यत्वात् = एकोपयोगापरिणतत्वात, अभिलापसंसर्गरहितत्वात् शब्दाविषयत्वात्, विचारस्य च प्रातिस्विक
Page #229
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि० १-का०६]
[जैनमते तर्कज्ञानं प्रमाणं तत्तु व्यवसायात्मकमेव] प्रत्यक्षानुपलम्भसहकारिणो मतिज्ञानविशेषपरोक्षतर्कज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषादुपजायमानस्य यावान्कश्चिद्धूमः स सर्वोऽप्यग्निजन्मानग्निजन्मा वा न भवतीति शब्दयोजनासहितपरामर्शात्मकत्वात्कालत्रयवर्तिसाध्यसाधनव्यक्तिविषयत्वाच्च व्याप्ति प्रति समर्थत्वात्, प्रत्यक्षवद्व्याप्तिग्रहणपूर्वकत्वाभावादनुमानोहान्तरानपेक्षत्वादनवस्थाननुषङ्गात्, संवादकत्वेन समारोपव्यवच्छेदकत्वेन च प्रमाणत्वात् ।
(भा०) तदप्रमाणत्वे न लैङ्गिकं प्रमाणमिति शेषः, समारोपव्यवच्छेदाविशेषात् ।
तर्कतः सम्बन्धस्याधिगमे समारोपविरोधात् । न हि निर्विकल्पकोऽधिगमोऽस्ति यतस्तत्र समारोपोऽपि स्यात् । किं तर्हि ?
(भा०) अधिगमोऽपि व्यवसायात्मैव, तदनुत्पत्तौ सतोऽपि दर्शनस्य साधनान्तरापेक्षया सन्निधानाभेदात् सुषुप्तचैतन्यवत् ।
सन्निधानं हीन्द्रियार्थसन्निकर्षः । तत्स्वयमप्रमाणमाख्यत् तथागतः, साधनान्तरापेक्षित्वात् तस्यार्थपरिच्छित्तौ
[बौद्धाभिमतं निर्विकल्पदर्शनमप्रमाणमेव सन्निकर्षवत्] तत एव दर्शनस्याप्रमाणत्वं, सुषुप्तचैतन्यवत् स्वयं संशयविपर्यासानध्यवसायाव्यवच्छेदकत्वात् । तद्व्यवच्छेदिनो निश्चयस्य जननात्प्रमाणं दर्शनमिति चेत्, तत एव सन्निकर्षः प्रमाणमस्तु । तस्यासाधकतमत्वान्न प्रमाणत्वमिति चेत्, कुतस्तस्यासाधकतमत्वम् ? अचेतनत्वाद् घटादिवदिति चेत्, दर्शनस्याप्यसाधकतमत्वं चेतनत्वात्सुषुप्तचैतन्यवत्कि न स्यात् ? यस्य भावेऽर्थः परिच्छिन्नो
- अष्टसहस्रीतात्पर्यविवरणम् जात्यपरिचये शब्दावच्छेदेनैव पर्यवसानादिति भावः । प्रत्यक्षानुपलम्भसहकारिण इति प्रत्यक्षं यत्र धूमस्तत्राग्निरित्यन्वयसहचारज्ञानम्, अनुपलम्भो= यत्राग्निर्नास्ति तत्र धूमोऽपि नास्तीति व्यतिरेकसहचारज्ञानं तौ सहकारिणौ यस्य स तथा तस्येत्यर्थः । यतस्तत्रेति तत्प्रकारकज्ञानस्यैव तदभावप्रकारकज्ञानविरोधित्वेन निर्विकल्पकस्य च तथात्वेन समारोपाविरोधित्वादित्यर्थः । सन्निधानाभेदात् सन्निधानतुल्यत्वात् । भावाभावयोरिति
Page #230
--------------------------------------------------------------------------
________________
१९६
अष्टसहस्त्रीतात्पर्यविवरणम् व्यवह्रियतेऽभावे चापरिच्छिन्नस्तदर्शनं साधकतममिति चेत्, सन्निकर्षः साधकतमोऽस्तु, भावाभावयोस्तद्वत्ता साधकतमत्वमिति वचनात् [ ] । न हि सन्निकर्षस्य भावे भाववत्त्वमभावेऽभाववत्त्वमर्थपरिच्छित्तेरप्रतीतम् । नाप्यर्थस्यान्यत् परिच्छिन्नत्वं, तत्परिच्छित्त्युत्पत्तेः । परिच्छित्तिरुत्पन्ना चेत्, परिच्छिन्नोऽर्थ उच्यते । अथ निर्विकल्पक दृष्टौ सत्यामर्थस्य परिच्छित्तिनिश्चयात्मकार्थपरिच्छेदव्यवहारहेतुरुत्पद्यते नासत्याम्, अतस्तस्याः साधकतमत्वमिति तवाकूतं तदपि न समीचीनं, सन्निकर्षादेव तदुत्पत्त्यविरोधात् । कथमचेतनात्सन्निकर्षाच्चेतनस्यार्थनिश्चयस्योत्पत्तिर्न विरुध्यते ? इति चेत्, तवापि कथमचेतनादिन्द्रियादेरविकल्पदर्शनस्य चेतनस्योत्पत्तिरविरुद्धा ? चेतनान्मनस्कारादिन्द्रियादिसहकारिणो दर्शनस्योत्पत्तिरिति चेत्, तर्हि चेतनादात्मनः सन्निकर्षसहकारिणोऽर्थनिश्चयोत्पत्तिरपि कथं विरुध्यते ? यतः स्वार्थव्यवसायात्मकोऽधिगमो न भवेत् ।
__ [तर्कस्य प्रमाणतां साधयन्ति जैनाचार्याः] स च साकल्येन साध्यसाधनसम्बन्धस्तर्कादेवेति प्रमाणं तर्कः, स्वार्थाधिगमफलत्वात् समारोपव्यवच्छेदकत्वात्संवादकत्वाच्चानुमानादिवत् । [एकान्तवादिनां मतेऽनुमानमपि न सिद्ध्यति अतस्तेऽनेकान्तमते बाधामुद्भावयितुं नार्हति]
ततः स्याद्वादिनां व्याप्तिसिद्धरस्त्यनुमानं, न पुनरेकान्तवादिनां, यतोऽनुमानसिद्धेन सर्वथैकान्तेनानेकान्तस्य बाधाकल्पना स्यात्, इत्यप्रमाणसिद्धेनापि बाधा कल्पनीयैव परैः, अन्यथा स्वमतनियमाघटनात् । तथा सति सूक्तं 'परमतापेक्षं विशेषणं प्रसिद्धेन न बाध्यते' इति । एतेन यदुक्तं भट्टेन
Tनरः कोऽप्यस्ति सर्वज्ञः स तु सर्वज्ञ इत्यपि । साधनं यत्प्रयुज्येत प्रतिज्ञामात्रमेव तत् ॥१॥ [तत्त्वसङ्ग्रहः-३२३०] सिसाधयिषितो योऽर्थः सोऽनया नाभिधीयते । यस्तूच्यते न तत्सिद्धौ किञ्चिदस्ति प्रयोजनम् ॥२॥ [तत्त्वसङ्ग्रहः-३२३१] यदीयागमसत्यत्वसिद्धौ सर्वज्ञतोच्यते । न सा सर्वज्ञसामान्यसिद्धिमात्रेण लभ्यते ॥३॥
- अष्टसहस्त्रीतात्पर्यविवरणम् यद्भावे यद्भावः यदभावे च यदभावस्तं प्रति तस्य साधकतमत्वमित्यर्थः ॥६॥
Page #231
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि. १-का. ७]
१९७
यावद् बुद्धो न सर्वज्ञस्तावत्तद्वचनं मृषा । यत्र क्वचन सर्वज्ञे सिद्धे तत्सत्यता कुतः ? ॥४॥ अन्यस्मिन्न हि सर्वज्ञे वचसोऽन्यस्य सत्यता ।
सामानाधिकरण्ये हि तयोरङ्गाङ्गिता भवेत् ॥५॥ [तत्त्वसङ्ग्रहः-३२३०-३४] इति तन्निरस्तं, भगवतोऽर्हत एव युक्तिशास्त्रविरोधिवाक्त्वेन सुनिश्चितासम्भवद्बाधकप्रमाणत्वेन च सर्वज्ञत्ववीतरागत्वसाधनात् । ततस्त्वमेव महान् मोक्षमार्गस्य प्रणेता नान्यः कपिलादिः ॥६॥ यस्मात्
त्वन्मतामृतबाह्यानां सर्वथैकान्तवादिनाम् । आप्ताभिमानदग्धानां स्वेष्टं दृष्टेन बाध्यते ॥७॥
[जिनधर्मोऽमृतमस्तीति जैनाः ब्रुवन्ति] त्वन्मतमनेकान्तात्मकं वस्तु तज्ज्ञानं च, तदेवामृतम्, अमृतस्य मोक्षस्य कारणत्वात्, सर्वथा निर्बाधत्वेन परितोषकारित्वाच्च । ततो बाह्याः सर्वथैकान्तास्तदभिनिवेशिनश्च वादिनः । ते चाप्ताभिमानदग्धा एव विसंवादकत्वेन तत्त्वतोऽनाप्तत्वाद् वयमाप्ता इत्यभिमानेन स्वरूपात्प्रच्यावितत्वाद्दग्धा इव दग्धा इति समाधिवचनत्वात्, तेषां स्वेष्टस्य सदायेकान्तस्य दृष्टबाधनात् ।
(भा०) अनेकान्तात्मकवस्तुसाक्षात्करणं बहिरन्तश्च सकलजगत्साक्षीभूतं विपक्षे प्रत्यक्षविरोधलक्षणमनेन दक्षयति ।
सदायेकान्तविरोधस्यानेकान्तात्मकवस्तु साक्षात्करणलक्षणत्वाद्, बहिरिवान्तरपि तत्त्वस्यानेकान्तात्मकतया सकलदेशकालवर्तिप्राणिभिरनुभवनात् सुनिश्चितासम्भवबाधकप्रमाणत्वसिद्धेः ।
(भा० ) न हि किञ्चिद्रूपान्तरविकलं सदसन्नित्यानित्यायेकान्तरूपं संवेदनमन्यद्वा संपश्यामो यथात्र प्रतिज्ञायते, चित्रज्ञानवत्कथञ्चिदसङ्कीर्णविशेषैकात्मनः सुखादिचैतन्यस्य वर्णसंस्थानाद्यात्मनः स्कन्धस्य च प्रेक्षणात् ।
अष्टसहस्त्रीतात्पर्यविवरणम् संवेदनाद्वैतवाद्याह चित्रज्ञान इत्यादि । किं स्यादिति साऽनुभूयमाना चित्रता १. प्रेषणात् इति पाठान्तरम् ।
Page #232
--------------------------------------------------------------------------
________________
१९८
अष्टसहस्त्रीतात्पर्यविवरणम् [चित्राद्वैतवादी चित्रज्ञानं एकरूपं साधयितुं प्रयतते] स्यान्मतं-'सुखादिचैतन्यमसङ्कीर्णविशेषात्मकमेव न पुनरेकात्मकं, सुखचैतन्यादाह्लादनाऽऽकारान्मेयबोधनाकारस्य विज्ञानस्यान्यत्वाद्, विरुद्धधर्माध्यासस्यान्यत्वसाधनत्वाद्, अन्यथा विश्वस्यैकत्वप्रसङ्गात्' इति तदसत्, चित्रज्ञानस्याप्येकात्मकत्वाभावप्रसङ्गात् पीताकारसंवेदनस्य नीलाद्याकारसंवेदनादन्यत्वात्, तद्वद्विरुद्धधर्माध्यासात् । यदि पुनरशक्यविवेचनत्वात्पीताद्याकारसंवेदनमेकात्मकमुररीक्रियते तदा सुखादिसंवेदनेन कोऽपराधः कृतः ? तस्याप्यशक्यविवेचनत्वादेवैकात्मकत्वोपपत्तेः, पीताद्याकाराणामिव सुखाद्याकाराणां चैतन्यान्तरं नेतुमशक्यविवेचनत्वसद्भावात् ।
[माध्यमिकबौद्धः कथयति ज्ञानं निरंशमेकरूपमिति] तर्खेकात्मकमेव सुखादिचैतन्यं न पुनरसङ्कीर्णविशेषात्मकमित्यपि न मन्तव्यं, चित्रज्ञानस्याप्यसङ्कीर्णविशेषात्मकत्वाभावप्रसङ्गात् । तथा च सति न तच्चित्रमेकज्ञानवत् । चित्रज्ञाने पीताद्याकारप्रतिभासस्याविद्योपकल्पित्वादेकात्मकत्वमेव वास्तवमिति चेत्, कथमेकानेकाकारयोः प्रतिभासाविशेषेऽपि वास्तवेतरत्वप्रविवेकः? एकाकारस्यानेकाकारेण विरोधात्तस्यावास्तवत्वे कथमेकाकारस्यैवावास्तवत्वं न स्यात् ? स्वप्नज्ञानेऽनेकाकारस्यावास्तवस्य प्रसिद्धेश्चित्रज्ञानेऽपि तस्यावास्तवत्वं युक्तं कल्पयितुमिति चेत्, केशादावेकाकारस्याप्यवास्तवत्वसिद्धेस्तत्रावास्तवत्वं कथमयुक्तम् ? पीताद्याकारस्य संवेदनादभेदेऽनेकत्वविरोधाद् भेदे प्रतिभासासम्भवात्, प्रतिभासे वा संवेदनान्तरत्वापत्तेरवास्तवत्वमेवेति
चेत्, तत एवैकाकारस्यावास्तवत्वमस्तु, तस्यापि पीताद्याकारप्रतिभासेभ्योऽनर्थान्तरतायामेकत्वविरोधादर्थान्तरतायां संवित्त्यभावात्, संवित्तौ वा ज्ञानान्तरत्वप्रसक्तेविशेषाभावात् । ततो न चित्रज्ञानेऽनेकाकारप्रतिभासस्यैव प्रेक्षावद्भिरवास्तवत्वं शक्यं कल्पयितुं, येनेदमेवाभिधीयमानं शोभेत
पकिं स्यात्सा चित्रतैकस्यां न स्यात्तस्यां मतावपि ।। यदीदं स्वयमर्थेभ्यो रोचते तत्र के वयम् १॥ [प्रमाणवार्तिक २.२१०]
- अष्टसहस्त्रीतात्पर्यविवरणम् नीलपीताद्याकारभेदेनैकस्यां व्यक्तौ किं स्यात् ? फलितमाह-न स्यात् तस्यां मतावपि किं
Page #233
--------------------------------------------------------------------------
________________
१९९
प्रथमो भागः [परि० १-का० ७] इति । न पुनरिदमपि
किं नु स्यादेकता न स्यात्तस्यां चित्रमतावपि । यदीदं रोचते बुद्धयै चित्रायै तत्र के वयम् ॥ इति ।
[निरंशैकज्ञानवादी बौद्धश्चित्राद्वैतवादिनं निराकरोति]
ननु चैकस्यां मतौ चित्रतापायेऽपि संवेदनमात्रस्य भावान्न स्वरूपस्य स्वतो गतिविरुद्ध्यते । संवेदनमात्रस्य त्वपाये सा विरुद्धयेतेति चेत्, तदभावेऽपि नानापीतादिप्रतिभाससद्भावात्तदविरोधात् । नन्वेवं 'नीलवेदनस्यापि प्रतिपरमाणु भेदान्नीलाणुसंवेदनैः परस्परं भिन्नैर्भवितव्यम्, तत्रैकनीलपरमाणुसंवेदनस्याप्येवं वेद्यवेदकसंविदाकारभेदात्त्रितयेन भवितव्यम् । वेद्याकारादिसंवेदनत्रयस्यापि प्रत्येकमपरस्ववेद्याकारादिसंवेदनत्रयेण, इति परापवेदनत्रयकल्पनादनवस्थानान्न क्वचिदेकवेदनसिद्धिः संविदद्वैतविद्विषाम् । क्वचिदप्येकात्मकत्वानभ्युपगमे च कुतो नानात्मव्यवस्था ? वस्तुन्येकत्रापरैकवस्त्वपेक्षयानेकत्वव्यवस्थोपपत्तेः । क्वचिदैक्योपगमे वा कथं चित्रमतौ नैक्यमविरुद्धं ? चित्राकारापायेऽपि तस्य सम्भवात्' । इति कश्चित् सोऽप्यप्रेक्षापूर्ववादी, तथा सति चित्रज्ञाने संविदाकारवदेकस्य
अष्टसहस्त्रीतात्पर्यविवरणम्
पुनरर्थ इत्यपेरर्थः । यदीदं नानाकारभ्रमजनकत्वं स्वयमनाद्यविद्योपकल्पितेभ्योऽर्थेभ्यो रोचते तत्र के वयं विचारका भवामः ? न केचन, अविद्याविलासनिवृतौ विचारस्याक्षमत्वादिति भावः । किन्नु इति तस्यां चित्रमतावपि नु इति वितर्के एकता किं स्यात् ? फलितमाहन स्याद् अनेकाकारविरोधादिति भावः । यदीदम्, अनेकाकारविरुद्धैकत्वभ्रमजनकत्वं चित्रायै बुद्धयै रोचते तत्र के वयं विचारका न केचन पर्यायार्थविरोधिद्रव्यार्थादेशकान्तस्य संवृत्युपकल्पितस्य विचारापरावर्तनीयत्वादिति भावः । क्वचिदेकत्रेति नानैकत्वविषयकापेक्षाबुद्ध्यैवानेकत्वस्योत्पत्तेरभिव्यक्तेर्वा । एतत्पक्षद्वयविचारोऽस्मत्कृतनयामृततरङ्गिणीतोऽवसेयः । तथा सतीति अनेकत्वप्रयोजकापेक्षाबुद्धिहेतुत्वेनैकत्वसाधने संविदाकारवत् पीताद्याकारे प्रत्येकमेकत्वसिद्धौ तत्समूहाश्रयानेकचैतन्यदृष्टान्तेनैकत्राप्यनेकाकारसिद्धरित्यर्थः ।
१. क्वचिदैक्योपगमे वेति अष्टसहस्रीसम्मतः पाठः ।
Page #234
--------------------------------------------------------------------------
________________
२००
अष्टसहस्त्रीतात्पर्यविवरणम् पीताकारस्य नीलाकारस्य च सद्भावसिद्धौ परस्परापेक्षयानेकत्वसिद्धरनेकचैतन्यव्याप्तस्यानेकाकारस्य चित्रज्ञानस्यान्तरेकानेकात्मकत्वसाधने निदर्शनत्वोपपत्तेः ।
[साङ्ख्यः सुखादिकमचेतनं स्वीकरोति तस्य विचारः क्रियते] स्यान्मतं-सुखादीनां चैतन्यं व्यापकं भवत् किमेकेन स्वभावेन भवत्यनेकेन स्वभावेन वा ? यद्येकेन तदा तेषामेकस्वरूपत्वापत्तिः । अथानेकेन तदा सोऽप्यनेकस्वभावः परेणानेकेन स्वभावेन व्यापनीय इत्यनवस्था । अथैकादृशेन स्वभावेन सुखादयश्चैतन्येन व्याप्यन्ते तदानेकेन स्वभावेन सजातीयेनेत्युक्तं स्यात् । तत्र च सैवानवस्था । न च गत्यन्तरमस्ति येन सुखादिव्याप्यैकं चैतन्यं सिद्धयेदिति । तदेतच्चित्रज्ञानेऽपि समानम् । तस्य पीताद्याकारव्यापिनः स्वयं संवेदनान्न दोष इति चेत्, सुखादिव्यापिनश्चैतन्यस्य सह क्रमेण च स्वयं संवेदनात्कथमुपालम्भः स्यात् ? न हि दृष्टेऽनुपपन्नं नाम । न च सुखादीनां चैतन्यव्याप्तत्वसंवेदनं भ्रान्तम्, अचेतनत्वग्राहिप्रमाणाभावात् । अचेतनाः सुखादय, उत्पत्तिमत्वाद् घटादिवदित्यनुमानं सुखाद्यचेतनत्वग्राहीति चेत्, तस्य प्रत्यक्षबाधितविषयत्वात् चित्समन्वितानामेव सुखादीनां स्वसंवेदनप्रत्यक्षे सर्वदा प्रतिभासनात् । अनुमानविरुद्धश्च पक्षः तथा हि-चेतनाः सुखादयः, स्वसंवेद्यत्वात् पुरुषवत् । पुरुषसंसर्गात्तेषां स्वसंवेद्यत्वात्स्वतः संवेद्यत्वमसिद्धमिति चेत्,
अष्टसहस्त्रीतात्पर्यविवरणम्
अन्तरिति षष्ठ्यन्तमव्ययं अन्तस्तत्त्वस्येत्यर्थः । ननु अनेकचैतन्यव्याप्तानेकाकारस्य चित्रज्ञानस्य दृष्टान्तत्वोक्तिरसङ्गतानेकाकाराणां स्वाश्रयाश्रितत्वरूपसंवलनाया एव चित्रत्वव्यवहारप्रयोजकत्वादिति चेत, न, अत्र व्यवहारस्यासाध्यत्वात्कथञ्चिदेकानेकात्मकत्वस्यैव तत्त्वात्, हेतोश्च तत्र तथाबुद्धेरेवोपन्यासात्, सा च ययापेक्षया तया साध्यमपीत्यदोषात्, नानाश्रयेषु नानाकारकृतश्चित्रत्वव्यवहारोऽपि सामान्यविवक्षयोपपद्यत एवेत्थमेव पृथिव्यादौ नानारूपवत्त्वस्य धान्यराशौ च नानाधान्यत्वस्य व्यवहारो नानुपपन्न इति दिग् । चित्राद्वैतवादी संवेदनाद्वैतवादिनं प्रत्याह-स्यान्मतमिति । तदानेकेनेति एकदेशवचनादेवानेकसजातीयत्वस्य च सिद्धरित्यर्थः । चित्रज्ञानप्रतिबन्द्यैवैतत् समाधत्ते तदेतदित्यादि । अवच्छिन्नपीताद्यानेकाकारस्वभावमिवानवच्छिन्नसुखाकारस्वभावं ज्ञानमनुभूयमानं तत्तदाकाराणां व्याप्यवृत्तित्वमव्याप्यवृत्तित्वं च गृह्णन्न केनापि निषेद्धं शक्यमिति भावः ।
Page #235
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि० १ - का० ७]
जातुचिदस्वसंवेद्यत्वाप्रतीतेस्तथा वक्तुमशक्तेः, अन्यथा पुरुषस्य स्वसंवेद्यसुखादिसम्बन्धात्स्वसंवेद्यत्वं, न स्वत इति वदतो निवारयितुमशक्यत्वात्, चैतन्यविशेषेण हेतोर्व्यभिचारप्रतिपादनाच्च । न ततोऽचेतनत्वसिद्धिः सुखादीनाम् । न चैषां चेतनत्वसाधनेऽपसिद्धान्तः स्याद्वादिनां प्रसज्येत, चैतन्यजीवद्रव्यार्थादेशाच्चेतनत्वप्रसिद्धेः, सकलौपशमिकादिभावानां सुखज्ञानादिप्रतिनियतपर्यायार्थदेशादेव सुखादीनां ज्ञानदर्शनाभ्यामन्यत्ववचनात् ।
[बौद्धः सुखादिपर्यायान् ज्ञानात्मकान् एव कथयति तस्य निराकरणम्]
तथापि ज्ञानात्मकाः सुखादयो, ज्ञानाभिन्नहेतुजत्वाद्विज्ञानान्तरवदिति चेत्, सर्वथा विज्ञानाभिन्नहेतुजत्वासिद्धत्वात्, सुखादीनां सद्वेद्योदयादिनिमित्तत्वाद्विज्ञानस्य ज्ञानावरणान्तरायक्षयोपशमादिनिबन्धनत्वात् । कथञ्चिद्विज्ञानाभिन्नहेतुजत्वं तु रूपालोकादिनानैकान्तिकं, यथैव हि ततो विज्ञानस्योत्पत्तिस्तथा रूपालोकादिक्षणान्तरोत्पत्तिरपीति परैः स्वयमभिधानात् । तदेतेन यदभ्यधायि
तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः । तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम् ॥
इति तदपास्तं, सुखादीनां विज्ञानरूपत्वासिद्धेः ।
२०१
[प्रमाणवार्तिक- २.२५१]
सुखमाह्लादनाकारं विज्ञानं मेयबोधनम् । शक्तिः क्रियानुमेया स्याद्यूनः कान्तासमागमे ॥ [
]
इति वचनाद् तद्रूपाः सुखादय इति । अतद्रूपाणां तद्रूपोपादानत्वे सर्वस्य
अष्टसहस्त्रीतात्पर्यविवरणम्
अस्वसंवेद्यत्वाप्रतीतेरिति सुखादीनामिति सम्बन्धः । चैतन्यविशेषेणेति अनुभवेनेत्यर्थः तस्योत्पत्तिमत्त्वाच्चैतन्यलक्षणत्वाच्च । चैतन्यजीवद्रव्यार्थादेशादिति चैतन्याभिन्नजीवद्रव्याभिन्नत्वेनार्पणादित्यर्थः । न चैवं ज्ञानमात्मैवात्मा तु ज्ञानद्वारा ज्ञानम्, अन्यद्वारा त्वन्यद्' इति वचनात् ज्ञानभिन्नसुखाद्यभिन्नजीवद्रव्याभिन्नत्वेनार्पणाद् ज्ञानमप्यज्ञानं स्यादिति शङ्कनीयम् । ज्ञानाभिन्नत्वेनार्पितस्य परम्परयापि ज्ञानेऽभेदार्पणानौचित्यात् परमभावग्राहकनयेन ज्ञानाभिन्नत्वस्यैवात्मनि प्रसिद्धेश्च । अतद्रूपाणामित्याद्यभिधानं सुखादीनां विज्ञानाभिन्नहेतुजत्वं यदुच्यते सौगतेन तत्किमुपादानापेक्षयोत सहकार्यपेक्षयेति विकल्पद्वयं
Page #236
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम्
सर्वोपादानत्वप्रसक्तिः । न च सुखादयो विज्ञानाभिन्नोपादानाः स्युः । विज्ञानाभिन्नसहकारित्वं तु यथा सुखादीनां तथा रूपादीनामपीति ततस्तेषां विज्ञानात्मकत्वसाधने रूपादीनामपि तथात्वसाधनं स्यात् । तदुक्तं -
२०२
तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः ।
तद्रूपादि किमज्ञानं विज्ञानाभिन्नहेतुजम् । इति [ तत्त्वोपप्लवसिंहः]
यदि पुनरिन्द्रियानिन्द्रियहेतुजत्वं विज्ञानाभिन्नहेतुजत्वमित्यभिधीयते तदपि न सुखादीनां ज्ञानत्वं साधयति, द्रव्येन्द्रियानिन्द्रियैर्व्यभिचारात् । इति नैकान्ततो ज्ञानात्मका सुखादय द्रव्यार्थत एव तेषां चेतनत्वोपपत्तेः, चेतनद्रव्यादात्मनोऽनर्थान्तरभूतानामचेतनत्वविरोधात् । एतेन ज्ञानादर्थान्तरभूतत्वात्सुखादीनामचेतनत्वमेवेति वदन्तोऽपाकृताः प्रत्येतव्याः, चेतनादात्मनोऽनर्थान्तरत्वेन कथञ्चिच्चेतनत्वसिद्धेः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
मनसि कृत्येति मन्तव्यम् । पूर्वं सर्वथाकथञ्चित्पक्षाभ्यां यद्दूषणमभ्यधायि तस्यैवेदं विवरणमिति न पौनरुक्त्यम्, व्यभिचारादिति द्रव्येन्द्रियानिन्द्रियोपादेयपरिणाम एवेत्यर्थः । प्रत्येतव्या इति नैयायिकादय इति शेषः । अनुमानं च तेषां सुखादयोऽचेतना ज्ञानभिन्नत्वात् घटवदिति द्रष्टव्यम् । अत्राचेतनत्वं यदि ज्ञानभिन्नत्वं तदा हेतुसाध्ययोरविशेषः । यदि च चैतन्यात् प्रविभक्तप्रदेशत्वरूपं तदा कालात्ययापदिष्टो हेतुरिति सुखस्य ज्ञानादन्यत्वरूपो भेदः प्रविभक्तप्रदेशत्वरूपभेदाभावश्चेत्यनेकान्त एव श्रेयान् ।
॥ सुखवादः ॥
अथ सुखस्य ज्ञानविशेषत्व एव चन्दनादिविषयकत्वं युक्तं सुखोत्पत्त्यनन्तरं चन्दनादिज्ञानं कल्पयित्वा तदुपनीतभानात्मकसुखानुभवाभ्युपगमस्य मानससामग्रीविच्छेदेन निर्युक्तिकत्वात् । न च चन्दनसुखमनुभवामीत्यत्र चन्दनादिजन्यतावच्छेदको जातिविशेष एव सुखस्योपरि भासते न तु चन्दनमिति वाच्यम्, तस्य घुसृणादिजन्यतावच्छेदिकया तदुभयजन्ये साङ्कर्यादुभयजन्यतावच्छेदकजात्यन्तराभ्युपगमे च तदवच्छिन्नोत्पत्तिकाले प्रत्येकजन्यकार्यप्रसङ्गात् तत्कार्ये तदितरसन्निधानस्य प्रतिबन्धकत्वादिकल्पने च महागौरवादिति चेत्, न एवं सति सुखस्य सविषयकत्वसिद्धावपीच्छाद्वेषयोरिव ज्ञानाभिन्नत्वे मानाभावात् । न च सुखस्य सविषयकत्वे विषयता द्विविधा प्रतिपत्त्यनु
Page #237
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि. १-का. ७]
२०३
। [यौगः आत्मानं चेतनं न मन्यते तस्य निराकरणम्] आत्मनश्चेतनत्वमसिद्धमिति चेत्, तस्य प्रत्यक्षप्रसिद्धत्वात् । तथात्मा चेतनः प्रमातृत्वाद्, यस्त्वचेतनः स न प्रमाता, यथा घटादिः, प्रमाता चात्मा, तस्माच्चेतन इत्यनुमानाच्च तत्सिद्धम् । प्रमितिस्वभावचेतनासमवायादात्मनि चेतनत्वसाधने सिद्धसाध्यतेति चेत्, स्वयं सामान्यतश्चेतनत्वसाधनात्, तदभावे चेतनाविशेषप्रमितिसमवायायोगात्पटादिवत्, कथञ्चित्तादात्म्यस्यैव समवायस्य साधनात् । चेतनादप्यात्मनः कथमभिन्नाः सुखादयो ? भिन्नप्रतिभासविरोधादिति चेत्, तत्र सर्वथा भिन्नप्रतिभासस्यासिद्धत्वात्, कथञ्चिद्भिन्नप्रतिभासस्य कथञ्चिदभेदाविरोधात्,
अष्टसहस्त्रीतात्पर्यविवरणम्
बन्धिनी व्यापारानुबन्धिनी च, प्रतिपत्तित्वनिरूपकत्वं प्रतिपत्त्यनुबन्धिनीत्वम्, स्वजन्यप्रतिपत्तिनिरूपितत्वं व्यापारानुबन्धिनीत्वम्, आद्या ज्ञाने द्वितीया च शब्दादाविति विभागव्याघातप्रसङ्ग इति वाच्यम्, प्राचीनैरेवेत्थं नियुक्तिकविभागस्याभ्युपगमान्नवीनैरिच्छाद्वेषादेरपि सविषयकत्वस्वीकारेण तथानभ्युपगमात् । युक्तं चैतद् विशिष्टबुद्धौ विषयितया विशेषणवत्त्वेन विशिष्टवैशिष्ट्यबुद्धौ च विशेषणतावच्छेदकाभावाप्रकारकत्वे सति प्रकारितया विशेषणतावच्छेदकवत्त्वेन हेतुत्वौचित्यात् । न च एवं संशयेऽप्यनुबुद्धसंस्काराद्विशिष्टवैशिष्ट्य बुद्ध्यापत्ति: संस्कारजन्यतत्तद्विशिष्टवैशिष्ट्यप्रत्यक्षे उद्बोधकस्य हेतुत्वात् । न च एवमपि सामान्य कार्यापत्तिः संस्काराजन्यतत्तद्विशिष्टवैशिष्ट्यबोधेऽपि तत्तद्विशेषणज्ञानादीनां विशिष्टहेतुत्वात् । न च एवं सामान्यहेतुत्वं विफलम्, यत्रात्मनि शरीरे वा तादृशानुबुद्धसंस्कारस्तत्र तत्साफल्यात् । एतेन दण्डो रक्तो नवेति संशयाद्दण्डो रक्तो भवत्वितीच्छास्वीकारे रक्तदण्डवान् चैत्र इत्यादेरापत्तिरित्यपि अपास्तम, क्वचिद्विशिष्यकारणतायाः कल्पनात् सामान्यहेतुतायाश्चोक्तरीत्यैव साफल्यात्, एवं च चन्दनादिविषयसुखादेव तज्ज्ञाने चन्दनादिभानं सुघटम्, वैषयिकं च सुखं विषयावच्छिन्नालादनत्वाख्यविषयताकं विषयातीतं च निरवच्छिन्नालादनत्वाख्यविषयताकमित्यनयोः परिमितापरिमितत्वाभ्यां भेदः । अथ सुखस्य भिन्नज्ञानग्राह्यत्वकल्पने गौरवात् स्वप्रकाशत्वमेव युक्तम्, तथा च ज्ञानत्वमेवापन्नमिति चेत्, न स्वप्रकाशत्वं विनापि तस्य साक्षिभास्यतयैव यावत्सत्त्वं प्रकाशोपपत्तेः, तत्त्वं च वेदान्तिनां साक्षिण्यध्यस्तव्यम् अस्माकं च चेतनद्रव्याभिन्नत्वम् । न च एवमात्मवृत्त्ययोग्यधर्मेऽपि प्रत्यक्षत्वापत्तिः, द्रव्यार्थतयेष्टत्वात्पर्यायार्थया त्वात्मविषयकमानसे तत्तदात्मविषयकमानसे वा विजातीयात्ममन:
Page #238
--------------------------------------------------------------------------
________________
२०४
अष्टसहस्त्रीतात्पर्यविवरणम् चित्रज्ञानवदेव सुखाद्यात्मनः पुरुषस्यैकस्य घटनात्, सर्वेषामेकानेकात्मनश्चित्रज्ञानस्येष्टत्वात् । तत्सिद्धं चित्रज्ञानवत्कथञ्चिदसङ्कीर्णविशेषैकात्मनः सुखादिचैतन्यस्य प्रेक्षणं तथा वर्णसंस्थानाद्यात्मनः स्कन्धस्य च । [बौद्धः प्रत्येकं परमाणून् पृथक् पृथक् मन्यते स्कन्धावस्थां न मन्यते तस्य विचारः]
न हि वर्णादीनामेव प्रेक्षणं प्रत्यक्षबुद्धौ, न पुनः स्कन्धस्यैकस्येति कल्पनमुपपन्नं, सर्वाग्रहणप्रसङ्गात्, स्कन्धव्यतिरेकेण वर्णादीनामनुपलम्भात् स्कन्धस्येवासत्त्वात् । अथ प्रत्यासन्नासंसृष्टा रूपादिपरमाणवः प्रत्यक्षाः तेषां स्वकारणसामग्रीवशात्प्रत्यक्षसंविज्जननसमर्थानामेवोत्पत्तेः, स्कन्धस्यापि तत एव परेषां प्रत्यक्षतोपपत्तेरन्यथा सर्वस्कन्धानां प्रत्यक्षत्वप्रसङ्गात्, स्कन्धत्वाविशेषात् । तदविशेषेऽपि केषाञ्चित्प्रत्यक्षत्वे परेषामप्रत्यक्षस्वभावत्वे पिशाचशरीरादीनां तथा स्वकारणादुत्पत्तेः परमाणूनामपि केषाञ्चित्प्रत्यक्षत्वमन्येषामप्रत्यक्षत्वं तत एवास्तु, किमवयविपरिकल्पनया ? तस्यामूल्यदानक्रयित्वात् । स हि प्रत्यक्षे स्वात्मानं न समर्पयति प्रत्यक्षतां च स्वीकर्तुमिच्छतीत्यमूल्यदानक्रयी, विकल्पबुद्धावेव तस्य प्रतिभासनाद्विचार्य माणस्य सर्वथानुपपन्नत्वाद् इति मतं तदप्यसङ्गतमेव, प्रत्यासन्नासंसृष्टपरमाणूनां तथात्वेन कस्यचित्कदाचिन्निश्चयासत्त्वात् प्रत्यक्षतानुपपत्तेः, स्कन्धस्यैव स्फुटमध्यक्षेऽवभासनात् तथा निश्चयनाच्च प्रत्यक्षत्वघटनात् । न च परमाणुवत्सर्वे स्कन्धाः समपरिमाणा एव, येन केषाञ्चित्प्रत्यक्षत्वे सर्वेषां प्रत्यक्षस्वभावता स्यात्, अणुमहत्त्वादिपरिमाणभेदेन तेषामदृश्येतरस्वभाव
अष्टसहस्त्रीतात्पर्यविवरणम्
संयोगस्य तत्तदात्ममन:संयोगस्य वा विषयतया सुखादिप्रत्यक्षे च तादात्म्येन सुखादीनां हेतुत्वाददोष इति दिग् । असङ्कीर्णविशेषैकात्मनः प्रतिस्वभिन्नसुखदुःखहर्षविषादाद्यनेकगुणाभिन्नैकद्रव्यस्य स्कन्धस्य चेति, अत्र प्रेक्षणं सिद्धमित्यनेन सम्बध्यते, तत एव स्वसामग्रीवशात् प्रत्यक्षसंविज्जननसमर्थस्योत्पत्तेरेव, परेषां स्याद्वादिनां, तस्य= अवयविनः, तथात्वेन परमाणुत्वेन । अणुमहत्त्वादीति तथा च महत्त्वमेव स्कन्धस्य योग्यता तदभावादेव परमाणूनामयोग्यतेति भावः । अतिशयिताणूत्पत्त्यैव योग्यत्वस्वीकारे तु परमाण्ववच्छेदेनेन्द्रियसन्निकर्षेऽपि घटादिप्रत्यक्षापत्तिरिति बोध्यम् । संयोगविशेषेणावयव्यन्यथासिद्धिं च पुरस्तान्निर्लोठयिष्यामः । अस्तु नाम स्कन्धानामणुमहत्त्वादिना
Page #239
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि० १-का० ७]
२०५ भेदानेदसिद्धेः । न चायममूल्यदानक्रयी, प्रत्यक्षे स्वसमर्पणेन प्रत्यक्षतास्वीकरणात्, सर्वथा विचार्यमाणस्यापि घटनात् । विचारयिष्यते चैतत्पुरस्तात् ।
[साङ्ख्यः स्कन्धान् एव स्वीकरोति न तु परमाणून् तस्य विचार:]
अपरः प्राह—स्कन्ध एव, न वर्णादयस्ततोऽन्ये सन्ति, तस्यैव चक्षुरादिकरणभेदाद्वर्णादिभेदप्रतिभासनात्, किञ्चिदङ्गलिपिहितनयनभेदाद्दीपकलिकाभेदप्रतिभासनवदिति, तदप्यसम्यक्, सत्ताद्यद्वैतप्रसङ्गात् । शक्यं हि वक्तुं–सत्तैवैका, न द्रव्यादयस्ततोऽर्थान्तरभूताः सन्ति, कल्पनाभेदात्तद्भेदप्रतिभासनादिति । न चैतद्युक्तमिति निवेदयिष्यते । ततश्चित्रज्ञानवन्न केवलं सुखाद्यात्मनश्चैतन्यस्य प्रेक्षणं सिद्धम् । किं तहिं ? वर्णसंस्थानाद्यात्मनः स्कन्धस्यापि ।
[सर्वं वस्तु अनेकान्तात्मकमिति स्पष्टयन्ति आचार्याः] ततः सूक्तं-न हि किञ्चिद्रूपान्तरविकलं सदेकान्तरूपमसदेकान्तरूपं वा, नित्यैकान्तरूपमनित्यैकान्तरूपं वा, अद्वैतैकान्तरूपं द्वैताद्येकान्तरूपं वा, संवेदनमन्तस्तत्त्वमन्यद् बहिस्तत्त्वं संपश्यामो यथा प्रतिज्ञायते सर्वथैकान्तवादिभिरिति ।
(भा०) सामान्यविशेषैकात्मनः संवित्तिरेकान्तस्यानुपलब्धिर्वा सर्वतः सिद्धा चक्षुरादिमतामनार्हतकल्पनामस्तङ्गमयतीति किं नः प्रमाणान्तरेण ? ।
न तावत्सामान्यैकान्तस्योपलब्धिर्विशेषस्याप्युपलब्धेः । नापि विशेषैकान्तस्य, सामान्यस्यापीक्षणात् । न सामान्यविशेषैकान्तयोरेव परस्परनिरपेक्षयोः, एकात्मनोऽप्युपलक्षणात् । न चैकात्मन एव सामान्यविशेषैकात्मनः, ततो जात्यन्तरस्य
अष्टसहस्त्रीतात्पर्यविवरणम्
दृश्येतरस्वभावता तथापि तेषां विकल्पबुद्धाववभासनादवस्तुत्वमित्याशङ्कायामाह-न चायमिति । प्रत्यक्षतास्वीकरणादिति 'यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता' इति [ ] वचनान्नीलाद्यंश इव स्कन्धांशेऽपि विकल्पधीजननात्तत्र दर्शनप्रामाण्यस्य प्रसह्य स्वीकरणादिति भावः । चक्षुरादीति चक्षुरादिजन्यग्रहविषयत्वादिनैव रूपादिभेदव्यवहारसम्भवादिति भावः । सत्तादीति सत्ताद्वैतवद् द्रव्याद्वैतमप्रामाणिकमनुभूयमानपर्यायापलापे सर्वशून्यतापत्तेरिति भावः । न तावदिति द्वावाद्यौ निषेधौ पदार्थत्वावच्छेदेन तृतीयः पदार्थत्वसामाना धिकरण्येन, चतुर्थः पदार्थत्वावच्छेदेन । जात्यन्तरस्येति जात्यन्तरत्वं च नृसिंहन्यायेन गुड
Page #240
--------------------------------------------------------------------------
________________
२०६
अष्टसहस्त्रीतात्पर्यविवरणम् संवित्तेः । सर्वं हि वस्तु सामान्यं विशेषापेक्षया विशेषः सामान्यापेक्षयावापोद्धारकल्पनायां, स्वरूपेण तु सामान्यविशेषात्मकमेकम् । तस्य संवित्ति - श्चक्षुरादिमतामनार्हतकल्पनामस्तङ्गमयति, चक्षुरादिविकलानामेव तत्सम्भवात् । एकान्तस्यानुपलब्धिर्वा तामस्तङ्गमयति तत एव । तथा हि-नास्ति सर्वथैकान्तः, सर्वदानेकान्तोपलब्धेरिति स्वभावविरुद्धोपलब्धिः, नास्ति सर्वथैकान्तोऽनुपलब्धेरिति स्वभावानुपलब्धिर्वा सर्वतश्चक्षुरादेः संवेदनात्सिद्धाध्यवसीयते । ननु च 'सर्वथैकान्तस्य क्वचित्कदाचिदुपलब्धौ न सर्वत्र सर्वदा प्रतिषेधः सिद्ध्येत् । तस्यानुपलब्धौ नानेकान्तेन विरोधः, सत एव कथञ्चित्केनचिद्विरोधप्रतीतेः । प्रतिषेधश्च न स्यात्, तत एव' इति कश्चित्तदसत् सर्वथैकान्तस्याध्यारोप्यमाणस्य प्रतिषेधसाधनात् तद्विरुद्धोपलब्धिसिद्धेस्तत्स्वभावानुपलब्धिसिद्धेश्च, स्वयमन्यथा
कस्यचिदनिष्टतत्त्वप्रतिषेधायोगादिष्टतत्त्वनियमानुपपत्तेः ।
[प्रत्यक्षप्रमाणमेवैकान्तकल्पनामपाकरोति ]
अथवा प्रत्यक्षमेव सामान्यविशेषात्मकमेकं वस्तु विदधत्सर्वथैकान्तप्रतीतिं प्रतिषेधयतीति किं नः प्रमाणान्तरेणानुमानेनानुपलब्धिलिङ्गेन समर्थनापेक्षणेन ? प्रयासमन्तरेणेष्टानिष्टतत्त्वविधिप्रतिषेधसिद्धेः ।
( भा०) न हि दृष्टाज्ज्येष्ठगरिष्ठमिष्टं तदभावे प्रमाणान्तराप्रवृत्तेः अष्टसहस्त्रीतात्पर्यविवरणम्
शुण्ठीन्यायेन वोभयात्मकतयोभयदोषापहारितया वा भावनीयम् तत्त्वमत्रत्यमस्मत्कृतनयरहस्ये । अध्यारोप्यमाणस्येति, ननु अप्रसिद्धस्याध्यारोपोऽप्ययुक्तः क्वचित् प्रसिद्धस्यैव क्वचिदारोपादिति चेत्, न सर्वथात्वेनैकान्तस्य प्रसिद्धस्यैवारोपात्तथा निषेधस्य युक्तिसिद्धत्वात् व्युत्पादयिष्यते च व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकादिरभाव उपरिष्टादिति मा त्वरिष्ठाः । अतिरिक्ताभावमनङ्गीकृत्याह - अथवेति । प्रयासमन्तरेणेति अनेकान्तविधिनैव प्रत्यक्षसिद्धेन सर्वथैकान्तनिषेधव्यवहारसिद्धेर्नाप्रसिद्धनिषेधोपपादनार्थं कश्चिदस्माकं प्रयास इति भावः । एवं चोक्तविधिनिषेधव्यवहारजनकत्वेन वस्तुन एव भावाभावोभयरूपत्वादभावव्यवहारस्यैव सप्रतियोगिकत्वादभावप्रतियोगित्वस्याप्रसिद्धस्थले वक्तुमशक्यत्वेऽपि न कोऽपि दोष इति मन्तव्यम् । ननु प्रत्यक्षादनुमानादेर्बलवत्त्वात्तदपेक्षा भविष्यतीत्यत आह भाष्यकृत् - न हीति इष्टम् = अनुमानादिप्रमाणम्, दृष्टात् प्रत्यक्षात्,
Page #241
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि० १ - का० ७] समारोपविच्छेदविशेषाच्च ।
२०७
ननु च दृष्टं प्रत्यक्षमिष्टं पुनरनुमानादि प्रमाणम् । तत्र यथा दृष्टं ज्येष्ठम्, अनुमानादेरग्रे सरत्वात्, तथानुमानाद्यपि प्रत्यक्षात्, तस्यापि तदग्रे सरत्वात्, क्वचिदनुमानाद्युत्तरकालं प्रत्यक्षस्य प्रवृत्त्युपलक्षणत्वात् । यथा च दृष्टमविसंवादकत्वाद् गरिष्ठमिष्टात् तथेष्टमपि दृष्टात्, तदविशेषात् । ततः कथं दृष्टमिष्टाज्ज्येष्ठं गरिष्ठं च व्यवतिष्ठते, न पुनरिष्टं दृष्टाद् ? इति न चोद्यमनवद्यं दृष्टस्य लिङ्गादिविषयस्याभावेऽनुमानादेः प्रमाणान्तरस्याप्रवृत्तेः, अनुमानान्तराल्लिङ्गादिप्रतिपत्तावनवस्थाप्रसङ्गात् प्रत्यक्षस्यैव नियतसकलप्रमाणपुरस्सरत्वप्रसिद्धेर्ज्येष्ठत्वोपपत्तेः, प्रत्यक्षस्यानुमानादिना विनैव प्रवृत्तेरनुमानादेर्दृष्टात्पुरस्सरत्वाभावात्, ततो ज्येष्ठत्वायोगाद्, दृष्टस्यैव चेष्टाद् गरिष्ठत्वात् समारोपविच्छेदविशेषात् । न हि यादृशो दृष्टात्समारोपविच्छेदो विशेषविषये प्रतिनिवृत्ताकाङ्क्षोऽक्षूण्णतया लक्ष्यते तादृशोऽनुमानादे:, तेन सामान्यतः व्यवच्छेदनात्,
अष्टसहस्त्रीतात्पर्यविवरणम्
ज्येष्ठम्=उपजीव्यत्वेनोत्तमं, गरिष्ठं च = समारोपविशेषव्यवच्छेदकत्वेन बलवत्, तदभावे= प्रत्यक्षाभावे, प्रमाणान्तरस्य = अनुमानादेः, अवृत्तेः = अप्रवृत्तेः, समारोपविच्छेदस्य च विशेषाद्=अपुनरुत्थानरूपविशेषदर्शनात् । क्वचिदनुमानाद्युत्तरकालमिति पर्वतो वह्निमानित्यनुमित्यनन्तरं पर्वतवयोश्चक्षुः सन्निधाने तथा प्रत्यक्षस्याप्युत्पत्तेस्तत्र च विशेषणज्ञानतयोक्तानुमितेरुपयोगादिति भावः । प्रत्यक्षस्येत्यादि तथा चानुमानत्वाद्यवच्छेदेन प्रत्यक्षोपजीवकत्वादनुमानादेः सकाशात् प्रत्यक्षस्य ज्येष्ठत्वम्, प्रत्यक्षत्वावच्छेदेन चानुमानाद्यनुपजीवकत्वादनुमानादेः प्रत्यक्षात् कनिष्ठत्वमिति भावः । ननु अनुमानत्वाद्यवच्छेदेनापि न प्रत्यक्षोपजीवकत्वमस्ति स्मरणानुमानादिना व्याप्तिस्मृतिलिङ्गज्ञानादौ प्रत्यक्षव्यापारदर्शनादिति चेत्, न तत्रापि परम्परयानुभवपदज्ञानाद्यपेक्षायां प्रत्यक्षानुसरणावश्यकत्वात्, ज्ञानकरणकप्रत्यक्षमात्रे स्वांशप्रत्यक्षोपजीवकत्वाव्यभिचाराच्च, न च अदृष्टार्थप्रवृत्तिजनकानुमानस्यादृष्टद्वारा प्रत्यक्षमात्रे हेतुत्वाद् अविशेषः, अदृष्टाद्वारकत्वविशेषणनिवेशेनैव तद्दोषनिरासादिति बोध्यम् । न हि यादृश इति अनुमानादे: सामान्यविषयत्वात्ततः सामान्यविषयकसमारोपनिवृत्तावपि पुनस्तार्णातार्णादिविशेषविषयः स भवन्न निरोद्धुं शक्यते, प्रत्यक्षस्य तु विशेषविषयत्वान्न ततस्तादृशोऽपि संशय इत्येवं समारोपविच्छेदविशेषहेतुत्वेन प्रत्यक्षस्येतरप्रमाणेभ्यो गरिष्ठत्वं भावनीयम् । स्वरूपतः
Page #242
--------------------------------------------------------------------------
________________
२०८
अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) दृष्टस्यान्वयव्यतिरेकयोः स्वभावभेदप्रदर्शनार्थत्वाच्च गरिष्ठत्वसिद्धेः ।
- प्रत्यक्षमेव हि स्वविषये सामान्यविशेषात्मकत्त्वान्वयस्य विधिलक्षणस्य सर्वथैकान्तव्यतिरेकस्य च प्रतिषेधलक्षणस्य स्वभावभेदप्रदर्शनप्रयोजनमुपलक्ष्यते साक्षात्, न पुनरनुमानादि तस्य सामान्यतस्तत्प्रदर्शनप्रयोजकत्वात् । [स्वसिद्धान्तसमर्थनेनैव परमतनिराकरणम् जातं किमर्थं पुनः पृथक् कारिकया निराकरणम् क्रियते
इति प्रश्ने सति विचार: प्रवर्तते] किमर्थं पुनराहतस्येष्टस्य प्रसिद्धनाबाधनं भगवतोऽर्हतः परमात्मकत्वं चाभिधाय सर्वथैकान्तस्य दृष्टेन बाधनं स्वयमसम्मतस्य, कपिलादीनां परमात्मत्वाभावं च सामर्थ्यलभ्यमपि ब्रवीति ग्रन्थकार: ? इति चेत्
(भा०) अनेकान्तैकान्तयोरुपलम्भानुपलम्भयोरेकत्वप्रदर्शनार्थं तावदुभयमाह मतान्तरप्रतिक्षेपार्थं वा, यदाह[बौद्धः कथयति अन्वयव्यतिरेकयोर्मध्ये एकतरप्रयोगेणैवार्थबोधो जायते अत उभयप्रयोगो
निग्रहस्थानं तस्य विचारः ।] धर्मकीर्तिः
(भा०) साधर्म्यवैधर्म्ययोरन्यतरेणार्थगतावुभयप्रतिपादनं पक्षादिवचनं वा निग्रहस्थानमिति' न तद्युक्तम् ।
कुत इति चेत्,
(भा०) साधनसामर्थ्येन विपक्षव्यावृत्तिलक्षणेन पक्षं प्रसाधयतः केवलं वचनाधिक्योपालम्भच्छलेन पराजयाधिकरणप्राप्तिः स्वयं निराकृतपक्षेण प्रतिपक्षिणा लक्षणीयेति वचनात् ।
- अष्टसहस्रीतात्पर्यविवरणम् समारोपविच्छेदविशेषेण दृष्टस्य गरिष्ठत्वं भावयित्वा व्यवहारतस्तेन तद्दर्शयितुमाहदृष्टस्येत्यादि । तद्विवृणोति-प्रत्यक्षमेव हीत्यादि । स्वभावेति स्वभावभेदप्रदर्शनमेव प्रयोजनं यस्य तत्तथा । न च अनेकान्तावगाहिनः प्रत्यक्षस्यैव प्रतिनियतविधिनिषेधव्यवहारजनकत्वे तत्र सर्ववादिनामविप्रतिपत्तेविचारानुपपत्तिस्तथा च हेतुवादेन तत्साधन
Page #243
--------------------------------------------------------------------------
________________
२०९
प्रथमो भागः [परि०१-का. ७]
यथोक्तेन हि साधनसामर्थ्येन स्वपक्षं साधयतः सद्वादिनः सभ्यसमक्षं जय एवेति युक्तं, न केवलं वचनाधिक्योपालम्भव्याजेन पराजयाधिकरणप्राप्तिः साधीयसी, स्वसाध्यं प्रसाध्य नृत्यतोऽपि दोषाभावाल्लोकवत् । सा च स्वयं निराकृतपक्षण प्रतिवादिना लक्षणीयेत्यपि न युक्तं, परेण निराकृतपक्षस्यैव पराजयप्राप्तियोग्यत्वनिश्चयाल्लोकवदेव । यदि पुनः स्वपक्षमसाधयतो वादिनो वचनाधिक्येन प्रतिवादी पराजयप्राप्ति लक्षयेत् तदा स्वपक्षं साधयन्नसाधयन्वा ? प्रथमपक्षे स्वपक्षसिद्ध्यैव परस्य पराजितत्वाद्वचनाधिक्योद्भावनमनर्थकं, तस्मिन् सत्यपि पक्षसिद्धिमन्तरेण जयायोगात् । द्वितीयपक्षे तु युगपद्वादिप्रतिवादिनोः पराजयप्रसङ्गो जयप्रसङ्गो वा, स्वपक्षसिद्धेरभावाविशेषात् ।
स्यान्मतं-न स्वपक्षसिद्ध्यसिद्धिनिबन्धनौ जयपराजयौ, तयोर्ज्ञानाज्ञाननिबन्धनत्वात् । तत्र साधर्म्यवचने वैधर्म्यवचनेऽपि वार्थस्य प्रतिपत्तौ तदुभयवचनात्साधनवचनसामर्थ्याज्ञानं वादिनः स्यादेव । प्रतिवादिनस्तु तदुद्भावयतस्तज्ज्ञानम् । अतस्तद्धेतुकौ तयोर्जयपराजयौ कथमयुक्तौ स्याताम् ? इति, तदपि न परीक्षाक्षम, वादिप्रतिवादिनोः पक्षप्रतिपक्षपरिग्रहवैयर्थ्यप्रसङ्गात् क्वचिदेकत्रापि पक्षे ज्ञानाज्ञानयोः सम्भवात् । न हि शब्दादौ नित्यत्वस्यानित्यत्वस्य वा ज्ञानाज्ञानपरीक्षायामेकस्य तद्विज्ञानमपरस्य तदविज्ञानं जयस्य पराजयस्य वा निबन्धनं न सम्भवति साधनसामर्थ्यज्ञानाज्ञानवत् । युगपत्साधनसामर्थ्यज्ञाने च वादि
- अष्टसहस्त्रीतात्पर्यविवरणम् - मार्हतानां नोपपद्यतेत्यपि कुचोद्यमाशङ्कनीयम्, अनेकान्तविषयप्रत्यक्षप्रामाण्य एव विप्रतिपन्नान् प्रति हेतुवादरसिकान् प्रत्येव वा हेतुवादेन तत्साधनस्य तत्र तत्रोपपादितत्वादिति दिग् । दोषाभावादिति । न च एवमधिकोच्छेद एव स्यादिति शङ्कनीयम्, स्वसाध्यसिद्धिप्रतिकूलस्वसाध्यसाधकातिरिक्तवचनस्यैवाधिकलक्षणत्वात्, परेणेति प्रतिवादिकृतस्वपक्षनिराकरणस्य परपराजयाप्रयोजकत्वात्परपक्षमात्रनिराकरणे चाधिक्यस्यापक्षपातित्वादुभयपक्षनिराकरणे च तुल्यवदुभयोः पराजयप्रसङ्गादित्यर्थः । एतदेवाह-यदि पुनरित्यादिना । साधनवचनसामर्थ्याज्ञानमिति अन्यतरवचनसामर्थ्यज्ञाने उभयप्रयोगानुसरणासम्भवादर्थात्तदज्ञानसिद्धरित्यर्थः । तदुद्भावयतो वादिनः साधनवचनासामर्थ्यज्ञानं प्रकटयतः, तज्ज्ञानं =वादिनिष्ठाज्ञानावच्छेदकोक्तसामर्थ्यज्ञानम् । एकस्येति तथा च साध्यविषयविशिष्टज्ञानाज्ञानाभ्यामेव जयपराजयसिद्धेः किं साधनसामर्थ्यज्ञानाज्ञानाभ्याम् ? न
Page #244
--------------------------------------------------------------------------
________________
२१०
अष्टसहस्त्रीतात्पर्यविवरणम् प्रतिवादिनोः कस्य जयः पराजयो वा स्यात् ? तदविशेषात् । न कस्यचिदिति चेत्, तर्हि साधनवादिनो वचनाधिक्यकारिणो यथा साधनसामर्थ्याज्ञानं तथा प्रतिवादिनोऽपि वचनाधिक्यदोषोद्भावनात् तस्य तद्दोषमात्रे ज्ञानसिद्धेः । न हि यो यद्दोषं वेत्ति स तद्गुणमपि, कुतश्चिन्मारणशक्तौ विदितायामपि विषद्रव्यस्य कुष्ठापनयनादिशक्तौ वेदनानुदयात् । ततो न जयः पराजयो वा स्यात् ।
स्यान्मतं-साधनवादिना साधु साधनं वक्तव्यं दूषणवादिना च तद्रूषणम् । तत्र वादिनः प्रतिवादिना सभायामसाधनाङ्गवचनस्योद्भावने साधु साधनाभिधानाज्ञानसिद्धेः पराजयः प्रतिवादिनस्तु तदूषणज्ञाननिर्णयाज्जयः स्यात् इति, तदप्यपेशलं, विकल्पानुपपत्तेः । स हि प्रतिवादी निर्दोषसाधनवादिनो वचनाधिक्यमुद्भावयेत्साधनाभासवादिनो वा ? प्रथमविकल्पे वादिनः कथं साधनस्वरूपाज्ञानम् ? तद्वचने इयत्ताज्ञानस्यैवाभावात् । द्वितीयविकल्पे तु न प्रतिवादिनो दूषणज्ञानमवतिष्ठते, साधनाभासस्यानुद्भावनात्तद्विज्ञानासिद्धेः । तद्वचनाधिक्यदोषस्य ज्ञानाद दषणज्ञोऽसाविति चेत. साधनाभासाज्ञानाददषणज्ञोऽपीति नैकान्ततो वादिनं जयेत्, तददोषोद्भावनलक्षणस्य पराजयस्यापि निवारयितुमशक्तेः । अथ वचनाधिक्यदोषोद्भावनादेव प्रतिवादिनो जयसिद्धौ साधनाभासोद्भावनमनर्थकमिति मन्यसे,
- अष्टसहस्त्रीतात्पर्यविवरणम् ह्ययं समीचीनसाध्यज्ञानवानयं चासभ्यज्ञानवानित्येतावत्सभ्योद्घोषणेन शृङ्गग्राहिकया जयपराजयव्यक्तिर्न भवतीति, न च क्वचित्तत् क्वचिदेतज्जयपराजयप्रयोजकम्, अननुगतस्याहेतुत्वात्, पक्षसिद्ध्यसिद्ध्योरनुगतयोरेव तत्त्वौचित्यादिति भावः । तद्दोषमात्रे ज्ञानसिद्धेरिति जयः पराजयो वा स्यादित्यनेन योगः, वादिनः पक्षसिद्ध्या जयो वचनाधिक्यप्रयुक्तसाधनसामर्थ्याज्ञानात्पराजयः, प्रतिवादिनश्च दोषज्ञानाज्जयो गुणाज्ञानाच्च पराजयः स्यादित्यर्थः । न जयः पराजयो वा स्यादिति परस्परविप्रतिषेधादित्यर्थः । समयबन्धविघटकत्वादधिकं पराजयाधिकरणमित्याशङ्कते-स्यान्मतमित्यादिना । समयबन्धेऽपि साधनतद्रूषणाभिधाने एवोपक्रान्ते न त्वधिकानधिकोद्भावने इति नायं पन्थाः प्रामाणिक इत्याशयवान् समाधत्ते तदप्यपेशलमित्यादिना । 'साधयेदिति साधनस्वरूपाज्ञानमिति शेषः । तद्वचन इति, वचनाधिक्यं वचनेयत्ताव्याप्यमिति तज्ज्ञानात्सैव सिद्धयतु न
१. उद्भावयेद् इति अष्टसहस्रीसम्मतः पाठः ।
Page #245
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. ७]
२११ नन्वेवं साधनाभासानुद्भावनात्तस्य पराजयसिद्धौ वचनाधिक्योद्भावनं कथं जयाय प्रकल्प्येत ? यदि पुनः साधनाभासं वचनाधिक्यं चोद्भावयन्प्रतिवादी जयतीति मतं, तदास्य महती द्विष्टकामिता, साधर्म्यवचनादेवार्थगतौ वैधर्म्यवचनमनर्थकत्वाद् द्विष्ट्वा साधनाभासोद्भावनादेव परस्य न्यक्कारसिद्धौ तद्वचनाधिक्योद्भावनस्यानर्थकस्यापि कामितत्वात् । अथ न वचनाधिक्यमानं द्विष्यते, अर्थादापन्नस्य स्वशब्देनाभिधानस्य द्विष्टत्वादिति मतं तदपि न सङ्गतं, निगमनवचनदोषस्य प्रतिज्ञावचनदोषोद्भावनाद् गतस्यानुद्भावनप्रसङ्गात् । प्रतिज्ञायाः पुनर्वचनं हि निगमनम । तच्च प्रतिज्ञानवचनस्य दष्टत्वप्रतिपत्तौ दृष्टं सामर्थ्यात्प्रतीयते एव । अथार्थादापन्नस्यापि निगमनवचनदुष्टत्वस्योद्भावनमदोषोद्भावनभयादभिमन्यते, तर्हि साधर्म्यवचनाद्वैधर्म्यस्यार्थायातस्याप्यसाधनाङ्गवचनभयादभिधानं मन्यतां, विशेषाभावात् । न हि साधर्म्यमेव वैधर्म्यमेव वा साधनस्याङ्ग, पक्षधर्मत्ववत्तदुभयस्यापि साधनाङ्गत्वात् साधनस्य त्रिरूपत्वप्रतिज्ञानात् । ततो न ज्ञानाज्ञानमात्रनिबन्धनौ जयपराजयौ शक्यव्यवस्थौ, यथोदितदोषोपनिपातात् । स्वपक्षसिद्धसिद्धिनिबन्धनौ तु तौ निरवद्यौ, पक्षप्रतिपक्षपरिग्रहवैयर्थ्याभावात् कस्यचित्कुतश्चित्स्वपक्षसिद्धौ सुस्थितायां परस्य पक्षसिद्धरसम्भवात् सकृत्तज्जयपराजययोरप्रसक्तेः । न हि वादिना साध्याविनाभावनियमलक्षणेन हेतुना स्वपक्षसिद्धौ विधातुं शक्यायामपि
अष्टसहस्त्रीतात्पर्यविवरणम्
तु साधनस्वरूपाज्ञानं तस्य तदव्याप्यत्वादिति भावः । द्विष्टमित्यनन्तरं यतस्त्वयाभ्युपगतं तत इति शेषः । अनर्थकस्यापीति अनिष्टसाधकत्वेन द्वेषविषयस्यापीत्यर्थः, वचनाधिक्यमात्रमिति मात्रपदेनोद्भावननिरास: । द्विष्यत इति तथा च द्विष्टोद्भावनेन पराजयः साध्यत इत्यर्थः । अदोषोद्भावनमिति एकसाधनस्य साधनान्तरादूषकत्वादिति भावः । भवान्= सौगतः । पक्षधर्मवदिति भावप्रधाननिर्देशात्पक्षधर्मत्ववदित्यर्थः । तदुभयस्यापीति सपक्षसत्त्वविपक्षव्यावृत्तिरूपसाधर्म्यवैधयॊभयस्यापीत्यर्थः । त्रिरूपत्वप्रतिज्ञानादिति अबाधितविषयत्वासत्प्रतिपक्षत्वयोः प्रमाणमात्रसाधारणत्वेन हेतुरूपत्वानभ्युपगमादित्यर्थः । सुस्थिताविति बहुव्रीहिणा सुस्थितायामित्यर्थः । अप्रसक्तेरिति वाद्युक्तहेतौ विरुद्धत्वाद्युद्भावन एव कृतार्थत्वाभिमाने ततो जयः स्वपरिगृहीतपक्षासिद्ध्या च पराजय इत्येवमुभयं स्यादित्यर्थः । प्रतिपत्तिविशेषप्रयोजनभेदात् पक्षप्रतिपक्षपरिग्रहावैयर्थ्य व्यतिरेकेण द्रढयितुमाह-न हीत्यादि । तद्विघाताहेतुत्वात् स्वपक्षसिद्धिप्रतिपक्षसिद्ध्यन
Page #246
--------------------------------------------------------------------------
________________
२१२
अष्टसहस्त्रीतात्पर्यविवरणम् प्रतिज्ञोदाहरणादिवचनमनर्थकमपजयाय प्रकल्प्यते, तद्विघाताहेतुत्वात्ततः प्रतिपक्षासिद्धेः, प्रतिपाद्याशयानुरोधतस्तत्प्रयोगात्तत्प्रतिपत्तिविशेषस्य प्रयोजनस्य सद्भावात् । नापि हेतोविरुद्धतोद्भावनादेव प्रतिवादिनः स्वपक्षसिद्धौ सत्यामपि दोषान्तरानुद्भावनं तस्य पराजयाय प्रकल्प्यते, तत एव । एतेन स्वपक्षसिद्धौ कृतायामपि परपक्षनिराकरणम्, तस्मिन्वा स्वपक्षसाधनाभिधानं न वादिप्रतिवादिनोर्जयप्राप्तिप्रतिबन्धकमिति प्रतिपादितं बोद्धव्यम् । तदेवं साधर्म्यवैधर्म्ययोरन्यतरेणार्थगतौ तदुभयवचनं वादिनो निग्रहाधिकरणमित्ययुक्तं च व्यवस्थितम् ।।
[बौद्धो ब्रूते वादकाले प्रतिज्ञाप्रयोगो निग्रहस्थानं जैनाचार्यास्तत्कथनं निराकुर्वन्ति] प्रतिज्ञादिवचनं निग्रहस्थानमित्येतत्कथमयुक्तम्, इति चेत्, इच्यते(भा०) प्रतिज्ञानुपयोगे शास्त्रादिष्वपि नाभिधीयेत, विशेषाभावात् ।
न हि शास्त्रे प्रतिज्ञा नाभिधीयते एव अनियतकथायां वा, अग्निरत्र धूमात्, वृक्षोऽयं शिशपात्वादित्यादिवचनानां शास्त्रे दर्शनात्, विरुद्धोऽयं हेतुरसिद्धोऽयमित्यादिप्रतिज्ञावचनानामनियतकथायां प्रयोगात् । परानुग्रहप्रवृत्तानां शास्त्रकाराणां प्रतिपाद्यावबोधनाधीनधियां शास्त्रादौ प्रतिज्ञाप्रयोगो युक्तिमानेव, उपयोगित्वात्तस्येति चेत्, वादेऽपि सोऽस्तु, तत्रापि तेषां तादृशत्वात्, वादेऽपि विजिगीषुप्रतिपादनायाचार्याणां प्रवृत्तेः । नियतकथायां प्रतिज्ञाया न प्रयोगो युक्तः, तद्विषयस्यार्थाद् गम्यमानत्वान्निगमनादिवदिति चेत्, एवं शास्त्रादिष्वपि । न हि तत्र जिगीषवो न
अष्टसहस्रीतात्पर्यविवरणम्
नुकूलत्वात् । प्रतिपाद्येत्यादि व्याप्त्यभिधानमात्राद् यस्य न साध्यसिद्धिस्तं प्रति प्रतिज्ञादिवचनमप्यदुष्टं पुरुषविशेषं प्रत्यसिद्धस्यैव ततः सिद्धेरित्थमेव प्रतिपाद्याशयनुरुद्धप्रतिपत्तिविशेषसिद्धये पक्षप्रतिपक्षपरिग्रहः कथायामदुष्ट इति भावः । अत एव पञ्चावयवप्रयोगेऽपि यस्य न कण्टकोद्धारं विना साध्यप्रतिपत्तिस्तं प्रति दशावयवप्रयोगोऽपि जीर्णनैयायिकैः स्वीक्रियत इति मन्तव्यम् । तत्रापि वादेऽपि तेषां शास्त्रकाराणाम्, तादृशत्वात्=प्रतिपाद्यावबोधनार्थव्यापृतत्वात्, तत्र शास्त्रादौ, जिगीषवो न हि न प्रतिपाद्या न बोधनीयाः किन्तु प्रतिपाद्या एव, चालनारूपव्याख्यानभेदे तत्र शिष्याणां विजिगीषुताया अपि सम्भवात, 'यथा यथा वामं वामेन वर्ते तथा तथा सत्रमर्थं तदभयं वा
Page #247
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि० १-का. ७]
२१३ प्रतिपाद्याः प्रतिज्ञादिविषयो वा सामर्थ्यान्न गम्यते । शास्त्रादावजिगीषूणामपि प्रतिपाद्यत्वात् प्रतिज्ञादेरप्रयोगे केषाञ्चिन्मन्दधियां प्रकृतार्थाप्रतिपत्तेर्गम्यमानस्य विषयस्यापि प्रयोगः, तत्प्रतिपत्त्यर्थत्वादिति चेत्, जिगीषवः किमु मन्दमतयो न सन्ति ? येन तथा तेषामप्रतिपद्यमानानां प्रतिपत्तये प्रतिज्ञादिप्रयोगो न स्याद् इति विशेषाभावादेव शास्त्रादौ वादे च प्रतिज्ञादेरभिधानमनभिधानं वाभ्युपगन्तव्यमविशेषेणैव । ननु च प्रतिज्ञायाः प्रयोगेऽपि हेत्वादिवचनमन्तरेण साध्याप्रसिद्धर्व्यर्था प्रतिज्ञा, हेत्वादिवचनादेव च साध्यप्रसिद्धेनिगमनादिकमकिञ्चित्करमेवेति कश्चित्सोऽपि
(भा०) यत्सत्तत्सर्वं क्षणिकं, यथा घटः, सँश्च शब्द इति त्रिलक्षणं हेतुमभिधाय यदि समर्थयते, कथमिव सन्धामतिशेते ?
स्वहेतुसमर्थनमन्तरेण तदभिधानेऽपि तदर्थाप्रतिपत्तेः । (भा०) तावतार्थप्रतिपत्तौ समर्थनं वा निगमनादिकं कथमतिशयीत ? अकिञ्चित्करत्वाविशेषात् । (भा०) यतः पराजयो न भवेत् ।
तथागतस्य हेत्वाद्यभिधाने तत्समर्थनाभिधाने वा । हेत्वाद्यनभिधाने कस्य समर्थनमिति चेत्, तथा सन्धाया अप्यनभिधाने क्व हेत्वादिः प्रवर्तताम् ? गम्यमाने
अष्टसहस्रीतात्पर्यविवरणम्
लभे इत्यादेः केशिप्रदेशिसम्बन्धे प्रसिद्धत्वादिति [राजप्रश्नीये] भावः । जिगीषुमात्रप्रतिपाद्यत्वे प्रतिज्ञाया अप्रयोगः स्यादित्यत्राह- शास्त्रादावित्यादि । न स्यादिति इत्यनन्तरं विभाव्यते तदेतिशेषः, कथमिवेति किंवृत्ताद् इवशब्दप्रयोगः शब्दालङ्करणहेतुर्यथा आवर्जिता किञ्चिदिव स्तनाभ्याम् [कुमारसम्भव ३.५४] इत्यत्र । कथं सन्धामतिशेते न युक्तमेतदित्यर्थः । तावतार्थप्रतिपत्तावित्यादि यथास्माकं प्रतिज्ञानिगमनादिवचनमधिकवचनत्वान्निग्रहस्थानं त्वया प्रतिपाद्यते तथा तवापि हेतोः समर्थनमधिकवचनत्वान्निग्रहस्थानमायाति, साध्यसिद्धेविपक्षव्यावृत्तिलक्षणहेतोरेव भावादित्यर्थः । गम्यमान इति हेत्वन्वयित्वेन तात्पर्यविषयो गम्यमानः प्रतिज्ञार्थ एव हेत्वर्थेनान्वयीभविष्यतीति किं प्रतिज्ञाशब्दोपन्यासेन ? इत्यर्थः । तथासन्धानवचन इति शाब्दी हीति न्यायादित्यर्थः ।
Page #248
--------------------------------------------------------------------------
________________
२१४
अष्टसहस्त्रीतात्पर्यविवरणम् प्रतिज्ञाविषये एवेति चेद्, गम्यमानस्य हेत्वादेः समर्थनमस्तु । गम्यमानस्यापि हेत्वादेर्मन्दप्रतिपत्त्यर्थं वचनमिति चेत्, तथा सन्धावचने कोऽपरितोषः ? [जैनाचार्येण कथितं समर्थनमपि वचनाधिक्यं नाम दूषणं भविष्यति न हि बौद्धस्य समर्थनस्य
समर्थनं कृत्वा तद्दोषं न मन्यते ।] स्यान्मतं, समर्थनं नाम हेतोः साध्येन व्याप्ति प्रसाध्य धर्मिणि भावसाधनम् । यथा यत्सत् कृतकं वा तत्सर्वमनित्यं यथा घटादिः, सन् कृतको वा शब्दः, यश्चैवं स सर्वो नश्वरो यथा घटादिरिति वा, प्रयोगक्रमनियमाभावादिष्टार्थसिद्धरुभयत्राविशेषात्, प्राक् सत्त्वं धर्मिणि प्रसाध्य साधनस्य पश्चादपि साध्येन व्याप्तिप्रसाधनस्याविरोधात् । व्याप्तिप्रसाधनं पुनर्विपर्यये बाधकप्रमाणोपदर्शनम । यदि पनः सर्वं सत्कतकं वा प्रतिक्षणविनाशि न स्यान्नित्ये क्रमयोगपद्याभ्यामर्थक्रियाविरोधात् । अर्थक्रियासामर्थ्यं सत्त्वलक्षणमतो व्यावृत्तमित्यसदेव तत्स्यात् । सर्वसामोपाख्याविरहलक्षणं हि निरुपाख्यमिति । एवं साधनस्य साध्यविपर्यये बाधकप्रमाणानुपदर्शने विरोधाभावादस्य विपक्षे नित्ये वृत्तेरदर्शनेऽपि सन् कृतको वा स्यान्नित्यश्चेत्यनिवृत्तिरेव शङ्कायाः । ततो व्यतिरेकस्य सन्देहादनैकान्तिको हेत्वाभासः स्यात् । न ह्यदर्शनमात्राद् व्यावृत्तिः, विप्रकृष्टेष्वर्थेष्वसर्वदर्शिनोऽदर्शनस्याभावासाधनात्, अर्वाग्दर्शनेन सतामपि केषाञ्चिदर्थानामदर्शनात् । बाधकं पुनः प्रमाणम् । यस्य क्रमयोगपद्याभ्यां न योगो, न तस्य क्वचित्सामर्थ्यम् । अस्ति चाक्षणिके सः, इति प्रवर्तमानमसामर्थ्यमसल्लक्षणमाकर्षति, तेन यत्सत्कृतकं वा तदनित्यमेवेति सिद्ध्यति । तावता च साधनधर्ममात्रान्वयः साध्यधर्मस्य स्वभावहेतुलक्षणं सिद्धं भवति । अत्राप्य
अष्टसहस्रीतात्पर्यविवरणम् समर्थनं नामेत्यादि ततो निगमनादीनतिशेत एव समर्थनमिति दूरेणान्वयः । साध्येनेत्यादि साध्येन सह व्याप्तिमत्तया प्रदर्शितस्य हेतोः, धर्मिणि साधनं धर्मिणि साधितस्य हेतोः साध्येन सह व्याप्तिमत्ताप्रदर्शनमित्यत्र विना पौर्वापर्यं न कश्चिद्विशेषः, सः=क्रमयोगपद्याभावः, तावता=विपर्यये बाधकप्रमाणोपदर्शनेन, साधनधर्ममात्रान्वयः=यावत्साधनाश्रयाश्रितत्वं, अदर्शनमप्रमाणम् अदर्शनमात्रं क्षणिकत्वाभावस्य न
१. भावसाधनमिति अष्टसहस्रीसम्मतः पाठः ।
Page #249
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि. १-का. ७]
२१५ दर्शनमप्रमाणं, यतः क्रमयोगपद्यायोगस्यैवासामर्थ्येन व्याप्त्यसिद्धेः पूर्वस्यापि हेतोः सत्त्वादेर्न व्याप्तिसिद्धिः । पुनरिहापि साधनोपगमेऽनवस्थाप्रसङ्ग इति न चोद्यम्, इष्टस्याभावसाधनस्यादर्शनस्य प्रमाणत्वाप्रतिषेधात् । यददर्शनं विपर्ययं साधयति हेतोः साध्यविपर्यये तदपि विरुद्धप्रत्युपस्थानाद् बाधकं प्रमाणमुच्यते । एवं हि स हेतुः साध्याभावेऽसन् सिद्धयेद्यदि तत्र प्रमाणवता स्वविरुद्धेन बाध्येत । अन्यथा तत्रास्य बाधकासिद्धौ संशयो दुनिवारः । न च सर्वानुपलब्धिर्भावस्य बाधिका, दृश्यानुपलब्धेरेव तद्बाधकत्वात् । तत्र सामर्थ्य क्रमाक्रमयोगेन व्याप्तं सिद्धं, प्रकारान्तरासम्भवात् । तेन व्यापकधर्मानुपलब्धिरक्षणिके सामर्थ्य बाधत इति क्रमयोगपद्यायोगस्य सामर्थ्याभावेन व्याप्तिसिद्धे नवस्थाप्रसङ्ग इति स्वभावहेतोः समर्थनम् । कार्यहेतोरपि, यत्कार्यं लिङ्गं कारणसाधनायोपादीयते तस्य तेन कार्यकारणभावप्रदर्शनं प्रमाणाभ्याम् । यथेदमस्मिन् सति भवति सत्स्वपि तदन्येषु समर्थेषु तद्धेतुषु, तदभावे न भवतीति । एवं ह्यस्यासन्दिग्धं तत्कार्यत्वं समर्थितं
- अष्टसहस्त्रीतात्पर्यविवरणम् साधकमित्यर्थः । अस्यैव अयोगस्यैव । तेनेति तेन कारणेन, अर्थस्य क्रमयोगपद्यलक्षणव्यापकधर्मानुपलम्भो नित्ये सत्त्वं बाधत इति सत्त्वाभावेन क्रमयोगपद्याभावस्य व्याप्तिः सिद्ध्यति बाधकप्रमाणेन च स्वाभ्युपगमबाधादिना न विपर्ययशङ्केति नानुमानान्तरापेक्षयानवस्थेति भावः । प्रमाणाभ्यां प्रत्यक्षानुपलम्भाभ्याम् ।
॥ 'प्रत्येकान्वयव्यतिरेक ग्रहस्य प्रत्येक कारणताग्रहप्रयोजकत्ववादः ॥
तद्धेतष्विति । नन प्रकतहेतत्वग्रहे स्वहेतत्वग्राहकापेक्षायामात्माश्रयोऽन्यहेतत्वग्राहकापेक्षायामन्योन्याश्रयादिकमिति तद्धेतुष्वित्ययुक्तमभिधानमिति चेत्, न, समूहान्वयव्यतिरेकाभ्यां समूहे कारणत्वग्रहे तदितरगृहीततत्कार्यकारणताकसमूहसत्त्वे यद्व्यतिरेकेऽवश्यं कार्यव्यतिरेकस्तावत्समूहसत्त्वे तत्सत्त्वे चावश्यं तत्कार्यसत्त्वमित्यन्वयव्यतिरेकयोर्ग्रहस्य विशिष्य तत्कारणत्वग्राहकत्वे दोषाभावात् । यत्त स्वस्वव्याप्याभिन्नास यावतीषु व्यक्तिले सतीषु सव्यापारयदवच्छिन्नाधिकरणक्षणोत्तरक्षणे यदवच्छिन्नाधिकरणत्वं तावतीषु व्यक्तिष सतीष्वेव सव्यापारयदवच्छिन्नानधिकरणक्षणोत्तरक्षणे यदवच्छिन्नानधिकरणत्वं तदवच्छिन्नं प्रति तदेव जनकत्वम्, आकाशाभावकाले रासभादेर्घटादावुभयसत्त्वात् सतीष्वेवेत्यन्तम्, इत्थं च यावतां सत्त्वे रासभाधिकरणक्षणोत्तरक्षणे घटसत्त्वं तावतां सत्त्वे तं विना घटासत्त्वं
१. अष्टसहस्रीस्थितस्य क्रमयोगपद्यायोगस्यैवेति पाठस्येदं प्रतीकमिति प्रतिभाति ।
Page #250
--------------------------------------------------------------------------
________________
२१६
अष्टसहस्त्रीतात्पर्यविवरणम् भवति । अन्यथा केवलं तदभावे न भवतीत्युपदर्शनेऽन्यस्यापि तत्राभावे सन्दिग्धर्मस्य सामर्थ्यं स्यात्, अन्यत्तत्र समर्थं, तदभावे तन्न भूतमिति शङ्कायाः प्रतिनिवृत्त्यभावात् । एतन्निवृत्तौ पुनर्निवृत्तौ यदृच्छासंवादो मातृविवाहोचितदेशजन्मनः पिण्डखर्जुरस्य देशान्तरेषु मातृविवाहाभावेऽभाववत् । एवं समर्थितं तस्य कार्य सिद्ध्यति । सिद्धं स्वसम्भवेन तत्सम्भवं साधयति, कार्यस्य कारणाव्यभिचारात् । अव्यभिचारि च स्वकारणैः सर्वकार्याणां सदृशो न्याय इति । अनुपलब्धेरपि समर्थनं, प्रतिपत्तुरुपलब्धिलक्षणप्राप्तस्यानुपलब्धिसाधनं, तादृशस्यैवानुपलब्धेरसद्व्यवहारसिद्धः, अनुपलब्धिलक्षणप्राप्तस्य प्रतिपत्तुः प्रत्यक्षोपलब्धिनिवृत्तावप्यभावसिद्धेः । तत्रोपलब्धिलक्षणप्राप्तिः स्वभावविशेषः कारणान्तरसाकल्यं च स्वभावविशेषः । यन्न त्रिविधेन विप्रकर्षेण विप्रकृष्टं
अष्टसहस्रीतात्पर्यविवरणम् नास्तीति नातिप्रसङ्गः, घटसत्त्वकालीनयावद्व्यक्तिनिविष्टदण्डादिसत्त्वकालेऽसत्त्वस्यासम्भवाद् भिन्नास्वित्यन्तम् । यत्तु मङ्गलाभावरूपविघ्नहेतुमति मङ्गलतद्व्याप्येतरयावद्विघ्नहेतुसमवधानकाले मङ्गलसत्त्वस्यासम्भवात् स्वाभावभिन्नास्वित्यपि विशेषणीयमिति, तन्न, स्वस्वव्याप्येतरयावद्व्यक्तिसत्त्वे मङ्गलसत्त्वे विघ्नप्रागभावस्तावत्सत्त्वे मङ्गलासत्त्वे विघ्नप्रागभावाभावस्य सत्त्वेन तद्विशेषणानौचित्यात्, न ह्यत्र स्वस्वव्याप्येतरयावद्विघ्नहेतुत्वेन निवेश इति तन्न यावतां सत्त्वे दण्डसत्त्वे घटसत्त्वं तावतां सत्त्वे दण्डासत्त्वे घटासत्त्वस्यासम्भवात्, घटप्राक्कालोत्पत्तिकानामुदासीनानन्तसंयोगविभागतत्तदङ्करादीनामन्यदाभावात्, यावत्पदस्येच्छो पगृहीतयावत्परत्वे रासभाद्यतिप्रसङ्गात्, चक्रादियावत्सत्त्वे रासभसत्त्वे दण्डसमवधाने घटसत्त्वात्तदसमवधाने घटासत्त्वाच्च, तस्माद् यादृशसमूहसत्त्वे सव्यापारयत्सत्त्वेऽग्रिमक्षणेऽवश्यं कार्यं तादृशसमूहसत्त्वे सव्यापारयद्व्यतिरेके चावश्यं कार्यव्यतिरेकस्तत्तस्य साधनमित्येवं योगक्षेमसाधारण्याः कारणताया लक्षणं वाच्यम्, भवति हि चक्रादिसमूहसत्त्वे सव्यापारदण्डसत्त्वेऽग्रिमक्षणे घटसत्त्वं सव्यापारदण्डव्यतिरेके घटव्यतिरेकस्तथा मङ्गलाभावेतरविघ्नहेतुसमूहसत्त्वे मङ्गलसत्त्वे विघ्नप्रागभावस्तदभावे तदभावः । तत्पापवृत्तिलाभयोग्यसमयादिसमूहसत्त्वे सव्यापारप्रायश्चित्तसत्त्वेऽग्रिमक्षणे दुःखप्रागभावसत्त्वं सव्यापारप्रायश्चित्ताभावे दुःखप्रागभावाभाव इति, इत्थं च समूहान्वयव्यतिरेकग्रहानन्तरं प्रत्येकान्वयव्यतिरेकग्रहस्य प्रत्येककारणताग्राहकत्वं नाप्रामाणिकमिति नियूंढम् । एतन्निवृत्तौ प्रकृतकारणनिवृत्तौ यदृच्छासंवादः साहचर्यमानं न तु नियमः, कारणतालक्षणे च नियमः प्रविष्ट इति नातिप्रसङ्ग इति भावः ।
Page #251
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि० १-का. ७]
२१७ यदनात्मरूपप्रतिभासविवेकेन प्रतिपत्तृप्रत्यक्षप्रतिभासिरूपं स तादृशः सत्स्वन्येषूपलम्भकारणेषु तथानुपलब्धोऽसद्व्यवहारविषयः । ततोऽन्यथा सति लिङ्गे संशयः ।
-
अष्टसहस्त्रीतात्पर्यविवरणम्
-
त्रिविधेनेति देशकालस्वभावभेदभिन्नेनेत्यर्थः । अनात्मरूपप्रतिभासविवेकेनेति नास्त्यात्मरूपं प्रतिभासो यत्र तद्विवेकेनेति व्युत्पत्त्याऽयोग्यभेदेनेत्यर्थः । तेन प्रतियोगिप्रतियोगिव्याप्येतरयावत्प्रतियोग्युपलम्भकसमवधानरूपकारणान्तरसाकल्यरूपायां योग्यतायां प्राचीनाभिमतायामपरितुष्यन्नवीनसौगतः प्रतियोगिनः स्वरूपयोग्यतामपि सङ्ग्रह्णन् योग्यताया अननुगतत्वमाह, चकारस्यापि व्यवस्थार्थत्वसम्भवात्, तथा चात्र विचारयन्ति नैयायिकाः ।
॥ योग्यानुपलब्धिवादः ॥ केयं योग्यानुपलब्धिरिन्द्रियसम्बद्धविशेषणतया अभावग्रहे सहकारिणी ? न तावद् योग्यस्य प्रतियोगिनोऽनुपलब्धिर्जलपरमाणौ पृथिवीत्वाभावग्रहापत्तेः, स्तम्भे पिशाचभेदग्रहानापत्तेश्च । नापि योग्येऽधिकरणे प्रतियोगिनोऽनुपलब्धिः सा, भूतले पिशाचात्यन्ताभावग्रहापत्तेः, परमाणौ महत्त्वाभावग्रहानापत्तेश्च । न च अत्यन्ताभावग्रहे योग्यप्रतियोग्यनुपलब्धिरन्योन्याभावग्रहे च योग्येऽधिकरणे प्रतियोगितादात्म्यानुपलब्धिः सहकारिणीत्यपि साम्प्रतम्, जलपरमाणौ पृथिवीत्वात्यन्ताभावग्रहापत्तेः, परमाणौ महत्त्ववद्भेदग्रहस्य वायावुद्भूतरूपवतेंदग्रहस्यानापत्तेश्चेष्टापत्तेश्चानुभवविरोधेन कर्तुमशक्यत्वादिति चेत्, योग्यसहकारिसम्पन्नानुपलब्धिः कारणम्, अत एवान्धकारे न घटाभावग्रहश्चाक्षुषः तत्रालोकाधिकरणसन्निकर्षस्य हेतुत्वात्, न वा जलपरमाणौ पृथिवीत्वाभावग्रहः योग्यसन्निकर्षाभावात्, इन्द्रियसन्निकृष्टमहत्त्वोद्भूतरूपवद्विशेषणताया एव पृथिवीत्वाभावग्रहे योग्यसन्निकर्षत्वात्, उद्भूतरूपाभावग्रहे त्विन्द्रियसन्निकृष्टमहत्त्ववद्विशेषणता योग्यः सन्निकर्षोऽतो मनसि न तदग्रहो भवति, भवति च महति वायौः एवमन्यत्रापि सन्निकर्षयोग्यता कार्यवशादुन्नेया, पिशाचात्यन्ताभावस्त्वयोग्यत्वादेव न गृह्यते । का पुनरत्यन्ताभावस्य योग्यता ? योग्यमात्रप्रतियोगिके योग्यधर्मावच्छिन्नप्रतियोगिताकत्वम्, Tएवं च घटत्वाभावो न घटत्वत्वेन न वा जातित्वादिना प्रत्यक्षो घटत्वत्वजातित्वादेरतीन्द्रियघटितत्वादिति सर्वथैवाप्रत्यक्ष इति दीधितिकृतः । तत्तद्व्यक्तित्वेन घटत्वाद्यभावो नाप्रत्यक्षस्तच्चातिरिक्तं घटत्वादितादात्म्यरूपं वेत्यन्ये, ब्राह्मण्याद्यभावप्रत्यक्षे तु विशुद्धमातापितृजन्यत्वाभावनिश्चयोऽपि हेतुरित्यायूह्यम् । एवमनया दिशा सौगतेनापि विचित्रा योग्यताऽवश्यमाश्रणीयेत्यभिप्रायः । ततोऽन्यथेति उक्तान्यप्रकारेण योग्यताभावे
Page #252
--------------------------------------------------------------------------
________________
२१८
अष्टसहस्त्रीतात्पर्यविवरणम् अत्रापि सर्वमेवंविधमसद्व्यवहारविषयः इति व्याप्तिः कस्यचिदसतोऽभ्युपगमेऽन्यस्य तल्लक्षणाविशेषात् । न ह्येवंविधस्यासत्त्वानभ्युपगमेऽन्यत्र तस्य योगः । न ह्येवंविधस्य सतः सत्स्वन्येषूपलम्भकारणेष्वनुपलब्धिः । अनुपलभ्यमानं त्वीदृशं नास्तीत्येतावन्मात्रनिमित्तोऽयमसद्व्यवहारः, अन्यस्य तन्निमित्तस्याभावादिति । तच्चैवं त्रिविधस्य हेतोः समर्थनं न रूपान्तरं, विपक्षव्यावृत्तिरूपत्वात्, तृतीयस्यैव रूपस्यासपक्षासत्त्वलक्षणस्यैवं प्रतिपादनात् । तदवचने साधनाङ्गस्य त्रिरूपलिङ्गस्यावचनादसाधनाङ्गवचनं निग्रहाधिकरणं प्रसज्येत । निगमनादेस्तु हेतुरूपातिरिक्तत्वादभिधानमनर्थकं, त्रिरूपहेतुना साध्यार्थप्रतिपत्तेविहितत्वात् । ततो निगमनादीनतिशेते एव समर्थनमिति ।
[जैनाचार्या अन्यथानुपपन्नस्यैव बौद्धस्य हेतुलक्षणत्वं साधयन्ति] तदेतदपि स्वदर्शनानुरागमात्रं सौगतस्य, निगमनादेरपि साधनावयवत्वात्, प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवा इति [त्या० सू०] परैरभिधानात्, निगमनस्योपनयस्य वा सङ्गरस्येवावचने न्यूनाख्यस्य निग्रहस्थानस्य प्रसक्तेः, हीनमन्यतमेनापि न्यूनम् इति वचनात् [न्या०सू०५.२.१२] । यदि पुनः साधनावयवत्वेऽपि निगमनादेर्वचनमयुक्तं, हेत्वादिनैवार्थप्रत्यायनादिति मतं तदा समर्थनस्य हेतुरूपत्वेऽपि निर्दोषहेतुप्रयोगादेव साध्यप्रसिद्धेस्तदभिधानमनर्थकं कथं न भवेत् ? यतः समर्थनं निगमनादीनतिशयीत ? । हेतोविपक्षव्यावृत्तिसाधनलक्षणस्य समर्थनस्यावचने रूपान्तरसत्त्वेऽपि गमकत्वासम्भवान्निगमनाद्यवचनेऽपि गमकत्वोपपत्तेः समर्थनं निगमनादीनशयीतेति चेत्, हन्त हतोऽसि, पक्षधर्मत्वसपक्षसत्त्वयोर्हेतुरूप
- अष्टसहस्त्रीतात्पर्यविवरणम् लिङ्गेऽनुपलब्धिलक्षणे सति संशयोऽसद्व्यवहारविषयत्वस्य भवति । अभावप्रत्यक्षजनकत्वेनाभिमताया योग्यानुपलब्धेरेवासद्व्यवहारविषयत्वनिश्चायकत्वादिति भावः । एवंविधस्य उपलब्धिलक्षणप्राप्तस्य, सतोऽनुपलभ्यमानस्य, अन्यत्र=उक्तातिरिक्तस्थले, तस्य=असद्व्यवहारविषयत्वस्य, असपक्षासत्त्वलक्षणस्य=विपक्षव्यावृत्तिलक्षणस्य, तदवचने =समर्थनावचने, सङ्गरस्येव= प्रतिज्ञाया इव, हेतुरूपत्वापायापत्तेरिति यद्व्यतिरेकेऽनुमितिजनकतावच्छेदकावच्छिन्नहेतुज्ञानव्यतिरेकस्तस्यैव हेतुरूपत्वेन विपक्षव्यावृत्ततया हेत्वभिधानरूपसमर्थनस्यैव हेतुरूपत्वसिद्धरित्यर्थः । तदाह-अन्यथानुपपन्नत्वस्यैवेत्यादि । प्रतिपाद्यानुरोधत इति प्रतिपाद्याशयाननुरोध्यसाधनाङ्गवचनस्यैवा
Page #253
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि० १-का० ७]
२१९ त्वापायापत्तेः, अन्यथानुपपन्नत्वस्यैव तथा हेतुलक्षणत्वसिद्धेः, तस्यैव समर्थनरूपत्वात्, तद्भावे एव हेतोः प्रयोजकत्वदर्शनात् पक्षधर्मत्वादिप्रयोगो वादिनोऽसाधनाङ्गवचनस्य निग्रहस्थानत्वप्रसक्तेः । प्रतिपाद्यानुरोधतः पक्षधर्मत्वादिवचनान्न निग्रहप्राप्तिरिति चेत्, तथा निगमनादिवचनादपि सा मा भूत्, सर्वथातिशयासत्त्वात् । यदि पुनरयं निर्बन्धः प्रतिपाद्यानुरोधतोऽप्यतिरिक्तवचनमसाधनाङ्गवचनं निग्रहस्थानमिति तदा
(भा०) सत्त्वमात्रेण नश्वरत्वसिद्धावुत्पत्तिमत्त्वकृतकत्वादिवचनमतिरिक्तविशेषणोपादानात् कृतकत्वप्रयत्नानन्तरीयकत्वादिषु च कप्रत्ययातिरेकादसाधनाङ्गवचनं पराजयाय प्रभवेत् । क्वचित्पक्षधर्मत्वप्रदर्शनं, संश्च शब्द इत्यविगानात् ।
यस्य निरुपाधि सत्त्वं प्रसिद्धं तं प्रति शुद्धः स्वभावहेतुः प्रयुज्यते, नश्वरः शब्दः सत्त्वादिति । यस्य त्वनान्तरभूतविशेषणं सत्त्वं प्रसिद्धं तं प्रति सोऽनर्थान्तरभूतविशेषण एवोत्पत्तिमत्त्वादिति । यस्य पुनरर्थान्तरभूतविशेषणं सत्त्वं संप्रसिद्धं तं प्रत्यर्थान्तरभूतविशेषण एव कृतकत्वादिति । 'अपेक्षितपरव्यापारो हि भावः कृतक इति वचनात् [न्या० ३.१२] । तथा कृतकत्वात्प्रयत्नानन्तरीयकत्वादित्यादिषु च स्वार्थिकस्य कप्रत्ययस्याभिधानमपि तादृशशब्दप्रसिद्ध्यनुसारिणं प्रति नातिरिक्तमुच्यते, अन्यथाप्रयोगे तदपरितोषात् । तथा च यत्सत्तत्सर्वं क्षणिकं यथा घट इतीयता शब्देऽप्यविगानेन सत्त्वप्रतिपत्तावपि संश्च शब्द इति पक्षधर्मप्रदर्शनं नातिरिक्तवचनं, तदन्तरेण तत्प्रतिपत्तुमशक्तं प्रति तथा वचनाच्छक्तं प्रति तदवचनात्, विदुषां वाच्यो हेतुरेव हि केवलः इति [ ] वचनान्न पराजयाय कस्यचित्प्रभवेत् इति वदन्तः सौगताः प्रतिपाद्यानुरोधतः साधर्म्यवचनेऽपि वैधर्म्यवचनं
अष्टसहस्रीतात्पर्यविवरणम् धिकनिग्रहस्थानत्वेन गणनादित्याशयः । प्रतिपाद्यानुरोधतोऽपीति गौरवेणोक्तविशेषणदानमनिच्छन्त इति भावः । किमपि महाद्भुतमिति शब्दप्रसिद्धिपरितोषप्रतिपाद्याशयानुरोधादिप्रयोजनवशात् कृतकत्वादित्यादौ कप्रत्ययोच्चारे सत्त्वमात्रेण नश्वरत्वसिद्धावप्युत्पत्तिमत्त्वकृतकत्वादिहेत्वादरे चाधिकनिग्रहस्थानममन्यमानाः अन्यतरेण सिद्धौ दृष्टान्तान्तरपक्षादिवचने च तदिच्छन्तो भवन्त्येव हि परीक्षकाणामाश्चर्यकल्पतरव इति भावः । एतेन पर्वतो वह्नि
Page #254
--------------------------------------------------------------------------
________________
२२०
अष्टसहस्त्रीतात्पर्यविवरणम् तद्वचनेऽपि च साधर्म्यवचनं पक्षादिवचनं वा नेच्छन्तीति किमपि महाद्भुतम् । तथा तदिष्टौ वा तद्वचनं निग्रहाधिकरणमित्ययुक्तमेव व्यवतिष्ठते । किञ्च क्वचित्पक्षधर्मत्वप्रदर्शनं संश्च शब्द इत्यविगानात् ।
(भा०) त्रिलक्षणवचनसमर्थनं च असाधनाङ्गवचनमपजयप्राप्तिरिति व्याहतं ।
संश्च शब्द इति वचनमन्तरेणापि शब्दे सत्त्वप्रतीतेस्तस्य निग्रहस्थानत्वप्रसङ्गात् । प्रतिज्ञावचनवदसाधनाङ्गत्वात्तस्यानिग्रहस्थानत्वे वा सङ्गरवचनादेरप्यपजयप्राप्तिविरोधात्पक्षधर्मप्रदर्शनमसाधनाङ्गवचनादपजयप्राप्त्या व्याहतमेव । त्रिलक्षणवचनसमर्थनं च, तदन्तरेणापि त्रिलक्षणवचनस्य साधनाङ्गत्वसिद्धौ प्रतिज्ञादिवचनस्य साधनाङ्गत्वसिद्धेरन्यथा तस्य प्रतिज्ञादिवचनवदपजयप्राप्तिनिबन्धनत्वप्रसक्तेः । ततस्तव्याहति परिजिहीर्षता गम्यमानस्यापि वचनं नासाधनाङ्गवचनं वादिनो निग्रहाधिकरणमिति प्रतिपत्तव्यम् ।
नन्वेवमप्रस्तुतस्यापि नाटकादिघोषणस्य द्वादशलक्षणप्ररूपणस्य वा निग्रहाधिकरणत्वं न स्यादिति
(भा०) तथान्यस्यापि प्रस्तुतेतरस्य वादिनोक्तावितरस्य स्वपक्षमसाधयतो विजयासम्भवान्निग्रहस्थानमयुक्तम् ।
स्वपक्षं साधयतस्तु तत्सिद्ध्यैव विजयसम्भवादितरस्य पराजयप्राप्ते - प्रस्तुतादिवचनं निग्रहस्थानम्, (भा०) साधनाङ्गस्यावचनं
- अष्टसहस्त्रीतात्पर्यविवरणम् मान् धूमवत्त्वादिति हेतुप्रयोगो न विधेयः किन्तु धूमादित्येवेति नव्यचातुर्यम् अपास्तम् । यथाशब्दपरितोषमुभयोपपत्तेर्भावप्रत्ययार्थसम्बन्धपक्षे हेत्वन्तरभावाच्च, न च हेत्वन्तरयोगेऽर्थाधिक्यमपीत्युपपादितमधस्तात्, नापि नीलधूमादित्यत्र व्यर्थविशेषणत्ववद्भूमादित्यस्य स्थाने धूमप्रागभावादिति प्रयोगे व्यर्थविशेष्यत्वमपि दूषणमभ्युपयन्ति तान्त्रिका इति दिग् । तदिष्टौ समर्थनाभ्युपगमे, तद्वचनं निगमनादिवचनम्, एवं असाधनाङ्गवचनस्य निग्रहाधिकरणत्वाभावे, द्वादशलक्षणप्ररूपणस्य इन्द्रियपञ्चकविषयपञ्चकमानसधर्मायतनरूपद्वादशायतनोपन्यासस्य, तत्सिद्धयैव स्वपक्षसिद्धयैव, अनेन=स्वपक्षसिद्ध्यसिद्धयोरेव
Page #255
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. ७]
२२१ वादिनो निग्रहस्थानं, स्वेष्टसाधनवचनमभ्युपगम्य अप्रतिभया तूष्णीभावादित्यप्यनेन प्रत्युक्तम् ।
(भा०) प्रतिवादिनोऽप्यदोषोद्भावनं दोषस्यानुद्भासनं वानेन प्रत्युक्तं, न्यायस्य समानत्वात् । किमेवं वादिना कर्तव्यमिति चेत्, (भा०) विजिगीषुणोभयं कर्तव्यं स्वपरपक्षसाधनदूषणम् । ततः किमिति चेत्, (भा०) अतोऽन्यतरेणासिद्धानैकान्तिकवचनेऽपि जल्पापरिसमाप्तिः, कस्यचित्स्वपक्षसिद्धेरभावात् । कथं तर्हि वादपरिसमाप्तिर्वादिप्रतिवादिनोरिति
चेत्,
( भा०) निराकृतावस्थापितविपक्षस्वपक्षयोरेव जयेतरव्यवस्था, नान्यथा । तदुक्तं
Tस्वपक्षसिद्धिरेकस्य निग्रहोऽन्यस्य वादिनः ।
नासाधनाङ्गवचनं नादोषोद्भावनं द्वयोः ॥ इति । [१. भे० ४६] तथा तत्त्वार्थश्लोकवात्तिकेऽप्युक्तं
स्वपक्षसिद्धिपर्यन्ता शास्त्रीयार्थविचारणा ।
वस्त्वाश्रयत्वतो यद्वल्लौकिकार्थविचारणा ॥ इति । [१. भे० ४७] (भा०) इति दर्शयन्नुभयमाह
ग्रन्थकार: श्रीस्वामिसमन्तभद्राचार्यः । 'स त्वमेवासि निर्दोषः' इति, 'त्वन्मतामृतबाह्यानाम्' इत्यादि च, गम्यमानस्यापि वचने दोषाभावात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
जयपराजयप्रयोजकत्वस्थापनेन साधनासाधनाङ्गोक्त्यनुक्त्योः स्वातन्त्र्येण निग्रहस्थानत्वासिद्धेरित्यर्थः । स्वपक्षपरपक्षसाधनदूषणमिति स्वपक्षसाधनं परपक्षदूषणं चेत्यर्थः । अन्यतरेण=वादिना प्रतिवादिना वा, कस्यचिदिति यस्यैव न पक्षसिद्धिस्तं प्रत्येव जल्पव्यापारानुपरमादित्यर्थः ॥७॥
Page #256
--------------------------------------------------------------------------
________________
२२२
अष्टसहस्त्रीतात्पर्यविवरणम् ननु च सर्वथैकान्तवादिनामपि कुशलाकुशलस्य कर्मणः परलोकस्य च प्रसिद्धेराप्तत्वोपपत्तेर्महत्त्वं किं नः स्तुतमित्याशङ्कायामिदमाहुः
कुशलाकुशलं कर्म परलोकश्च न क्वचित् । एकान्तग्रहरक्तेषु नाथ ! स्वपरवरिषु ॥८॥
कायवाङ्मन:क्रिया कर्म, त्रिविधो योग आस्रवः । तद् द्विविधं कुशलाकुशलभेदात् कायवाङ्मनःकर्म योगः । स आस्रवः । शुभः पुण्यस्याऽशुभः पापस्य [तत्त्वार्थसूत्रम् ६.१,२,३] इति वचनात्, प्रेत्यभावः परलोकः । तद्धेतुर्वा धर्मोऽधर्मश्च, कारणे कार्योपचारात् । चशब्दान्निःश्रेयसादिपरिग्रहः । एतत्सर्वमेकान्तग्रहरक्तेष्वनित्यैकान्ताद्यभिनिवेशपरवशीकृतेषु मध्ये न क्वचित्सम्भवति, तेषां स्ववैरित्वात् तत्त्वोपप्लववादिवत् । स्ववैरिणस्ते, परवैरित्वात्तद्वत् । किं पुनः स्वं को वा पर: ? पुण्यं पापं च कर्म तत्फलं कुशलमकुशलं च स्वं, तत्सम्बन्धः परलोकादिश्च, तस्य स्वयमेकान्तवादिभिरिष्टत्वात् । परः पुनरनेकान्तः, तस्य तैरनिष्टत्वात् । तद्वैरित्वं तु तेषां तत्प्रतिषेधाभिधानात् । तत्स्ववैरित्वं साधयति, यस्मात्
(भा०) कर्मफलसम्बन्धपरलोकादिकमेकान्तवादिनां प्रायेणेष्टं तदनेकान्तप्रतिषेधेन बाध्यते ।
[शून्यवाद्यद्वैतवादिनोः परलोकादिव्यवस्था नास्ति ।] ननु च शून्यवादिभिरद्वैतावलम्बिभिश्च तस्यानिष्टत्वात्कथं सर्वेषामेकान्तवादिनां तदिष्टमिति चेत्, न तैरपि संवृत्या प्रायेणेष्टत्वात् । कथं पुनरनेकान्तप्रतिषेधेन तद् बाध्यते इति चेत्, क्रमाक्रमयोः प्रतिषेधात्, तयोरनेकान्तेन व्याप्तत्वात् तत्प्रतिषेधेन तत्प्रतिषेधसिद्धेः । क्रमाक्रमप्रतिषेधे चार्थक्रियाप्रतिषेधः, तस्यास्ताभ्यां व्याप्तत्वात् । अर्थक्रियाप्रतिषेधे च कर्मादिकं विरुध्यते, तस्य तया व्याप्तत्वात् । यदि
- अष्टसहस्रीतात्पर्यविवरणम्
संवत्येति अविद्ययेत्यर्थः । सा च व्यवहारवादिनां वेदान्तिनां मतेऽनिर्वचनीयं कर्मोप
Page #257
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि० १ - का० ८ ]
२२३
वानेकान्तप्रतिषेधेन क्षणिकाद्येकान्तविरोधः, तदेकान्तस्यानेकान्ताविनाभावित्वात् । तस्यापि स्वरूपेण सत्त्वेऽनेकान्तरूपेण चासत्त्वव्यववस्थायामनेकान्तस्य दुर्निवारत्वात्तदविनाभावित्वं सिद्धमेव, अन्यथा तद्व्यवस्थानुपपत्तेः । इति परवैरित्वात्स्ववैरित्वम् । तथा च कथं कर्मादिकमनाश्रयं न विरुध्यते ?
( भा० ) ततोऽनुष्ठानमभिमतव्याघातकृत्, सदसन्नित्यानित्याद्येकान्तेषु कस्यचित्कुतश्चित्कदाचित्क्वचित्प्रादुर्भावासम्भवात् ।
[शून्यवादी ब्रूते असद्वस्तुन्येव पुण्यपापादिव्यवस्था घटते तस्य विचारः]
ननु च कस्यचित्कर्मणः पुण्यपापाख्यस्य कुतश्चिदनुष्ठानात्कायादिव्यापारलक्षणात्क्वचिदात्मनि कदाचित्संसारिदशायां जन्म मा भूत् सर्वथा सतस्तदघटनात्, कर्मफलस्य वा शुभाशुभपरलोकलक्षणस्य कर्मविशेषात्,
अष्टसहस्त्रीतात्पर्यविवरणम्
पादयति सौगतानां तु वैज्ञानिकमेव, दृष्टिसृष्टिवादे तु वेदान्तिनां माध्यमिकानां च न कश्चिद्विशेषो दण्डघटादेर्यागस्वर्गादेश्च कार्यकारणभावस्य स्वाप्निककार्यकारणभावतुल्यत्वात् केवलमेके वाङ्मात्रेण वेदप्रमाण्यं स्वीकुर्वते भ्रमाधिष्ठानसत्यत्वं च, अन्ये तु न तदपीत्येतावानेव विशेष इति बोध्यं सुधीभिः । युक्त्या बाधं प्रदर्शयित्वाऽनुभवेन बाधं प्रदर्शयति-यदि वेत्यादि तस्यापि स्वरूपेणेति स्वरूपेण सत्त्वे पररूपेण चाऽसत्त्वेऽनुभव एव साक्षीति भावः । न च प्रसिद्धेन पररूपेणासत्त्वमनुभूयतां न तु शशशृङ्गादिवदप्रसिद्धेनेति न क्षणिकाद्येकान्तस्य स्वरूपेण सत्त्वे पररूपेणानेकान्तेनासत्त्वानुरोधादनेकान्ताभ्युपगमापत्तिरिति शङ्कनीयम्, स्थिरपक्षे स एवायमित्यादौ क्षणिकपक्षेऽपि चित्रज्ञानादौ भेदाभेदाद्यनेकान्तस्य अनुभवसिद्धत्वेन असत्त्वारोपविषयतयापि तद्दुर्निवारतेत्यत्र तात्पर्यात् । एतेन असत्ख्यातिसिद्धेनानेकान्तरूपेण व्यधिकरणधर्मावच्छिन्नप्रतियोगिकत्वादिना वाऽसत्त्वेऽपि न वस्तुसिद्धिरिति अपास्तम् । अनाश्रयं एकान्ताश्रयनिरासात्, तत एकान्तनिरासात्, अनुष्ठानं तपश्चरणादि एकान्तवादिनामिति शेषः । अभिममतव्याघातकृत् स्वर्गापवर्गफलनिराकरिष्णुः स्यात् । सदेकान्ते दोषं दर्शयन्नसदेकान्तस्य न्याय्यतामाशङ्कते पूर्वपक्षी - ननु चेत्यादिना । कर्मण इत्यादि षष्ठ्यन्तत्रयस्य मा भूत् इत्यनेनान्वयः । सर्वथा सतस्तदघटनादिति हेतु:, तदघटनाद् = जन्माघटनात्, सर्वथा सत्त्वं ह्याकाशादावुत्पत्त्यभावव्याप्यत्वेन दृष्टम्, ततस्तथात्वे उत्पत्तिर्न घटत इति भावः । कर्मविशेषात् अयत्याश्रमविहिततपश्चरणादिकर्मणः, तत्त्वज्ञानादेः= आत्मसाक्षात्कारादेः, आदिना मिथ्याज्ञानध्वंसपरिग्रहः, तत्त्वज्ञानमेवादिः कारणं तस्मादिति वा, वाकारो
=
Page #258
--------------------------------------------------------------------------
________________
२२४
अष्टसहस्रीतात्पर्यविवरणम् तत्त्वज्ञानादेर्वा निःश्रेयसस्य सर्वथा सद्भावाविशेषात् । तस्यासतस्तु ततो जन्मास्तु, प्रागसतः पश्चात्प्रादुर्भावदर्शनात्, इति चेत्, न उभयत्र तद्विरोधाविशेषात् ।
(भा०) न हि सर्वात्मना सर्वस्य भूतावेव जन्म विरुद्धमपि तु सर्वथाभावेऽपि, व्यलीकप्रतिभासानामनुपरमप्रसङ्गात् ।
ननु च शून्यवादिनः स्वप्नदशायामिवान्यदापि व्यलीकप्रतिभासानां कर्मादीनां कथमनुपरमप्रसङ्गो यतः संवृत्या कर्मादिजन्माविरुद्धं न भवेदिति चेत्, न साध्यसमत्वादुदाहरणस्य । यथैव ह्यस्वप्नदशायां व्यलीक प्रतिभासानामहेतुकत्वादनुपरमप्रसङ्गः शून्यवादिनां तथा स्वप्नावस्थायामपि, तदविशेषात् । तेषामविद्यावासनाहेतुकत्वादहेतुकत्वमसिद्धमिति चेत्, न अनाद्यविद्यावासनाया अप्यसत्त्वे वितथप्रतिभासहेतुत्वविरोधात् खपुष्पवत्, सत्त्वे वा सर्वथा शून्यवादानवतारात् । संवृतिसत्त्वात्तस्याः शून्यवादावतार इति चेत्, तहि परमार्थतोऽसत्यविद्या कथं वितथप्रतिभासहेतुः स्यात् ? स्वरूपेण सदेव हि किञ्चिद्वितथप्रतिभासानपि जनयद् दृष्टं, यथा चक्षुषि तिमिरादिकं, न पुनरसत्खरविषाणम् इति सर्वशून्यवादिनो व्यलीकप्रतिभासानुपरमप्रसङ्ग एव, अहेतुकत्वात् । ततो नाभावैकान्ते कस्यचित्कुतश्चित्कदाचित्क्वचिज्जन्म सम्भवति, सदसदनेकान्तप्रतिषेधाद्भावैकान्तवत् ।।
(भा०) न केवलं स्वभावनैरात्म्ये एवायं दोषः किं त्वन्तरुभयत्र वा निरन्वयसत्त्वेऽपि ।
अष्टसहस्रीतात्पर्यविवरणम्
मतद्वयाभिव्यक्त्यर्थः, केचित् खलु कर्मण एव मुक्तिमिच्छन्ति, अपरे च तत्त्वज्ञानादेवेति । तस्य=कर्मादेः, ततः कायादिव्यापारादेः, प्रागसत इति कारणसामग्र्याः कार्योत्पत्तिव्याप्यत्वादुत्पत्तेराद्यक्षणसम्बन्धरूपत्वादसदेकान्ते कार्यजन्माविरोधादिति भावः, समाधत्तेउभयत्रेत्यादि । उभयत्र=सदसत्कार्यपक्षयोः ।
व्यलीकप्रतिभासानुपरमप्रसङ्गादिति असतो निरवधित्वेन यथास्वभावं सततोत्पत्त्यनुत्पत्त्यन्यतरध्रौव्यादिति भावः । तेषां=व्यलीकप्रतिभासानाम्, अभावैकान्ते माध्यमिकमते दत्तं दूषणं योगाचारसौत्रान्तिकमतयोरप्यतिदिशति भाष्यकृत्-न केवलमित्यादि । न केवलं स्वभावनैरात्म्ये तत्त्वोपप्लववादिमाध्यमिकमते स्वभावशून्यत्वे एवायमनन्तरोक्तो
Page #259
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का०८]
२२५ कार्यस्य निर्हेतुकत्वाविशेषाज्जन्मविरोधसिद्धेः, जन्मनि वा तस्यानुपरतिप्रसङ्गात् ।
[बौद्धः कार्यं सकारणं साधयति तस्य विचार:] ननु अन्तस्तत्त्ववादिनो योगाचारस्य पूर्वविज्ञानादुत्तरविज्ञानस्योत्पत्तेः सौत्रान्तिकस्य चान्तर्बहिस्तत्त्वोभयवादिनः पूर्वार्थक्षणादुत्तरार्थक्षणस्य प्रादुर्भावात्कुतो निष्कारणत्वं कार्यस्येति चेत्, न,
(भा०) कार्यकालमप्राप्नुवतः कारणत्वानुपपत्तेश्चिरतरातीतवत् ।
कार्यकालं प्राप्नुवतोऽपि कारणत्वादर्शनादन्यथा सर्वस्य समानक्षणवर्तिनस्तत्कारणत्वप्रसङ्गात् । यस्य भावाभावयोः कार्यस्य भावाभावौ तदेव कारणमिति कल्पनायां,
(भा०) सत्यभवतः स्वयमेव नियमेन पश्चाद्भवतस्तत्कार्यत्वं विरुद्धं ।
तत्र तदकारणत्वसाधनादन्यकार्यवत्, तस्य वा तदकार्यत्वसिद्धेस्तद्वत् । कार्यमेव तदनन्तरं सम्भवतीति चेत्,
( भा०) कालान्तरेऽपि किन्न स्यात् ? तदभावाविशेषात् समनन्तरवत् ।
- अष्टसहस्त्रीतात्पर्यविवरणम्
दोषः । किन्त्वन्तस्तत्त्ववादिनो योगाचारस्यान्तर्बहिस्तत्त्ववादिनः सौत्रान्तिकस्य च मते, निरन्वयसत्त्वेऽपि क्षणस्थितिमात्रनिरन्वयसत्त्वाङ्गीकारेऽप्ययं दोषस्तदवस्थ एवेत्यक्षरार्थः । कार्यकालमिति कारणस्य कार्यसहभावव्याप्यतायाः सामग्रयाश्च स्वकाले कार्योत्पत्तिव्याप्यतायाः न्याय्यत्वाद् व्यवहितोत्तरक्षणप्रवेशे गौरवादिति भावः । प्रसङ्गादिति न चेष्टापत्तिः, सव्येतरगोविषाणयोः कार्यकारणभावस्य सर्वैरनभ्युपगमादिति भावः । तदकारणत्वसाधनात्तत्र=कार्येऽकारणत्वसाधनात्, अन्यकार्यवद्=अन्यकार्य इव, तस्य वा प्रकृतकार्यस्य, तदकार्यत्वसिद्धेः=प्रकृतकारणाकार्यत्वसिद्धेः । तद्वत् = अन्यकार्यस्येव, तदनन्तरं= सामग्रीप्रविष्टतदव्यवहितोत्तरक्षणे, सम्भवति समीचीनतया घटते, एककारणस्य कार्योत्पत्त्यव्याप्यत्वादिति द्रष्टव्यम् । अत्राप्यव्यवहितत्वमनतिप्रयोजनमित्यभिप्रेत्याह भाष्यकृत्कालान्तरेऽपीति । त्यज्यतां तमुव्यवहितत्वभागः पूर्वभावित्वपश्चाद्भावित्वे तु कारणकार्य
Page #260
--------------------------------------------------------------------------
________________
२२६
अष्टसहस्त्रीतात्पर्यविवरणम् ___कालान्तरेऽपि किञ्चिद्भवत्येव मूषिकाऽलर्कविषविकारवद्भाविराज्यादिनिमित्तकरतलरेखादिवच्चेति चेत् ।
(भा०) समर्थे सत्यभवतः पुनः कालान्तरे भाविनस्तत्प्रभवाभ्युपगमे कथमक्षणिकेऽर्थक्रियानुपपत्तिः ? तत्सत्त्वासत्त्वयोरविशेषात् ।
स्वसत्ताक्षणात्पूर्वं पश्चाच्चासति समर्थे कारणे स्वकालनियताऽर्थक्रियोपपद्यते, न पुनः शश्वत्सतीति कुतो नियमः ?
(भा०) कारणसामर्थ्यापेक्षिणः फलस्य कालनियमकल्पनायामचलपक्षेऽपि समानः परिहारः ।
यथैव हि, क्षणिकं कारणं यद्यदा यत्र यथोत्पित्सु कार्यं तत्तदा तत्र तथोत्पादयति, तस्यैवंविधसामर्थ्य सद्भावात्, तत्सामर्थ्यापेक्षिणः कार्यस्य स्वकालनियमः सिद्ध्यतीति कल्प्यते । तथा नित्यमपि कारणं यद्यदा यत्र यथा फलमुत्पित्सु तत्तदा तत्र तथोपजनयति, तस्य तादृशसामर्थ्ययोगात, तत्सामर्थ्यापेक्षिणः फलस्य कालनियमः किन्न कल्पयितुं शक्यः ? शाश्वतिकस्य प्रतिकार्य सामर्थ्यभेदादनित्यत्वप्रसङ्ग इति चेत्, न क्षणिकस्याप्येकस्य युगपदनेककार्यकारिणः
अष्टसहस्रीतात्पर्यविवरणम्
शरीरघटकेऽवश्यं वाच्ये, अन्यथा समानक्षणवर्तिनां सर्वेषां कार्यकारणत्वप्रसङ्गादित्याशयवानाह-कालान्तरेऽपीति, इदमुपलक्षणं स्वप्नज्ञानस्यापि कालान्तरीयजाग्रद्ज्ञाने हेतुतायाः प्रज्ञाकरेणाभ्युपगमादिति द्रष्टव्यम् । एवमभ्युपगमे क्षणिकत्वसाधकयुक्तिविरुध्यत इति दूषणमाह-समर्थे सत्यभवत इत्यादि । कालनियमकल्पनायामिति यत्काले यज्जननसमर्थं यत् तत्काले ततस्तदुत्पत्तिरिति स्वभावकल्पनायां बौद्धेन क्रियमाणायामित्यर्थः । समानः परिहार इति स्थिरपक्षेऽपि कारणान्तरसाहित्येनैव कार्योपधायकत्वस्वभावस्य कारणे कल्पनेन समर्थासमर्थत्वाभ्यां भेदाभावादित्यर्थः । न चकारणान्तरसाहित्यगर्भकार्योपधायकत्वस्वभावस्य कल्पने सदा गलेपादिकया कारणं कारणान्तरमप्युपनयेदिति परेण वक्तुं शक्यम्, कालान्तरे कार्यजनकत्वस्वभावाभ्युपगमे गलेपादिकया कालान्तरमप्युपनयेदित्यस्याचलवादिभिरपि वक्तुं शक्यत्वान्मूषिकालर्कविषविकारादेः कालान्तरे कार्योत्पादकत्वेष्टिव्याघातात् तत्तद्घटकस्य स्वभावपरिचायकत्वोक्तेरप्युभयत्र तौल्यादिति द्रष्टव्यम् । एतदेवाह वृत्तिकृत्-यथैव हीत्यादि । तस्यापि तथाविधैकस्वभावत्वादिति यथा क्षणिकस्याक्रमिकनानाकार्यकरणैकस्वभावत्वं
Page #261
--------------------------------------------------------------------------
________________
२२७
प्रथमो भागः [परि० १-का०८] प्रतिकार्यं सामर्थ्यभेदादनेकत्वप्रसङ्गात् ।
(भा०) क्षणवर्त्तिन एकस्मात्कारणस्वभावमभेदयतां विचित्रकर्मणामुत्पत्तौ कूटस्थेऽपि किं न स्यात् क्रमशः कार्योत्पत्तिः ? तस्यापि तथाविधैकस्वभावत्वात् ।
[बौद्धो नित्यपक्षे कार्यस्योत्पत्तिं न मन्यते तस्य विचार:] (भा० ) कथमत्रोत्पत्तिर्नाम ? तत्र समानः पर्यनुयोगः, सदसतोरनुत्पत्तेनिष्पन्नखपुष्पवत् ।
नित्यं कथमुत्पद्यते सत्त्वान्निष्पन्नवदिति पर्यनुयुज्यते, न पुनः क्षणिकं कथं प्रादुर्भवेत् ? असत्त्वात्खपुष्पवदिति पर्यनुयोगार्हमिति पक्षपातमात्रम् ।
__ (भा०) सतः पुनर्गुणान्तराधानमनेकं क्रमशोऽप्यनुभवतः किं विरुध्येत ? ।
नन्वेकत्वं विरुध्यते । स हि गुणान्तराधानमनेकं क्रमशोऽनुभवन् यद्येकेन स्वभावेनानुभवेत्तदा तस्यैक स्वभावतापत्तिः, अन्यथा निर्हेतुकत्वप्रसङ्गात्, तदनुभवनस्य नियमायोगात् । अथानेकेन स्वभावेन तदनुभवेत्तदा कथमेकस्वभावता तस्य ? । अनेकस्वभावस्य ततो भेदात्तस्यैकरूपत्वे कुतोऽयमस्यानेकस्वभावः ?
अष्टसहस्त्रीतात्पर्यविवरणम्
तथा शाश्वतिकस्यापि क्रमिकनानाकार्यकरणैकस्वभावत्वमविरुद्धमिति भावः । अत्र=नित्ये, कथमुत्पत्तिर्वेति सोऽयं पर्य-नुयोगः तत्र=क्षणिकपक्षे समानः एकान्तग्रहे दोषस्यानेकान्तग्रहे च परिहारस्योभयत्राविशेषात् । सदेकान्ते कथञ्चित् कार्योत्पत्तिसम्भवमाह भाष्यकृत्, अत्रैकत्वविरोधमुद्भाव्य संवेदनप्रतिबन्धा प्रघट्टेन परिहरति वृत्तिकृत्-नन्वेकत्वं विरुध्यत इत्यादिना प्रकृतपर्यनुयोगस्याविशेषादिति यद् दूषणं साङ्ख्यं प्रति सौगतेन दत्तं तत्सौगतस्याप्यायाति यतस्तन्मते संवेदनं ग्राह्यग्राहकाकारवैश्वरूप्यमनुभवदेकेन स्वभावेनानुभवेदनेकेन वा? आये ग्राह्यग्राहकाकारयोरेकत्वापत्तिः, अन्त्येऽनेकस्वभाववतः कथमेकस्वभावत्वम् ? संवेदनादाकारद्वयभिन्नतोपगमे चास्य तदिति व्यपदेशः कुतः? सम्बन्धाच्चेत्, स सम्बन्ध
१. उत्पत्तिर्नामेति अष्टसहस्रीसम्मतः पाठः ।
Page #262
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम्
सम्बन्धात्तस्य स इति कल्पनायां स सम्बन्धः स्वस्वभावैर्गुणान्तराधानानुभवनहेतुः किमेकेन स्वभावेन स्यादनेकेन वेति स एव पर्यनुयोगोऽनवस्था च इति कश्चित् सोऽपि दूषणाभासवादी, स्वमिष्टस्यैकस्य ज्ञानस्य ग्राह्यग्राहकाकारवैश्वरूप्यविरोधप्रसङ्गात्, प्रकृतपर्यनुयोगस्याविशेषात् ।
२२८
( भा० ) क्षणस्थायिनः कस्यचिदेव ग्राह्यग्राहकाकरवैश्वरूप्यानभ्युपगमेऽपि संविदितज्ञानस्य ग्राह्यग्राहकाकारविवेकं परोक्षं बिभ्राणस्य सामर्थ्यप्राप्तेः ।
संवेदनस्यैकस्य प्रत्यक्षपरोक्षाकारतया वैश्वरूप्यसिद्धेः संविद्रूपतया संवेदनस्य प्रत्यक्षतैव ग्राह्यग्राहकाकारविविक्ततयापि प्रत्यक्षता, न पुनः परोक्षता यतो वैश्वरूप्यं प्रकृतपर्यनुयोगयोग्यं भवेदिति चेत्, न तथा सकृदप्यप्रतिभासनाद् ब्रह्माद्वैतवत्, ग्राह्यग्राहकाकाराक्रान्तस्यैव सर्वदा वेदनस्यानुभवात् । ततः संवेदनमेकमनेकं प्रत्यक्षपरोक्षाकारौ बिभ्राणं सामर्थ्यप्राप्तमेव ।
(भा०) अन्यथा शून्यसंविदोर्विप्रतिषेधात् ।
ग्राह्यग्राहकाकारशून्यतया हि शून्यम् संवेदनमात्रमुपयतस्तत्संविदुपपद्यते, न पुनः संविन्मात्रमप्यसदुपवर्णयतो, विप्रतिषेधात्स्वेष्टासिद्धेः प्रलापमात्रप्रसक्तेः । [ कारणं कार्यकाले विद्यते न वा ? ]
( भा० ) तदयम्
अष्टसहस्त्रीतात्पर्यविवरणम्
स्तद्धेतुरेकेन स्वभावेनानेकेन वा ? अत्राप्युत्तरं पूर्ववदिति दुरुत्तराऽनवस्थातरङ्गिणीति । शून्यसंवित्पक्षेऽप्येकत्वस्यानेकत्वेनाविरोधबलादापादयति भाष्यकृत् - क्षणस्थायिन इत्यादि । कस्यचित्=शून्यसंविन्मात्रस्य, अनभ्युपगमेऽपीत्यनन्तरं तत्त्वत इति शेषः । विवेकम्= अभावम्, परोक्षम्=अनुमानविषयम्, बिभ्राणस्य = स्वरूपसम्बन्धेन क्रोडीकुर्वतः, सामर्थ्यप्राप्तेर्युक्तिसिद्धत्वात् । संवेदनैकस्य = क्षणिकज्ञानाद्वैतस्य । ननु ग्राह्यग्राहकाकारविविक्ततयापि संवेदनस्य प्रत्यक्षतैवाभावस्याधिकरणरूपत्वादिति आशङ्कते - संविद्रूपतयेति । उत्तरयति-तथेत्यादि तथा=ग्राह्यग्राहकाकारविविक्तक्षणिकज्ञानत्वेन, सकृदपि=एकवारमपि ।
Page #263
--------------------------------------------------------------------------
________________
२२९
प्रथमो भागः [परि०१-का०८]
योगाचार: सौत्रान्तिको वा सर्वथा शून्यं संविदद्वैतं वानिच्छन् ।
(भा०) क्षणस्थायि कारणं स्वसत्तायां कार्यं कुर्वदभ्युपगच्छन् क्रमोत्पत्तिमुपरुणद्धि सकलजगदेकक्षणवृत्तिप्रसङ्गात् ।
कालान्तरे कार्यं कुर्वत्कारणं क्षणिकमभ्युपगच्छतां नायं दोष इति चेत्, न तेषामपि
(भा०) कारणस्य कार्यकालप्राप्तौ क्षणभङ्गभङ्गानुषङ्गात्, तदप्राप्नुवतस्तत्कृतौ व्यलीककल्पनाविशेषेण कूटस्थानतिशायनात् ।
यथैव हि कूटस्थमपरिणामित्वात्क्रमयोगपद्याभ्यामर्थक्रियायामसमर्थमपि व्यलीककल्पनया क्रमाक्रमसमाक्रान्तकार्यपरम्परां कुर्वदभ्युपगम्यते नित्यैकान्तवादिभिः साङ्ख्यादिभिस्तथा क्षणिकमपि स्वसत्ताक्षणात्पूर्वं पश्चाच्चात्यन्तमसत्सर्वथार्थक्रियायामसामर्थ्यं प्रथयदपि संवृत्या क्रमाक्रमवृत्तिकार्यमालां
अष्टसहस्त्रीतात्पर्यविवरणम्
अप्रतिभासनात्=ब्रह्माद्वैतवत् वेदान्त्यभिमतसकलप्रपञ्चविनिर्मुक्तपरब्रह्मवत्, तेऽपि हि प्रपञ्चरहितब्रह्मविषयं विचारसाध्यं महावाक्यजन्यं प्रत्यक्षं स्वीकुर्वत एव, तद्वद् बौद्धबुद्धिपरमकाष्ठाप्राप्तं शून्यप्रत्यक्षमिति भावः । ब्रह्माद्वैतप्रत्यक्षं मिथ्या क्षणिकज्ञानाद्वैतप्रत्यक्षं सत्यमिति तु स्ववासनामात्रम् । 'कूटस्थानतिशायित्वमिति य एव नित्यैकान्तपक्षे दोषास्त एव क्षणिकपक्षेऽपीति भावः । किञ्च करणाकरणयोस्तज्जातीयस्य सतः सहकारिलाभालाभौ तन्त्रमित्यभ्युपगमे क्षणिकत्वं सिद्धयेत्, स चैकव्यक्तावप्यविरुद्धस्ततश्च तावनादृत्य कारणगतवैजात्यकल्पनमप्रामाणिकमन्यथा कारणवत्कार्येऽपि किञ्चिद्वैजात्यं स्यात्, यद्वतः कारणापेक्षा स्यान्न तु दृष्टजातीयस्येति शङ्कया न नियतप्रवृत्तिसिद्धिरेवं चावह्नेरपि धूमसम्भावनया गतं कार्यलिङ्गकेन, सङ्कीर्यते च कारणगता कुर्वद्रूपत्वाख्या विधिरूपा व्यावृत्तिरूपा वा जातिदण्डत्वादिना परस्परपरिहारवत्योश्च समावेशे गोत्वाश्वत्वयोरपि तथाभावप्रसङ्ग इति गतमनुपलब्धिलिङ्गके नापि क्वचिदपि विरोधासिद्धेस्ततो विपक्षे बाधकाभावात् स्वभावहेतुरप्यपास्तः । अथ अस्ति तत्, तथा हि वृक्षजनकपत्रकाण्डाद्यन्तर्भूता शिंशपासामग्री सा वृक्षत्वमतिपत्य भवन्ती स्वकारणमेवातिपतेदिति चेत्, तर्हि शिंशपासामग्र्यन्तर्भूता चलदलादि
१. कूटस्थानतिशायनाद् इति अष्टसहस्रीसम्मतः पाठः ।
Page #264
--------------------------------------------------------------------------
________________
२३०
अष्टसहस्त्रीतात्पर्यविवरणम् निर्वर्त्तयदुररीक्रियते क्षणिकवादिभिः इति कूटस्थादनतिशायनं क्षणिकस्य सिद्धमेव ।
(भा०) ततः सुभाषितं समन्तभद्रस्वामिभिः ( भा०) कुशलाद्यसम्भूतिरेकान्तग्रहरक्तेष्विति ।
परस्परनिरपेक्षसदसदुभयैकान्तनित्यानित्योभयैकान्तवादिनोऽपि तदसम्भवादद्वैतैकान्तादिवादिवत् । तदेवं सर्वथैकान्तवादिनां दृष्टेष्टविरुद्धभाषित्वादज्ञानादिदोषाश्रयत्वसिद्धेराप्तत्वानुपपत्तेस्त्वमेव भगवान्नर्हन् सर्वज्ञो वीतरागश्च युक्तिशास्त्राविरोधिवाक्त्वेन निर्दोषतया निश्चितो महामुनिभिस्तत्त्वार्थशासनारम्भेऽभिष्टुतः, तत्सिद्धिनिबन्धनत्वादिति तत्त्वार्थश्लोकवार्तिकालङ्कारे व्यासतः समर्थितं प्रतिपत्तव्यम् ॥८॥
ननु च भाव एव पदार्थानामिति निश्चये दृष्टेष्टविरोधाभावात्तद्वादिनो निर्दोषत्वसिद्धेराप्तत्वोपपत्तेः स्तुत्यताऽस्तु इति भगवत्पर्यनुयोगे सतीवाहुः
- अष्टसहस्त्रीतात्पर्यविवरणम् सामग्री तामतिपत्य चलरूपता भवन्ती स्वकारणमेवातिपतेदिति तुल्यम्, (शं०) नोदनाद्यागन्तुकनिबन्धनं चलत्वं न तद्विशेषमात्राधीनमिति चेत्, (उ०) यदि नोदनादयः स्वभावभूतास्तदा तद्विशेषा एव, अथास्वभावभूतास्ततः सहकारिण एव, तथा च ताँस्तानासाद्य निर्विशेषैव शिशपाचलस्वभावत्वमारभत इति कुतः क्षणिकत्वसिद्धिः, (शं०) स्वभावभूता एवागन्तुकसहकार्यनुप्रवेशाद्भवन्तीति चेत्, (उ०) तर्हि वृक्षसामग्रयामागन्तुकसहकार्यनुप्रवेशादेव शिंशपाऽपि जायत इति न कश्चिद्विशेषः । (शं०) एवमेतत्, किन्तु शिशपाजनकास्तरुसामग्रीमुपादायैव चलनजनकास्तु न तामेव किन्तु मूर्त्तमात्रं तथादर्शनादिति चेत्, (उ०) तर्हि शिशपाया वृक्षविशेषत्वाविशेषे कौतस्कुतोऽयं फलं प्रत्येकान्तानेकान्तविशेषः । (शं०) तत्तत्सहकारिभावाभावकृतः स इति चेत्, (उ०) तासादितसहकारिणोऽसदृशरूपा अपि केचित्कम्पकारिणोऽनीदृशास्तु न तथेति, तद्वा तादृग्वेति न कश्चिद्विशेष इति स्यादिति कुतः क्षणिकत्वम् ? वैजात्याभ्युपगमे च कुतोऽनुमानवार्ता (शं०) मा भूदनुमानमिति चेत्, (उ०) तहि तेन विना कुतस्तत्सिद्धयेत् ? न हि क्षणिकत्वे प्रत्यक्षमस्ति तथानिश्चयाभावात्, गृहीतनिश्चित एवार्थे तस्य प्रामाण्यात्, अन्यथातिप्रसङ्गादिति हता बौद्धबुद्धिस्तदाहुरुदयनाचार्याः
न वैजात्यं विना तत्स्यान्न तस्मिन्ननुमा भवेत् । न विना तेन तत्सिद्धिर्नाध्यक्षं निश्चयं विना ॥ [न्यायकुसुमा० २.२६] इति ॥८॥
Page #265
--------------------------------------------------------------------------
________________
२३१
प्रथमो भागः [ परि० १-का. ९]
भावैकान्ते पदार्थानामभावानामपह्नवात् ।
सर्वात्मकमनाद्यन्तमस्वरूपमतावकम् ॥९॥ पदार्थाः =प्रकृत्यादीनि पञ्चविंशतितत्त्वानि ।
मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ [साङ्ख्यतत्त्वकारिका-३] इति वचनात् । तेषामस्तित्वमेवेति निश्चयो भावैकान्तः । तस्मिन्नभ्युपगम्यमाने सर्वेषामितरेतराभावादीनामभावानामपह्नवः स्यात् । ततः सर्वात्मकत्वादिप्रसङ्गः ।
[इतरेतराभावाभावे साङ्ख्यमते प्रकृतेः व्यक्ताव्यक्तभेदौ कथं भवेताम् ?]
तत्र व्यक्ताव्यक्तयोस्तावदितरेतराभावस्यापह्नवे व्यक्तस्याव्यक्तात्मकत्वे सर्वात्मकत्वम् । तथा च
हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥ [साङ्ख्यतत्त्वकारिका-१०]
इति व्यक्ताव्यक्तलक्षणभेदकथनविरोधः ।
[अत्यन्ताभावाभावे प्रकृतिपुरुषौ एकात्मकौ स्याताम् ।]
प्रकृतिपुरुषयोरत्यन्ताभावनिह्नवे प्रकृतेः पुरुषात्मकत्वे सर्वात्मकत्वमेव, तथा
त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि ।। व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥ [साङ्ख्यतत्त्वकारिका-११]
इति तल्लक्षणभेदकथनव्याघातः ।
- अष्टसहस्त्रीतात्पर्यविवरणम्
भावैकान्त इति भावैकान्तेऽस्तित्वमेवेत्यभ्युपगमे । अभावानाम्=अन्योन्याभावात्यन्ताभावप्रागभावप्रध्वंसाभावानाम् । प्रकृतेः पुरुषात्मकत्व इति प्रकृतौ पुरुष
Page #266
--------------------------------------------------------------------------
________________
२३२
अष्टसहस्त्रीतात्पर्यविवरणम्
[प्रागभावाभावे महदाद्या न भविष्यन्ति ।] प्रागभावस्यापह्नवे महदहङ्कारादेविकारस्यानादित्वप्रसङ्गः । तथा च
प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद् गणश्च षोडशकः ।
तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ॥ [साङ्ख्यतत्त्वकारिका-२२] इति सृष्टिक्रमकथनं विप्रतिषिध्यते ।
[प्रध्वंसाभावस्याभावे सर्वेषामनन्तत्वं भविष्यति ।] प्रध्वंसाभावस्यापह्नवे तस्यानन्तत्वप्रसङ्गात्, पृथिव्यादीनि पञ्च महाभूतानि पञ्चसु तन्मात्रेषु लीयन्ते—पृथिव्या गन्धरूपरसस्पर्शशब्दतन्मात्रेषु प्रवेशात्, सलिलस्य रसादिषु, तेजसो रूपादिषु, वायोः स्पर्शशब्दतन्मात्रयोः, आकाशस्य शब्दतन्मात्रेऽनुप्रवेशात्, तन्मात्राणां च पञ्चानां बुद्धीन्द्रियाणां कर्मेन्द्रियाणां च मनसा सह षोडशकस्य गणस्याहङ्कारेऽन्तर्भावस्तस्य च महति, महतः प्रकृताविति संहारनिवेदनमतिव्याकुलं स्यात् । ततः सर्वमस्वरूपं, स्वेनासाधारणेन रूपेण कस्यचित्तत्त्वस्य व्यवस्थानाघटनात् । तच्च
सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः ।
चोदितो दधि खादेति किमुष्टं नाभिधावति [प्रमाणवार्तिक ३.१८२] इति दूषणास्पदमतावकं मतं, न तव भगवतोऽर्हतः, कथञ्चिदभावापह्नवाभावात् ।
[साङ्ख्योऽभावं भावरूपं साधयति तस्य विचारः] ननु च व्यक्ताव्यक्तयोरितरेतराभावस्य तत्स्वभावस्य प्रकृतिपुरुषयोरत्यन्ताभावस्य च तद्रूपस्य महदहङ्कारादीनां प्रागभावस्य च स्वकारणस्वभावस्य महाभूतादीनां प्रध्वंसाभावस्य च स्वान्तर्भावाश्रयस्वरूपस्य साङ्ख्यैरभ्युपगमादभावापह्नवासिद्धेः कथं सर्वात्मकत्वादिर्दोष इति चेत्, न तथा भावैकान्तविरोधात् सर्वस्य भावाभावात्मकत्वप्रसक्तेः । न हि वयमपि भावादर्थान्तरमेवाभावं
अष्टसहस्त्रीतात्पर्यविवरणम् त्वात्यन्ताभावानभ्युपगमे पुरुषत्वस्य बलादापातादित्यर्थः । तथा भावैकान्तविरोधात्
Page #267
--------------------------------------------------------------------------
________________
२३३
प्रथमो भागः [ परि. १-का. ९] सङ्गिरामहे, तस्य नीरूपत्वप्रसङ्गात्, नास्तीतिप्रत्ययजनकत्वरूपसद्भावादभावस्य नीरूपत्वाभावोपगमे तस्य भावस्वभावत्वसिद्धेः प्रत्ययाभिधानविषयस्यार्थक्रियाकारिणः पदार्थस्य भावस्वभावत्वप्रतिज्ञानात्, नास्तित्वस्य वस्तुधर्मत्वादस्तित्ववत् । वस्तुनोऽस्तीतिप्रत्ययविषयो हि पर्यायोऽस्तित्वं, नास्तीतिप्रत्ययविषयस्तु नास्तित्वम् ।
(भा०) निष्पर्यायद्रव्यैकान्तपक्षे सर्वात्मकत्वादिदोषानुषङ्गः
कथं परिहर्तुं शक्यः ? सर्वविवर्तात्मकस्यैकस्यानाद्यनन्तस्य प्रधानस्येष्टत्वात् तद्व्यतिरेकेण सकलविशेषाणां तत्त्वतोऽसम्भवात्सिद्धसाधनमिति चेत्, न प्रकृति-पुरुषयोरपि विशेषाभावानुषङ्गात्, सत्ताव्यतिरेकेण तयोरप्रतिभासनात्सत्ताद्वैतप्रसङ्गात् ।
[ब्रह्माद्वैतवादी सर्वं जगत् सद्रूपं मन्यते, तस्य विचार:] तदेवास्तु, चेतनेतरविशेषाणामविद्योपकल्पितत्वादिति चेत् । (भा०) कुतः पुनर्विशेषानपह्नवीत ?
न तावत्प्रत्यक्षात्, तस्य विधायकत्वनियमात्, विशेषप्रतिषेधे प्रवृत्त्ययोगात् । नाप्यनुमानादागमाद्वा, तस्यापि प्रतिषेधकत्वानिष्टेः, अन्यथा प्रत्यक्षस्यापि प्रतिषेधकत्वप्रसङ्गात् । स्वयं न कुतश्चित्प्रमाणादयं विशेषानपहनुते । किं तर्हि ? (भा०) तत्साधनव्यभिचारात् ।
- अष्टसहस्त्रीतात्पर्यविवरणम् तथाभ्युपगमे भावैकान्तप्रतिज्ञाया विरोधापत्तेरित्यर्थः । नीरूपत्वप्रसङ्गात्=निःस्वभावत्व प्रसङ्गात् । नास्तित्वस्य च वस्तुधर्मत्वादिति धर्मश्च धर्म्यभिन्न एवेति ग्नाभावोऽतिरिक्त इति भावः । भेदाभेदवादाच्चाभेदाश्रयणे तत्त्वेन भेदाश्रयणे च तवृत्तित्वेन प्रतीतेरविरोधोऽन्यथा भावधर्मोऽप्यतिरिच्यते । एतेन भूतलस्य घटाभावत्वे भूतले घटाभाव इति प्रतीतिर्न स्यात्, स्याद्वा भूतले भूतलमिति धीरितिय अपास्तम् अभेदेऽपि घटाभावत्वेनाधेयताया भूतलत्वेन चाधारताया एव यथाप्रतीतिस्वीकारात, न च अभावस्याधिकरणात्मकत्वे दुःखध्वंसस्यात्मरूपत्वेन साध्यतापत्तिरित्यपि दृषणमस्मान् प्रति शोभते, आत्मनोऽपि परिणामित्वेन कथञ्चित् साध्यताया इष्टत्वादिति दिग् । सर्वविवर्तात्मकस्य=निखिलसांवृतभावाधिष्ठानस्य । तत्त्वत इति संवृत्या परं तत्त्वं न निषिध्यत इति
Page #268
--------------------------------------------------------------------------
________________
२३४
अष्टसहस्त्रीतात्पर्यविवरणम् वस्तुविशेषसाधनवादिना हि न कारणभेदस्तत्साधनं प्रयोक्तव्यं, तस्याभेदवादिनं प्रत्यसिद्धत्वात् नापि विरुद्धधर्माध्यासः, तत एव । किं तर्हि ?
(भा० ) संविन्नि सभेदाद्भावस्वभावभेदः प्रकल्प्येत । स पुनरभेदेऽप्यात्मनः खण्डश: प्रतिभासनात्
व्यभिचारी ।
ननु ज्ञानात्मनः खण्डश: प्रतिभासनस्य विभ्रान्तत्वात्तत्त्वतस्तस्यैकत्वान्न तेन व्यभिचारः । तदुक्तम्
अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः ।
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ [प्रमाणवार्तिक २.३५४] इति चेत्, (भा०) तदन्यत्रापि विभ्रमाभावे कोशपानं विधेयम् ।
शक्यं हि वक्तुं, संविन्नि सभेदः कुतश्चित्प्रतिपत्तुर्विभ्रम एव, तत्त्वतः संविन्मात्रस्याद्वयस्य व्यवस्थितेः ।
यथा विशुद्धमाकाशं तिमिरोपप्लुतो नरः । सङ्कीर्णमिव मात्राभिभिन्नाभिरभिमन्यते ॥ तथेदममलं ब्रह्म निर्विकल्पमविद्यया । कलुषत्वमिवापन्नं भेदरूपं प्रपश्यति ॥ [बृहदारण्यकोपनिषद्भाषावार्तिक ३-५-४३; ४४] इति वचनात् । तथा चासिद्धं विशेषसाधनं न साध्यसाधनायालम् । (भा०) तदेकं चक्षुरादिज्ञानप्रतिभासभेदवशाद्रूपादिव्यपदेशभाग् ग्राह्य
- अष्टसहस्त्रीतात्पर्यविवरणम् भावः । अन्यथेति अनुमानमागमप्रमाणं वा न प्रतिषेधकं प्रमाणत्वान्निर्विकल्पकप्रत्यक्षवदित्यनुमानादिति भावः । तस्य=कारणभेदस्य, असिद्धत्वात् स्वप्नज्ञानवदिति भावः । तत एव अभेदवादिनं प्रत्यसिद्धत्वादेव, स=संविन्निर्भासभेदः, खण्डशः प्रतिभासनात् इत्यत्राविद्यातज्जनितान्तःकरणादिभेदो हेतुर्द्रष्टव्यः । संवेदनाद्वैतवादी शङ्कते-नन्विति । तद्वैतवाद्याह-तदन्यत्रापीति । तत्तर्हि अन्यत्रापि ब्रह्माद्वैतेऽपि, विभ्रमाभावे विभ्रमो नास्तीत्यभ्युपगमे, विशेषसाधनं संविन्नि सभेदरूपं, साधनाय= भेदसाधनाय, तदेकं
Page #269
--------------------------------------------------------------------------
________________
२३५
प्रथमो भागः [ परि. १-का. ९] ग्राहकसंवित्तिवत् ।
चक्षुरादिज्ञानप्रतिभासभेदोऽप्यसिद्ध एवाभेदवादिन इति चेद् ग्राह्यग्राहकसंवित्तिप्रतिभासभेदोऽपि भेदवादिनः किमेकत्र ज्ञानात्मनि सिद्धः ? संवृत्या सिद्ध इति चेत्, समः समाधिः । योऽपीतरेतराभावप्रत्ययाद्भावस्वभावभेदं साधयेत्तस्य
(भा०) इतरेतराभावविकल्पोऽपि कथमयथार्थो न स्याद्वर्णादिविकल्पवत् ? ।
वर्णादिप्रत्ययो भावस्वभावभेदं स्वसाध्यमर्थमन्तरेणैव भावाद् व्यभिचारित्वादयथार्थो, न पुनरितरेतराभावप्रत्यय इत्यशक्यव्यवस्थं, तस्य भावाभावयोरभेदेऽपीतरेतराभावप्रत्ययेन व्यभिचारात् ।
(भा०) न हि वस्तुव्यतिरिक्तमसन्नाम, प्रमाणस्यार्थविषयत्वात् ।
प्रत्यक्षमभावविषयं भवत्येव, तस्येन्द्रियैः संयुक्तविशेषण सम्बन्धसद्भावाद्, घटाभावविशिष्टं भूतलं गृह्णामीति प्रत्ययादिति चेत्, न तस्य भूतलादिभावविषयत्वात् ।
(भा० ) अभावदृष्टौ हि तदवसानकारणाभावाद्भावदर्शमनवसरं प्राप्नोति ।
अष्टसहस्त्रीतात्पर्यविवरणम्
ब्रह्माऽज्ञातसत्तायां प्रमाणाभावात् चक्षुरादिज्ञानप्रतिभासस्य यो भेदस्तद्वशात्=तद्धेतोः, रूपादिव्यपदेशभाग् भवति, यथा भेदवादिन एकमेव ज्ञानं ग्राह्यग्राह(का)कारं, नियामकश्चात्र तत्तत्कालादिसध्रीचीनोऽविद्याविलास इत्यर्थः । योऽपीत्यादि एकमेव ब्रह्माऽभ्युपगच्छतोऽद्वैतवादिनो यथा वर्णादिविकल्पोऽसत्यस्तथेतरेतराभावप्रत्ययोऽपीति न ततो भावस्वभावभेदसिद्धिरित्यर्थः । अभेदेऽपि=अभेदस्य प्रामाणिकत्वेऽपि भूतलादिभावविषयत्वात् शुद्धभूतलादिभावविषयत्वादित्यर्थः । (प्र०) कीदृशं शुद्धं भूतलमिति चेत्, यादृशं तव घटाभावाधिकरणम् (प्र०) उभयमपि पृच्छाम इति चेत्, (उ०) पृच्छन्तु तावदेतत्तत्त्वमनुभवं भवन्तः । (प्र०) भूतलस्वरूपत्वे घटाभावस्य घटागमनकालेऽपि तदपरावत्तेस्तदपलम्भप्रसङ्ग इति चेत. (उ०) न. तदा तव कालघटितस्येव मम देशघटितस्याभावसम्बन्धस्यापगमकल्पने दोषाभावात् (प्र०) एवं सति कालविशेषघटितसम्बन्धेन
Page #270
--------------------------------------------------------------------------
________________
२३६
अष्टसहस्त्रीतात्पर्यविवरणम्
[ब्रह्माद्वैतवादी प्रत्यक्षप्रमाणं भावपदार्थग्राहकमेव साधयति तस्य विचारः ]
क्रमतोऽनन्तपररूपाभावप्रतिपत्तावेवोपक्षीणशक्तिकत्वप्रसङ्गात् । प्रत्यक्षस्य क्वचित्प्रतिपत्त्रा स्मर्यमाणस्य घटस्याभावप्रतिपत्तौ तदपररूपस्यानन्तस्यास्मर्यमाणत्वं भावदर्शनावसरकारणमिति चेत्, न प्रत्यक्षस्य स्मरणानपेक्षत्वात्, तस्य स्मृत्यपेक्षायामपूर्वार्थ साक्षात्कारित्वविरोधात् । भावप्रत्यक्षं किञ्चित्तु स्मरणनिरपेक्षं योगिप्रत्यक्षवत् । किञ्चित्तु स्मरणापेक्षं सुखादिसाधनार्थव्यवसायवत् । क्वचिदभावप्रत्यक्षं स्मरणनिरपेक्षं, योगिनोऽभावप्रत्यक्षं यथा । क्वचिदभावप्रत्यक्षं पुनः प्रतिषेध्यस्मरणापेक्षमेव, तथा प्रतीतेः इति चेत्, न स्मरणापेक्षस्य विकल्पज्ञानस्य प्रत्यक्षत्वविरोधादनुमानादिवत् । प्रत्यक्षस्य सकलकल्पनाविषयत्वात्स्मृत्यपेक्षायामनवस्थाप्रसङ्गात्, स्मृतेः पूर्वानुभवापेक्षत्वात्पूर्वानुभवस्याप्यपरस्मृत्यपेक्षत्वात्, सुदूरमपि गत्त्वा कस्यचिदनुभवस्य स्मृतिनिरपेक्षत्वे प्रकृतानुभवस्याऽपि स्मृति - सापेक्षत्वकल्पनावैयर्थ्यात् । न च स्मृतिः पूर्वानुभूतार्थविषया कथञ्चिदप्यपूर्वार्थ ज्ञानमुपजनयितुमलं, तस्यास्तत्प्रत्यभिज्ञानमात्रजननसामर्थ्यप्रतीतेर्दृष्टे सजातीयार्थेऽपि स्मृतेः सादृश्यप्रत्यभिज्ञानजनकत्वसिद्धेः । पूर्वानुभूते घटे स्मृतिस्ततो विजातीयेऽर्थान्तरे तदभावे विज्ञानमुपजनयतीति शिलाप्लवं कः श्रद्दधीतान्यत्र जडात्मनः ? । ततः स्मृतिनिरपेक्षमेव सर्वं प्रत्यक्षम् । तच्च यद्यभावविषयं स्यात्तदा अष्टसहस्त्रीतात्पर्यविवरणम्
मृदादेरेव घटादिव्यवहारोपपत्तौ गतं घटादिनाऽपीति चेत्, ( उ०) मैवं, द्रव्यार्थे इष्टत्वात्, पर्यायार्थनये च घटादेरभावादेश्चातिरेकाभ्युपगमस्य दोषानावहत्वादिति । क्रमतोऽनन्तरूपाभावप्रतिपत्तावेवेति क्रमेणानन्तसङ्ख्यघटपटाद्यभावग्रहण एवेत्यर्थः । यद्यपि अनन्तानामभावानां प्रत्यासत्त्यविशेषादेकदैव ग्रहणोपपत्तेः क्रमत इत्ययुक्तम्, तथाऽपि अभावग्रहसामग्र्यविच्छेदाद्धारावाहिकतद्ग्रहसौलभ्यापेक्षयेत्थमुक्तिरिति स्मर्त्तव्यम् । ननु केवलाभावप्रत्यक्षाभ्युपगमे स्यादयं दोषः सावकाशः, स एव चास्माकं नास्ति, अभावज्ञाने प्रतियोगिज्ञानस्य हेतुत्वस्वीकारात्तत्कादाचित्कत्वेन चाभावग्रहकादाचित्कत्वमिति यदैव न प्रतियोगिज्ञानं तदाऽभावग्रहान्न भावग्रहस्य लब्धावसरत्वमिति आशङ्क्याभावग्रहे प्रतियोगिग्रहहेतुतां खण्डयन्नाह-क्वचित्प्रतिपत्रेत्यादिना । ततः स्मृतिनिरपेक्षमेव सर्वं प्रत्यक्ष न च स्मृतित्वेन स्मृतिजन्यत्वस्य प्रत्यक्षत्वाभावव्याप्यत्वेऽपि विशेषणज्ञानत्वेन तज्जन्यताया अतथात्वान्नायं दोष इति शङ्कनीयम्, विशिष्टज्ञानत्वावच्छिन्नं प्रति विशिष्टप्रत्यक्षत्वावच्छिन्नं
Page #271
--------------------------------------------------------------------------
________________
२३७
प्रथमो भागः [परि० १-का. ९] भावदर्शनमनवसरमेव, तत्कारणाभावात् । प्रतिपत्तुर्भावदिदृक्षा भावदर्शनकारणमित्यपि
अष्टसहस्त्रीतात्पर्यविवरणम्
प्रति वा विशेषणज्ञानत्वेन हेतुत्वे मानाभावात्तद्विशेषणेन्द्रियसन्निकर्षतदसंसर्गाग्रहादिनैव तद्विशिष्टप्रत्यक्षोपपत्तेः सुरभिचन्दनमित्यादेश्चाकरे प्रत्यभिज्ञानतयैवोपपादितत्वादिति दिग् । तच्च यद्यभावविषयं स्यादिति घटत्वाद्यवच्छिन्नप्रकारतानिरूपिताभावविषयताकप्रत्यक्षे घटादिज्ञानस्य प्रतियोगिज्ञानविधया विशेषणतावच्छेदकप्रकारकज्ञानविधया वा हेतुत्वेऽपि शुद्धाभावदर्शनस्य सदा सम्भृतसामग्रीकत्वादिति भावः । न च अभावदर्शनस्याप्यधिकरणादिभावविषयकत्वात्कथमभावदर्शने सति भावदर्शनस्यानवसरप्राप्तत्वम् ? इति वाच्यम् अधिकरणमिश्रिताभावज्ञानस्य सङ्कलनात्मकत्वेन प्रथममभावावग्रहादिघटिताभावोपयोगेनाभावग्रहस्यैवाविच्युतौ सत्यां भावसंयोजनानुपपत्तिरित्यत्र तात्पर्यात् ।
॥ अभावबुद्धौ प्रतियोगिज्ञानस्य कारणतावादः ॥ अभावबुद्धौ प्रतियोगिबुद्धेः, प्राञ्चोऽत्र यत्कारणतां वदन्ति तन्नव्यसिद्धान्तविमर्दपूर्वं स्वतन्त्रयुक्त्या परिभावयामः ॥ न्यायाम्बुधिर्दीधितिकारयुक्तिकल्लोलकोलाहलदुर्विगाहः । तस्यापि पातुं न पयः समर्थः, किं नाम धीमत्प्रतिभाम्बुवाहः ॥ [उपजाति:]
अत्र प्रतियोगिज्ञानशून्यकालेनेत्याद्याकारकप्रतियोग्यमिश्रिताभावप्रत्यक्षवारणाय तत्र प्रतियोगिज्ञानस्य हेतुत्वमङ्गीकुर्वन्ति जीर्णाः । तन्मते नाभावज्ञानत्वं तत्प्रत्यक्षत्वं वा प्रतियोगिज्ञानकार्यतावच्छेदकम्, प्रमेयत्वादिनाऽभावग्रहेऽभावत्वसामान्यलक्षणाधीनाभावप्रत्यक्षे च व्यभिचारात् । नापि सामान्यतोऽभावलौकिकप्रत्यक्षत्वं प्रतियोगिज्ञानकार्यतावच्छेदकम्, घटज्ञानकाले पटाभावादिलौकिकप्रत्यक्षोत्पत्तिप्रसङ्गात् । नापि घटत्वावच्छिन्नप्रतियोगिताकाभावादिलौकिकप्रत्यक्षत्वं घटज्ञानादिकार्यतावच्छेदकम्, द्रव्यत्वादिना घटादिज्ञानोत्तरमपि तादृशाऽभावलौकिकप्रत्यक्षापत्तेर्दुरित्वात् । न च घटत्वविषयकघटज्ञानत्वेन तादृशहेतुत्वान्न अनुपपत्तिः, घटघटत्वनिर्विकल्पकोत्तरं तत्समूहालम्बनोत्तरं च तथाविधाभावलौकिकप्रत्यक्षापत्तेर्दुरित्वात् । किन्तु घटत्वावच्छिन्नविषयताशालिज्ञानत्वं कारणतावच्छेदकम्, घटत्वावच्छिन्नप्रतियोगिताकाभावलौकिकप्रत्यक्षत्वं कार्यतावच्छेदकमिति बोध्यम् । नन एवमपि घटत्वेन पटभ्रमदशायां घटत्वावच्छिन्नप्रतियोगिताकाभावलौकिकप्रत्यक्षापत्तिर्दारा । न चेष्टापत्तिः, तथाविधाभावप्रत्यक्षस्य प्रतियोग्यंशे घटत्ववैशिष्टयभ्रमजनकीभूतदोषस्य तदाऽसत्त्वेन घटत्वेन पटा
Page #272
--------------------------------------------------------------------------
________________
२३८
अष्टसहस्त्रीतात्पर्यविवरणम् न सम्यक्, पुरुषेच्छानपेक्षत्वात्प्रत्यक्षस्य, सत्यामपि घटदिदृक्षायां तद्विकले प्रदेशे
- अष्टसहस्त्रीतात्पर्यविवरणम् विषयकतया घटत्वेन घटज्ञानासत्त्वेन तद्विषयकतया च नेत्याकारकप्रत्यक्षपर्यवसन्नत्वेनेष्टापत्तेरसम्भवात् । न च तथाविधप्रत्यक्षं प्रति घटत्वावच्छिन्नघटविषयताशालिज्ञानत्वेन हेतुत्वात् नोक्तापत्तिः, तथाविधदोषदशायां घटत्वेन पटज्ञानसत्त्वे तादृशाभावांशे घटत्वेन पटावगाहिनो भ्रमात्मकप्रत्यक्षस्यानुपपत्तेः । न च तादृशफलोपपत्तये घटत्वेन पटज्ञानस्यापि पृथग्घेतुत्वं कल्पनीयम्, तादृशज्ञानेन फलजनने तथाविधदोषस्य सहकारित्वकल्पनाच्च न पूर्वप्रदर्शितापत्तिरिति वाच्यम्, अनन्तकार्यकारणभावकल्पनापत्तिदोषानुद्धारादिति चेत्, न प्रामाणिकगौरवस्यादोषत्वात् । यत्तु घटत्वेन पटादिज्ञानकाले घटाभावांशे घटत्वेन पटभानजनकीभूतदोषस्य तत्तत्क्षणसम्बन्धरूपस्य नियमतः सत्त्वान्न तादृशज्ञानदशायां नेत्याकारकप्रत्यक्षापत्तिरिति तन्न, अनन्ततत्तत्क्षणसम्बन्धादीनां दोषत्वे प्रमाणाभावात्तत्कल्पने गौरवाच्च । अथ तथापि तद्धविच्छिन्नप्रतियोगिताकाभावलौकिकप्रत्यक्षं प्रति तद्धर्मावच्छिन्नविषयताशालिज्ञानत्वेन न हेतुहेतुमद्भावः, समनियतसङ्ख्यापरिमाणाद्यभावानामैक्येन सङ्ख्यादिज्ञानोत्तरोत्पन्नसङ्ख्यात्वाद्यवच्छिन्नप्रतियोगिताकाभावलौकिकप्रत्यक्षस्य परिमाणत्वाद्यवच्छिन्नप्रतियोगिताकाभावविषयतया परिमाणत्वाद्यवच्छिन्नप्रतियोगिताकाभावलौकिकप्रत्यक्षे परिमाणत्वाद्यवच्छिन्नविषयताशालिज्ञानहेतुतायां व्यभिचारात्, परिमाणत्वाद्यवच्छिन्नप्रतियोगितासम्बन्धावच्छिन्नपरिमाणनिष्ठविषयता निरूपिताभावविषयताकलौकिकप्रत्यक्ष एव तद्धेतुत्वकल्पने तु दीधितिकृदुक्तरीत्याऽभावबुद्धेविशिष्टवैशिष्ट्यमर्यादयैव गतार्थत्वेन प्रतियोगिज्ञानस्य स्वातन्त्र्येण हेतुत्वभङ्गप्रसङ्गादिति चेत्, न समनियताभावानां भिन्नत्वाभ्युपगमे दोषाभावात्परिमाणत्वाद्यवच्छिन्नप्रतियोगितावच्छेदकयत्किञ्चिदवच्छिन्नज्ञानत्वेन हेतुत्वान्न दोषः । अत एव प्राचां घटात्यन्ताभावादेर्घटादितत्प्रागभावतत्प्रध्वंसप्रतियोगिकत्वेऽप्येकग्रहे प्रत्यक्षत्वमिति अपरे। वस्तुतो घटत्वेन पटघटज्ञानयोर्दोषान्तर्भावानन्तर्भावाभ्यां पृथक्कारणत्वस्य प्रागुक्तत्वात्कार्यतावच्छेदककोटावव्यवहितोत्तरत्वदानावश्यकत्वात्समनियताभावप्रत्यक्षस्थले न व्यभिचारः, इत्थमेव लघुधर्मेऽभावस्य प्रतियोगितावच्छेदकत्वसम्भवे गुरौ तदभावेन कम्बुग्रीवादिमत्त्वावच्छिन्नविषयताशालिज्ञानोत्तरं घटत्वावच्छिन्नप्रतियोगितासम्बन्धेन कम्बुग्रीवादिमत्त्वावच्छिन्नप्रकारतानिरूपिताभावविषयताशालिनः कम्बुग्रीवादिमान्नास्तीत्याकारकस्य प्रत्यक्षस्योपपत्तिः, घटत्वावच्छिन्नाभावप्रत्यक्षे घटत्वावच्छिन्नविषयताशालिन इव कम्बुग्रीवादिमत्त्वावच्छिन्नविषयता
१. निरूपितानिरूपिता इति ह० प्र० पाठः ।
Page #273
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि. १-का. ९]
२३९
- अष्टसहस्रीतात्पर्यविवरणम् शालीनोऽपि ज्ञानस्य हेतुत्वात्कार्ये स्वाव्यवहितोत्तरत्वस्यैव च व्यभिचारवारकत्वात्, कम्बुग्रीवादिमन्निष्ठकम्बुग्रीवादिमत्त्वावच्छिन्नप्रतियोगितावगाहनेन च तत्र प्रामाण्याप्रामाण्योभयव्यवस्था श्रद्धेया । अन्ये तु कम्बुग्रीवादिमत्त्वावच्छिन्नविषयताशालिज्ञानकाले कम्बुत्वावच्छिन्नविषयताशालिज्ञानस्यावश्यकतया तदुत्तरं कम्बुत्वावच्छिन्नप्रतियोगिताकाभावलौकिकप्रत्यक्षाभ्युपगमेन तदभावांशेन तेन सम्बन्धेन कम्बुग्रीवादिमदवगाहत्वात् कम्बुग्रीवादिमान्नास्तीति भ्रमस्वीकारान्नानुपपत्तिरिति आहुः । न च तथापि तेजस्त्वप्रकारकज्ञानं विना जायमाने इदन्त्वादिना तेजःसामान्याभावरूपतमःप्रत्यक्षे तथाविधाभावलौकिकप्रत्यक्षं प्रति तेजस्त्वावच्छिन्नप्रकारताशालिज्ञानहेतुतायां व्यभिचार इति वाच्यम्, तेजस्त्वावच्छिन्नप्रतियोगिताकाभावनिष्ठाभावत्वावच्छिन्नलौकिकविषयताशालिप्रत्यक्षत्वस्य तेजस्त्वप्रकारकज्ञानकार्यतावच्छेदकत्वोपगमात् । अथ अयं कार्यकारणभावप्रपञ्चः प्रतियोगिज्ञानशून्यकाले नेत्याकारकप्रतियोग्यमिश्रिताभावप्रत्यक्षापत्तिवारणाय, सैव च कुतः ? तादृशाभावप्रत्यक्षाप्रसिद्ध्या तदापत्तेरयोगादिति चेत्, न, इन्द्रियसम्बद्धविशेषणताबलात्प्रतियोगिज्ञानशून्यकाले घटाभावादावभावलौकिक प्रत्यक्षत्वावच्छिन्नापत्तौ क्रियमाणायां फलतः प्रतियोग्यमिश्रितनेत्याकारकाभावलौकिकप्रत्यक्षापत्तिसम्भवात् । अथ तद्धर्मावच्छिन्नप्रतियोगिताकाभावलौकिकप्रत्यक्षे तादृशज्ञानत्वेन प्रतियोगिज्ञानहेतुत्वकल्पनेऽपि प्रतियोगितासम्बन्धेनाभावो न घटीय इत्याकारकबाधबुद्धिदशायां घटज्ञानकाले घटत्वावच्छिन्नप्रतियोगिताकाभावलौकिक प्रत्यक्षत्वावच्छिन्ने आपाद्यमाने फलतो नेत्याकारकापत्तिसम्भवः, तदा प्रतियोगितासंसर्गेण घटभानप्रतिबन्धकस्य तथाविधबाधज्ञानस्य सत्त्वेनाभावांशे तत्संसर्गकघटादिविषयकप्रत्यक्षोत्पत्त्यसम्भवादिति, तन्न, तदानीमप्येकत्र द्वयमिति रीत्या घटाभावत्वोभयमभावांशे विषयीकुर्वाणस्य घटो नास्तीति प्रत्यक्षस्य सम्भवेन प्रतियोग्यमिश्रिताभावप्रत्यक्षापत्त्यसम्भवात् । यदि च अवृत्तित्वज्ञानकाले निर्धर्मितावच्छेदकज्ञानस्याप्यनुत्पत्त्या प्रतियोगितासम्बन्धेन घटो नाभाववृत्तिरित्यवृत्तित्वज्ञानकाले घटादिरूपप्रतियोगिज्ञानबलात्तत्कार्यतावच्छेदकावच्छिन्नस्यापत्तौ क्रियमाणायां फलतो नेत्याकारकापत्तिः सम्भवतीति मन्यते, तदा दोषबलात् घटत्वावच्छिन्नप्रतियोगितया वृत्त्यनिरूपकसम्बन्धेन घटविशिष्टाभावप्रत्यक्षाभ्युपगमान्नानुपपत्तिः । यत्तु अभावो न घटीय इति बाधबुद्धेरेवासम्भवोऽस्याभावे प्रतियोगितया घटवैशिष्ट्यावगाहित्वेन प्रतिबध्यतावच्छेदकाक्रान्तत्वादिति, तन्न, प्रतियोगितावच्छेदकसम्बन्धावच्छिन्नाधारतासंसर्गकबुद्धरेव प्रतिबध्यत्वादिति प्रतियोगितया घटवदबुद्धः साम्राज्यात, न हि संयोगसम्बन्धा
Page #274
--------------------------------------------------------------------------
________________
२४०
अष्टसहस्त्रीतात्पर्यविवरणम्
अष्टसहस्त्रीतात्पर्यविवरणम्
वच्छिन्नाधारतया गगनाद्यभाववत्तानिर्णयेऽपि संयोगमात्रेण गगनादिमत्ताबुद्ध्यनुदय इति । यदपि एकं धर्मं धमितावच्छेदकीकृत्य विरुद्धभावोभयप्रकारकनिर्णयानभ्युपगमात् शुद्धप्रतियोगितासम्बन्धावच्छिन्नप्रतियोगिताकघटाभाववत्तारूपबाधस्यैव प्रकृते शरणीकरणीयत्वेन संयोगसम्बन्धावच्छिन्नप्रतियोगितासम्बन्धावच्छिन्नतत्प्रतियोगिनिष्ठप्रतियोगिताकाभावनिर्णयेऽपि शुद्धप्रतियोगितासम्बन्धेनाभावांशे घटविषयकस्य घटो नास्तीत्याकारकस्याभावप्रत्यक्षस्योत्पत्ती बाधकाभावेन प्रतियोग्यमिश्रिताभावलौकिकप्रत्यक्षापत्त्यसम्भवः, तदुक्तं-पदार्थमालायां तद्दशायामपि सामान्यतः प्रतियोगिवैशिष्ट्यधीसम्भवादिति, [ ] सामान्यत इत्यस्य शुद्धप्रतियोगितासम्बन्धेनेत्यर्थ इति, तदपि न क्षोदक्षमम्, तादृशनिर्णयासम्भवेऽपि प्रतियोगितासम्बन्धेन घटोऽवृत्तिरिति ज्ञानस्य प्रतिबन्धकस्य जागरूकतया तथाविधज्ञानकाले नेत्याकारकघटाभावलौकिकप्रत्यक्षापत्तेविनोपदर्शितप्रकारं ब्रह्मणोऽपि दुरित्वादिति ध्येयम् । अथ भूतलादौ संयोगसंसर्गकघटप्रकारकनिर्धर्मितावच्छेदकज्ञानदशायां तत्र संयोगसमवायादियावत्सम्बन्धावच्छिन्नप्रतियोगिताकघटाभावलौकिकप्रत्यक्षापत्तिवारणाय समानविशेष्यतया तत्सम्बन्धावच्छिन्नतदभावलौकिकप्रत्यक्षं प्रति तेन सम्बन्धेन प्रतियोग्यारोपस्य हेतुत्वं कल्प्यत इति तत एव प्रतियोग्यमिश्रिताभावलौकिकप्रत्यक्षवारणात् किं तत्र प्रतियोगिज्ञानहेतुना ? इति चेत्, न, तत्सम्बन्धेन तदारोपनियामकादेवाभावबुद्धौ सम्बन्धनियमोपपत्तावारोपहेतुतायां मानाभावात्, अस्तु वा तत्सम्बन्धावच्छिन्नप्रतियोगिताकाभावप्रत्यक्षे तत्सम्बन्धवत्ताज्ञानं हेतुः, न तु तेन सम्बन्धेन तदारोपोऽपि, गौरवात, तथा च प्रतियोग्यमिश्रिताभावलौकिकप्रत्यक्षापत्तिवारणाय प्रतियोगिज्ञानहेतुताऽऽवश्यकीति । अस्तु वाऽभावप्रत्यक्षे प्रतियोग्यारोपहेतुता, तथापि तत्र कारणतावच्छेदककोटौ प्रतियोगितावच्छेदकविषयतानिवेशे मानाभावाद् द्रव्यत्वेन घटस्य संयोगेनारोपस्थले घटत्वावच्छिन्नप्रतियोगिताकाभावांशे द्रव्यत्वेन घटप्रतियोगकत्वभ्रमजनकदोषाभावे नेत्याकारकप्रत्यक्षापत्तिवारणाय प्रतियोगितावच्छेदकप्रकारकज्ञानस्य पृथग्घेतुत्वमावश्यकम्, प्रतियोग्यारोपजनकतावच्छेदककोटौ प्रतियोगितावच्छेदकविषयतानिवेशे सम्बन्धभेदेनानन्तकारणतावच्छेदकगौरवप्रसङ्गात् । दीधितिकृतस्तु प्रतियोग्यंशे विशिष्टवैशिष्ट्यविषयताशून्यस्य विशेष्ये विशेषणं तत्र च विशेषणान्तरमिति विषयताशालिनोऽभावप्रत्ययस्यानभ्युपगमेनेन्द्रियसम्बन्धविशेषणतायाः फलजनने घटत्वादिविशिष्टवैशिष्ट्यबुद्धि प्रति हेतुत्वेन क्लृप्तस्य घटत्वादिप्रकारकज्ञानस्य सहकारित्वस्वीकारेणैव नेत्याकारकप्रत्यक्षवारणस्य शक्यतयाऽभावबुद्धि प्रति प्रतियोगिज्ञानस्य हेतुत्वकल्पनं निरर्थकमेवेति आहुः तत्रेदं चिन्त्यते-अभावप्रत्यक्षे जननीये
Page #275
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि. १-का. ९]
२४१
अष्टसहस्त्रीतात्पर्यविवरणम्
इन्द्रियसम्बद्धविशेषणताया घटत्वप्रकारकज्ञानस्येव पटत्वप्रकारकज्ञानस्यापि सहकारित्वं स्वीकरणीयम्, अन्यथेन्द्रियसम्बद्धविशेषणताबलात्पटत्वावच्छिन्नाभावप्रत्यक्षस्य पटत्वप्रकारकज्ञानशून्यकालेऽप्युत्पत्त्यापत्तेः, तथा च पटत्वप्रकारज्ञानसत्त्वे इन्द्रियसम्बद्धविशेषणतारूपकारणबलाद् घटाभावप्रत्यक्षापत्तिः, न चेष्टापत्तिः, तदा घटाभावांशे पटभ्रमजनकदोषाभावेन पटस्य घटज्ञानासत्त्वे च घटस्याभावेन नेत्याकारकप्रत्यक्षपर्यवसानात् । न च घटाभावादिनिष्ठेन्द्रियसम्बद्धविशेषणताया घटत्वाद्यवच्छिन्नविषयतानिरूपिताऽभावनिष्ठलौकिकविषयतासम्बन्धेन प्रत्यक्षहेतुत्वे तस्यां घटत्वप्रकारकज्ञानस्य सहकारित्वान्नोपदर्शितापत्तिः । न च पटत्वप्रकारकपटज्ञानकाले घटाभावांशे तज्ज्ञानजनकीभूतदोषसत्त्वे घटत्वावच्छिन्नप्रतियोगिताकाभाव प्रत्यक्षानुपपत्ति: घटाभावनिष्ठविशेषणतायाः फलजनने पटत्वप्रकारकज्ञानतथाविधदोषादीनामपि सहकारित्वादिति वाच्यम्, विषयभेदेनेन्द्रियसम्बद्धविशेषणतायाः कारणताधिक्यप्रसङ्गात् । न च प्रतियोगिज्ञानहेतुतामतेऽपि विषयभेदेनेन्द्रियसम्बद्धविशेषणतायाः कारणताबाहुल्यं विना न निस्तारः, पूर्वोपदर्शितापत्तेस्तन्मतेऽपि सम्भवादिति वाच्यम् । तन्मते लौकिकविषयतासम्बन्धेनाभावप्रत्यक्ष प्रति स्वप्रकारीभूतधर्मावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन ज्ञानत्वेन हेतुत्वकल्पनेनानुपपत्तेरभावात्, उक्तसम्बन्धघटितसामानाधिकरण्येन ज्ञानविशिष्टाया एकस्या अपरस्याश्च तत्तदोषविशिष्टाया इन्द्रियसम्बद्धविशेषणताया अभावलौकिकप्रत्यक्षनियामकत्वे घटत्वप्रकारकज्ञानसत्त्वे घटाभावसन्निकर्षे आद्यायाः, पटत्वप्रकारकज्ञानसत्त्वे घटाभावांशे पटभ्रमजनकदोषसत्त्वे च द्वितीयायाः सम्पत्त्या अभावलौकिकप्रत्यक्षोत्पत्तेः तदसत्त्वे च तदनुत्पत्तेरिति । स्यादेतत् नव्यमतेऽपि विषयभेदेनेन्द्रियसम्बद्धविशेषणताया न कारणताधिका तद्धर्मावच्छिन्नप्रतियोगिताकाभावसन्निकर्षे तदन्यधर्मप्रकारकज्ञानस्यैव तदभावांशे तत्प्रकारकभ्रमजनकदोषत्वाभ्युपगमेन घटत्वप्रकारकज्ञानकाले इन्द्रियसम्बद्धविशेषणतारूपकारणबलादभावप्रत्यक्षस्य घटाभावे आपत्तेरिष्टापत्तिपरिहरणीयत्वात, तदा दोषध्रौव्येण घटाभावांशे पटभ्रमात्मकस्यैव तस्य स्वीकारादिति, मैवम्, तथापि नव्यैरिन्द्रियसम्बद्धविशेषणतायाः सहकारिता घटत्वप्रकारकज्ञानत्वादिना नानाविधा स्वीकार्या, प्राचीनैस्तूपदर्शितसम्बन्धेन ज्ञानत्वेनैवेति प्राचीनमत एव लाघवात्, एवं चाभावलौकिकप्रत्यक्षजनकसामग्रीव्याप्ताविन्द्रियसम्बद्धविशेषणतायामेककालीनत्वोपदर्शितसम्बन्धघटितस्वसामानाधिकरण्योभयसम्बन्धेन ज्ञानत्वेनैव घटत्वप्रकारकज्ञानादीनां निवेशः कर्त्तव्यो न तु प्रातिस्विकरूपेणेत्यपि प्राचीनमते लाघवं द्रष्टव्यम् । यत्तु नव्यमते विशेषणतावच्छेदकप्रकारक
Page #276
--------------------------------------------------------------------------
________________
२४२
अष्टसहस्त्रीतात्पर्यविवरणम्
अष्टसहस्त्रीतात्पर्यविवरणम् ज्ञानस्यात्मनिष्ठसमवायप्रत्यासत्त्येन्द्रियसम्बद्धविशेषणतायाश्च विषयनिष्ठप्रतियोगितासम्बन्धेन हेतुत्वं कल्प्यत इति तयोः कारणतावच्छेदकसम्बन्धयोर्वैयधिकरण्ये नैक पुरुषस्य घटत्वप्रकारकज्ञानकाले पुरुषान्तरीयेन्द्रियसम्बन्धविशेषणतासत्त्वे पुरुषान्तरीयाभावलौकिकप्रत्यक्षापत्तिरिति, तन्न, एतदात्मसमवेतज्ञानादिव्यक्ते रात्मान्तरे आपत्तिवारणाय तदात्मसमवेतत्वावच्छिन्नं प्रति तदात्मत्वेन तादात्म्येन हेतुत्वकल्पनात्तादात्म्यसमवायघटितसामानाधिकरण्येन एतदात्मविशिष्टं यद् घटत्वप्रकारकज्ञानम्, एककालीनत्वसम्बन्धेन तद्विशिष्टा यैतत्पुरुषीयेन्द्रियसम्बद्धविशेषणता सैवैतत्पुरुषीयाभावलौकिकप्रत्यक्षनियामिकेति सामग्रीव्याप्त्यभ्युपगमे दोषाभावात् । इदन्तु स्यात्, नव्यमते घटत्वप्रकारकज्ञानकाले पटाभावेन्द्रियसम्बद्धविशेषणतासत्त्वे भिन्नविषयकानुमितिसामग्रीविरहबलादात्मनि घटत्वावच्छिन्नविषयतानिरूपिताभावविषयताशालिप्रत्यक्षापत्तिर्दुर्वारा घटाभावलौकिकसन्निकर्षशून्यकाले तथाविधसामग्रयभावरूपकारणबलात्तादृशप्रत्यक्षोत्पत्तिवारणाय तादृशसामग्र्यभावेन फले जननीये तथाविधसन्निकर्षस्य सहकारित्वकल्पनात्तदानीमेककालीनत्वसम्बन्धेन तादृशसन्निकर्षादिविशिष्टविरोधिसामग्र्यभावरूपायाः सामग्र्या अक्षतत्वात्, तथा च घटाभाववृत्तिविषयतासम्बन्धेन प्रत्यक्षं प्रति तादात्म्येन घटाभावहेतुतामनायत्या कल्पयित्वा तादात्म्यप्रतियोगिताघटितसामानाधिकरण्यसम्बन्धेन घटाभावविशिष्टा येन्द्रियसम्बद्धविशेषणता तद्विशिष्टतथाविधविरोधिसामग्रयभावरूपायाः सामग्र्या एवात्मनि घटाभावप्रत्यक्षोत्पत्तौ नियामकत्वमभ्युपगन्तव्यमिति महागौरवम् । प्रतियोगिज्ञानहेतुतामते तु लौकिकविषयतयाऽभावप्रत्यक्षे स्वप्रकारीभूतधर्मावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन ज्ञानत्वेनैव हेतुत्वादुक्तसम्बन्धप्रतियोगिताघटितसामानाधिकरण्येन ज्ञानविशिष्टेन्द्रियसम्बद्धविशेषणताभावादेवोक्तस्थले नाभावप्रत्यक्षं पटाभावे, तथा च विषयतासम्बन्धेनाभावप्रत्यक्षोत्पादकसामग्रीसहकारेणैव समवायेन तदुत्पादकसामग्र्याः कार्योत्पत्तिव्याप्यत्वान्नोक्तापत्तिरिति घटाभावादिप्रत्यक्षोत्पादकसामग्र्यामिन्द्रियसम्बद्धविशेषणतायां विशिष्यानन्तविषयवैशिष्ट्यानिवेशाल्लाघवमिति ।
अत्र ब्रूमः-एवं सति घटत्वेन पटज्ञानात्पटाभावसन्निकर्षे घटत्वेन पटाभावज्ञानं न स्यादिति घटत्वावच्छिन्नप्रकारतानिरूपिताभावविषयताशालिप्रत्यक्षत्वमेव घटज्ञानकार्यतावच्छेदकं वाच्यमिति तदज्ञानात्केवलाभावप्रत्यक्षापत्ति१निवारैव । न च घटत्वाद्यवच्छिन्नप्रकारत्वान्यप्रकारत्वानिरूपिताभावविषयताकप्रत्यक्षे घटादिधियो हेतुत्वान्नाभावांशे
Page #277
--------------------------------------------------------------------------
________________
प्रथमो भाग: [ परि० १ - का० ९]
२४३
अष्टसहस्त्रीतात्पर्यविवरणम्
निर्विकल्पकमभाव इत्याकारकप्रत्यक्षं च जायते निखिलप्रतियोगिज्ञानकार्यतावच्छेदकाक्रान्तस्येदृशप्रत्यक्षस्य यत्किञ्चित्प्रतियोगिज्ञानेऽसम्भवात् यावत्प्रतियोगिज्ञानस्य चासम्भवाद्, अभावत्वांशे निर्विकल्पकं त्वभावांशे यत्किञ्चित्प्रतियोगिवैशिष्ट्यविषयकत्वात् यत्किञ्चित्प्रतियोगिधीसाध्यमेवेति नानुपपत्तिः, इदन्त्वेन तमः प्रत्यक्षं त्वनुपपन्नमभावांशे निर्विकल्पकवद् यावत् प्रतियोगिधीकार्यतावच्छेदकाक्रान्तत्वादिति वाच्यम् । केवलाभावत्वनिर्विकल्पकापत्तेर्लाघवादभावांशत्यागेन घटत्वाद्यन्यप्रकारत्वानिरूपित विषयताकत्वस्यैव घटज्ञानादिकार्यतावच्छेदकत्वौचित्ये भावांशेऽपि निर्विकल्पकस्याभाव इत्याकारकप्रत्यक्षस्य चोच्छेदापत्तेः, निखिलविशेषणज्ञानकार्यतावच्छेदकाक्रान्तस्य यत्किञ्चिद्विशेषणज्ञानेऽसम्भवात् । किञ्चैवं घटपटोभयाभावप्रत्यक्षे गतिरिति लाघवाद् घटादिधियों घटत्वाद्यवच्छिन्नप्रकारत्वनिरूपिताभावविषयत्वस्यैव कार्यतावच्छेदकत्वात्केवलस्य भावप्रत्यक्षस्येवाभावप्रत्यक्षस्य नानुपपत्तिः । एतेन अभावलौकिकप्रत्यक्षस्य घटत्वाद्यन्यतमविशिष्टविषयकत्वनियमाद्विशेषसामग्रीं विना सामान्यसामग्रीमात्रात्कार्यानुत्पत्तेर्नाभावनिर्विकल्पकं नेत्याकारकप्रत्यक्षं वेत्यपि अपास्तम् । भावलौकिकप्रत्यक्षेऽपि तथा नियमापत्तेः, केवलभावप्रत्ययानुभवाद्भावप्रत्यक्षे तथा नियमानाश्रयणे च केवलाभावप्रत्ययानुभवादभावप्रत्यक्षेऽपि तथा नियमो न श्रद्धेयः । सत्तासत्तयोः केवलसप्रतियोगिकं नियमानुरोधेन सविकल्पकनिर्विकल्पकवेद्यत्वानेकान्तस्य व्यापकत्वं तु व्युत्पादितमधस्तादिति नैकतरपक्षपातो युक्तः । यत्तु अभावलौकिकप्रत्यक्षं प्रति प्रतियोगिज्ञानस्य हेतुत्वाकल्पने इन्द्रियसम्बद्धविशेषणतया फले जननीये घटत्वप्रकारकज्ञानस्य सहकारित्वमसम्भवि, ययोः कार्यतावच्छेदकयोः परस्परं व्याप्यव्यापकभावस्तयोरेव परस्परं सहकारित्वस्वीकारात्, अभावलौकिकप्रत्यक्षं प्रति प्रतियोगिज्ञानस्य हेतुत्वकल्पनपक्षे तु घटादिनिष्ठप्रतियोगितासम्बन्धावच्छिन्नप्रकारतानिरूपिततदभावनिष्ठाभावत्वावच्छिन्नविषयताशालिप्रत्यक्षत्वावच्छिन्नं प्रति घटमात्रनिष्ठधर्मावच्छिन्नप्रकारताशालिज्ञानत्वेन हेतुत्वं कल्प्यते, तथा च घटत्वादिप्रकारकज्ञानेन्द्रियसम्बद्धविशेषणतयोः कार्यतावच्छेदकयोः परस्परव्याप्यव्यापकभावेन ताभ्यां फले जननीये परस्परसहकारित्वस्य यौक्तिकत्वादिति, तदसत्, ययोः कार्यतावच्छेदकयोः परस्परं व्याप्यव्यापकभावस्तयोरेकेन फलेन जननीयेऽन्यस्य सहकारित्वमित्यस्यैव स्वीकारादुक्तयुक्त्या प्रतियोगिज्ञानहेतुत्वासिद्धेः,
१. अत्र ग्रन्थकृता 'निश्चयानुरोधेन' इति पाठ सुधारितो दृश्यते ( पत्र ६७ / अ पङ्क्तिः १६)
Page #278
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम्
दर्शनाभावादसत्यामपि सति घटे दर्शनसद्भावात् । इति न प्रत्यक्षमभावं प्रत्येति, तस्य सन्मात्रविषयत्वात्तत्रैव प्रमाणत्वोपपत्तेरव्यभिचारात् ।
२४४
[अनुमानप्रमाणेनाप्यभावस्य ज्ञानं भवतीति ब्रह्माद्वैतवादी ब्रूते ।]
( भा० ) सकलशक्तिविरहलक्षणस्य निरुपाख्यस्य स्वभावकार्यादेरभावात्कुतस्तत्प्रमितिः
स्यादानुमानिकी ?
न हि निरुपाख्यस्य स्वभावः कश्चित्सम्भवति, भावस्वभावत्वप्रसङ्गात् । नापि कार्यं तत एव । इति कुतः स्वभावात्कार्याद्वा हेतोस्तत्प्रमिति: ? अनुपलब्धिः पुनस्तस्यासिद्धिमेव व्यवस्थापयेदिति ततोऽपि न तत्प्रमितिः । भावानामनुपलब्धेस्तत्प्रमितिरित्यपि न सम्यक्, ततो भावान्तरस्वभावस्यैवाभावस्यावभासनात् । एतेन विरोधिलिङ्गान्निरुपाख्यस्याभावस्य प्रमितिरपास्ता । सदुपलम्भकप्रमाणपञ्चकनिवृत्तेस्तत्प्रमितिरित्यपि मिथ्या, तस्या अपि निरुपाख्यत्वे क्वचित्प्रमितिजननासम्भवात्, आत्मनः सदुपलम्भकप्रमाणपञ्चकरूपत्वेनापरिणामस्य प्रसज्यप्रतिषेधरूपस्य प्रमाणत्वविरोधात् । यदि पुनरन्यवस्तुविज्ञानरूपा तन्निवृत्तिस्तदा न ततो निरूपाख्यस्य प्रमितिः, वस्त्वन्तररूपस्यैवाभावस्य सिद्धेः । न च प्रकारान्तरमस्ति किञ्चित् इति कुतस्तत्प्रमिति: ?
अष्टसहस्त्रीतात्पर्यविवरणम्
सत्ताया असत्तायाश्च केवलाया धर्मिभासकसामग्र्यैव भानात्, घटाद्युपरक्ततद्व्यवहार एव घटादिज्ञानस्य हेतुत्वेन व्यवहारस्यैव सप्रतियोगिकत्वसिद्धेरिति दिग् ।
प्रदर्शितोऽयं प्रतियोग्यभावधीहेतुकार्यत्वविचारभूमा । अस्मिन्ननेकान्तमतिप्रवेशात् क्लेशावहः क्वापि न पक्षपातः ॥
अथ प्रकृतम्, अभावं भावभिन्नमनुपाख्यम् । अनुपलब्धेः=अभावानुपलब्धेः, व्यवस्थापयेत् प्रतिपत्तेति शेषः । अवभासनादिति शुद्धं भूतलमेव घटाभाव इत्येवं सार्वजनीनानुभवाद्धर्मिकल्पनात इत्यादि न्यायाच्चेति भावः । वस्त्वन्तररूपस्यैवेति अन्यवस्तुविज्ञानस्यान्यवस्तुविषयत्वादिति भावः । ननु एवं घटवदन्यभूतलं घटाभाव इति प्राप्तं तथा चान्यत्वान्योन्याभावस्य चिन्तायामतिरिक्ताभावसिद्धिरिति चेत्, न, कालभेदेन
Page #279
--------------------------------------------------------------------------
________________
प्रथमो भाग: [ परि० १ - का० ९]
२४५
[जैनाचार्या जगन्नानात्वं साधयन्ति । ]
मा भून्निरुपाख्यस्याभावस्य प्रत्यक्षतोऽन्यतो वा प्रमाणात्प्रतिपत्तिस्तथापि न सत्ताद्वैतस्य सिद्धिः, वस्तुनानात्वस्यैव ततः परिच्छित्तेरित्यपरस्तस्यापि
( भा० ) वस्तुनो नानात्वं बुद्ध्यादिकार्यनानात्वात्प्रतीयेत
नान्यथा, अतिप्रसङ्गात् । तदपि व्यभिचार्येव, विपक्षेऽपि भावात् । तथा
हि
(भा०) स्वभावाभेदेऽपि विविधकर्मता दृष्टा युगपदेकार्थोपनिबद्धदृष्टिविषयक्षणवत् ।
न हि ह्येकत्र नर्तक्यादिक्षणे युगपदुपनिबद्धदृष्टीनां प्रेक्षकजनानां विविधं कर्मबुद्धिव्यपदेशसुखादिकार्यमसिद्धं येन तस्य स्वभावाभेदेऽपि विविधकर्मता न
भवेत् ।
( भा० ) शक्तिनानात्वं प्रसवविशेषात् । स चेद् व्यभिचारी, कुतस्तद्गतिः ?
तस्यापि शक्तिनानात्वोपगमान्न बुद्ध्यादिः प्रसवविशेषो व्यभिचारीति चेत्, न अष्टसहस्त्रीतात्पर्यविवरणम्
वस्तुतो घटवदन्यस्य भूतलस्य तत्कालावच्छिन्नतादात्म्यसम्बन्धेन घटाभावव्यवहारहेतुत्वाभ्युपगमे तदसिद्धेः, अस्तु वा भावत्ववदभावत्वमखण्डोपाधिर्घटादिनिरूपिताभावत्वेन भूतलादेर्ज्ञाने च योग्यानुपलब्धिसहकृतचक्षुरादिप्रतियोगिज्ञानादि च हेतु:, तथाज्ञानाच्च तथाव्यवहारः, इत्थं च विशेषणतादिप्रत्यासत्त्यकल्पनाल्लाघवमपीत्यस्मदेकपरिशीलितः पन्थाः । ततः = प्रत्यक्षतोऽन्यतो वा प्रमाणात्, अपरः = सत्ताद्वैतवादी, व्यभिचार्येव=सन्दिग्धव्यभिचार्येव, विपक्षेऽपि = वस्तुन: एकत्वेऽपि, भावाद् बुद्ध्यादिकार्यनानात्वस्येति योगः । विविधकर्मतेति बहुव्रीह्युत्तरस्तल्, विविधकार्यकारितेत्यर्थः । भाष्ये शक्तिनानात्वं एकस्यापि नर्त्तक्यादिक्षणस्य शक्तिभेदोऽस्ति, कुतः ? प्रसवविशेषात्=नानाबुद्ध्यादिकार्यदर्शनात्, तत्र सत्ताद्वैतवाद्याह - स = प्रसवविशेषो वस्तुनानात्वेन व्यभिचारी चेत्, कुतस्तद्गतिः ? = शक्तिनानात्वसिद्धिस्ततो यत्किञ्चिदेतदित्यर्थः । वृत्तौ, तस्यापि=एकनर्त्तकीक्षणस्यापि, प्रसवविशेषो = बुद्ध्यादिकार्यविशेषोऽव्यभिचारीत्यकार
Page #280
--------------------------------------------------------------------------
________________
२४६
अष्टसहस्रीतात्पर्यविवरणम् अनवस्थाप्रसङ्गात्, नर्तक्यादिक्षणैकशक्तावपि बुद्ध्यादिकार्यनानात्वाच्छक्तिनानात्वप्रसङ्गात् तथा तच्छक्तावपि इति सुदूरमपि गत्वा बुद्ध्यादिप्रसवविशेषसद्भावेऽपि शक्तिनानात्वाभावे कथं नासौ व्यभिचारी स्यात् ? इति कुतो वस्तुनानात्वगतिः ?
[सत्ताद्वैतवादी सर्वं वस्तु एकस्वरूपं साधयितुं यतते तस्य विचार:] (भा०) केवलमविद्या स्वभावदेशकालावस्थाभेदेन आत्मनि परत्र वा सतः स्वयमसती मिथ्याव्यवहारपदवीमुपनयति यतः क्षणभङ्गिनो भिन्नसन्ततयः स्कन्धा विकल्पेरन्नन्यथा वा इति ।
सत्ताद्वैतवादी विशेषानपह्लवीत तद्रूपादिस्कन्धानां द्रव्यादिपदार्थानां वा निरुपाख्याभावानामिव, परमार्थतः क्षणिकत्वाक्षणिकत्वतदुभयानुभयरूपत्वादिविशेषसाधनेऽपि साधनव्यभिचारात्, सोऽपि
(भा०) प्रतिभासकार्याद्यभेदेऽपि कस्यचिदेकत्वं साधयतीति साध्यसाधनयोरभेदे किं केन कृतं स्यात् ? पक्षविपक्षादेरभावात् ।
कस्यचिद्धि सन्मात्रदेहस्य परब्रह्मणस्तद्वादी एकत्वं प्रतिभासनात्तत्कार्यातत्स्वभावाद्वा साधयेदन्यतो वा ? तच्च साधनं साध्यादभिन्नमेव, अन्यथा
अष्टसहस्रीतात्पर्यविवरणम्
प्रश्लेषेण व्याख्येयम् । नर्तक्यादीति कार्यभेदनियतकारणताभेदस्य शक्तिभेदप्रयुक्तत्वाभ्युपगमे समनियतशक्तीनां प्रत्येकमपि बुद्ध्यादिनानाकार्यकारित्वस्य बलादापातादेकैकशक्तावपि शक्त्यन्तरापत्तौ तत्रापि तत्स्वीकारे दुस्तरानवस्थानादिति भावः । वस्तुनानात्वाभावे कुतस्तद्व्यवहार ? इत्यत्राह सत्ताद्वैतवादी-केवलमिति । सत्ताद्वैतवादेऽप्यविद्याकल्पितैर्देशादिभेदैर्वस्तुनानात्वं व्यवह्रियताम्, न तु वास्तवं तत्, अत एव सौगतसाङ्ख्यादिकल्पितस्कन्धपञ्चकपञ्चविंशतितत्त्वादिविकल्पा अपि तत्तत्प्रवचनवासनाजनकाविद्यामूला नाद्वैततत्त्वं बाधन्त इति हृदयम् । साधनव्यभिचाराद् बुद्धिविशेषादेर्वस्तुनः कूटस्थत्वेऽप्यविद्यामहिम्ना सम्भवात् सर्वविशेषसाधनानां सन्दिग्धव्यभिचारित्वादिति भावः । सत्ताद्वैतवादिनं दूषयति भाष्यकृत्-सोऽपि हीत्यादि । एतद्विवृणोति वृत्तिकृत् कस्यचिद्धीत्यादि । अद्वैते साध्यसाधनयोरविशेषान्न कुतश्चित् किञ्चित् सिद्धयेद्, व्यवहाराद्भेदमुपगम्य खण्डप्रतिभासनादिना ब्रह्मैकत्वसाधने च व्यावहारिकमेवैकत्वं
Page #281
--------------------------------------------------------------------------
________________
प्रथमो भाग: [ परि० १ - का० ९]
२४७
द्वैतप्रसङ्गात् । साध्यसाधनयोरभेदे च किमेकत्वं केन प्रतिभासकार्यादिना निर्णीतं स्यात् ? पक्षस्य विपक्षस्य सपक्षस्य चाभावात् । साध्यधर्माधारतया हि प्रसिद्धो धर्मी पक्षः । स च सर्वेषामर्थानां धर्मिणामप्रसिद्धौ ततोऽन्यत्वेन साध्यधर्मस्य चैकत्वस्यासम्भवे कथं प्रसिध्येन्नाम ? विपक्षश्च तद्विरुद्धस्ततोऽन्यो वा नाद्वैतवादिनोऽस्ति । तथा सपक्षश्च साध्यधर्माविनाभूतसाधनप्रदर्शनफलस्तस्य दूरोत्सारित एव । तत्सिद्धौ वा भेदवादप्रसिद्धेः एतेन यदुक्तं, - 'सर्वेऽर्थाः प्रतिभासान्तः प्रविष्टाः प्रतिभाससमानाधिकरणतयाऽवभासमानत्वात् प्रतिभासस्वात्मवदिति ब्रह्माद्वैतस्य साधनं तदपि प्रत्याख्यातम् ।
[सत्ताद्वैतवादी वेदात् एकब्रह्म साधयितुं प्रयतते तस्य विचारः ]
आम्नायात्तत्सिद्धिरित्यप्यसम्भाव्यं तस्यापि साध्यादभेदे साधनत्वायोगात् । ततः साध्यसाधनयोरभेदे किं सत्ताद्वैतं केनानुमानेनागमेन प्रत्यक्षेण वा प्रमाणेन साधितं स्यात् ? पक्षसपक्षविपक्षाणामाम्नायस्येन्द्रियादेश्चानुमानागमप्रत्यक्षज्ञानात्मकप्रमाणकारणस्याभावान्नैवं तत्कृतं स्यात् ।
( भा० ) न क्वचिदसाधना साध्यसिद्धिः, अतिप्रसङ्गात् ।
साधनं हि प्रमाणं साध्यते निश्चीयतेऽनेनेति तद्रहिता न साध्यस्य प्रमेयस्य सिद्धि:, शून्यतादिसिद्धिप्रसङ्गात् । स्वरूपस्य स्वतो गतिरिति तु संविदद्वैतवादि
अष्टसहस्त्रीतात्पर्यविवरणम्
सिद्धयेत्, न तु तात्त्विकं तत्प्रतिबद्धलिङ्गाभावात्, अपेक्षाकल्पितत्वस्य च भेदवदभेदेऽपि व्यावहारिकत्वपर्यवसायकत्वादिति तात्पर्यार्थः । एतेन यदुच्यते ब्रह्मेन्द्रेण अनुभूयमानस्य प्रतिभासस्य प्रागभावप्रध्वंसनानात्वादिकल्पने गौरवाल्लाघवान्नित्यसत्यैकब्रह्मसिद्धिरिति तन्निरस्तम् । प्रमाणं विना लाघवमात्रेणार्थासिद्धेः, अन्यथा सच्चिदानन्दब्रह्मणोऽपि कल्पने गौरवाच्छून्यज्ञानकल्पने लाघवदृष्टिं ददन् माध्यमिक एव विजयेत्, अनुभवश्च प्रतिभासस्य वैलक्षण्य एव साक्षी चित्रज्ञानदृष्टान्तेन नानात्वे चेति नानैकान्तं विहायाद्वैतपक्षः श्रेयान् । ननु एकत्वे तत्त्वमसीत्यादिवेदवाक्यस्य प्रमाणराजस्य सत्त्वात्तत्र लाघवतर्कः सहायो भविष्यति आशङ्कायामाह - आम्नायादित्यादि आम्नायात् = वेदात्, नैतत् तत्कृतं
१. नैव तत्कृतं इति अष्टसहस्रीसम्मतः पाठः ।
Page #282
--------------------------------------------------------------------------
________________
२४८
अष्टसहस्त्रीतात्पर्यविवरणम्
नोऽपि समानम् । किं बहुना ? सर्वस्य स्वेष्टतत्त्वं प्रत्यक्षादिप्रमाणाभावेऽपि व्यवतिष्ठेत, स्वरूपस्य स्वतो गते:, इत्यतिप्रसङ्ग एव, पुरुषाद्वैतवदनेकान्तवादस्यापि सिद्धेः, संविदद्वैतवदनेकसंवेदनस्यापि सिद्धेः, इति न सत्ताद्वैतं निष्पर्यायं शक्यमभ्युपगन्तुम् । विचारयिष्यते चैतत् प्रपञ्चतोऽग्रे, तदलमतिप्रसङ्गेन । ततो भावा एवं नानात्मादय इति भावैकान्तोऽभ्युपगम्यताम् । तत्र च सर्वात्मकत्वादिदोषानुषङ्गः परिहर्तुमशक्यः ॥९॥
सम्प्रति घटादेः शब्दादेश्च प्रागभावप्रध्वंसाभावनिह्नववादिनं प्रति दूषणमुपदर्शयन्तः कारिकामाहुः
कार्यद्रव्यमनादि स्यात्प्रागभावस्य निह्नवे ।
प्रध्वंसस्य च धर्मस्य प्रच्यवेऽनन्ततां व्रजेत् ॥१०॥
[चार्वाकेण प्रागभावस्य निराकरणम् जैनाचार्येण तस्य व्यवस्थापनञ्च]
कार्यस्यात्मलाभात्प्रागभवनं प्रागभावः । स च तस्य प्रागनन्तरपरिणाम एवेत्येके । तेषां तत्पूर्वानादिपरिणामसन्ततौ कार्यसद्भावप्रसङ्गः । तत्रेतरेतराभावरूपस्य तदभावस्योपगमान्नायं दोष इति चेत्, तदनन्तरपरिणामेऽपि तत एव कार्यस्याभावसिद्धेः किमर्थः प्रागभावः परिकल्प्यते ? कार्यस्य प्रागभावाभाव
अष्टसहस्त्रीतात्पर्यविवरणम्
स्यात्=ब्रह्मण एकत्वं निर्णीतं न स्यात् । प्रत्यक्षादिप्रमाणबाधिते ब्रह्मैकत्वे वेदोऽपि न पदमाधत्ते इत्यर्थवादरूपतां कक्षीकुर्वन्लघौ माध्यस्थमेवालम्बत इत्यर्थः । एतेन तत्त्वमस्यादिवाक्यजन्योऽनुभवः शुद्धमखण्डं ब्रह्माऽहमस्मीति प्रत्यक्षस्य क्षणिकत्वेऽपि प्रमाणतापत्तेरिति दिग् । तदेवं वेदान्तिनोऽद्वैतपक्षदूषणेन नानाभावैकान्तं स्वीकारयित्वा तत्रोक्तं दूषण गणमुपसंहरति, ततो भावा एवेत्यादि ||९||
कार्यसद्भावप्रसङ्ग इति कार्यध्वंसतत्प्रागभावानाधारकालस्य कार्यवत्त्वव्याप्यत्वादिति भावः । तत्र= अनन्तरपूर्वक्षणेषु, इतरेतराभावरूपस्य = कार्यभेदरूपस्य, नायं दोष इति इदानीमेतत्क्षण इति प्रतीत्या तत्तत्क्षणस्येव तदभिन्नकार्याणां सौगतनये तादात्म्येनैव कालवृत्तित्वोपगमात्, कार्यभिन्नक्षणे कार्यत्वस्यापादयितुमशक्यत्वादिति भावः। किमर्थमिति अभावव्यवहारस्य भेदत एव सिद्धेरिति भावः । कार्यादिति कार्याव्यवहित
Page #283
--------------------------------------------------------------------------
________________
२४९
प्रथमो भाग: [परि०१-का. १०] स्वभावत्वसिद्ध्यर्थमिति चेत्, कथमेवं कार्यात्पूर्वपर्यायेण रहितेषु तत्पूर्वोत्तराखिलपरिणामेषु कार्यस्वभावत्वं न प्रसज्येत ? प्रागभावाभावस्वभावत्वाविशेषेऽपि कश्चिदेवेष्टः पर्यायः कार्य, न पुनरितरे परिणामा इत्यभिनिवेशमात्रम् । स्यादाकूतंकार्यात्प्रागनन्तरपर्यायस्तस्य प्रागभावः । तस्यैव प्रध्वंसः कार्ये घटादि । न पुनरितरेतराभावो, येन तत्पूर्वोत्तरसकलपर्यायाणां घटत्वं प्रसज्येत । न च तेषां प्रागभावप्रध्वंसरूपतास्ति, तदितरेतराभावरूपतोपगमात् इति, तदेतदपि सुगतमतानुसरणं स्याद्वादवादिनामायातं, स्वमतविरोधात् । प्रागभावो ह्यनादिरिति तन्मतम् । तच्च घटस्य पूर्वानन्तरपर्यायमात्रप्रागभावस्योपगमे विरुध्यते । द्रव्यार्थादेशादनादिः प्रागभावोऽभिमत इति चेत्, किमिदानीं मृदादिद्रव्यं प्रागभावः ? तथोपगमे कथं प्रागभावाभावस्वभावता घटस्य घटेत ? द्रव्यस्याभावासम्भवात् । तत एव न जातुचिद् घटस्योत्पत्तिः स्यात् । यदि पुनः पूर्वपर्यायाः सर्वेऽप्यनादिसन्ततयो घटस्य प्रागभावोऽनादिरिति मतं तदापि प्रागनन्तरपर्यायनिवृत्ताविव तत्पूर्वपर्यायनिवृत्तावपि घटस्योत्पत्तिप्रसङ्गः । तथा सति घटस्यानादित्वं पूर्वपर्यायनिवृत्तिसन्ततेरप्यना
- अष्टसहस्त्रीतात्पर्यविवरणम्
पूर्वक्षणभिन्नेष्वित्यर्थः । कार्यप्रागभावाभावत्वमानं न कार्यस्वभावत्वव्याप्यं किन्तु प्रागभावध्वंसत्वं, ध्वंसोऽपि चाव्यवहितोत्तरक्षण एव, अग्रिमक्षणेषु घटादिव्यवहारश्च सदृशकार्योत्पत्तिदोषादिति न कोऽपि दोष इत्याशयवान् शङ्कते-स्यादाकूतमिति अस्मिन्नभ्युपगमे जैन्याः प्रक्रियाया विरोध: स्यादिति दूषणमाह-तदेतदपीत्यादि । द्रव्यार्थादेशादिति सौगतैश्च पर्यायार्थमात्रादेशः स्वीक्रियत इति न तत्प्रक्रियानुसरणेनोभयनयवादिनो जैनस्य सिद्धान्तव्याकोप इति भावः । प्रागभावाभावस्वभावता घटप्रागभावध्वंसरूपता, 'तद्रव्यस्य= मृद्रव्यस्य, अभावासम्भवात् घटोत्पत्तिकाले ध्वंसासम्भवात्, तत एव घटस्य मृद्द्रव्यरूपघटप्रागभावध्वंसत्वाभावादेव । न जातुचिदिति घटोत्पत्तेर्घटप्रागभावध्वंसोत्पत्तिनियतत्वादिति भावः । यदि पुनरिति क्लुप्तेषु पूर्वपर्यायेषु घटप्रागभावत्वमात्रकल्पने लाघवात्तद्व्यक्तित्वादिना तेषां सादित्वेऽपि घटप्रागभावत्वेनानादित्वेऽपि विरोधाभावाच्चेति भावः । तदापीति न च घटप्रागभावत्वावच्छिन्नप्रतियोगिताकध्वंसस्य घटोत्पत्तिव्याप्यत्वान्नायं दोष इति शनीयम्, ध्वंसस्य सामान्यावच्छिन्नप्रतियोगिताकत्वे मानाभावात्, एकघटवति घटान्तरप्रागभावसत्त्वेन तदसम्भवाच्च । एतेन यावद्घटप्रागभावध्वंसवत्त्वं
१. द्रव्यस्य इति अष्टसहस्रीसम्मतः पाठः ।
Page #284
--------------------------------------------------------------------------
________________
२५०
अष्टसहस्त्रीतात्पर्यविवरणम् दित्वात् । ननु च न प्रागनन्तरपर्यायः प्रागभावो घटस्य, नापि मृदादिद्रव्यमानं, न च तत्पूर्वसकलपर्यायसन्ततिः । किं तर्हि ? द्रव्यपर्यायात्मा प्रागभावः । स च स्यादनादिः स्यात्सादिरिति स्याद्वादिदर्शनं निराकुलमेवेति चेत्, न ।
[नैयायिको जैनाभिमतप्रागभावं निरस्य स्वस्य नि:स्वभावरूपं प्रागभावं समर्थयति]
एवमप्युभयपक्षोपक्षिप्तदोषानुषङ्गात् । द्रव्यरूपतया तावदनादित्वे प्रागभावस्यानन्तत्वप्रसक्तेः सर्वदा कार्यानुत्पत्तिः स्यात् । पर्यायरूपतया च सादित्वे प्रागभावात्पूर्वमप्युत्पत्तिः पश्चादिव कथं निवार्येत ? न च गत्यन्तरमस्ति । ततो न भावस्वभावः प्रागभावः, तस्य भावविलक्षणत्वात्पदार्थविशेषणत्वसिद्धेः ।
[चार्वाको नैयायिकाभिमतं प्रागभावं खण्डयति] इत्यन्ये तेऽपि न समीचीनवाचः, सर्वथा भावविलक्षणस्याभावस्य ग्राहकप्रमाणाभावात् । 'स्वोत्पत्तेः प्राङ् नासीद् घट इति प्रत्ययोऽसद्विषयः, सत्प्रत्यय
अष्टसहस्रीतात्पर्यविवरणम् । घटोत्पत्तिव्याप्यमित्यपि निरस्तम्, असम्भवात् । न च यावत्तद्घटप्रागभावध्वंसवत्त्वं तद्घटोत्पत्तिव्याप्यमित्यपि वक्तुं युक्तम्, गौरवात्, क्षणविशेषे व्याप्तिविश्रामाच्च । द्रव्यपर्यायात्मेति प्राक्तनपर्यायेषु मृद्रव्ये च घटप्रागभावत्वं व्यासज्यवृत्तीत्यर्थः । प्रत्येकावृत्तेः समुदायावृत्तित्वनियमात् प्रागभावत्वस्य प्रत्येकवृत्तित्वध्रौव्ये तदादाय दूषणमाह नैवमप्युभयेत्यादि । न च पर्याप्तिसम्बन्धावच्छिन्नावच्छेदकताकतद्घटप्रागभावत्वावच्छिन्नप्रतियोगिताकतद्घटप्रागभावाभावस्य तद्घटोत्पत्तिव्याप्यत्वान्नायं दोष इति वाच्यम् एवं सति घटप्रागभावत्ववत् घटत्वघटध्वंसत्वादेरपि द्रव्यपर्यायोभयपर्याप्तत्वापत्तेरतीन्द्रियवृत्तित्वेनाप्रत्यक्षत्वापत्तेश्च । एतेन विशिष्टद्रव्यप्रागभाववादोऽपि निरस्तः, विशेषणाननुगमेनानुगतव्यवहारासम्भवाच्च । तदिदमाह-न च गत्यन्तरमस्तीति । उपसंहरति-ततो नेति, ततो द्रव्यपर्यायात्मत्वाभावान्न भावस्वभावः प्रागभावः । हेत्वन्तरमाह-भावविलक्षणत्वादिति भाववैधादित्यर्थः । तत्र हेतुमाह-'भावविशेषणत्वसिद्धेरिति नियमतो भावविशेषणतया प्रतीयमानत्वादित्यर्थः । अन्ये नैयायिका एवं ब्रुवते, तान् दूषयतितेऽपीति । प्राग नासीद् घट इति प्रागभावप्रतियोगित्वप्रकारकघटविशेष्यकप्रत्यक्षमित्यर्थः । एतेन प्रागभावप्रतियोगिनोऽनागतस्य भानार्थं सामान्यलक्षणप्रत्यासत्तिकल्पनं
१. पदार्थविशेषण, इति अष्टसहस्रीसम्मतः पाठः ।
Page #285
--------------------------------------------------------------------------
________________
२५१
प्रथमो भागः [परि०१-का. १०] विलक्षणत्वात् । यस्तु सद्विषयः, स न सत्यप्रत्ययविलक्षणो, यथा सद्रव्यमित्यादिप्रत्ययः, सत्प्रत्ययविलक्षणश्चायं, तस्मादसद्विषयः इत्यनुमानं प्रागभावस्य ग्राहकमिति चेत्, न प्रागभावादौ नास्ति प्रध्वंसाभावादिरिति प्रत्ययेन व्यभिचारात् । तस्याप्यसद्विषयत्वान्न दोष इति चेत्, न अभावानवस्थाप्रसङ्गात् । स्यान्मतं-भावे भूभागादौ नास्ति कुम्भादिरिति प्रत्ययो मुख्याभावविषयः प्रागभावादौ नास्ति प्रध्वंसादिरित्युपचरिताभावविषयः ततो नाभावानवस्थेति, तदप्ययुक्तं, परमार्थतः
अष्टसहस्त्रीतात्पर्यविवरणम्
प्राचां नैयायिकानाम् अपास्तम् । घटविशेष्यकप्रागभावप्रतियोगिकत्वप्रकारकप्रत्यक्षोपगमे दोषाभावात्, विद्यु दादाविवात्र विनश्यदवस्थविषयक प्रत्यक्षस्य सविकल्पकस्य निर्विकल्पकक्रमेण सामग्रीविशेषादेवमेव वा स्वीकर्तुं शक्यत्वात्, प्रतियोगित्वस्यापि प्रतियोगिस्वरूपस्य योग्यत्वादुत्पत्तिक्षणस्य तथाभिव्यञ्जकत्वेनानतिप्रसङ्गाच्च । यैरपि चरमकारणसामग्रीव्यङ्ग्यत्वं प्रागभावस्य प्रतिपाद्यते, तैरपि यादृशकारणकलापानन्तरं कार्योत्पादो दृष्टस्तादृशबुद्धेरेव व्यञ्जकत्वमुपेयम् उक्तसामग्र्याः स्वरूपसत्याः स्वरूपेण ज्ञाताया वा व्यञ्जकत्वेऽतिप्रसङ्गाद्, व्याप्यत्वेन ज्ञातायास्तत्त्वोक्तौ प्रागभावानुमितेरेवोपपत्तेः तत्प्रत्यक्षानवकाशात्, तद्वरमुत्पत्तिक्षणस्यैव प्रागभावप्रतियोगित्वेन घटप्रत्यक्षजनकत्वं कल्पनीयमिति । विषयसन्निकर्षादेः कार्यसहभावेन हेतत्वे चरमसामग्रीकाल एव प्रागभावप्रत्यक्षोपगमे तु प्राग् नासीद् घट इति कथमप्युपपादयितुमशक्यम् । तदा घटप्रागभाव आसीदित्यर्थस्याप्यनुपपत्तेः, तदा भविष्यतीत्याकारप्रत्यक्षं च शिरोमणिनैव दूषितम्-भविष्यत्वं हि न वर्तमानप्रागभावप्रतियोगित्वम्, श्वो भाविन्यद्य भविष्यतीतिप्रत्ययप्रसङ्गात् । किन्तूत्पस्यते भविष्यतीत्यादेः समानार्थकत्वात् वर्तमानप्रागभावप्रतियोग्युत्पत्तिकत्वं वर्तमानकालोत्तरकालोत्पत्तिकत्वं वा, न चेदमध्यक्षमुत्पत्तेरतीन्द्रियत्वादिना [ ]। इत्यनुमानमिति । यद्यपि प्रागभावग्राहकं प्राग् नासीद् घट इति प्रत्यक्षमेव पक्षीकृतमुपपद्यते तथापि तस्य भावाभावविषयत्वसंशये उक्तानुमानाश्रयणमिति तात्पर्यम् । चरमसामग्र्या हेतुना प्रागभावोऽनुमीयत एवेति केचित्, तदसत्, अनुयोगिताविशेषरूपप्रागभावत्वादेः क्वचिदप्रतीतौ ताद्रूप्येणानुमानासम्भवादिति दीधितिकारः । प्राग् नासीदिति प्रत्यक्षमुत्पद्यमानघटाकारपरिणतमृद्रव्यविषयमेव, प्रागभावादेरभावस्याधिकरणस्वरूपस्यैव स्वीकारान्नास्तीतिप्रत्ययबलेनातिरिक्ताभावस्वीकारेऽभावेऽप्यभावान्तरापत्तावनिष्टप्रसङ्गादित्याशयवानाह-इति चेत् नेत्यादि । उपचरिताभावविषय इति अभावप्रतियोगिकाभावाधि
Page #286
--------------------------------------------------------------------------
________________
२५२
अष्टसहस्त्रीतात्पर्यविवरणम् प्रागभावादीनां साङ्कर्यप्रसङ्गात् । न ह्युपचरितेनाभावेन परस्परमभावानां व्यतिरेकः सिद्ध्येत्, सर्वत्र मुख्याभावपरिकल्पनानर्थक्यप्रसङ्गात् । यदप्युक्तं न भावस्वभावः प्रागभावादिः, सर्वदा भावविशेषणत्वादिति, तदपि न सम्यगनुमानं, हेतोः पक्षाव्यापकत्वात्, न प्रागभावः प्रध्वंसादावित्यादेरभावविशेषणस्याप्यभावस्य प्रसिद्धेः, गुणादिना व्यभिचाराच्च, तस्य सर्वदा भावविशेषणत्वेऽपि भावस्वभावत्वात् । रूपं पश्यामीत्यादिव्यवहारेण गुणस्य स्वतन्त्रस्यापि प्रतीतेर्न सर्वदा भावविशेणत्वमस्येति चेत्, तर्ह्यभावस्तत्त्वमित्यभावस्यापि स्वतन्त्रत्वप्रतीतेः शश्वद्भावविशेषणत्वं मा सिधत् । सामर्थ्यात्तद्विशेषस्य द्रव्यादेः संप्रत्ययात्सदा भावविशेषणमेवाभाव इति चेत्, तथैव गुणादिः सन्ततं भावविशेषणमस्तु, तद्विशेष्यस्य द्रव्यस्य सामर्थ्याद् गम्यमानत्वात् ।
किञ्च प्रागभावः सादिः सान्तः परिकल्प्यते सादिरनन्तो वानादिरनन्तो वानादिः सान्तो वा ? प्रथमे विकल्पे प्रागभावात्पूर्वं घटस्योपलब्धिप्रसङ्गः, तद्विरोधिनः प्रागभावस्याभावात् । द्वितीये प्रागभावकाले घटस्यानुपलब्धिप्रसक्तिः, तस्यानन्तत्वात् । तृतीये तु सदानुपलब्धिः । चतुर्थे पुनर्घटोत्पत्तौ प्रागभावस्याभावे घटोपलब्धिवदशेषकार्योपलब्धिः स्यात्, सर्वकार्याणामुत्पत्स्यमानानां प्रागभावस्यैकत्वात् । यावन्ति कार्याणि तावन्तस्तत्प्रागभावाः । तत्रैकस्य प्रागभावस्य विनाशेऽपि शेषोत्पत्स्यमानकार्यप्रागभावानामविनाशान्न घटोपलब्धौ सर्वकार्योप
अष्टसहस्त्रीतात्पर्यविवरणम्
करणकाभावस्याधिकरणानतिरेकादित्यर्थः । न ह्युपचरितेनाभावेनेत्यादि त्वन्मत इति शेषः । अस्मन्मते त्वधिकरणात्मकाभावेनैव सर्वत्रोपपत्तेर्नानाधिकरणस्वरूपत्वेऽपि गौरवाभावादतिरिक्ताभावकल्पनानर्थक्यमिष्टमेव, त्वया नानाधिरणेष्वभावस्य तादात्म्यातिरिक्तः सम्बन्धः कल्पनीयः, मया तु तादात्म्यमिति तवैव गौरवात् । हेत्वन्तरबीजमुपन्यस्य दूषयति-यदप्युक्तमित्यादिना । सामर्थ्यादिति अभिलापाभावेऽपि विशिष्टज्ञानसामग्रीबललभ्यत्वादित्यर्थः । एतद् गुणादावपि तुल्यमित्याह - तद्विशेष्यस्येति सविकल्पकनिर्विकल्पकत्वानेकान्तस्तु भावित एव प्राक् । अतिरिक्तोऽपि प्रागभावो लाघवादेक एव कल्पनीयः प्रतियोगिभेदेनाभावभेदे मानाभावादिति पक्षं परिगृह्य तस्यानादिसान्तत्वं दूषयितुमुपक्रमतेकिञ्च प्रागभाव इत्यादिना । अनन्ताः प्रागभावा इति पक्षमुपन्यस्य दूषयति- यावन्तीत्यादि । स्वतन्त्राः = अन्यानाश्रिताः, भावतन्त्राः = भावाश्रिताः, कालादिवदिति
Page #287
--------------------------------------------------------------------------
________________
२५३
प्रथमो भाग: [परि. १-का. १०] लब्धिरिति चेत्, तर्खनन्ताः प्रागभावास्ते स्वतन्त्रा भावतन्त्रा वा ? स्वतन्त्राश्चेत्कथं न भावस्वभावाः कालादिवत् ? भावतन्त्राश्चेत्किमुत्पन्नभावतन्त्रा उत्पत्स्यमानभावतन्त्रा वा ? न तावदादिविकल्पः, समुत्पन्नभावकाले तत्प्रागभावविनाशात् । द्वितीयविकल्पोऽपि न श्रेयान्, प्रागभावकाले स्वयमसतामुत्पत्स्यमानभावानां तदाश्रयत्वायोगात्, अन्यथा प्रध्वंसाभावस्यापि प्रध्वस्तपदार्थाश्रयत्वापत्तेः । न चानुत्पन्नः प्रध्वस्तो वार्थः कस्यचिदाश्रयो नाम, अतिप्रसङ्गात् । यदि पुनरेक एव प्रागभावो विशेषणभेदाद्भिन्न उपचर्यते घटस्य प्रागभावः पटादेर्वेति । तथोत्पन्नपदार्थविशेषणतया तस्य विनाशेऽप्युत्पत्स्यमानार्थविशेषणत्वेनाविनाशान्नित्यत्वमपीति मतं, तदा प्रागभावादिचतुष्टयकल्पनापि मा भूत्, सर्वत्रैकस्यैवाभावस्य विशेषणभेदात्तथा भेदव्यवहारोपपत्तेः । कार्यस्यैव पूर्वेण कालेन विशिष्टोऽर्थः प्रागभावः, परेण विशिष्टः प्रध्वंसाभावः, नानार्थविशिष्टः स एव चेतरेतराभावः, कालत्रयेऽप्यत्यन्तनानास्वभावभावविशेषणोऽत्यन्ताभावः स्यात्, प्रत्ययभेदस्यापि तथोपपत्तेः सत्तैकत्वेऽपि द्रव्यादिविशेषणभेदाढ़ेदव्यवहारवत् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
कालाकाशदिगादीनां हि स्वन्त्राणां भावत्वं तद्वत् स्वतन्त्रत्वे प्रागभावस्य भावत्वं स्यादिति भावः । न चानुत्पन्न इत्यादि अत्रेदं चिन्त्यम्-अनुत्पन्नः प्रध्वस्तो वा प्रागभावस्य ध्वंसस्य च नाश्रयोऽभ्युपगम्यते, किन्तु प्रतियोग्यवेत्यनभ्युपगतोपालम्भोऽयम्, प्रतियोगित्वं च तयोः स्वरूपसम्बन्धविशेषरूपं ज्ञानविषयतावदेवोपपद्यत इति । यदि पुनरेक एवेति देशकालयोर्विशेष्यहेतुत्वेनानतिप्रसङ्गात् तत्कार्यनियमाय तत्तत्प्रागभावो न कल्पनीयः, किन्तु व्यवहारार्थम्, स चैकत्वेऽपि विशेषणभेदाद्भिन्नत्वोपचारेण निर्वहतीत्यर्थः । कार्यस्यैवेति पूर्वकालावच्छिन्नप्रतियोगितया घटविशिष्टोऽभावो घटप्रागभावः १ । उत्तरकालावच्छिन्नप्रतियोगितया तादृशः स घटध्वंसः २ । तादात्म्यावच्छिन्नप्रतियोगितया तादृशः स इतरेतराभावः ३ । तादात्म्येतरसंसर्गावच्छिन्नप्रतियोगितया तादृशः सोऽत्यन्ताभाव इत्यर्थः ४ । प्रत्ययभेदस्यापि तथोपपत्तेरिति न च एवं स्नेहप्रतियोगिकाभावस्यैव गन्धप्रतियोगिकत्वात् पृथिव्यां न स्नेह इतिवन्न गन्ध इति व्यवहारापत्तिरिति वाच्यम्, विशिष्टाधारताभेदस्वीकारेणोपपत्तेः, तत्र स्नेहप्रतियोगिकत्वविशिष्टाभावत्वावच्छिन्नाधारतासत्त्वेऽपि गन्धप्रतियोगिकत्वविशिष्टाभावत्वावच्छिन्नाधारताभावात्, समवायैकत्ववादेऽपि रूपवन्नीरूपत्वादिविविक्तव्यवहारस्येत्थमेवोपपत्तेः । सत्तैकत्वप्रतिबन्धा अभावैकत्वं सिद्ध्यतीति
Page #288
--------------------------------------------------------------------------
________________
२५४
अष्टसहस्त्रीतात्पर्यविवरणम् यथैव हि सत्प्रत्ययाविशेषाद्विशेषलिङ्गाभावादे कत्वं सत्तायामिष्टं भवद्भिस्तथैवासत्प्रत्ययाविशेषाद्विशेषलिङ्गाभावादसत्तायामप्येकत्वमस्तु ।
अथ प्राङ् नासीदित्यादिप्रत्ययविशेषादसत्ता चतुर्भेदेष्यते तर्हि प्रागासीत्पश्चाद्भविष्यति सम्प्रत्यस्तीति कालभेदेन, पाटलीपुत्रेऽस्ति चित्रकूटेऽस्तीति देशभेदेन, घटोऽस्ति पटोऽस्तीति द्रव्यभेदेन, रूपमस्ति रसोऽस्तीति गुणभेदेन, प्रसारणमस्ति गमनमस्तीति कर्मभेदेन च प्रत्ययविशेषसद्भावात् प्राक्सत्तादयः सत्ताभेदाः किमु नेष्यन्ते ? अथ प्रत्ययविशेषात्तद्विशेषणान्येव भिद्यन्ते, तस्य तन्निमित्तकत्वात्, न तु सत्ता, ततः सैकैवेति मतं तर्हि तत एवाभावभेदोऽपि मा भूत्, सर्वथा विशेषाभावात् । न चैकोऽप्यभावः क्षित्यादिविवर्त्तघटशब्दादिव्यतिरेकेण प्रत्यक्षतः प्रतिभासते । केवलं गतानुगतिकतया लोकः पृथिव्यादिभूतचतुष्टयविषयमेव प्रागभावादिविकल्पमात्रवशात्प्रागभावादिव्यवहारं प्रवर्तयति द्रव्यादिविकल्पमात्राद द्रव्यादिव्यवहारवत, प्रमाणादिप्रकत्यादिरूपस्कन्धादिविकल्पमात्रात्तद्व्यवहारवच्च । ततो न प्रागभावः कश्चिदिह प्रतीयते प्रध्वंसाभावादिवत् ।
[अधुना जैनाचार्यः प्रागभावस्य निह्नवे हानि प्रदर्श्य नयप्रमाणाभ्यां तं साधयति]
इति प्रागभावादिनिह्नवं कृत्वा पृथिव्यादिकार्यद्रव्यमभ्युपगच्छंश्चार्वाकोऽने नोपालभ्यते, न पुनः साङ्ख्योऽन्यो वा, तस्य कार्यद्रव्यानभ्युपगमात्, तिरोभावा
- अष्टसहस्त्रीतात्पर्यविवरणम्
दृष्टान्तद्वारेणाह-सत्तैकत्वेऽपीत्यादिना । न तु सत्तेति विशेषणभेदेन विशिष्टसत्ताभेदात्तदाधारताभेदाद्वा प्रतिनियतभेदव्यवहारोपपत्तेरित्यर्थः । इयमेव रीतिरभावेऽप्यनुसर्त्तव्येत्याहतर्हि तत एवेति । अस्त्वेवमेक एवाभावस्तत्राह-न चैकोप्यभाव इत्यादि । द्रव्यादीत्यादि यथा वैशेषिको लोको द्रव्यादिषट्पदार्थविकल्पमात्राद् ऽद्रव्यादिव्यवहारं प्रवर्त्तयति, यथा वा प्रमाणादिषोडशपदार्थवादी नैयायिकः, प्रकृतिमहदादिपञ्चविंशतिपदार्थवादी साङ्ख्यः, रूपादिस्कन्धपञ्चकवादी सौगतश्च तत्तद्विकल्पात्तत्तद्व्यवहारं प्रवर्त्तयति, तथा गतानुगतिको लोको विषयनिरपेक्षमेव विकल्पमात्रात् प्रागभावादिव्यवहारमित्यर्थः । ततो नेत्यादि प्रमाणेन न प्रतीयत इत्यर्थः । असत्ख्यात्या प्रतीयमानस्त्वयं शशविषाणवान्ध्येयसौभ्रात्रपात्रतामनुभवतीति हृदयम् । न पुनः साङ्ख्योऽन्यो वेति साङ्ख्यः कापिलो, यौगादिरन्यः । साङ्ख्यस्यानुपालम्भपात्रत्वे हेतुमाह -तस्येति । उपचरितकार्यद्रव्याभ्युपगम
Page #289
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि० १ - का० १० ]
२५५
विर्भावत्पपरिणामोपगमेऽपि भावस्वभावप्रागभावाद्यभ्युपगमस्यापि सद्भावात् । तत्र प्रागभावस्य प्रसिद्धस्याप्यपलपनं निह्नवः । तस्मिन्क्रियमाणे कार्यद्रव्यं पृथिव्यादिकमनादि स्यात् । प्रध्वंसस्य च धर्मस्य स्वभावस्य प्रच्यवोऽपलापः, तस्मिन्विधीयमाने तदनन्ततां व्रजेत् । न चानाद्यनन्तं पृथिव्यादिकं प्रागभावाद्यपह्नववादिनाभ्युपगन्तुं शक्यते, स्वमतविरोधाल्लौकायतिकत्वहानिप्रसङ्गात् । कथं पुनः प्रागभावः प्रसिद्धः, तस्योक्तदूषणविषयतया व्यवस्थित्यभावादिति चेत्, न स्याद्वादिभिरभीष्टे प्रागभावे यथोक्तदूषणानवकाशात्, नैयायिकादिभिरभिमतस्य तु तस्य तैरपि निराकरणात् । ऋजुसूत्रनयार्पणाद्धि प्रागभावस्तावत्कार्यस्योपादानपरिणाम
अष्टसहस्त्रीतात्पर्यविवरणम्
मधिकृत्याह-तिरोभावेत्यादि । भावस्वभावेत्यादि तथा च न साङ्ख्यस्य सर्वथा प्रागभावापह्नवोऽसत्ख्यातिविषयतोपगमस्यैव तदर्थत्वादिति भावः । अन्यस्य योगादेरनुपालम्भपात्रत्वे तु व्यक्त्या प्रागभावस्वीकार एव हेतुर्द्रष्टव्यः ।
॥ प्रागभावानतिरिक्ततावादः ॥
तैरपीति=स्याद्वादिभिरपीत्यर्थः । अपिना नैयायिकैकदेशिभिरपि तन्निराकरणं सूच्यते । तथा च दीधितिकृन्मतानुसारिणः- ननु प्रागभावे किं मानं ? न तावत् प्रत्यक्षम्, असिद्धेः, घटो भविष्यतीत्यादिप्रत्ययस्य वर्त्तमाकालानन्तरकालोत्पत्तिकत्वविषयत्वात् । नाप्यनुमानम् अप्रयोजकत्वात् । न च घटादिकार्यधारावारणाय प्रागभावसिद्धिः, कार्यद्रव्यत्वावच्छिन्ने समवायेन द्रव्यत्वावच्छिन्नाभावस्य हेतुत्वेनैव तद्वारणात् । नच अव्याप्यवृत्तेः कार्यस्य द्वितीयक्षणे उत्पत्त्यापत्तिः, समानावच्छेदकतया तत्र तदभावस्य हेतुत्वात् । न च संयोगादेः प्रदेशनियमः स्वभावाधीनात्तत्प्रागभावप्रादेशिकत्वादिति प्रागभावसिद्धिः तत्तद्देशादिहेतुत्वेनैव तन्नियमात् । न च तथापि निर्विकल्पकस्य चतुर्थक्षणे उत्पत्तिवारणाय तत्रोत्तरज्ञानाभावस्य कारणत्वं वक्तव्यम्, तथा च लाघवात्प्रागभावस्य तत्त्वमुचितमिति वाच्यम्, तन्निर्विकल्पककालोत्पत्तिकध्वंसव्यक्त्यादेरेव तत्र प्रतिबन्धकत्वादखण्डतदभावस्य च तद्धेतुत्वाद्, वस्तुतो निर्विकल्पकत्वस्य कार्यतानवच्छेदकत्वात्तादृशप्रत्यक्षसामग्रीसत्त्वे तादृशप्रत्यक्षोत्पादनियमान्निर्विकल्पकापत्तिरेव दुर्घटा, सामग्रयाः कार्यतावच्छेदकावच्छिन्नव्याप्यताया एव स्वीकारात् । अथ तथापि शततन्तुषु भाविनः पटस्य द्विचतुरादितन्तुषु संयुक्तेषूत्पत्तिः स्यात्, सामग्रीसत्त्वात् न च प्रागभावस्यापि सत्त्वात्तवापि तदनुत्पतिः दुर्घटा, तत्पटप्रागभावव्याप्ययावत्संयोगत्वेन हेतुत्वादिति चेत्, न,
Page #290
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम्
२५६
एव पूर्वोऽनन्तरात्मा । न च तस्मिन् पूर्वानादिपरिणामसन्ततौ कार्यसद्भावप्रसङ्गः,
अष्टसहस्त्रीतात्पर्यविवरणम्
कतिपयसंयोगेष्वतीतेष्वनागतेषु वा तत्पटानुत्पत्तिप्रसङ्गात्तत्पटव्याप्ययावत्संयोगत्वेनैव हेतुत्वसम्भवाच्च । वस्तुतः सामग्र्याः कार्यतावच्छेदकावच्छिन्नोत्पत्तिव्याप्यताया एवोपगमात्तदा द्विचतुरादितन्तुकपटस्यैवोत्पत्तेः शततन्तुकपटस्यापादकाभावो, व्यक्तिस्थानीयापत्तिविरहात् । तर्हि तत्पटत्वावच्छिन्ने किं नियामकम् ? (शं०) सामान्यतः क्लृप्तकारणताकतत्तत्तन्तुतत्तत्संयोगादितादृशनियामकत्वमेव हेतुत्वमिति चेत्, ( उ०) तर्हि प्रागभावस्वीकारेऽपि तत्त्वं दुर्वारम् । (शं०) तद्रूपेण तदान्यथासिद्धत्वमिति चेत्, ( उ०) तदेति विफलम् । (शं०) तर्हि जन्यसत्त्वेन सत्त्वेन हेतुहेतुमद्भावेनैव निर्वाहोऽस्त्विति चेत्, ( उ०) न तन्तुत्वादिना कारणत्वबुद्धिव्यपदेशयोरप्रामाण्यापत्तेश्च । (प्र०) किमाकस्मिकत्वं ? ( उ० ) तदवच्छिन्नसामग्र्यनिश्चये एतावत्सत्त्वेऽवश्यं पटोत्पत्तिरित्यनिश्चयः । इत्थं च प्रवृत्तिरपि दुर्घटा तादृशनिश्चय एव कृतिसाध्यताधीसम्भवात्, तत्पटत्वावच्छिन्नस्याकस्मिकत्वं त्विष्टम्, तद्धर्मावच्छिन्नसामग्रीसत्त्वेऽपि तथानिश्चयायोगात् तद्धर्मावच्छिन्ने प्रवृत्त्यभावाच्च । किञ्च विशेषान्वयव्यतिरेकाभ्यां सामान्यव्यभिचारानिर्णयानुगतागुरुविशेषान्तरानुपस्थितिलाघवादिप्रतिसन्धानवशात् सामान्यत एव हेतुहेतुमद्भावग्रहात् ग्राहकाभावादेव न विशेषकार्यकारणभावसिद्धिः । व्यक्तिस्थानीयापत्तिसत्त्वेऽपि च तदा शततन्तुकानुत्पत्तिर्विशिष्टचरमसंयोगहेतुत्वादेवोपपद्यते । अथ कालनियमश्चरमसंयोगहेतुत्वात्तथापि देशनियमाय प्रागभावसिद्धिः, शतस्य तन्तूनां तत्तत्तसंयोगानां च विशिष्य तद्धेतुत्वे गौरवाद् व्यभिचाराच्च तत्प्रागभावस्यैव लाघवात्तत्पट– हेतुत्वात् । किञ्च यत्र शततन्तुकपटस्य मध्येऽवयवसंयोगनाशात्पञ्चाशत्तन्तुकपटद्वयोत्पत्तिस्तत्र तयोः कालनियमस्य शततन्तुकनाशहेतुत्वेनैव सिद्धौ देशनियमाय प्रागभावसिद्धिरिति चेत्, न, तत्र चरमसंयोगशततन्तुकनाशयोः स्वसमानाधिकरणान्यतमत्वविशेषसंसर्गेण हेतुत्वादेव देशनियमस्यापि सम्भवात् । न च यत्र युगपदुत्पन्नैः शततन्तुसंयोगैः पट आरभ्य चरमसंयोगानामपि तत्तत्त्वेन हेतुत्वे गौरवात् प्रागभावसिद्धिः, तत्रापि तावत्संयोगमात्रवृत्तिजात्या द्रव्यारम्भकतावच्छेदकजात्यैव वा तत्कालावच्छिन्नान्यतमत्वसंसर्गेण हेतुत्वात् । न च बुद्धिविशेषेण विनिगमकाभावः, तस्य प्रत्यक्षशब्दादिरूपतया निर्णयाभावान्निश्चिताव्यभिचारकस्य संयोगस्यैव हेतुत्वात् । स्यादेतद्- व्यक्तिस्थानीयापत्तिसत्त्वे बहूनां तन्तूनां युगपदुत्पन्नानन्तसंयोगादुत्पन्नपटस्य नानासंयोगनाशान्नश्यतः पुनस्तेषामेव तन्तूनां संयोगान्तरात्पटान्तरोत्पत्तिकाले उत्पत्तिवारणाय प्रागभावसिद्धिः, उत्तरपटस्तु प्राग् नोत्पद्यते पूर्वपटध्वंसस्यापि तद्धेतुत्वात् । न च प्राक्तनपटे बहुत्वविशेषस्य हेतुत्वात् न दोषो, नव्यनये
Page #291
--------------------------------------------------------------------------
________________
प्रथमो भाग: [ परि० १ - का० १० ]
२५७
प्रागभावविनाशस्य कार्यरूपतोपगमात्, 'कार्योत्पादः क्षयो हेतो:' इति वक्ष्यमाणत्वात्। प्रागभावतत्प्रागभावादेस्तु पूर्वपूर्वपरिणामस्य सन्तत्यानादेर्विवक्षिताकार्यरूपत्वाभावात् । न च तत्रास्येतरेतराभावः परिकल्प्यते, येन तत्पक्षोपक्षिप्तदूषणावतारः स्यात् । नाप्येवं प्रागभावस्यानादित्वविरोधः, प्रागभावतत्प्रागाभावादेः प्रागभावसन्तानस्यानादित्वोपगमात् । न चात्र सन्तानिभ्यस्तत्त्वान्यत्वपक्षयोः सन्तानो दूषणार्हः, पूर्वपूर्वप्रागभावात्मकभावक्षणानामेवापरामृष्टभेदानां सन्तानत्वाभिप्रायात् । सन्तानिक्षणापेक्षया तु प्रागभावस्यानादित्वाभावेऽपि न दोष:, तथा ऋजुसूत्रनयस्येष्टत्वात् । तथास्मिन्पक्षे पूर्वपर्यायाः सर्वेऽप्यनादिसन्ततयो घटस्य प्रागभाव इति वचनेऽपि न प्रागनन्तरपर्यायनिवृत्ताविव तत्पूर्वपर्यायनिवृत्तावपि घटस्योत्पत्तिप्रसङ्गो, येन तस्यानादित्वं पूर्वपर्यायनिवृत्तिसन्ततेरप्यनादित्वादापाद्यते, घटात्पूर्वक्षणानामशेषाणामपि तत्प्रागभावरूपाणामभावे घटोत्पत्त्यभ्युपगमात् प्रागनन्तरक्षणानिवृत्तौ
अष्टसहस्त्रीतात्पर्यविवरणम्
तद्बहुत्वस्याग्रेऽपि सत्त्वादीदृशानन्तप्राक्तनपटयेत्पत्तिवारणाय कार्यत्वावच्छिन्ने प्रागभावत्वेन हेतुत्वस्यैकस्यैवोचितत्वात्, आकाशाद्युदासीनमादाय बहुत्वस्य हेतुतापत्तेश्चेति चेत्, न, ईश्वरीयोपादानप्रत्यक्षादेस्तत्कालावच्छिन्नतद्घटावच्छिन्नविशेष्यतया हेतुत्वेऽनुपपत्त्यभावात् । वस्तुतः तत्कालावच्छिन्नतत्तत्पटहेतुतत्तत्संयोगाभावकूटात्यन्ताभाव एक एव कालदेशनियामक इति नूतनः पन्था इति दिग् । अत्र तत्कालावच्छिन्नतद्देशस्वरूपायास्तथाभव्यताया एव तत्कार्यदेशकालनियामकत्वम्, न च विनिगमकाभावः, सामानाधिकरण्यप्रत्यासत्तेर्विनिगमकत्वादित्यस्मदीयाः ।
प्रागभावतत्प्रागभावादेस्त्विति घटस्य प्रागभावः कुशूलं तस्य कोशस्तस्य स्थासस्तस्यापि मृत्पिण्ड एवं परमाणौ विश्रान्ति:, तत्परम्परानाधारघटप्रध्वंसपरम्परानाधारकालत्वस्य घटव्याप्यत्वाच्च, न घटरहितकाले घटवत्त्वम्, घटप्रागभावध्वंसवत्त्वमेव घटवत्त्वमिति तु विसभागसन्तत्यनुगतत्वान्नाद्रियत इति ऋजुसूत्रोपजीवीव्यवहारानुसृतः पन्थाः । तत्र=पूर्वपूर्वपरिणामसन्ततौ, अस्य = प्रागभावस्य, दूषणावतारः = पूर्वोत्तरपर्यायाणां घटात्मकत्वप्रसङ्गरूपः । सन्तानत्वाभिप्रायादिति अगृहीतभेदपूर्वपूर्वक्षणैरेवैकत्वानादित्वादिव्यवहारोपपत्तेरित्यर्थः । ननु एवं सन्तानस्य सांवृतत्वात् सांवृतमेव प्रागभावैकत्वानादित्वादि स्याद् इत्यत्रेष्टापत्तिमाह-सन्तानिक्षणापेक्षया त्विति । पूर्वपूर्वक्षणानां घटप्रागभावत्वेऽपि यावत्तन्निवृत्तेर्घटोत्पत्तिव्याप्यत्वान्न दोष इत्याह- तथाऽस्मिन् पक्ष इत्यादि ।
Page #292
--------------------------------------------------------------------------
________________
२५८
अष्टसहस्त्रीतात्पर्यविवरणम् तदन्यतमक्षणानिवृत्ताविव सकलतत्प्रागभावनिवृत्त्यसिद्धेर्घटोत्पत्तिप्रसङ्गासम्भवात् । व्यवहारनयार्पणात्तु मृदादिद्रव्यं घटादेः प्रागभाव इति वचनेऽपि प्रागभावाभावस्वभावता घटस्य न दुर्घटा यतो द्रव्यस्याभावासम्भवान्न जातुचिदुत्पत्तिर्घटस्य स्यात्, कार्यरहितस्य पूर्वकालविशिष्टस्य मृदादिद्रव्यस्य घटादिप्रागभावरूपतोपगमात्, तस्य च कार्योत्पत्तौ विनाशसिद्धः, कार्यरहितताविनाशमन्तरेण कार्यसहिततयोत्पत्त्ययोगात्, कार्योत्पत्तेरेवोपादानात्मकप्रागभावक्षयस्य वक्ष्यमाणत्वात् । तथा प्रमाणार्पणाद् द्रव्यपर्यायात्मा प्रागभाव इत्यभिधानेऽपि नोभयपक्षोपक्षिप्तदोषानुषङ्गः, प्रागभावस्य द्रव्यरूपतयेव पर्यायरूपतयाप्यनादित्वनिरूपणात् । न चानादेरनन्ततैकान्तः सिद्ध्यति, भव्यजीवसंसारस्यानादित्वेऽपि सान्तत्वप्रसिद्धः । ततो न सर्वदा कार्यानुत्पत्तिः पूर्वमप्युत्पत्तिर्वा घटस्य दुनिवारा स्यात् । ततो भावस्वभाव एव प्रागभावः । स चैकानेकस्वभावो भाववदेवेति न तदेकत्वानेकत्वैकान्तपक्षभावी
- अष्टसहस्त्रीतात्पर्यविवरणम्
पूर्वकालविशिष्टस्येति न च पूर्वपदार्थस्य प्रागभावगर्भत्वे आत्माश्रयः, घटतद्ध्वंसानाधारार्थत्वे च ध्वंसलक्षणेऽप्युत्तरकालपदार्थस्य प्रागभावगर्भत्वेऽन्योन्याश्रय इति वाच्यम्, कालविशेषावच्छिन्नस्वरूपसम्बन्धेन मृद्रव्यादेव प्रागभावव्यवहारोपत्तेः, सम्बन्धस्य च प्रागनुपस्थितस्यैव संसर्गतया सर्वैरुपगमात् । (शं०) हन्त एवं कालविशेषघटितसम्बन्धेन मृदादिद्रव्यादेव घटादिव्यवहारोपपत्तौ घटादिद्रव्यमपि नातिरिच्यते, न चेत्थमिष्टापत्तिः कर्तुं युज्यते, व्यवहारनयवादिनोऽतिसूक्ष्मेक्षिकायां परमाणुविश्रान्तौ तस्यापि सत्यासत्यत्वचिन्तायां सदद्वैतसिद्धौ सङ्ग्रहनयसाम्राज्यापत्तेरिति चेत्, न, मृदादिद्रव्याद् घटादिद्रव्यस्य प्रत्यभि ज्ञानादिना किञ्चित्कालस्थायित्वेन सिद्धस्य पृथगनुभूयमानत्वेन तन्मात्रत्वाकल्पनात्, प्रागभावादेस्तु तथा पृथगननुभूयमानत्वेनाधारमात्रस्वरूपत्वकल्पनात्, इत्थमेव व्यवहारनयप्रवृत्तेः, घटादिद्रव्ये आधारभिन्नत्वमुद्भूतमभावपर्याये तु तदभिन्नत्वं तथेति विवेकः । तस्य चेति कालविशेषविशिष्टमृदादिद्रव्यरूपत्वे घटादिप्रागभावस्य कार्योत्पत्तौ विशिष्टध्वंसो द्रष्टव्यः, कालविशेषघटितसम्बन्धेन मृदादिद्रव्यरूपत्वे च सम्बन्धविशेषावच्छिन्नप्रतियोगिताकः स इति तत्त्वम् । पर्यायरूपतयापीति नानाक्षणानुगतस्य प्रागभावपर्यायस्यैकस्यापि कल्पनादित्यर्थः । यद्यपि अनुगतगुणपर्यायाधारतया प्रत्यभिज्ञानविषयतया च न तदेकत्वं सिद्ध्यति, तथापि घटादौ घटप्रागभावादेरेकस्यैव हेतुत्वे लाघवात्तस्यैकत्वसिद्धिरिति परमार्थः । अनेकत्वेऽपि कथञ्चिदेकत्वं स्याद्वाददृष्टावविरुद्धमेव शरीरादिदृष्टान्तेन तद्वक्ष्यति-स चैकानेकस्वभाव इत्यादि । कारणस्येति न हि कपालमालारूपघटकार्यनाशे घटकारणं जायते,
Page #293
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि० १ - का० १०]
दोषोऽवकाशं लभते । न च भावस्वभावे प्रागभावे प्राङ् नासीत्कार्यमिति नास्तित्वप्रत्ययो विरुध्यते, तदभावस्य भावान्तररूपत्वात्, तत्र च नास्तित्वप्रत्ययाविरोधात्, घटविविक्तभूभागे घटनास्तित्वप्रत्ययवत् । तदेवं प्रसिद्धस्यैव प्रागभावस्यापलपनं निह्नवः ।
[चार्वाकः प्रध्वंसाभावं न मन्यते तं निरस्य जैनाचार्याः प्रध्वंसाभावं समर्थयन्ति ]
परस्य प्रध्वंसाभावः कथं प्रसिद्धः ? इति चेत्, नयप्रमाणार्पणादिति ब्रूमः । तत्र ऋजुसूत्रनयार्पणात्तावदुपादेयक्षण एवोपादानस्य प्रध्वंसः । न चैवं तदुत्तरक्षणेषु प्रध्वंसस्याभावात्पुनरुज्जीवनं घटादेः प्रसज्येत, कारणस्य कार्योपमर्दनात्मकत्वाभावात्, उपादानोपमर्दनस्यैव कार्योत्पत्त्यात्मकत्त्वात् प्रागभावप्रध्वंसयोरुपादानोपादेयरूपतोपगमात्प्रागभावोपमर्दनेन प्रध्वंसस्यात्मलाभात् । कथमभावयोरुपादानोपादेयभावः ? इति चेत्, भावयोः कथम् ? । यद्भावे एव यस्यात्मलाभस्तदुपादानमितरदुपादेयमिति चेत्, तर्हि प्रागभावे कारणात्मनि पूर्वक्षणवर्त्तनि सति प्रध्वंसस्य कार्यात्मनः स्वरूपलाभोपपत्तेस्तयोरुपादानोपादेयभावोऽस्तु, तुच्छयोरेवाभावयोस्तद्भावविरोधात् । तथा व्यवहारनयादेशान्मृदादिद्रव्यं घटोत्तरकालवर्ति घटाकारविकलं घटप्रध्वंसः । स चानन्तः समवतिष्ठते । तेन घटात् पूर्वकालवर्ति मृदादिद्रव्यं घटस्य प्रागभाव एव, न पुनः प्रध्वंसः, तथा घटाकारमपि तत्तस्य प्रध्वंसो मा भूत्, घटाकारविकलमिति विशेषणात् । नन्वेवं घटोत्तरकालवर्त्तिघटाकारविकलसन्तानान्तरमृदादिकमपि तद्घटप्रध्वंसः स्यादिति चेत्, न द्रव्यग्रहणात् । वर्त्तमानपर्यायाश्रयरूपमेव हि मृदादिकं तद्द्द्रव्यमन्वयीष्यते, न पुनः सन्तानान्तरं, तस्य स्वपर्यायमेवातीतमनागतं वा प्रत्यन्वयिनस्तद्द्रव्यत्वविरहात् । तदेवं प्रसिद्धः प्रध्वंसो वस्तुधर्मः । तस्य प्रच्यवोऽपह्नव एव चार्वाकस्य । तस्मिंश्च कार्यद्रव्यं पृथिव्यादिकमनन्ततां व्रजेदिति समन्तभद्रस्वामिनामभिप्रायः । वृत्ति - कारास्त्वकलङ्कदेवा एवमाचक्षते कपिलमतानुसारिणां
अष्टसहस्त्रीतात्पर्यविवरणम्
२५९
विपरीतव्याप्तेरभावात्, न च तदभावे घटोत्पत्तिरापादयितुं शक्यत इत्यर्थः । मृदादिद्रव्यमिति घटप्रध्वंसे व्यवहारहेतुता तु न घटोत्तरकालवृत्तिघटयकारविकलघटद्रव्यत्वेन, उत्तरत्वस्य ध्वंसगर्भतयात्माश्रयादिदोषापत्तेः, किन्तु स्वोत्तरकालवृत्तित्वस्वाकारविकलत्वस्व
Page #294
--------------------------------------------------------------------------
________________
२६०
अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) प्रागभावानभ्युपगमे घटादेरनादित्वप्रसङ्गात् पुरुषव्यापारानर्थक्यं स्यात् ।
न च पुरुषव्यापारमन्तरेण घटादि भवदुपलभ्यते जातुचिदिति कार्यद्रव्यं तदापादनीयम् । तच्च प्रागभावस्य निह्नवेऽनादि स्यादिति सूक्तं दूषणम्, आपाद्यस्याप्युद्भाव्यवद्रूषणत्वोपपत्तेः ।
[मीमांसाकाभिमतशब्दनित्यत्वस्य निराकरणम्] एतेन मीमांसकानां शब्दस्य प्रागभावानभ्युपगमेऽनादित्वप्रसङ्गात् पुरुषव्यापारानर्थक्यं स्यादित्युक्तं प्रतिपत्तव्यम् । शब्दस्याभिव्यक्तौ पुरुषव्यापारस्योपयोगान्नानर्थक्यमिति चेत्, न ततः प्राक् तदावेदकप्रमाणाभावादभिव्यक्तिकल्पनानुपपत्तेः । कलशादेहि समन्धकारावृततनोः प्रदीपव्यापारात्पूर्वं सद्भावावेदकप्रमाणस्य स्पर्शनप्रत्यक्षादेः सम्भवादुपपन्ना प्रदीपेनाभिव्यक्तिकल्पना, न पुनः शब्दस्य, तदभावात् । प्रत्यभिज्ञानादेस्तद्भावावेदकस्य प्रमाणस्य भावाददोष इति चेत्, न, तस्य विरुद्धत्वात्, शब्दस्याभिव्यक्तेः पूर्वं सर्वथा सत्त्वात्साध्याद्विपरीतेन कथञ्चित्सत्त्वेन व्याप्तत्वादन्यथा प्रत्यभिज्ञायमानत्वाद्यनुपपत्तेः । ततोऽभिव्यङ्ग्य
- अष्टसहस्रीतात्पर्यविवरणम् - द्रव्यत्वत्रितयसम्बन्धेन घटविशिष्टत्वेन स्वोत्तरकालावच्छिन्नत्वपरिचायितस्वद्रव्यत्वसम्बन्धेन तद्घटविशिष्टमृदादित्वेन वेति बोध्यम् । प्रमाणार्पणया तु प्रध्वंसो द्रव्यपर्यायात्मैकानेकस्वभावश्चेति प्राग्वदेव द्रष्टव्यम् । कार्यद्रव्यं तदापादनीयमिति पुरुषव्यापारनान्तरीयकत्वेन घटादेः कार्यद्रव्यत्वं साधनीयमित्यर्थः । ततश्च प्रागभावाप्रतियोगित्वेन तस्यानादित्वमापादनीयम्, 'घटादिकार्यद्रव्यं यदि प्रागभावाप्रतियोगि स्याद् अनादि स्याद्' इत्येवमिति बोध्यम् । तदाह-तच्चेत्यादि कार्यत्वानादित्वयोरुभयोरापादने तु प्रागभावनिह्नवस्य न कथमपि सामर्थ्यमित्येवं व्याख्यातम् । आपाद्यस्यापीति स्वतन्त्रानुमानवत् प्रसङ्गापादनस्यापि प्रतिवादिदृषकत्वसामर्थ्यादिति बोध्यम् ।
॥ वर्णानां व्यङ्ग्यत्ववादः ॥ अतिदिशति-एतेनेति । तस्य विरुद्धत्वादिति शब्दोऽभिव्यक्तेः प्राक् सन् स एवायमिति प्रत्यभिज्ञायमानत्वादित्यत्र सर्वथा प्राक् सत्ताया एव साध्यत्वात्तद्विपरीतेन कथञ्चित् सत्त्वेन च हेतोर्व्याप्तत्वात् सर्वथाऽसतोऽपरिणामित्वे पूर्वोत्तरकालकोटिपर्याय
Page #295
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि० १-का. १०]
२६१ विलक्षणत्वान्न शब्दस्याभिव्यक्तिकल्पना युक्ता । एतेन कुम्भकारादिव्यापाराद् घटाद्यभिव्यक्तिकल्पना प्रत्युक्ता ।
(भा०) कल्पयित्वापि तदभिव्यक्तिं तस्याः प्रागभावोऽङ्गीकर्तव्यः । तथा हि- सतः शब्दस्य ताल्वादिभिरभिव्यक्तिः प्रागसती क्रियते, न पुनः शब्द एवेति स्वरुचिविरचितदर्शनप्रदर्शनमात्रम् ।
ननु च मीमांसकैः शब्दस्यापौरुषेयत्वप्रदर्शनान्नासौ प्रागसन् क्रियते । तदभिव्यक्तिस्तु पौरुषेयी । सा प्रागसती क्रियते इति कथं स्वरुचिविरचितस्य दर्शनस्य प्रदर्शनमात्रम् ? प्रमाणशक्तिविरचितस्य तथा दर्शनस्य प्रदर्शनादिति चेत्, न शब्दादभिन्नायास्तदभिव्यक्तेरप्यपौरुषेयत्वात् । तस्याः पौरुषेयत्वात्प्रागासत्त्वे तदभिन्नस्य शब्दस्यापि तत एव प्रागसत्त्वमनुमन्यतां, विशेषाभावात् । शब्दाद्भिन्वाभिव्यक्तिरिति चेत्,
[अभिव्यक्तिं चतुर्धा विकल्प्य क्रमशः तासां निराकरणम्] (भा०) सा यदि श्रवणज्ञानोत्पत्तिः, सैव कथं प्राक्सती यत्नतः कर्तव्या ?
तस्याः प्रागसत्त्वे शब्दस्या श्रावणत्वापत्तेनित्यत्वविरोधः, प्रागश्रवणत्वस्वभावत्यागेनोत्तरश्रावणत्वस्वभावोत्पत्तेः कथञ्चिदनित्यत्वमन्तरेणानुपपत्तेः । अथ श्रवणज्ञानोत्पत्तेरभावेऽपि पूर्वं शब्दस्य श्रावणत्वमेवेष्टं, किमनया श्रवणज्ञानोत्पत्त्याभिव्यक्त्या ? । स्यान्मतं-न शब्दधर्मः श्रवणज्ञानोत्पत्तिः, तस्याः कर्मस्थक्रियात्वाभावात् । किं तहि ? पुरुषस्वभावः, कर्तृस्थक्रियात्वादिति, तदप्ययक्तं, कर्तवत्तस्याः प्राक्सत्त्वापत्तेरविशेषात्तद्व्यापारानर्थक्यात् । श्रवणज्ञानोत्पत्तियोग्यता शब्दस्याभिव्यक्तिरिति चेत्, तर्हि (भा०) योग्यतायां समानश्चर्चः ।
- अष्टसहस्त्रीतात्पर्यविवरणम्
स्पर्शासम्भवादित्यर्थः । साङ्ख्यमतेऽप्येतदतिदिशति-एतेनेति । अभिव्यक्तिप्रागभावाङ्गीकारे शब्दप्रागभावस्त्यागानह इत्याह-कल्पयित्वाऽपीति । ऐतिह्यकृतविशेषमाह-ननु चेत्यादि । अभिव्यक्तेः शब्दपुरुषश्रोत्रभेदाभेदविकल्पासहत्वात्तां दूषयति-शब्दादभिन्नाया इत्यादिना
Page #296
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम्
योग्यतापि हि यदि शब्दधर्मत्वाच्छब्दादभिन्ना तदा कथं तद्वत्सती पुरुषप्रयत्नेन क्रियेत ? अथ शब्दाद्भिन्ना, श्रोत्रस्वभावत्वात्तस्या इति मतिस्तथापि न सा प्रागसती श्रोत्रस्य नभोदेशलक्षणस्य सर्वदा सत्त्वात् तत्स्वभावभूताया योग्यतायाः प्रागपि सत्त्वात् । एतेनात्मधर्मो योग्यता शब्दाद्भिन्नेति निरस्तं, नित्यत्वादात्मनः प्रागसत्त्वासम्भवात् । अथ भिन्नाभिन्ना श्रवणज्ञानोत्पत्तिस्तद्योग्यता चाभिव्यक्तिः शब्दादिति मतं तदप्यसत्यं, पक्षद्वयोक्तदोषानुषङ्गात् सर्वथा तस्याः प्रागभावायोगात्, तद्योगे वा शब्दवदेव श्रोतृप्रमात्रोरपि प्रागसतो: प्रयत्नेन करणप्रसङ्गादन्यथा स्वरुचिविरचितदर्शनप्रदर्शनमात्रप्रसक्तेः । आवरणविगमोऽभिव्यक्तिरिति चेत्,
२६२
( भा० ) तदावरणविगमः प्राक् किमभूत् ? भूतौ वा किं यत्नेन ? विशेषस्याधानमभिव्यक्तिरिति चेत्, ननु
( भा० ) विशेषाधानमपि तादृगेव, कर्मकर्तृकरणानां प्रागभावाभावात् ।
आवरणविगमविशेषाधानयोर्हि शब्दपुरुष श्रोत्राणां स्वरूपत्वे तेषां याज्ञिकैरपि नित्यत्वोपगमात्कथं प्रागभावः सम्भवेत् ? सम्भवे वा प्रयत्नकार्यत्वप्रसङ्गः अभिव्यक्तिवत् । पुरुषप्रयत्नेन अभिव्यक्ति: प्रागसती क्रियते, न पुनस्तत्स्वरूपः शब्दः पुरुषः श्रोत्रं चेति स्वरुचिविरचितदर्शनप्रदर्शनमात्रम् ।
[साङ्ख्याभिमताभिव्यक्तिपक्षस्य निराकरणम् ]
एवं हि कपिलमतानुसारिणां घटादेरभिव्यक्ति: प्रागसती चक्रदण्डादिभिः क्रियते न पुनर्घटादिरित्यपि शक्यं प्रदर्शयितुम् । यतोऽत्र
अष्टसहस्त्रीतात्पर्यविवरणम्
स्वरुचिविरचितदर्शनमात्रमित्यन्तेन ग्रन्थेन । इच्छामात्रेण कार्यस्यापि शब्दस्याभिव्यङ्ग्यत्वाभ्युपगमे घटादावपि तत्प्रसक्त्या साङ्ख्य एव विजयेतेत्याह - एवं हीति । ननु वस्तु सर्वत्र व्यङ्ग्यत्वपक्ष एव साङ्ख्यानां शब्दे च मीमांसकानां न च व्यङ्ग्यत्वपक्षे घटप्रत्यक्षत्वं कप्रत्यक्षत्वं च दण्डादेर्विजातीयनिमित्तपवनसंयोगादेश्च जन्यतावच्छेदकं वाच्यम्, कार्यत्वपक्षे च घटत्वं कत्वं चेति तत्र लाघवमिति वाच्यम्, व्यङ्ग्यत्वपक्षेऽपि घटत्वकत्वादेर्लोकिकविषयितया जन्यतावच्छेदकत्वे लाघवानपायात् । न च द्रव्यत्व -
Page #297
--------------------------------------------------------------------------
________________
२६३
प्रथमो भागः [ परि०१-का. १०]
(भा०) न कश्चिद्विशेषहेतुस्ताल्वादयो व्यञ्जका, न पुनश्चक्रादयोऽपीति ।
ते वा घटादेः कारका, न पुनः शब्दस्य ताल्वादयोऽपीति । (भा०) न हि व्यञ्जकव्यापृतिनियमेन व्यङ्ग्यं सन्निधापयति ।।
सन्निधापयति च ताल्वादिव्यापृतिनियमेन शब्दम् । ततो नासौ ताल्वादीनां व्यङ्ग्यश्चक्रादीनां घटादिवत् ।
(भा०) नायं दोषः सर्वगतत्वाद्वर्णानामित्यपि वार्तं, प्रमाणबलायातत्वाभावात् । (भा०) अन्यत्रापि तथाभावानुषङ्गात् । शक्यं हि वक्तुं, घटादीनां सर्वगतत्वाच्चक्रादिव्यापारान्नियमेनोपलब्धिरिति । (भा०) इष्टत्वाददोषोऽयम् कापिलानामिति (भा०) चेत्, न, कारणव्यापारेष्वपि चोद्यानिवृत्तेः ।
चक्रादीन्यपि कारणानि स्वव्यापाराणां नियमेन सन्निधापकान्यभिव्यञ्जकानि भवन्तु, तेषां सर्वगतत्वादेवेति चोद्यस्य निवर्तयितुमशक्यत्वात् । (भा०) एतेनावस्था प्रत्युक्ता ।।
अष्टसहस्रीतात्पर्यविवरणम् शब्दत्वादिप्रकारकप्रत्यक्ष व्यभिचारः, स्वाश्रयविषयतायाः कार्यतावच्छेदकतावच्छेदकसम्बन्धत्वे दोषाभावादिति आशङ्कायामाह भाष्यकृत्-न हि व्यञ्जकव्यापृतिर्नियमेन व्यङ्ग्यं सन्निधापयतीति तथा च ताल्वादिव्यापारान्नियमेन शब्दसन्निधानान्न स तद् व्यङ्ग्यः, किन्तु तत्कार्य इत्यर्थः । व्यङ्ग्यत्वेऽपि ताल्वादिव्यापारेण सन्निधानं शब्दस्य सर्वगतत्वाद्भविष्यतीति मीमांसक आशङ्कते-नायं दोष इत्यादि । घटादावतिप्रसङ्गेन तद्दूषयति-अन्यत्रापीति । कपिलमते इष्टापत्तौ कारणव्यापारसन्निधानेन सदा कार्याविर्भावप्रसङ्गदूषणमाह-इष्टत्वादित्यादिना । व्यापारस्य व्यापारिणो भेदाभेदयोर्यो दोषस्तमवस्थाया अप्यवस्थावतस्तयोरतिदिशति-एतेनावस्था प्रत्युक्तेत्यादि । परिणामेऽप्येनमति
Page #298
--------------------------------------------------------------------------
________________
२६४
अष्टसहस्त्रीतात्पर्यविवरणम् स्वव्यापारोत्पादने हि कारणानां व्यापारान्तराणि कल्पनीयानि तथा तदुत्पादनेऽपीत्यनवस्था स्यात्, न पुनः स्वव्यापाराभिव्यक्तौ, तत्सन्निधिमात्रादेव तत्सिद्धेरन्यथा व्यञ्जककारकयोरविशेषप्रसङ्गात् । कारणव्यापाराणां च कारणेभ्यो भेदैकान्तो वा स्यादभेदैकान्तो वा ? तद्भेदैकान्ते तद्वतोऽनुपयोगः, तावतेतिकर्तव्यतास्थानात् । व्यवहारिणामभिमतकार्यसंपादनमेव हीतिकर्तव्यता । तस्याः स्थानं यदि व्यापारेभ्य एवैकान्ततो भिन्नेभ्यो भावाद्भवेत्तदा किं व्यापारवतान्यत्साध्यं, यतस्तस्योपयोगः क्वचिदुपपद्यते ? तद्वतो व्यापाराणामभेदैकान्तेऽभिव्यक्तिवत्प्रसङ्गस्तद्वत इव व्यापाराणां सर्वदा सद्भावः । तेषां प्रागभावे वा व्यापाराः प्रागसन्तः क्रियन्ते, न पुनस्तदव्यतिरेकिणोऽपि तद्वन्त इति स्वरुचिविरचितदर्शनप्रदर्शनमात्रम् । एतेनावस्था प्रत्युक्ता ।
(भा०) तद्विशेषैकान्ते तद्वतोऽनुपयोगः, तावतेतिकर्तव्यतास्थानात् । अभेदैकान्ते पूर्ववत्प्रसङ्गः । परिणामेऽप्येष पर्यनुयोगः ।
परिणामिनो बहुधानेकस्य परिणामा घटादयोऽत्यन्तभिन्ना वा स्युरभिन्ना वा ? कथञ्चिद् भेदाश्रयणे स्याद्वादानुसरणप्रसङ्गात् । तत्र परिणामानां
( भा० ) तदभिन्नानां क्रमशो वृत्तिर्मा भूत् । परिणामिनोऽक्रमत्वात् । ततो (भा०) भिन्नानां व्यपदेशोऽपि मा भूत्प्रधानस्यैते परिणामा इति ।। (भा०) सम्बन्धासिद्धेरनुपकारकत्वात् ।
न हि नित्यं प्रधानं परिणामानामुपकारकं, तस्य क्रमयोगपद्याभ्यामुपकारकत्वायोगात् । नापि परिणामेभ्यस्तस्योपकारः, तस्य तत्कार्यत्वेनानित्यत्वापत्तेः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
-
देशमाह-परिणामेऽप्येष पर्यनुयोगस्तुल्य इति अवस्थाकालकृतो विशेषः, परिणामस्तु सत एव प्रदेशपरिणामादिनान्यथाभाव इति विशेषः । तस्य प्रधानस्य, तत्कार्यत्वेन=
Page #299
--------------------------------------------------------------------------
________________
२६५
प्रथमो भागः [ परि० १-का० १०]
(भा०) तैस्तस्योपकारेऽपि सर्वं समानमनवस्था च ।
यावन्तो हि परिणामास्तावन्तस्तस्योपकारास्तत्कृतास्ततो यदि भिन्नास्तदा तस्येति व्यपदेशोऽपि मा भूत्, सम्बन्धासिद्धरनुपकारकत्वात् । तद्वतस्तैरुपकारैरुपकारान्तरेऽपि स एव पर्यनुयोग इत्यनवस्था । ततस्ते यद्यभिन्नास्तदा तावद्वा प्रधानं भिद्येत, ते वा प्रधानैकरूपतां प्रतिपद्येरन् इति प्रधानस्योपकाराणां चावस्थानासम्भवादनवस्था । तस्या भोग्याभावे पुंसो भोक्तृत्वाभावादभावः स्यात्, तस्य तल्लक्षणत्वात् । ततः प्रकृतिपुरुषतत्त्वयोरवस्थानाभावादनवस्था, इति न कपिलमतानुसरणेनापि प्रधानात्मनामशेषतो घटादीनामपि शब्दवदभिव्यङ्ग्यत्वं युक्तं कल्पयितुं, सर्वदा प्रागभावापह्नवे तदभिव्यक्तेरप्यनादित्वप्रसङ्गात्कार्यद्रव्यवत् ।
[साङ्ख्येन कार्यस्यास्वीकारे जैनाचार्याः तत् साधयन्ति] ननु कार्यद्रव्यमसिद्धं कापिलानां, कथमनादि ग्रन्थकारेणापाद्यते इति चेत्, प्रमाणबलात्कार्यत्वं द्रव्यस्यापाद्य तथाभिधानाददोषः । कथं कार्यत्वमापाद्यते प्रागभावानभ्युपगमवादिनं प्रतीति चेत्, कार्यं घटादिकम्, अपेक्षितपरव्यापारत्वात्, यत्तु न कार्यं तन्न तथा दृष्टं यथा गगनं, तथा च घटादिकं, तस्मात्कार्यमित्यनुमानात् । न चात्रासिद्धं साधनं कादाचित्कत्वात्, तस्यानपेक्षितपरव्यापारत्वे कादाचित्कत्वविरोधादाकाशवत् । तदाविर्भावस्य कादाचित्कत्वादपेक्षितपरव्यापारत्वं, न तु घटादेरिति चेत्, कोऽयमाविर्भावो नाम ? प्रागनुपलब्धस्य व्यञ्जकव्यापारवदुपलम्भ इति चेत्, स तर्हि प्रागसन् कारणैः क्रियते, न पुनर्घटादिरिति
- अष्टसहस्त्रीतात्पर्यविवरणम् उपकारकार्यत्वेन, उपकार्यत्वस्य कार्यत्वविशेषत्वादित्यर्थः । भाष्ये सर्वं समानमिति परिणामभेदाभेदपक्षदूषणमित्यर्थः, तदाह वृत्तिकृत्-यावन्तो हीत्यादि । तस्यामिति तस्यां प्रधानस्योपकाराणां वाऽनवस्थायाम्, भोग्यस्य प्रकृतिमहदादेः अभावे, पुंसो भोक्तृत्वाभाव: स्यात् । तस्य= भोक्तृत्वस्य, तल्लक्षणत्वात्= भोग्यसद्भावनियतत्वात्, अवस्थानाभावात् स्वरूपासिद्धेः । तर्हि तस्य कारणादात्मलाभोऽभ्युपगन्तव्य इति
१. तस्या इति अष्टसहस्रीसम्मतः पाठः । २. भोक्तृत्वाभावादभावः स्याद् इति अष्टसहस्रीसम्मतः पाठः ।
Page #300
--------------------------------------------------------------------------
________________
२६६
अष्टसहस्त्रीतात्पर्यविवरणम् स्वरुचिवचनमात्रम् । अथ तस्यापि प्रातिरोहितस्य सत एव कारणैराविर्भावान्तरमिष्यते, तर्हि तस्याप्यन्यत्तस्याप्यन्यदाविर्भावनमित्यनवस्थानान्न कदाचिद् घटादेराविर्भावः स्यात् । अथाविर्भावस्योपलम्भरूपस्य तद्रूपाविर्भावान्तरानपेक्षत्वात् प्रकाशस्य प्रकाशान्तरानपेक्षत्ववन्नानवस्थेति चेत्, तर्हि तस्य कारणादात्मलाभोऽभ्युपगन्तव्यः, ततः कार्यमाविर्भाव इति, तद्वद् घटादिकमपि अपेक्षितपरव्यापारत्वाविशेषादात्मलाभे । न ह्यलब्धात्मलाभस्योपलम्भः शक्यः कर्तुं, सर्वथातिप्रसङ्गात् । तदेवं प्रधानपरिणामतयापीष्टं घटादिकं कार्यद्रव्यमापाद्यते । तस्य च प्रागभावापह्नवेऽनादित्वप्रसङ्गात्कारणव्यापारानर्थक्यं स्यादिति सक्तं दषणम । प्राक्तिरोभावस्योपगमे वा स एव प्रागभावः सिद्धः, तस्य तिरोभाव इति नामान्तरकरणे दोषाभावादुत्पादस्याविर्भाव इति नामान्तरकरणवत् । ततो न मीमांसकस्य साङ्ख्यमतानुसरणं युक्तं, सर्वथा शब्दस्य प्रागभावानभ्युपगमेऽनादित्वप्रसङ्गात् पुरुषव्यापारानर्थक्यस्य समर्थनात ।
[मीमांसकाभिमतशब्दस्यावारकवायोनिराकरणम्] ( भा०) विनाशानभ्युपगमे तस्य किंकृतमश्रवणम् ? स्वावरणकृतमिति चेत्, नैतत्सारम् । (भा०) तदात्मानमखण्डयतः कस्यचिदावरणत्वायोगात् ।
तिरोधायकस्य कस्यचिद्वायुविशेषस्य शब्दात्मानं खण्डयत एवावरणत्वे स्वभावभेदप्रसङ्गः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
तस्य=आविर्भावस्य, न चेदेवं तदा आविर्भावस्य नित्यं सत्त्वमसत्त्वं वा स्यादित्यर्थः । आत्मलाभे= उत्पत्तौ । तदेवं साङ्ख्यमतस्यायुक्तत्वात् शब्दव्यङ्ग्यत्वसमर्थनाय तदनुस्म(स)रणं मीमांसकस्य न न्याय्यमित्युपसंहरति-ततो नेत्यादि । किं कृतमश्रावणमिति' शब्दतत्सन्निकर्षादेः श्रावणकारणस्याखण्डस्य सत्त्वादित्यर्थः । तिरोधायकस्येत्यादि प्रौढिवादोऽयम्, वस्तुतः शब्दश्रावणप्रतिबन्धकवायुविशेषकल्पनागौरवमेव दूषणं बोध्यम् ।
१. अश्रवणमिति अष्टसहस्रीसम्मतः पाठः ।
Page #301
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि० १-का. १०]
२६७ (भा०) आवृतानावृतस्वभावयोरभेदानुपपत्तेः तयोरभेदे वा शब्दस्य श्रुतिरश्रुतिर्वेत्येकान्तः
प्रसज्येत, पुरुषव्यापारात्पूर्वमश्रुतिस्तदन्तरं श्रुतिरिति विभागानुपपत्तेः । [आवारकवायुना शब्दस्वभावखण्डं न भवतीति मान्यतायां विचारः क्रियते जैनाचार्यैः]
स्यान्मतं-यथा घटादेरात्मानमखण्डयत्तमस्तस्यावरणं तथा शब्दस्यापीति. तदसत, तस्यापि तेनात्मखण्डनोपगमात, दृश्यस्वभावस्य खण्डनात्तमसस्तदावरणत्वसिद्धेः सर्वस्य परिणामित्वसाधनात् ।
(भा०) तमसापि घटादेरखण्डने पूर्ववदुपलब्धिः किन्न भवितुमर्हति ? ।
तस्य तेनोपलभ्यतयाप्यखण्डनात् । ननु च पुरुषव्यापारात्प्राक् पश्चाच्च शब्दस्याखण्डितस्वभावत्वेऽपि नैकान्ततः श्रुतिः सहकारिकारणापेक्षत्वात्, स्वविज्ञानोत्पादने तदश्रुतेरपि तद्वैकल्ये सम्भवादिति चेत्, तहि किमयं शब्दः स्वविषयसंवित्तिकरणे समर्थोऽसमर्थो वा ?
(भा०) स्वसंवित्त्युत्पत्तौ कारणान्तरापेक्षा मा भूत् तत्करणसमर्थस्य । अन्यथा
- अष्टसहस्त्रीतात्पर्यविवरणम् -
किञ्चैवं कत्वखत्वादिप्रकारकप्रत्यक्षप्रतिबन्धकतावच्छेदिका अपि जातयो वायुसंयोगेषु कल्पनीयास्ताश्च परस्परं कोलाहलस्थलीयवायुसंयोगे सङ्कीर्यन्ते, तदा कत्वाद्येकतरप्रकारकप्रत्यक्षस्याप्यभावादिति जातिरूपो विशेषो दुर्वचः, तत्तद्वायूनामन्यतमत्वादिना प्रतिबन्धकत्वे चोदासीनप्रवेशाप्रवेशाभ्यां विनिगमनाविरह इति न किञ्चिदेतत् । ननु कोलाहले कत्वादिग्रहवारणाय दोषाभावानां कत्वादिप्रत्यक्षे हेतुत्वमपेक्ष्य विजातीयनिमित्तपवनसंयोगहेतुत्वमेव ज्यायः, तथा च विनाशानभ्युपगमेऽपि शब्दस्य विजातीयनिमित्तपवनसंयोगाभावकृतमश्रावणं भविष्यतीति नानुपपत्तिः, प्रत्युत शब्दप्रागभावध्वंसाकल्पनलाघवेनोपपत्तिरेवेति आशक्य आह-ननु चेत्यादि तदश्रुतिरपि इत्यत्र नैकान्तत इति योजनीयम् । 'तद्विकले सम्भवादिति सहकारिकारणविकलेऽश्रुतेः सम्भवादित्यर्थः । तर्हि किमयमित्यादि योग्यशब्दसत्त्वे इन्द्रियमनोव्यापारसादगुण्ये तत् प्रत्यक्षं स्यादेव निमित्तपवनसंयोगस्य घ्राणसन्निधानमात्रेण
१. तद्वैकल्ये इति अष्टसहस्रीसम्मतः पाठः ।
Page #302
--------------------------------------------------------------------------
________________
२६८
अष्टसहस्त्रीतात्पर्यविवरणम् स्वयमसमर्थस्य सहकारीन्द्रियमनोऽभिव्यञ्जकव्यापारलक्षणं किमस्यासामर्थ्य खण्डयत्याहोस्विन्नेति पक्षद्वितयम् ।
(भा०) तदसामर्थ्यमखण्डयदकिञ्चित्करं किं सहकारिकारणं स्यात् ? तत्खण्डने वा स्वभावहानिरव्यतिरेकात् । व्यतिरेके व्यपदेशानुपपत्तिः । इति पूर्ववत्सर्वम् ।
शब्दासामर्थ्ययोः परस्परमनुपकारकत्वाविशेषात् । शब्दस्य हि तदसामर्थ्यनोपकारः, क्रियमाणस्तस्मादभिन्नश्चेत्, स एव कृतः स्यादिति तन्नित्यत्वहानिः भिन्नश्चेत्सम्बन्धासिद्धिः अनुपकारात् । तदुपकारान्तरे वा स एव पर्यनुयोग इत्यनवस्था प्रधानतत्परिणामव्यतिरेकपक्षवत् । [वर्णानां नित्यसर्वगताभ्युपगमे सदैव श्रुतिरश्रुतिर्वा भविष्यति यतः क्रमशः श्रुतिविरुद्धैव]
किञ्च वर्णाः सर्वे नित्यसर्वगतास्तद्विपरीता वा ? न तावद् द्वितीयः पक्षोऽनभ्युपगमात् । प्रथमपक्षे तु
- अष्टसहस्रीतात्पर्यविवरणम्
गन्ध इव शब्दे कर्णसन्निधानमात्रेणोपकारित्वात् विशिष्य शब्दप्रत्यक्षहेतुत्वे मानाभावादित्यर्थः । अत एवात्र नैयायिको मीमांसकं पर्यनयुङ्क्ते, त्वया चैत्रादेः स्वीयमैत्रशुकादि'क'कारादेः प्रत्यक्षे चैत्रादिकर्णावच्छिन्नानां विजातीयसंयोगानां कारणत्वं वाच्यमित्यतिगौरवं, मम त्ववच्छेदकतया चैत्रादि'क'कारादौ विजातीयवायुसंयोगो हेतुस्तत्पुरुषीयनिखिलशब्दप्रत्यक्षे च तत्पुरुषीयकर्णावच्छिन्नसमवाय इति कथं न लाघवम् ? इति । अस्मन्मते तु बाह्यो वायुः प्रापको न तु कारको व्यञ्जको वेति तदुपनीतशब्दस्य श्रोत्रेण संयोगप्रत्यासत्त्यैव ग्रहणाच्छब्दविषयकश्रावणे श्रोत्रसंयोगत्वेनैकहेतुतयैव सकलोपपत्तावतिलाघवमिति श्रद्धेयम् । असामर्थ्यखण्डनेऽसामर्थ्यस्य व्यतिरेकाव्यतिरेकचर्चस्तु परिणामचर्चवत्प्राग्वदेव प्राचीनप्रणयानुरोधिभिरनुसन्धेयः । वर्णानां नित्यत्वसर्वगतत्वाभ्युपगमे सङ्कला श्रुतिः स्यात् क्रमश्रुतिश्च विरुद्धयेत । कार्यत्वे तु वक्तृश्रोतृविज्ञानयोः क्रमवृत्त्यपेक्षया क्रमोत्पत्तिप्रतिपत्त्योरविरोध इत्याह-किञ्च वर्णा इत्यादिना ततः क्रमोत्पत्तिप्रतिपत्त्योरन्यथानुपपत्त्या न सर्वगता वर्णा नापि नित्या इत्यन्तेन । ननु चैत्रादि'क'कारादिप्रत्यक्षे विजातीयनिमित्तपवनसंयोगहेतुत्वान्नानुपपत्तिरिति चेत्, न, उक्तोत्तरत्वात्, किञ्च शब्दस्याकार्यत्वपक्षे तत्र चैत्रीयत्वादेरेवासिद्धिः, चैत्रजन्यत्वमेव हि चैत्रीयत्वं स्वाश्रयजन्यता
Page #303
--------------------------------------------------------------------------
________________
प्रथमो भाग: [परि०१-का. १०]
२६९ (भा० ) वर्णानां व्यापित्वान्नित्यत्वाच्च क्रमश्रुतिरनुपपन्नैव ।
देशकालकृतक्रमासम्भवात् । तदभिव्यक्तिप्रतिनियमात्तेषां क्रमश्रुतिरिति चेत्, न, अस्मिन्नपि पक्षे
(भा०) समानकरणानां तादृशामभिव्यक्तिनियमायोगात् सर्वत्र सर्वदा सर्वेषां सङ्कला श्रुतिः स्यात् ।
समानं हि करणं वर्णानां श्रुतौ श्रोत्रं, नीलपीतादीनां रूपविशेषाणां दृष्टौ चक्षुर्वत् । ततस्तेषामेकव्यञ्जकव्यापारेऽपि समानदेशकालानां कथमभिव्यक्तिनियमो नीलादिवत् ? क्वचिदेकत्रैकदापि च सर्ववर्णाभिव्यक्तौ सर्वत्र सर्वदाभिव्यक्तिस्तेषां, स्वरूपेणाभिव्यक्तत्वात्, तत्स्वरूपस्य च व्यापिनित्यत्वात् । खण्डशस्तदभिव्यक्तौ वर्णानां व्यक्तेतराकारभेदाढ़ेदप्रसक्तेः प्रत्येकमनेकत्वापत्तिरेकानेकात्मकत्वप्रसङ्गो वा । सर्वात्मनाभिव्यक्तौ सर्वदेशकालवर्तिप्राणिनः प्रति तेषामभिव्यक्तत्वात् कथं सर्वत्र सर्वदा सर्वेषां सङ्कला श्रुतिर्न स्याद्यतः कलकलमात्रं न भवेत् ? । [अधुना मीमांसकाः जैनाभिमतशब्दानामुत्पत्तिपक्षेऽपि दोषानारोपयन्तीति तान्निराकुर्वन्ति जैनाः]
ननु समानोपादानकारणानामभिन्नदेशकालानां समानकारणानामुत्पत्तावपि तद्देशकालवतिसकलपुरुषाणामविकलसहकारिणां कथं न सङ्कला श्रुतिः स्यात्, क्रमश्रुतिर्वा न विरुध्येत ? इति चेत्, अत्रोच्यते ।
(भा०) वक्तृश्रोतृविज्ञानयोस्तत्कारणकार्ययोः क्रमवृत्तिमपेक्ष्य परिणामिनां क्रमोत्पत्तिप्रतिपत्त्योर्न किञ्चिद्विरुद्धं पश्यामः ।
समानेऽपि हि शब्दानामारम्भकपुद्गले तद्देशकालवर्त्तिन्युपादाने सहकारिणि च बहिरङ्गे ताल्वादिकरणे वक्तृविज्ञानस्य वर्णोत्पत्तौ सहकारिकारणस्याऽऽन्तरस्य
अष्टसहस्रीतात्पर्यविवरणम्
विशेषसम्बन्धेन चैत्रत्वमेव वा, एवं च शब्दविशेषाद्वक्तृविशेषानुमानोच्छेदप्रसङ्गः । न च
चैत्रवृत्त्यभिव्यक्तिविषयत्वमेव चैत्रीयत्वं, मैत्रशब्दस्यापि चैत्रकर्णागतस्य चैत्रेणाभिव्यक्तेः । न च चैत्रीयताल्वादिव्यापारजन्याभिव्यक्तिविषयत्वं तत्, शब्दत्वादावतिप्रसङ्गात्, नापि शब्दत्वे सतीति विशेषणादनतिप्रसङ्गः. एतावदप्रतिसन्धानेऽपि चैत्रीयोऽयं शब्द इत्यनुभवात् । न च
Page #304
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम्
क्रममपेक्ष्य क्रमोत्पत्तौ परिणामिनां न किञ्चिद्विरुद्धं पश्यामः, कारणक्रमानुविधायित्वात्सर्वत्र कार्यक्रमस्य शश्वदपरिणामिनामेव तथाविरोधदर्शनात् । नापि श्रोतृविज्ञानस्य शब्दकार्यस्य क्रममपेक्ष्य वर्णक्रमप्रतिपत्तौ किञ्चिद्विरुद्धं पश्यामः, प्रमाणक्रमानुविधायित्वात्तत्फलभूतप्रमितिक्रमस्य सततमपरिणामिनामेवात्मना तद्विरोधनिर्णयात् । तन्न सङ्कुला श्रुतिः स्याद्वादिनां प्रसज्येत ।
( भा० ) सर्वगतानामेष क्रमो दुष्करः स्यात् ।
ततः क्रमोत्पत्तिप्रतिपत्त्योरन्यथानुपपत्त्या न सर्वगता वर्णा, नापि नित्या: प्रत्येतव्याः ।
२७०
[मीमांसका वर्णनित्यत्वसाधने प्रत्यभिज्ञानहेतुं दर्शयन्ति तद्धेतोर्व्यभिचारं दर्शयन्ति जैना: ]
ननु च नित्या वर्णाः, प्रत्यभिज्ञानादात्मादिवदिति चेत् ।
( भा० ) क्षणिकेष्वेव करणाङ्गहारादिषु प्रत्यभिज्ञानाद्विरुद्धो हेतुः । एतेन बुद्धिभिर्व्यभिचारी च हेतुरुक्तः, बुद्धिकर्मभ्यां व्यभिचार इत्यभि– धानात् । ननु बुद्धिकर्मणोरपि नित्यत्वोपगमान्नायं दोष:, ते अपि इ वचनात् [ ] । तथोपगमे विरोधाभावादिति चेत्,
अष्टसहस्त्रीतात्पर्यविवरणम्
एवं चैत्रीयत्वं जातिरेव न तु चैत्रजन्यत्वादिकमपीति तद्विषयोऽनुभवो न शब्दकार्यत्वपक्षपातीति वाच्यम् तादृशजातेरपि चैत्रजन्यतावच्छेदकतयैव सिद्धौ तस्य तथात्वादिति दिग् । ननु अनुमानाद्वर्णनित्यत्वं सेत्स्यतीत्याशङ्कते - ननु चेत्यादि । तद्दूषयति भाष्यकृत्क्षणिकेष्वेवेति नर्त्तक्याः कर्णाङ्गहारादिषु क्षणभङ्गुरेष्वेव तदेवेदं कर्णं स एवायमङ्गहार इति प्रत्यभिज्ञानदर्शनान्नित्यत्वविरुद्धक्षणिकत्वेन व्याप्तं प्रत्यभिज्ञानं नित्यत्वे साध्ये विरुद्धं सादृश्यदोषादनेकत्रैवैकत्वविषयकत्वेन तत् प्रवृत्तिनियमादित्यर्थः । ऋजुसूत्रनयमाश्रित्य चेदं मीमांसकं प्रति दूषणमिति स्याद्वादिनो नापसिद्धान्तो, नानानयमये भगवत्प्रवचने क्वचित् कस्यचिदाश्रयणे दोषाभावादिति मन्तव्यम् । दोषस्थलान्तरमाह - एतेनेति क्षणिकाभिर्बुद्धिभिर्हेतोर्व्यभिचार इत्यर्थः । इत्यभिधानादिति शास्त्रान्तर इति शेषः । विरुद्धत्वेऽपि व्यभिचाराभिधानं च दोषसाङ्कर्यसम्भवादविरुद्धम्, बुद्धिकर्मणोरप्येकत्वान्न विरुद्धत्वमित्याशङ्कते - नन्विति । अतिप्रसङ्गान्नेदमुक्तं युक्तमिति परिहरति-क्रियैकत्वेऽपीत्यादि ।
Page #305
--------------------------------------------------------------------------
________________
२७१
प्रथमो भागः [परि. १-का. १०]
(भा० ) तक्रियैकत्वेऽपि किमिदानीमनेकं स्यात् ? तथा बुद्धयेकत्वेऽपि न किञ्चिदनेकं स्यादित्यपि प्रतिपत्तव्यं ।
(भा०) सर्ववर्णैकत्वप्रसङ्गात् । शक्यं हि वक्तुम्, अभिव्यञ्जकभेदाद्वैश्वरूप्यं जलचन्द्रवत् । क्वचित्प्रत्यक्षविरोधे तदन्यत्राप्यविरोधः कुतः ? ।
___ यथैव हि नानादेशजलप्रतिबिम्बितस्य चन्द्रस्यानेकत्वप्रतीतावपि परमार्थतश्चन्द्रैकत्वं तथैव नानादेशव्यञ्जकभेदादकारादिवर्णनानात्वप्रतीतावपि वर्णैकत्वमिति वदतः कः प्रतिघातः ? प्रत्यक्षविरोधो वर्णैकत्ववचने स्यान्न पुनः क्रियाद्येकत्ववचने याज्ञिकस्येति कुतो विभागः सिद्धयेत् ? ततो वर्णाद्वैतमनिच्छता न करणाङ्गहारादिक्रियैका वक्तव्या, येन शब्दस्य नित्यत्वसाधने प्रत्यभिज्ञानं विरुद्धं न स्यात् ।
(भा०) तदयं ताल्वादिव्यापारजनितश्रावणस्वभावं परित्यज्य विपरीतस्वभावमासादयन्नपि नित्यश्चेन्न किञ्चिदनित्यम् ।
[शब्दाद्वैतवादस्य निराकरणम्] तदेवमकारादिवर्णस्त्रिजगत्यामेक एवेत्यपि निरस्तं, युगपद्भिन्नदेशस्वभावोपलब्धेघटादिवत् । भानुनानेकान्त इति चेत्, तस्य सकृद्भिन्नदेशतयोपलब्धावपि भिन्नस्वभावतयोपलब्ध्यभावात् । प्रत्यासन्नेतरदेशप्रतिपत्तृजनानां स्पष्टेतरादिभिन्नस्वभावतयोपलभ्यमानेनैकपादपेन व्यभिचार इति चेत्, न, तस्य भिन्नदेशतयानुपलब्धेः । नयनावरणविशेषवशात्सकृद्भिन्नदेशस्वभावतयोपलभ्यमानेन चन्द्रद्वयेन व्यभिचार इति चेत्, न, भ्रान्तोपलम्भेनाभ्रान्तोपलम्भस्य व्यभिचारायोगादन्यथा सर्वहेतूनामव्यभिचारासम्भवात् । न च शब्दस्यापि सकृद्भिन्नदेशस्वभावतयोपलम्भो भ्रान्तः, सर्वदा बाधकाभावात् । (भा०) युगत्प्रतिनियतदेशमन्द्रतारश्रुतेः कस्यचिदेकत्वे न क्वचिद
- अष्टसहस्रीतात्पर्यविवरणम् शब्दानित्यत्वमुपसंहरति तदयमिति । सर्ववर्णैकत्वनिरासादकारादिवर्णस्यैकत्वमपि नास्तीत्याह-तदेवमिति । देशभेदः शुकसारिकाद्याश्रयभेदात्, स्वभावभेदश्च तारमन्दादिभेदाद् द्रष्टव्यः । युगपत्प्रतिनियतेति ननु तारत्वादयो वायुगता एवाकारादावारोप्यन्त इति न
Page #306
--------------------------------------------------------------------------
________________
२७२
अष्टसहस्त्रीतात्पर्यविवरणम् नेकत्वसिद्धिः ।
स एवायमकार इति प्रत्यवमर्शादकारादेरेकत्वेऽङ्गहारादिक्रियाविशेषस्याप्येकत्वमस्तु स एवायमङ्गहारादिरिति प्रत्यवमर्शात् । तथा सर्वस्यार्थविशेषस्यापि ।
(भा०) न हि कथञ्चित्क्वचित्प्रत्यवमर्शो न स्याद्वर्णवत् । तच्छेषविशेषबुद्धेरभिव्यञ्जकहेतुत्वप्रक्लृप्तौ सर्वं समञ्जसं प्रेक्षामहे ।
सर्वस्याङ्गहारादेरपि देशादिविशेषबुद्धेरभिव्यञ्जकहेतुत्वप्रक्लृप्तेः कर्तुं सुशकत्वात् ।
(भा०) तदेतेषां पुद्गलानां करणसन्निपातोपनिपाते श्रावणस्वभावः शब्दः पूर्वापरकोट्योरसन् प्रयत्नानन्तरीयको घटादिवदिति
प्रतिपत्तव्यं, न पुनः प्राक् पश्चाच्च सन्नेवापौरुषेय इति । तस्य प्रागभाववत्प्रध्वंसस्यापि न प्रच्यवः श्रेयान् ।
[नैयायिकाभिमतशब्दामूर्तत्वनिरास:] ननु शब्दस्य पुद्गलपर्यायत्वे चक्षुषोपलम्भप्रसङ्गः, स्पर्शरसगन्धवर्णवन्तः पुद्गलाः इति वचनात् [तत्त्वार्थसूत्रम्-५.२३] अन्यथा सिद्धान्तविरोधादिति चेत्, न गन्धपरमाणुभिर्व्यभिचारात् । पुद्गलपर्यायत्वस्य गन्धपरमाणूनामदृश्यत्वान्न
- अष्टसहस्रीतात्पर्यविवरणम्
-
तेऽकारादिभेदकाः स्युरिति चेत् मैवं, एवं सत्यत्वादेपि वायुधर्मत्वापत्तौ शब्दस्यैक्यप्रसङ्गात्तद्वदेव शब्दस्यापि वायुधर्मत्वापत्तौ शब्दमात्रस्य दत्तजलाञ्जलित्वप्रसङ्गाच्च । अस्तु तर्हि तारमन्दशुकसारिकाचैत्रादिप्रभवभेदेनैव शब्दनानात्वं तारादिस्त्वकार एक एवेति चेत् तत्राह-स एवायमकार इतीत्यादि । न हीति न हि कथञ्चित्केनचित्सादृश्येन क्वचित्पर्याये प्रत्यवमर्श एकत्वप्रत्ययो न स्यात्, किन्तु स्यादेव, तथा च सर्वस्यैकत्वं स्याद्वर्णवदित्यर्थः । वर्णैकत्वे विशेषबुद्धेः प्रकारः कः स्यात्तत्राह-तच्छेषेत्यादि तच्छेषविशेषा वर्णसम्बन्धिनोऽप्रधाना विशेषाः कल्पिता अकारादयस्तबुद्धेस्तद्वासनायाः, तदिदमङ्गहारायेकत्वेऽपि तुल्यमित्याह-सर्वस्याङ्गहारादेरपीत्यादि । प्रयत्नानन्तरीयकः प्रयत्नजन्यः । शब्दस्य कार्यत्वे पुद्गलपर्यायत्वेनानिष्टापत्तिमाशङ्कते-ननु शब्दस्येत्यादि । आपाधापादकयोाप्त्यभावान्ने यमित्युत्तरयति-नेत्यादिना । उभयत्र दर्शनाभावप्रयोजकतौल्य
Page #307
--------------------------------------------------------------------------
________________
प्रथमो भाग: [ परि० १ - का० १०]
२७३
दर्शनमिति चेत्, शब्दपुद्गलानामपि तत एव तन्मा भूत् । अथ मतमेतत्चक्षुषोपलभ्योऽस्तु शब्दः, पुद्गलस्कन्धस्वभावत्वाद् घटवदिति, तदप्यपेशलं, गन्धस्यापि चक्षुरुपलभ्यत्वप्रसङ्गात्तत एव । अथ तस्यानुद्भूतरूपपुद्गलस्कन्धस्वभावत्वाच्चक्षुरुपलम्भतायोग्यत्वाच्च न चक्षुषा दर्शनम् । तत एव शब्दस्य तन्मा भूत् । शब्दपरमाणूनां ताल्वादिजनितवचनप्रेरितानां विस्तारप्रसङ्ग इति चेत्, न गन्धपरमाणूनामपि तत्प्रसङ्गात् । तेषां गन्धद्रव्यस्कन्धपरिणतत्वान्न वचन[पवन]प्रेरितानामपि विस्तारः शरवदिति चेत्, तर्हि शब्दपरमाणूनामपि शब्दस्कन्धपरिणतत्वात्कुतो विस्तारप्रसङ्गः ? तत एव न विक्षेपो गन्धपरमाणुवत् तेषां बन्धविशेषात्स्कन्धपरिणामसिद्धेः । मूर्तद्रव्येण प्रतिघातस्तेषां स्यादिति चेत्, न, गन्धपरमाणूनामपि तदनुषङ्गात् । कुड्यादिना अस्त्येव तत्प्रतिघात इति चेत्, शब्दपरमाणुप्रतिघातोऽपि मूर्तिमद्भिः शब्दपरमाणुभिः स्कन्धपरिणतैः श्रोतृकर्णपूरणप्रसङ्ग इति चेत्, न गन्धपरमाणुभिरपि घ्राणपूरणप्रसङ्गात् स्कन्धपरिणामाविशेषात् । नन्वेक श्रोत्रप्रवेशाद्योग्यदेशस्थितैरपि श्रोत्रन्तरैः शब्दस्याश्रवणप्रसङ्ग इति चेत्, न, एकघ्राणप्रवेशात्प्रतिपत्त्रन्तराणां योग्यदेशस्थानामपि गन्धस्याप्यघ्राणप्रसङ्गात् । गन्धपरमाणूनां सदृशपरिणामभाजां समन्ततः प्रसर्पणाददोष इति चेत्, तर्हि शब्दपरमाणूनामपि समानपरिणामभृतां नानादिक्तया विसर्पणात्स दोषो मा भूत् । शब्दस्यागमनादीनामदृष्टानामपि कल्पनाप्रसङ्ग इति चेद्, गन्धपरमाणूनामपि । अथैषां प्रतिपत्तिविशेषान्यथानुपपत्त्या निश्चयनान्नागमनादीनामदृष्टपरिकल्पनेति चेत्, शब्दपुद्गलानामपि यथा यत्र यदा यावतां प्रतिपत्तॄणामुपलब्धिस्तथा तत्र तदा तावतामुपलब्धियोग्यपरिणामविशेषोपगमात् । तदेवं शब्दस्य
( भा० ) पुद्गलस्वभावत्वे दर्शनविस्तारविक्षेपप्रतिघातकर्णपूरणैकश्रोत्र
अष्टसहस्त्रीतात्पर्यविवरणम्
मुपदर्शयति- गन्ध- परमाणूनामित्यादिना । जात्याऽदृश्यत्वमनियतमिति पुनराशङ्क्य प्रतिबन्द्योत्तरयितुमाह-अथ मतमेतदित्यादिना । प्रतिबन्दिरनुत्तरमिति महत्त्वसमानाधिकरणोद्भूतरूपाभावमदृश्यत्वप्रयोजकमुभयत्र तुल्यवदुपदर्शयति-अथ तस्येत्यादिना । प्रसङ्गान्तरमपि गन्धद्रव्यदृष्टान्तेनैव निराकरोति - शब्दपरमाणूनामित्यादिना शब्दपरमाणुप्रतिघातोऽपीति अत्राप्यागमनादीनामदृष्टानां परिकल्पनाप्रसङ्ग इति सम्बन्धनीयम् । शब्दपुद्गला
Page #308
--------------------------------------------------------------------------
________________
२७४
अष्टसहस्त्रीतात्पर्यविवरणम् प्रवेशाधुपालम्भो गन्धपरमाणुकृतप्रतिविधानतयोपेक्षामर्हति ।
ननु च न पुद्गलस्वभावः शब्दः, अस्पर्शत्वात् सुखादिवदिति बाधकसद्भावान्न पुद्गलस्वभावत्वं शब्दस्येति चेत्, न, हेतोरसिद्धत्वात् यतः
(भा०) कर्णशष्कुल्यां कटकटायमानस्य प्रायशः प्रतिघातहेतोर्भवनाधुपघातिनः शब्दस्य प्रसिद्धिरस्पर्शत्वकल्पनामस्तङ्गमयति । [शब्दाः निश्छिद्रभवनाद् बहिनिर्गच्छन्ति अन्तः प्रविशन्ति पौद्गलिकाः एव इति साध्यते]
ननु च न पुद्गलस्वभावः शब्दः, निश्छिद्रभवनाभ्यन्तरतो निर्गमनात्, तत्र बाह्यतः प्रवेशाद् व्यवधायकावेदनादेश्च [भेदनादेश्च] दर्शनात्, यस्तु पुद्गलस्वभावो, न तस्यैवं दर्शनं, यथा लोष्ठादेः, तथा दर्शनं च शब्दस्य, ततो न पुद्गलस्वभावत्वमिति चेत्, न पुद्गलस्वभावत्वेऽपि तदविरोधात् । तस्य हि
(भा०) निश्छिद्रनिर्गमनादयः सूक्ष्मस्वभावत्वात् स्नेहादिस्पर्शादिवन्न विरुध्येरन् ।
___ कथमन्यथा पिहितताम्रकलशाभ्यन्तरात्तैलजलादेर्बहिर्निर्गमनं स्निग्धतादिविशेषदर्शनादनुमीयते ? कथं वा पिहितनिश्छिद्रमृद्घटादेः सलिलाभ्यन्तरनिहितस्यान्तः शीतस्पर्शोपलम्भात्सलिलप्रवेशोऽनुमीयेत ? तदभेदनादिकं वा तस्य निश्छिद्रतयेक्षणात्कथमुत्प्रेक्षेत ? ततो निश्छिद्रनिर्गमनादिः स्नेहादिस्पर्शादिभिर्व्यभिचारी न सम्यग्घेतुर्यतः शब्दस्य पुद्गलस्वभावत्वं प्रतिक्षिपेत्, तस्य पुद्गलस्वभावत्वनिर्णयात्सर्वथाप्यविरोधात् ।
[शब्दवर्तमानकाल एव श्रूयते न च भूतभाविकाले इति निर्णयः] (भा०) अतो यत्नजनितवर्णाद्यात्मा श्रावणमध्यस्वभावः प्राक् पश्चादपि पुद्गलानां नास्तीति तावानेव ध्वनिपरिणामः
सर्वैरभ्युपगन्तव्यः ।
तस्य सकलकालकलाव्यापित्वे मध्यवत्प्राक् पश्चाच्च श्रावणस्वभावत्व
- अष्टसहस्रीतात्पर्यविवरणम् नामपि इत्यत्रापि प्रतिपत्तिविशेषान्यथानुपपत्त्येत्यादि प्राक्तनं योजनीयम् । ननु एवं
Page #309
--------------------------------------------------------------------------
________________
२७५
प्रथमो भागः [परि०१-का. १०] प्रसङ्गात् प्रयत्नजनितवर्णपदवाक्यात्मकत्वायोगात् ।
(भा०) तत्प्राक्प्रध्वंसाभावप्रतिक्षेपे कौटस्थ्यं क्रमयोगपद्याभ्यां स्वाकारज्ञानाद्यर्थक्रियां व्यावर्तयतीति निरुपाख्यमित्यभिप्रायः ।
श्रीस्वामिसमन्तभद्राचार्याणां, प्राक्प्रध्वंसाभावप्रतिक्षेपस्य कौटस्थ्येन व्याप्तत्वात्, तस्य च क्रमयोगपद्याभावेन, तत्र तद्विरोधात्, तस्यापि स्वाकारज्ञानाद्यर्थक्रियाव्यावर्तनेन, तस्य च निरुपाख्यत्वेन, सर्वथानर्थक्रियाकारिणः सकलवाग्विकल्पेभ्यो निष्क्रान्तत्वात् । स्यादाकूतं-वर्णानामानुपूर्व्यपौरुषेयीष्यते, तस्या एव प्राक्प्रध्वंसाभावानभ्युपगमात् ततो नोपालम्भः श्रेयानिति, तदप्ययुक्तं, वर्णव्यतिरेकानुपूर्व्यसम्भवात् । कथञ्चित्क्रियमाणामपि
- अष्टसहस्त्रीतात्पर्यविवरणम् पुद्गलपर्यायत्वेन पौरुषेयत्वेन च वर्णस्य नित्यत्वं माभूत्तदानुपूर्वी त्वपौरुषेयी नित्या भविष्यतीत्याद्याशङ्कते-स्यादाकूतमिति । आनुपूर्व्या वर्णाव्यतिरिक्तत्वात्तस्या अपि न नित्यत्वमित्यभिप्रायवानाह-तदप्ययुक्तमिति । एतेन वैयाकरणानां नित्यस्फोटवादोऽपि निरस्तः । आनुपूर्वीनिरासेन नि:कृष्टतद्रूपवाक्यस्फोटस्यापि निरासाद्, अन्येषां तदभियुक्तैरप्यनादृतत्वात् ।
T॥ स्फोटवादः ॥ तथाहिस्फोटवादमपवादवर्जितं, सत्वरं प्रकटयिष्यता मया । शाब्दिकप्रणयकर्मकार्मणं प्रक्रिया पटुधिया प्रदर्श्यते ॥१॥ [स्वागता] वर्ण-पद-द्रव्य-वाक्य-स्फोटा: पदवाक्यगावखण्डौ तौ । जातिस्फोटत्रयमित्यष्टौ स्फोटाः स्मृतास्तज्ज्ञैः ॥२॥ [आर्या]
(१) तत्र वर्णस्फोटः, पचति राम इत्यादि प्रयुज्यमाने साधुशब्देऽन्तर्गतानां तिव्विसर्गादीनां वाचकत्वादीनां सिद्ध्यति । ये त्वाहुः प्रयोगान्तर्गतास्तिवादयो न वाचकास्तेषां बहुत्वेन शक्त्यापत्तेः, एधाञ्चक्रे ब्रह्मेत्यादावादेशभूतलुगादेरभावरूपस्य बोधकत्वासम्भवाच्च, किन्तु तैः स्मृता लकारादयः स्वादयश्च वाचकाः, लत्वस्य जातिरूपतया शक्यतावच्छेदकत्वौचित्यादव्यभिचाराच्च, आदेशानां तु भिन्नतया परस्परव्यभिचारित्वात्, लः कर्मणि (पाणिनि० ३.४.६९) इत्याद्यनुशासनानुगुण्याच्च । न ह्यादेशेष्वर्थबोधक
१. शक्त्यानन्त्यापत्तेः इति मुद्रितम् ।
Page #310
--------------------------------------------------------------------------
________________
२७६
अष्टसहस्त्रीतात्पर्यविवरणम्
( भा० ) तदानुपूर्वीकल्पनां विस्तरेण प्रतिक्षेप्स्यामः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
मनुशासनमुपलभामह इति तान् प्रत्युच्यते व्यवस्थातः प्रयोगान्तर्गता वाचका न तु स्मृताः, पचतीत्यादौ लकारमविदुषां बोधात् । न च तेषां तिविषये शक्तिभ्रमाद् बोधः, तस्य भ्रमत्वे मानाभावात्, आदेशिनामपि तत्तद्वैयाकरणैः स्वेच्छानुरोधेन भिन्नभिन्नानामभ्युपगमात्, कः शक्तः को नेति व्यवस्थानापत्तेश्च सर्वेषां शक्तत्वे गौरवव्यभिचारौ दुरुद्धरौ । आदेशानां प्रयोगान्तर्गततया नियतत्वात् युक्तं तेषां शक्तत्वं तथा चादेशिस्मरणकल्पना नेति लाघवम् । व्यवहृतेरपि, व्यवहारस्तावच्छक्तिग्राहकेषु मुख्यः स च श्रूयमाणतिङादिष्वेवेति त एव वाचका इत्यर्थः, तद्धेतुन्यायतोऽपि लकारस्य बोधकत्वे' भू'ल' इत्यतोऽपि बोधः स्यात् । (शं०) तादृशबोधे पचतीति समभिव्याहारोऽपि कारणमिति चेत्, तर्ह्यावश्यकत्वादस्तु तादृशसमभिव्याहारस्यैव वाचकत्वशक्तिः, अन्यथा लकारस्य वाचकत्वं समभिव्याहारस्य कारणत्वं चेत्युभयं कल्प्यमिति गौरवं स्यात् । तथा च तादृशवर्णसमभिव्याहारस्तादृशसमभिव्याहृता वर्णा वेत्यत्र विनिगमकाभावात् प्रयोगान्तर्गता वर्णा वाचकाः सिद्ध्यन्ति । कृत्तिङोः कर्तृभावनावाचकत्वव्यवस्थातोऽपि तेषां तत्त्वसिद्धिः । आदेशानां वाचकत्व एव तिङ्त्वेन भावनायामानत्वादिना कर्त्तरि शक्तिरित्युपपद्यते विभागः । न च शानजादौ कृतिर्लकारार्थः, आश्रयः शानजर्थ इत्यस्तु कर्त्तरि कृत् ( पाणिनि० - ३.४.६७ ) इत्यनुशा - नादिति शङ्क्यम् । स्थान्यर्थेन निराकाङ्क्षतया शानजादौ कर्त्तरीत्यस्याप्रवृत्तेः, अन्यथा घञादावपि तत्प्रवर्त्तेत । न च देवदत्तः पचमान इति सामानाधिकरण्यानुरोधाच्छानचः कर्त्ता वाच्यः स्यादिति वाच्यम्, पचतितरां मैत्रः पचतिकल्पं मैत्र इत्यादिष्वपि तद्दर्शनादिति दिग् । (१)
(२) "एवं वर्णस्फोटे सिद्धे पदस्फोटोऽपि सिद्ध एव, समभिव्याहृतवर्णानां वाचकत्वे सिद्धे तादृशवर्णसमभिव्याहाररूपपदस्य वाचकतायाः सिद्धिधौव्यात्, प्रतिवर्णमर्थस्मरणस्यानुभवविरुद्धत्वात्, प्रत्येकवर्णानामर्थवत्त्वेन प्रातिपदिकत्वापत्तौ नलोपः प्रातिपदिकान्तस्य (पाणिनि० ८.२.७) इत्यादिभिर्द्धनवनमित्यादौ 'न' लोपापत्तेश्च । एतच्चरमवर्ण एव वाचकत्वशक्तिकल्पनौचित्यात्, तस्या व्यासज्यवृत्तित्वे मानाभावात्, पूर्वपूर्ववर्णानुभवजन्यसंस्काराश्चरमेणार्थधीजनने सहकारिण इति न तन्मात्रोच्चारणादर्थधीः । सुप्तिङन्तं पदम् (पाणिनि०-१.३.१४) इति पक्षेऽपि घटेनेत्यादौ प्रकृतिप्रत्ययविभागस्य वस्-नसादिसमुदायादेश इव दुर्ज्ञानत्वात्पदस्फोटः स्वीकार्यः । (२)
१. भावनायां शानजादिना (वै० भू० सा०, ६०)
Page #311
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि. १-का. १०]
२७७ वक्तर्यनाप्ते इत्यत्र [का० ७८] तत्प्रतिक्षेपविस्तारवचनात् । तदिह पर्याप्तं
- अष्टसहस्त्रीतात्पर्यविवरणम् (३) एवं हरेऽव विष्णोऽवेत्यादौ प्रत्येकपदज्ञानेऽपि समुदायशक्तिज्ञानाच्छाब्दबोधोदयाद्वाक्यस्फोटोऽपि सिद्ध एव । वस्तुतः पदैः पदार्थावबोधो वाक्येन वाक्यार्थावबोध इति पदार्थशक्तिः पदेष्विव वाक्यार्थशक्तिर्वाक्येऽभ्युपेयेति पदस्फोटवाक्यस्फोटौ व्यवस्थितौ, अन्यथा घटः कर्मत्वमानयनं कृतिरित्यादौ विपरीतव्युत्पत्तिरहितस्यापि बोधप्रसङ्गात् । (शङ्का) तत्रैव घटकर्मकमानयनमिति बोधे घटार्थकप्रातिपदिकोत्तरकर्मत्ववाचकविभक्तेस्तत
आनयनार्थकधातोस्तत आख्यातस्य समभिव्याहारः कारणमिति कार्यकारणभावज्ञानमपि हेतुरिति चेत्, तर्हि सिद्धो वाक्यस्फोटः घटादिपदार्थबोधे बोधकतारूपपदशक्तिज्ञानस्येव विशिष्यवाक्यार्थबोधे पदसमभिव्याहाररूपवाक्यनिष्ठबोधकतारूपवाक्यशक्तिज्ञानस्यापि हेतुत्वकल्पनात्, अर्थोपस्थापकज्ञानविषयशब्दवृत्तिज्ञानकारणत्वस्यैव शक्तित्वात् । (शङ्का) वाक्यार्थस्य अपूर्वत्वात् कथं तत्र शक्तिग्रहः ? इति चेत्, अन्विताभिधानवादे पदेऽपि कथम् ? अन्वयस्यापूर्वत्वात् । यदि च पदशक्तिः पदार्थांशे ज्ञाताऽन्वयांशे चाज्ञातोपयुज्यत इति कुब्जशक्तिवादः, तदा ममापि वाक्यशक्तिरज्ञातैवोपयुज्यत इति वादाभ्युपगमस्तुल्यः । (शङ्का) अन्विते पदशक्तिग्रहो वृद्धव्यवहारदर्शनसहकृतेन मनसा चेत्, वाक्येऽपि तुल्यमेतत्, अत एव सर्वत्र वाक्यार्थो लक्ष्य इति भाट्टाः । वस्तुतः समुदितार्थे विशिष्टवाक्यस्यैव प्रथम शक्तिग्रहस्तदनन्तरमावापोद्वापाभ्यां प्रत्येकं तद्ग्रह इत्युपजीव्यत्वाद्वाक्यस्फोट आश्रयणीयः । न च पदत्वं वाक्यत्वं वा दुर्ग्रहम्, चरमवर्णप्रत्यक्षसमयेऽव्यवहितोत्तरत्वसम्बन्धेनोपस्थितपूर्ववर्णवत्त्वरूपस्य तस्य सुग्रहत्वात् ।।
__ (४-५) वाक्यं पदं चाखण्डमेव, न तु वर्णसमूहोऽनन्तवर्णकल्पने मानाभावात्ततद्वर्णोत्पादकत्वाभिमतवायुसंयोगनिष्ठं वैजात्यमादायैव ककारो गकार इत्यादिप्रतीतिवैलक्षण्यसम्भवात, उक्तं हि देवताधिकरणे भामत्यां-T'तारत्वादि वायुनिष्ठं वर्णेष्चावारोप्यत' इति । न च एवं वाचकोऽपि वायुसंयोग एव स्यात्, प्रत्यक्षोपलभ्य-'क'कारादेरेव तत्त्वस्यानुभविकत्वात् । तथा च तदेवेदं पदं तदेवेदं वाक्यमित्यादिधियाऽखण्डस्फोट: सिद्ध्यति । एतेन गौरित्यादौ गकारौकारविसर्गादिव्यतिरेकेण स्फोटाननुभवात् श्रूयमाणवर्णानामेव वाचकत्वमिति अपास्तम् तेषां स्फोटातिरिक्तत्वाभावात्, उक्तवायुसंयोगानां मध्ये केषांचिद् गत्वेन केषांचिदोत्वेन केषांचिद्विसर्गत्वेनाभिव्यञ्जकत्वान्नानुपपत्तिः, अव्यवहितोत्तरत्व सम्बन्धेन 'घ'वत्त्वस्य टकारे ग्रहादेतादृशपदज्ञानकारणताया अविवादात. परं त्वव्यवहितोत्तरत्वं स्वज्ञानाधिकरणक्षणोत्पत्तिकज्ञानविषयत्वं वाच्यम्, अत एव 'घ'ज्ञानानन्तर
Page #312
--------------------------------------------------------------------------
________________
२७८
अष्टसहस्त्रीतात्पर्यविवरणम्
तत्प्रबन्धेन, सर्वथा प्राक्प्रध्वंसाभावनिह्नवे यथानिगदितदूषणगणप्रसङ्गस्य परिहरणा
अष्टसहस्त्रीतात्पर्यविवरणम् ज्ञानविषयत्वरूपा 'ट'स्यानुपूर्वीत्यादिनैयायिकवृद्धानां प्रवादः । एतेन पर्यायस्थलेष्वेक एव स्फोटो नाना वा ? नाद्यो घटपदे गृहीतशक्तिकस्य कलशपदाद् बोधप्रसङ्गात् । न च तत्पर्यायाभिव्यक्तशक्तिग्रहस्तत्पर्यायश्रवणेऽर्थधीहेतरिति वाच्यम । एवं प्रतिपर्यायं शक्तिग्रहध्रौव्येण तत्तत्पर्यायशक्तिग्रहहेतुताया उचितत्वात्, तथा सति शक्तिग्रहत्वेनैव हेतुत्वे लाघवात् । अन्यथा तत्पर्यायाभिव्यक्तशक्तिग्रहत्वेन हेतुत्वे गौरवात् । न द्वितीयोऽनन्तपदार्थानां तेषां शक्तिं चापेक्ष्य क्लुप्तवर्णेष्वेव शक्तिकल्पनाया लघुत्वादिति परिमलोक्तं अपास्तम, पर्यायेष्वनेकशक्तिस्वीकारस्य सर्वसिद्धत्वात्, तदवच्छेदकानुपूर्व्याश्चोपपादितत्वात् । शब्दकौस्तुभे तु वर्णमालायां पदमिति प्रतीतेर्वर्णातिरिक्त एव स्फोटोऽन्यथा कपालातिरिक्तघटासिद्धिप्रसङ्गादित्युक्तम् । ननु एवं पदस्याखण्डत्वे शास्त्राप्रामाण्यप्रसङ्गस्तस्य प्रकृतिप्रत्ययाभ्यां पदव्युत्पादनमात्रार्थत्वादिति चेत्, न, वास्तवब्रह्मबोधनाय वेदान्तेषु कोशपञ्चकव्युत्पादनवद्वास्तवस्फोटबोधनाय व्याकरणे प्रकृतिप्रत्ययादिव्युत्पादनोपपत्तेः । न च प्रत्यक्षस्य स्फोटस्य ग्रहे किं शास्त्रोपायापेक्षयापि ? इति वाच्यम्, उपायस्योपायान्तरादूषकत्वात्, तथा च व्याकरणाभ्यासजन्यज्ञाने वैजात्यं कल्प्यते, मन्त्रजन्यमिवार्थस्मरणे, वेदान्तजन्यमिव ब्रह्मज्ञाने, तस्य च ज्ञानस्य यज्ञादीनामन्तःकरणशुद्धाविव शरीरादिशुद्धावुपयोगः, साक्षात्परम्परया वा स्वर्गमोक्षादिहेतुत्वं च । तदक्तं वाक्यपदीये
तद् द्वारमपवर्गस्य, वाङ्मलानां चिकित्सितं । पवित्रं सर्वविद्यानामधिविद्यं प्रकाशते ॥१॥ [ब्रह्मकाण्ड-१४] इदमाद्यं पदस्थानं, सिद्धिसोपानपर्वणाम् ।
इयमामोक्षमाणानामजिह्मा राजपद्धतिः ॥२॥ इति । [ब्रह्मकाण्ड-१६]
न च अलीकया प्रकृतिप्रत्ययकल्पनया कथं वास्तवस्फोटबोध इति वाच्यं, रेखागवयन्यायाश्रयणात् । अथ स्फोटस्य वर्णानां च नित्यतया ककारोत्पत्त्यादिप्रत्ययः कथमिति
चेत्, उदात्तत्वादेरिव कत्वादेरुपाधेः कल्पितस्याश्रयणात् । वस्तुतः स एवायमिति प्रत्यभिज्ञाने गादेर्नित्यत्वात् (शं०) न च गत्वावच्छिन्नप्रतियोगिताकभेदाभावस्तद्विषयो, (उ०) व्यक्त्यंशाभेदस्यापि भासमानस्य विना बाधकं त्यागायोगात् । (शं०) न चोत्पत्तिप्रतीति
र्बाधिका, (उ०) प्रागसत्त्वे सति सत्त्वरूपाया उत्पत्तेर्वर्णेष्वनुभवविरुद्धत्वात् । अत एव वर्णमुच्चारयतीति प्रत्ययो, न तूत्पादयतीति, उच्चरितत्वं च ताल्वोष्ठसंयोगादिजन्याभिव्यक्तिविशिष्टत्वम् । किञ्च व्यञ्जकध्वनिनिष्ठोत्पत्त्यादेः परम्परया वर्णनिष्ठत्वविषयत्वेनाप्युपपत्तेर्न
Page #313
--------------------------------------------------------------------------
________________
२७९
प्रथमो भागः [ परि० १-का० १०] सम्भवात् ।
अष्टसहस्त्रीतात्पर्यविवरणम् - साऽतिरिक्तवर्णसाधिका । न च वर्णस्थले नियमतो ध्वनिसत्त्वे मानाभावस्तदुत्पादकशङ्खाद्यभावेन तदसम्भवश्चेति वाच्यम् । ककाराधुच्चारणस्थले तत्तत्स्थानस्य जिह्वयेषदन्तरपाते वर्णानुत्पत्तेच॑न्युत्पत्तेश्च दर्शनात्, जिह्वाभिघातजवायुकण्ठसंयोगादेर्ध्वनिजनकत्वकल्पनात्तस्य च वर्णोत्पत्तिस्थलेऽपि सत्त्वात्तवैवाप्रामाणिकप्रतिबध्यप्रतिबन्धकभावकल्पने गौरवादिति सिद्धावखण्डपदवाक्यस्फोटौ । (४-५)
(६-७-८) जातिस्फोटा यथा-वर्णास्तावदावश्यकाः, तदनादरेण स्फोटाभ्युपगमे सोऽयं गकारो यः पूर्वं श्रुत इत्यपि स्यात्, न स्याच्च गकारोऽयं न हकार इति, स्फोटस्यैकत्वात् । किञ्च स्फोटे गत्वाद्यभ्युपेयं न वा ? आद्ये तदेव गकारोऽस्तु, वर्णनित्यतावादिभिरतिरिक्तगत्वानङ्गीकारात्, तथा चातिरिक्तस्फोटकल्पन एव गौरवम् । अन्त्ये गकारादिप्रतीतिविरोधः, गत्वारोपे मानाभावादिति कृतं स्फोटेन । तस्मात् सन्त्येव वर्णाः, परन्तु न वाचकाः, आकृत्यधिकरणन्यायेन जातेरेव वाच्यत्ववद्वाचकत्वस्यापि युक्तत्वाच्च । इदं हरिपदमित्यनुगतप्रतीत्या हर्युपस्थितित्वावच्छिन्ने हरिपदज्ञानत्वेन हेतुत्वात्तदवच्छेदकतया च जातिविशेषस्यावश्यकल्प्यत्वात् । न च वर्णानपव्यैव प्रतीत्यवच्छेदकत्वयोः निर्वाह:, घटत्वादेरपि संयोगविशेषविशिष्टमृदाकारादिभिश्चान्यथासिद्ध्यापत्तेः, तस्मात् सा जातिरेव वाचिका, तादात्म्येन तदवच्छेदिका च । न च जातेः प्रत्येकं वर्णेष्वपि सत्त्वात् प्रत्येकतो अर्थबोधापत्तिः, अनेकव्यक्त्यभिव्यङ्ग्यजातेरेव स्फोटत्वेनाभिधानात्, वर्णस्फोटपक्षे कथितदोषसत्त्वेऽपि पदवाक्यपक्षयो यम्, तस्या व्यासज्यवृत्तित्वस्य धर्मिग्राहकमानसिद्धत्वादिति निष्कर्षः । नन का सा जातिरिति चेत्, अत्राहु:
सत्यासत्यौ तु यौ भागौ प्रतिभावं व्यवस्थितौ ।। सत्यं यत्तत्र सा जातिरसत्या व्यक्तयो मताः ॥ इति । [वैयाकरणभूषणसार-७३] (६-७-८)
अत्र ब्रूमः १अष्टसु स्फोटेषु तावन्निष्कृष्टो जातिरूपवाक्यस्फोट एव ज्यायस्तया वैयाकरणैरिष्यते, स चानेकव्यक्त्यभिव्यङ्ग्या जातिः, तत्त्वं चानेकव्यक्तिज्ञानजन्यज्ञानविषयत्वम्, तथा चानेकव्यक्तिज्ञानैरेवार्थबुद्ध्युपपत्तौ किमन्तर्गडुना जातिस्फोटेन ? । किञ्च यथाकथञ्चिदनगमार्थं जातिकल्पनेऽखण्डोपाध्यादेरुच्छेदापत्तिरिति वर्णानपव्यव प्रतीत्यवच्छेदकत्वयोनिर्वाह उचितः, तथैवान्वयव्यतिरेकदर्शनात् । सा च वर्णानतिरिक्तेति को वातिरिक्तः स्फोटः ? । न च वर्णात्मनापि नित्यत्वं युक्तम्, तदुत्पत्त्यादिप्रतीते:
१. तुलना-शब्दकौस्तुभ अ-१ पाद-१, आह्निक-१ ।
Page #314
--------------------------------------------------------------------------
________________
२८०
अष्टसहस्त्रीतात्पर्यविवरणम्
अथेतरेतराभावात्यन्ताभावानभ्युपगमवादिनां दूषणमुद्भावयिषवः [ मुद्बिभाव
अष्टसहस्त्रीतात्पर्यविवरणम्
सार्वजनीनत्वात्, ‘वर्णमुच्चारयति न तूत्पादयति' च पटं वयति न तूत्पादयतीत्यनेन तुल्यम्, अभिव्यक्तिविषयत्वमप्युत्पत्तेर्द्रव्यार्थनयेन सर्वत्रातिप्रसञ्जकम्, पर्यायार्थिकनये चाभिव्यक्त्यंशस्य गौरवेण त्यागाच्छुद्धोत्पत्तिग्रहोऽपि सर्वत्र तुल्यः, ज्ञायमानस्य हेतोर्लाघवेनैकस्य स्फोटत्वे च धूमपरामर्शादिस्थलेऽप्येकः स्फोटः स्यादिति न किञ्चिदेतत् । वर्णमालायां पदमिति प्रतीत्या वर्णातिरिक्तस्फोटं साधयन् दीक्षितस्त्वशिक्षितालापकृदेव । एवं सत्यधिष्ठानस्य सत्यतया वर्णमालायाः सत्यत्वस्य तत्राध्यस्तस्य स्फोटस्य घटवदेवासत्त्वस्य चापत्तेः । न च वर्णाश्रितत्वेऽपि स्फोटस्य गोत्वादिवज्जातिरूपत्वेन नित्यत्वात् सत्यत्वमिति वाच्यम् । ब्रह्मदर्शने गोत्वादिजातेरप्यसत्त्वादनित्यत्वम्, आत्मैवेदं सर्वमिति श्रुतिवचनादिति "कैयटग्रन्थपर्यालोचनतया गोत्वादिवज्जातिरूपस्यापि स्फोटस्याश्रितत्वेनानित्यत्वादसत्यत्वापत्तेः, तत्तद्व्यक्तिविशिष्टं ब्रह्मैव जातिस्फोट इति स्वीकारे च घटादावपि सत्यभागस्य जातेः स्फोट इति नाम कुतो न स्वीक्रियते ? उपाधिरूपविशेषणाभावे सर्वत्र शुद्धब्रह्मपर्यवसानाविशेषात्, पर्यायार्थनयव्युत्क्रान्तार्थग्राहिणो द्रव्यार्थिकस्यापश्चिमविकल्पनिर्वचनत्वेन तत्र शब्दब्रह्मत्वमर्थब्रह्मत्वं वेति पक्षपातस्य निर्मूलत्वात् सप्तभङ्गीनये कथञ्चिदनिर्वाच्यत्वस्य विचारजन्यनिर्विकल्पकज्ञानमादायैवाविरोधात् । एतेन
इत्थं निष्कृष्यमाणं यत्, शब्दतत्त्वं निरञ्जनम् ।
ब्रह्मैवेत्यक्षरं प्राहुस्तस्मै पूर्णात्मने नमः ॥१॥ [ वैयाकरणभूषणसार-७२]
इति व्याख्यातम्, अर्थविनिर्मुक्तस्य ज्ञानस्येवाक्षरस्याप्यभावात्, अनन्तधर्मकत्वेऽप्यक्षरत्वस्याद्वयत्वस्य चातद्व्यावृत्त्या नयविशेषेणोपपत्तेः प्रमाणतया श्रयणेऽपि मनोमयत्व - वच्छब्दमयत्वस्य ब्रह्मण्यसिद्धेः, आत्मभावसमवस्थानरूपस्य परब्रह्मण एवानेकान्तसिद्धान्तनीत्या सकलकलङ्करहितस्य विपश्चिताश्रयणीयत्वादिति शिवम् ।
यो व्यक्तिस्फोटा अविचलितपर्यायविषया, अखण्डौ द्वौ स्फोटौ तदनुगतसद्द्रव्यविषयौ । न तिर्यक्सामान्यात्त्रयमिह विभिन्नं च तदयं, नयानां कल्लोलः कलयति चमत्कारमभितः ॥
अमूहग्भङ्गानां निबिडतरजालं नयकृतं, प्रयाति छित्त्वैव प्रथितभजनास्त्रेण सुकृती ।
Page #315
--------------------------------------------------------------------------
________________
२८१
प्रथमो भागः [ परि. १-का. ११] यिषवः] प्राहुराचार्याः
सर्वात्मकं तदेकं स्यादन्यापोहव्यतिक्रमे ।
अन्यत्रसमवाये न व्यपदिश्येत सर्वथा ॥११॥ तदित्यनेन सर्वप्रवादिनामिष्टं तत्त्वं परामृश्यते । तदेकं सर्वात्मकं स्यात्, अनिष्टात्मनापि भावादन्यापोहस्य व्यतिक्रमे । स्वसमवायिनः समवाय्यन्तरे समवायोऽन्यत्रसमवायः, अत्यन्ताभावव्यतिक्रमः । तस्मिन सर्वस्यष्टं तत्त्वं सर्वथा न व्यपदिश्येत, स्वेष्टात्मना व्यपदेशेऽनिष्टात्मनोऽपि व्यपदेशप्रसङ्गात्, तेनाव्यपदेशे स्वेष्टात्मनाप्यव्यपदेशापत्तेः स्वयमिष्टानिष्टात्मनोः कालत्रयेऽपि विशेषानुपगमात् ।
[इतरेतराभावस्य लक्षणं तस्य निह्नवे च हानिप्रदर्शनम्] कः पुनरन्यापोहो नाम ? (भा०) स्वभावान्तरात्स्वभावव्यावृत्तिरन्यापोहः ।
स्वभावान्तरादिति वचनान्न स्वस्वभावाद् व्यावृत्तिरन्यापोहः, तस्याः स्वापोहत्वप्रसङ्गात् । अथापि प्रागभावप्रध्वंसाभावयोरन्यापोहत्वप्रसक्तिरिति चेत्, न, कार्यद्रव्यात्पूर्वोत्तरपरिणामयोः स्वभावान्तरत्वेऽपि तस्य तद्व्यावृत्तेविशिष्टत्वात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
पतत्युच्चैर्वैयाकरणहरिणस्तत्र विवशो,
न सिद्धिः स्याद्वादादिति य इह सूत्रं विमृशति ॥२॥ [शिखरिणी] स्फोटवाद: सम्पूर्णः ॥१०॥
अन्यत्रेति विवृणोति । स्वसमवायिन इति स्वमात्मा समवायि यस्येति विग्रहात् स्वसमवायिन आत्मसमवेतज्ञानादेः, समवाय्यन्तरे=व्योमादौ, समवायोऽन्यत्रसमवाय उच्यते, अत्यन्ताभावव्यतिक्रमः स एव । तस्मिन्निति तस्मिन्नभ्युपगम्यमाने, सर्वस्य प्रवादिनः, इष्टं तत्त्वं सर्वथा तस्यैवेत्याकारेण, न व्यपदिश्येत । तस्य कार्यस्य, तव्यावृत्तेः पूर्वोत्तरपरिणामरूपव्यावृत्तेः, विशिष्टत्वा=विलक्षणत्वाद्, ध्वंसत्वप्रागभावत्वाभ्यामिति शेषः । तथा चोपधेयसाङ्कर्येऽप्युपाधीनामसाङ्कर्यान्न दोषस्तद्व्यक्तित्वा
Page #316
--------------------------------------------------------------------------
________________
२८२
अष्टसहस्त्रीतात्पर्यविवरणम् यदभावे हि नियमतः कार्यस्योत्पत्तिः स प्रागभावः, यद्भावे च कार्यस्य नियता विपत्तिः स प्रध्वंसः । न चेतरेतराभावस्याभावे भावे च कार्यस्योत्पत्तिर्विपत्तिर्वा, जलस्याभावेऽप्यनलस्यानुत्पत्तेः क्वचित्तद्भावे च तस्याविपत्तेः । क्वचिदन्धकारस्याभावे रूपज्ञानोत्पत्तेः स प्रागभावस्तस्य स्यादिति न मन्तव्यं, नियमग्रहणात् केषाञ्चिदन्धकारेऽपि रूपज्ञानोत्पत्तेः । तत एव नान्धकारं रूपज्ञानस्य प्रध्वंस:, तद्भावे नियमतस्तद्विपत्यप्रतीतेः । ततः सूक्तम् अन्यापोहलक्षणं 'स्वभावान्तरात्स्वभावव्यावृत्तिरन्यापोह' इति, तस्य कालत्रयापेक्षेऽत्यन्ताभावेऽप्यभावादतिव्याप्त्ययोगात् । न हि घटपटयोरितरेतराभावः कालत्रयापेक्षः, कदाचित्पटस्यापि घटत्वपरिणामसम्भवात्, तथा परिणामकारणसाकल्ये तदविरोधात्, पुद्गलपरिणामानियमदर्शनात् । न चैवं चेतनाचेतनयोः कदाचित्तादात्म्यपरिणामः, तत्त्वविरोधात् ।
– अष्टसहस्रीतात्पर्यविवरणम् वच्छिन्नभेदेऽपि तद्रव्यत्वावच्छिन्नभेदाभावश्रयणाद्वेति बोध्यम् । उपाध्यसाङ्कर्यमेव प्रदर्शयति-यदभावे हीत्यादि । नियमग्रहणादिति न च एवं सिद्ध्यभावे नियमतोऽनुमित्युत्पत्तेः सिद्धेनुमितिप्रागभावत्वप्रसङ्ग इति वाच्यम् । पूर्वपरिणामान्तर्भावेनेष्टत्वात्, अनुमितेरपि सिद्धित्वेन सिद्ध्यभावत्वेनानुमितिनिरूपितस्य कालिकव्याप्तिघटितनियमस्याभावाच्च । न हि घटपटयोरित्यादि, ननु एवं जीवेऽजीवभेदे कालत्रयापेक्षेऽत्यन्ताभाव लक्षणातिव्याप्तिः, न च सोऽत्यन्ताभाव एव, प्रतीतिवैलक्षण्यात्, नञाऽत्यन्ताभावबोधनेऽनुयोगिवाचकपदे सप्तम्या अन्योन्याभावबोधने च प्रतियोग्यनुयोगिवाचकपदयोः समानविभक्तित्वस्य तन्त्रत्वाच्चात्यन्ताभावत्वादिना बोधने तथाव्युत्पत्तेराश्रयणेऽपि तथालक्षणस्यावश्यमृग्यत्वाच्चेति चेत्, सत्यम्, त्रैकालिकी तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावः [ ] इत्यत्र परिणामपदमहिम्ना धर्मत्वनियामकसम्बन्धबोधात्तृतीयातत्पुरुषाश्रयणाच्च संसर्गावच्छिन्नप्रतियोगिताकाभावत्वमत्यन्ताभावत्वमिति तात्पर्यात् । इत्थं चान्योन्याभावलक्षणस्य तादात्म्यावच्छिन्नप्रतियोगिताकाभावत्वस्यैव लाभान्न दोषः । तत्त्वं क्लुप्ताधिकरणेऽतिरिक्तपदार्थे वेति पुनरन्यदेतत्, संयोगितादात्म्यस्यैव संयोगत्वे च 'तादात्म्यत्वावच्छिन्नावच्छेदकताकप्रतियोगिताकाभावत्वमन्योन्याभावत्वम्,' 'तदितराभावत्वं संसर्गाभावत्वम्' इति वदन्ति । Tतादात्म्यत्वस्यातिरिक्तस्य कल्पनायां गौरवाद्भेदत्वात्यन्ताभावत्वाद्यखण्डोपाधिरिति तु नव्याः । युक्तमेतत्, तत्तत्स्वरूपे तत्तद्भेदत्वादेर्यथाप्रतीति कल्पनाद् भावसङ्करस्येवाभावसङ्करस्याप्यदुष्टत्वात्, अभिलापभेदस्य च विवक्षावैचित्र्याद्यधीनत्वादिति दिग ।
Page #317
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि० १ - का० ११ ]
२८३
[विज्ञानाद्वैतवादी इतरेतराभावं न मन्यते तस्य विचारः क्रियते ]
नन्वितरेतराभावस्य व्यतिक्रमे चार्वाकस्य पृथिवीतत्त्वं सकलजलाद्यात्मकमनुषज्यतां, साङ्ख्यस्य च महदादिपरिणामात्मकमशेषतस्तदस्तु । सौगतानां तु विज्ञानमात्रमुपयतां किं किमात्मकं स्याद् ? इति कश्चित् सोऽपि न विपश्चित् । सौगतानामपि हि
(भा०) संविदो ग्राह्याकारात्कथञ्चिद् व्यावृत्तावनेकान्तसिद्धिरन्यथा सम्बन्धासिद्धिः ।
सर्वथा व्यावृतौ संविद्ग्राह्याकारयोरुपकार्योपकारभावानभ्युपगमात्सम्बन्धान्तराभावात् ।
(भा०) अव्यावृत्तावन्यतरस्वभावहानेर्न किञ्चित्स्यात् ।
संविदो ग्राह्याकारेऽनुप्रवेशे ग्राह्याकार एव स्यान्न संविदाकारः । तथा च तस्याप्यभावः, संविदभावे ग्राह्याकारायोगात् । ग्राह्याकारस्य वा संविद्यनुप्रवेशेऽसंविदेव, न ग्राह्याकारः स्यात्, कस्यचित्संवेदनमात्रस्य
(भा०) विषयाकारविकलस्यानुपलब्धेः ।
ननु च
नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽपरः । ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते ॥ [
]
अष्टसहस्त्रीतात्पर्यविवरणम्
अन्यापोहव्यतिक्रमे भेदवादिनां दोषः स्यान्नाभेदवादिनः सौगतस्येत्याशङ्कते नन्वि - त्यादिना । उत्तरयति-सौगतानामपि हीत्यादिना । क्षणिकत्वेन व्यक्तिभेदे तेषामविवाद एव, ग्राह्यग्राहकत्वाभ्यामांशिकस्वरूपभेदकथनार्थं पुनरयमुपक्रमः, ग्राह्यग्राहकाकारविवेकान्यथानुपपत्त्या ज्ञानमात्रमपि कथञ्चिद्भेदशालि स्वीकार्यमेवेति निष्कर्ष: । ननु मतापरिज्ञानविजृम्भितमेतत् ज्ञानमात्रस्य माध्यमिकेनाभ्युपगमात्, तन्मते च ग्राह्याकारस्यालीकत्वादलीकभेदस्य च वास्तवान्यापोहव्यतिक्रमाविरोधित्वादिति आशङ्कते-ननु चेत्यादिना । एवमपि स्वलक्षणप्रत्यक्षे संवेद्याकारमिथ्यात्वावगाहिज्ञानवैलक्षण्यध्रौव्या
Page #318
--------------------------------------------------------------------------
________________
२८४
अष्टसहस्त्रीतात्पर्यविवरणम् इति चेत्, एवमपि
(भा० ) संवित्तेः स्वलक्षणप्रत्यक्षवृत्तावपि संवेद्याकारविवेकस्वभावान्तरानुपलब्धेः स्वभावव्यावृत्तिः
स्वभावान्तरात्सिद्धेति कथं तल्लक्षणान्यापोहव्यतिक्रमः सौगतस्य शक्यः
कर्तुम् ?
[चित्राद्वैतवादिमतेऽपि इतरेतराभावः सिद्ध्यत्येव] चित्रैकज्ञानवादिनः पुनः (भा०) शबलविषयनिर्भासेऽपि लोहितादीनां ।।
( भा०) परस्परव्यावृत्तिरभ्युपगमनीया, अन्यथा चित्रप्रतिभासासम्भवात्तदन्यतमवत्, तदालम्बनस्यापि नीलादेरभेदस्वभावत्वापत्तेः,
नीलाद्यान्यतमवत् । प्रतिभासभेदाभावेऽपि नीलादेर्भेदव्यवस्थितौ न किञ्चिदभिन्नमेकं स्यात्, निरंशस्वलक्षणस्याप्यनेकत्वप्रसक्तेः । ततः पीतादिविषयस्वरूपभेदमन्विच्छता तत्प्रतिभासभेदोऽनेकविज्ञानवदेकचित्रज्ञानेऽप्येष्टव्यः । तदिष्टौ च स्वभावान्तरात्स्वभावव्यावृत्तिः पारमार्थिकी सिद्ध्यतीति सिद्धस्तल्लक्षणोऽन्यापोहः । तथा चित्रज्ञानस्य स्वनि सेभ्यो लोहितादिभ्यो विषयस्य च चित्रपटादेः स्वाकारेभ्यो नीलादिभ्यो व्यावृत्तिः सिद्धा ।
[चित्राद्वैतज्ञानस्यैकानेकस्वभावात् एकानेकस्वभावज्ञाने इतरेतराभावः सिद्ध्यत्येव] कुतः प्रमाणादिति चेत्,
अष्टसहस्रीतात्पर्यविवरणम् न्नान्यापोहव्यतिक्रमः सौगतस्य युक्त इत्याशयेन समाधत्ते-नैवमपीत्यादिना । तादृशज्ञानस्यालीकत्वे च दत्तो माध्यमिकमताय जलाञ्जलिः । (शा) विचारजन्यं शन्यज्ञानमेव प्रमाणं नान्यत् स्वलक्षणप्रत्यक्षमप्यप्रामाण्यशङ्काकलङ्कितत्वादिति चेत्, तर्हि तत्रापि मिथ्यासंस्कारविरोधितावच्छेदकं वैजात्यं वक्तव्यमिति ध्रुवोऽन्यापोहः । विचारस्य सत्यत्वे नियमभङ्गोऽसत्यत्वे च सत्यज्ञानजनकशक्तिविरहात् सत्यज्ञानोच्छेद इति यत्किञ्चिदेतत् । चित्राद्वैतवादेऽपि योगाचारस्य चित्रज्ञाने नीलादिमात्रविषयकज्ञानत्वावच्छिन्नभेदरूपो नीलाद्याकारभेदरूप
Page #319
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि० १-का. ११]
२८५ (भा०) तद्वतस्तेभ्यो व्यावृत्तिः, एकानेकस्वभावत्वाद् घटरूपादिवदित्यनुमानात् ।
न हि लोहितादिनिर्भासा एव नीलाद्याकारा एव वानेकस्वभावा, न पुनरेकस्वभावं तद्वद्वेदनं बहिर्द्रव्यं चेति शक्यं वक्तुं, यतोऽसिद्धो हेतुः स्यात्, तस्याप्यबाधितप्रतीतिसिद्धत्वात् ।
(भा०) अन्यथा द्रव्यमेव स्यान्न रूपादयः ।
एतेन चित्रज्ञानमेव स्यान्न तल्लोहितादिनिर्भासा इत्युपदर्शितम् । शक्यं हि वक्तुं
(भा०) स्वभावैकत्वेऽपि निर्भासवैलक्षण्यं करणसामग्रीभेदमनुविदध्याद्, दूरासन्नैकार्थोपनिबद्धनानादर्शननिर्भासवत् ।
यथैव हि चित्रपटादिद्रव्यमेकस्वभावमपि चक्षुरादिकरणसामग्रीभेदादूपादिविलक्षणाकार, तदनुविधानात् तथा चित्रज्ञानमपि नानान्तःकरणवासनासामग्रीभेदाद्विलक्षणलोहितादिनिर्भासम् ।
[ज्ञानभेदात् वस्तूनां स्वभावभेदोऽपि भवेदेव] तथानभ्युपगमे
- अष्टसहस्त्रीतात्पर्यविवरणम् श्चान्यापोहोऽवश्यमादरणीय इत्याह-चित्रकज्ञानवादिनः पुनरित्यादिना । तद्वत इति तद्वतो लोहितादिनिर्भासवतश्चित्रज्ञानस्य, तेभ्यो लोहितादिनि सेभ्यो व्यावृत्तिरस्तीति साध्यम्, एकानेकस्वभावत्वादिति हेतुः, यथा घटस्य रूपरसादिभ्य इति दृष्टान्तः । एकमिदमनुमानम्, द्वितीयं च तद्वतो= नीलाद्याकारवतश्चित्रपटादेस्तेभ्यो नीलाद्याकारेभ्य इत्यभिलापेन द्रष्टव्यम् । न पुनरिति अनेकस्वभावमिति विपरिणतानुषङ्गेनान्वयः तद्वल्लोहितादिनिर्भासवन्नीलाद्याकारवच्च । हेतुः= एकानेकस्वभावत्वरूपः, यदि च रूपादय एव लोकप्रतीतत्वात् सन्ति न द्रव्यमिति परेणोच्यते तदाह भाष्यकृत्-मम सामान्याभिप्रायेण द्रव्यमेवास्ति' न रूपादय इति, तुल्य: पक्ष इत्यर्थः । ज्ञानमधिकृत्याह वृत्तिकृत्एतेनेति । चित्रज्ञानैकत्वे निर्भासभेदप्रकारमुपदर्शयति-शक्यं हि वक्तुमित्यादिना । प्रसङ्गापादनमात्रमेतदिति विपर्ययपर्यवसानमाह-तथानभ्युपगम इत्यादि । भाष्ये वाकारो
१. द्रव्यमेव स्यान्न रूपादय इति अष्टसहस्रीसम्मतः पाठः ।
Page #320
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम्
( भा० ) प्रतिपुरुषं विषयस्वभावभेदो वा सामग्रीसम्बन्धभेदात् ।
क्वचिदेकत्रार्थे दूरस्थपुरुषस्यान्यो हि दूरे देशसामग्रीसम्बन्धोऽन्यश्चासन्नदेशसामग्रीसम्बन्धः, इति दूरासन्नानामेकत्र वस्तुन्युपनिबद्धनानादर्शनानां पुरुषाणां निर्भासभेदात्तद्विषयस्य वस्तुनोऽपि स्वभावभेदोऽस्तु विशेषाभावात्, करणसामग्रीभेदवद्दूरादिदेशसामग्रीसम्बन्धभेदस्यापि विषयस्वभावभेदमन्तरेणानुपपत्तेः । ततोऽन्तर्बहिश्च स्वभावभेदैकान्तसिद्धेर्न क्वचिदेकत्वव्यवस्था ।
२८६
( भा० ) अन्यथा
निर्भासभेदेऽपि कस्यचिदेकरूपतोपगमे,
( भा० ) न केवलं रूपादेरभेदः, किं तर्हि ?
(भा०) कस्यचित्क्रमशः सम्बन्ध्यन्तरोपनिपातोऽपि स्वभावं न भेदयेत् । ततः क्रमवन्त्यपि कार्याणि तत्स्वभावभेदं नानुमापयेयुः ।
क्रमशः सुखादिकार्यभेदस्य साधनधर्मस्य क्वचिदेकत्र समानसम्बन्धोपनीतनिर्भासभेदेन व्यभिचारात् । न चैवं शक्यमभ्युपगन्तुम् ।
( भा० ) ततो यावन्ति सम्बन्ध्यन्तराणि तावन्तः प्रत्येकं भावस्वभावभेदाः परस्परव्यावृत्ताः
सह क्रमेण च प्रतिपत्तव्याः ।
[बौद्धः पदार्थेषु सर्वथा सम्बन्धं न मन्यते]
ननु च सर्वथा सम्बन्धासम्भवाद्भावानां पारतन्त्र्यानुपपत्तेः
अष्टसहस्त्रीतात्पर्यविवरणम्
व्यवस्थार्थः । निर्भासभेदेऽप्येकत्वोपगमे बाधकमाह भाष्यकृत् - अन्यथेति । क्रमश इति । एवं हि क्रमिकनानाकार्यकरणैकस्वभावोऽनुगृहीतो भवति । वस्तुत एवं नानैकस्वभावशबलतैव सिद्ध्यति, अन्यथैकस्वभाववपुषि नानाकार्यकरणानुप्रवेशे एककार्यकारणवेलायां गलेपादिकया नानाकार्योपनयनप्रसङ्गादित्यालोच्याह-न चैवं शक्यमभ्युपगन्तुमित्यादिना । बौद्धः शङ्कते-ननु चेति भावानां पारतन्त्र्यानुपपत्तेः क्षणिकत्वेन परापेक्षाया अघटनात्
Page #321
--------------------------------------------------------------------------
________________
२८७
प्रथमो भागः [परि०१-का. ११]
पारतन्त्र्यं हि सम्बन्धः सिद्धे का परतन्त्रता । तस्मात्सर्वस्य भावस्य सम्बन्धो नास्ति तत्त्वतः ॥ [
इत्यादिवचनान्न कस्यचित्सम्बन्ध्यन्तराणि स्वभावभेदनिबन्धनानि सन्तीति चेत्, न ।
[जैनाचार्याः द्रव्यक्षेत्रकालभावप्रत्यासत्तिलक्षणं चतुर्विधसम्बन्धं साधयन्ति] द्रव्यक्षेत्रकालभावप्रत्यासत्तिलक्षणस्य सम्बन्धस्य निराकर्तुमशक्तेः ।
(भा० ) न हि कस्यचित्केनचित्साक्षात्परम्परया वा सम्बन्धो नास्तीति, निरुपाख्यत्वप्रसङ्गात् ।
गुणगुणिनोः पर्यायतद्वतोश्च साक्षादविष्वग्भावाख्यसमवायासत्त्वे स्वतन्त्रस्य गुणस्य पर्यायस्य वासत्त्वप्रसङ्गात् सकलगुणपर्यायरहितस्य द्रव्यस्याप्यसत्त्वापत्तिरिति तयोनिरुपाख्यत्वम् । गुणानां पर्यायाणां च परस्परं स्वाश्रयैकद्रव्यसमवायसम्बन्धाभावेऽप्यनेन निरुपाख्यत्वं प्रतिपादितम् । चक्षुरूपयोः परम्परया क्षेत्रप्रत्यासत्तेरसत्त्वे योग्यदेशेऽप्ययोग्यदेशवद्रूपे चक्षुर्ज्ञानं न जनयेत् । ततस्तद्ग्राहकानुमानासत्त्वादसत्त्वप्रसङ्गो, रूपस्यापि चेन्द्रियप्रत्यक्षासत्त्वादसत्त्वप्रसक्तिः, इत्युभयोनिरुपाख्यत्वम् । तथा कारणकार्यपरिणामयोः कालप्रत्यासत्तेरसत्त्वेऽनभिमतकालयोरिवाभिमतकालयोरपि कार्यकारणभावासत्त्वादुभयोनिरुपाख्यततपत्तिः । तथा व्याप्तिव्यवहारकालवर्तिनो—मादिलिङ्गाग्न्यादिलिङ्गिनोर्भावप्रत्यासत्यसत्त्वे क्वचित्पावकादिलिङ्गिनि ततोऽनुमानायोगादनुमानानुमेययोरसत्त्वप्रसङ्गान्निरुपाख्यत्वप्रसङ्गः । किं बहुना ? संवेदनस्य कस्यचित्केनचिवद्याद्याकारेण प्रत्यासत्तेरसत्त्वे तदुभयोरसत्त्वान्निरुपाख्यत्वम् । तत्प्रत्यासत्तिसद्भावे वा सिद्धश्चतुर्धापि सम्बन्धः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
सर्वथाऽसम्बन्धेन स्वभावभेदस्यासम्भवान्न कस्यचित्सम्बन्ध्यन्तराणि स्वभावभेदनिबन्धनानि सन्ति, असतः स्वभावभेदस्य कर्तुमशक्यत्वादित्यन्वयः । प्रामाणिकत्वाद् द्रव्यादिकृतसम्बन्धः पराकर्तुमशक्य इत्याशय्य समाधत्ते-न द्रव्येत्यादिना । स्वयं प्रमाणेन सम्बन्धसिद्धिमङ्गीकृत्य परमुखेन तमभ्युपगमयति-किं बहुनेति तथा च साकारज्ञानवादे विषयविषयिभावसम्बन्धस्य निराकारज्ञानवादेऽपि तन्निराकरणाकारसम्बन्धस्यावश्या
Page #322
--------------------------------------------------------------------------
________________
२८८
अष्टसहस्त्रीतात्पर्यविवरणम्
[विज्ञानाद्वैतवादेऽपि चतुर्धा सम्बन्धः सिद्ध्यति इति प्रतिपादयन्ति जैनाचार्याः]
संवित्तदाकारयोर्द्रव्यादिप्रत्यासत्तिचतुष्टयस्यापि भावात्परस्परं पारतन्त्र्यसिद्धेः । सिद्धस्य संविदाकारस्य संवित्परतन्त्रतानिष्टौ संविदभावेऽपि भावप्रसङ्गात्, संविदो वा स्वाकारपरतन्त्रतानुपगमे निराकारसंविदनुषङ्गात्, तथोपगमेऽपि संविदो वेद्याकारविवेकपरतन्त्रतानभिमनने वेद्याकारात्मताप्रसङ्गात्, सर्वथा सम्बन्धाभावस्य च भावपरतन्त्रत्वानङ्गीकरणे स्वतन्त्रस्याभावरूपत्वविरोधात् कुतस्तद्व्यवस्था ? । तदयं कस्यचित्सिद्धस्यासिद्धस्य वा परतन्त्रतामुपलभ्य सर्वत्र सिद्धेऽसिद्धे वा का परतन्त्रतेति ब्रुवाणः कथं न परतन्त्रः ? ।
[कार्यकारणयोः परतन्त्रतानभ्युपगमे दोषानाहुराचार्याः]
कस्यचिदसिद्धस्यापि कार्यात्मनः कारणपरतन्त्रतोपपत्तेरन्यथा कारणाभावेऽपि कार्योत्पत्तेर्निवारणायोगात् ।
( भा० ) कुतश्चित्कस्यचिदनुत्पत्तौ शश्वत्सत्त्वप्रसङ्गात्, 'सदकारणवन्नित्यम्' इति वचनात् संवृत्या पारतन्त्र्योपगमेऽपि तद्दोषानतिवृत्तेः संवृतेर्मृषारूपत्वात् ।
तत्त्वतोऽपि क्वचित्पारतन्त्र्येष्टौ सिद्धस्तात्त्विकः सम्बन्ध:, इति न
अष्टसहस्त्रीतात्पर्यविवरणम्
भ्युपगम्यत्वे सिद्धमन्यत्रापि द्रव्यादिसम्बन्धेनेति भावः । सर्वथा सम्बन्धाभावस्य चेति तथा च परमाणूनां निरन्तरोत्पत्तिरेव द्रव्यादिप्रत्यासत्तिर्ज्ञानस्य चानीलाद्याकारव्यावृत्ततयोत्पत्तिरिति निरस्तम्, पारतन्त्र्यभिया सम्बन्धं निराकुर्वतोऽसम्बन्धाभावमाद्रियमाणस्याभावस्य भावपरतन्त्रतया तदनिवृत्तेर्वक्रकल्पनादोषस्य परमाधिक्यात् । तदयं कस्यचिदिति क्वचित्परतन्त्रतानुपलम्भे सर्वत्र परतन्त्रतानिषेधस्य कर्त्तुमशक्यत्वादभावज्ञाने प्रतियोगिज्ञानस्य हेतुत्वादिति भावः । परतन्त्रः = परवशः, कस्यचिदसिद्धस्यापीति तथा च यथा कार्यस्य कारणपरतन्त्रत्वं, तथा सर्वस्य वस्तुनः सम्बन्धमुखेन सम्बन्ध्यन्तरपरतन्त्रत्वमविरुद्धमिति भावः । ननु कार्ये न कारणपारतन्त्र्यं तस्य स्वरसत एवोत्पत्तिशीलत्वात्, किन्तु कार्यत्वव्यवहार इति सांवृतमेव तदिति आशङ्कायाम् आह - संवृत्येति । तद्दोषानतिवृतेः वस्तुतः कारणानपेक्षत्वे कार्यस्य नित्यं सत्त्वमसत्त्वं वेति प्रसङ्गस्य दुर्वारत्वादिति भावः । तत्त्वतोऽपीति एकत्र मृषारूपस्यान्यत्र सत्यत्वनियमादित्यर्थः । वस्तुतोऽवधितया नियतत्व
Page #323
--------------------------------------------------------------------------
________________
प्रथमो भाग: [परि०१-का० ११]
२८९ तत्प्रतिक्षेपः श्रेयान्, यतः सम्बन्ध्यन्तरापेक्षया सकृदसकृच्च सन्तानान्तर-भावस्वभावभेदाः परस्परं व्यावृत्ता न भवेयुः ।
(भा० ) तदेवं प्रतिक्षणमनन्तपर्यायाः प्रत्येकमर्थसार्थाः ।
न पुनरेकस्वभावा एव भावाः क्षणमात्रस्थितयः, अन्वयस्यानारतमविच्छेदात् ।
(भा०) क्रमशोऽपि विच्छेदेऽर्थक्रियानुपपत्तेः स्वयमसतस्तत्त्वतः क्वचिदुपकारितानुपपत्तेः
कुतः कस्यात्मलाभ: स्यात् ? कथञ्चिदविच्छेदे पुनः स सुघट एव ।
(भा०) कारणस्य स्वकार्यात्मना भवतः प्रतिक्षेपायोगात् स्वभावान्तरानपेक्षणवत् ।
[अर्थपर्यायापेक्षयोत्पादव्ययध्रौव्यात्मिकासु तिसृसु अवस्थासु हेतुव्यापारो नास्ति] स्वयमुत्पित्सोरपि स्वभावान्तरापेक्षणे विनश्वरस्यापि तदपेक्षणप्रसङ्गात् । एतेन
- अष्टसहस्रीतात्पर्यविवरणम् रूपं कारणपारतन्त्र्यं कार्ये सर्वसिद्धमेवाकस्माद्भावनिरासस्येत्थमेवोपपादनात्, स्वभाववादे पूर्वोत्तरक्षणानामेव हेतुहेतुमद्भावेन कारणान्तरनिरासेऽपि तेषां मिथोऽवध्यवधिमद्भावेन नैयत्याक्षतेस्त्रुट्यदेकान्ते स्वभावशब्दार्थस्यैवानुपपत्तिरिति पुनरन्यदेतत् । सन्तानान्तरभावस्वभावभेदा इति सन्तानान्तरभावस्य घटपटादिरूपस्य स्वभावभेदाः=क्षणिकनित्यापेक्षया नित्यानित्यादिरूपाः ।
स सुघट एवेति सुवर्णं कुण्डलीभूतं मृद् घटीभूतेत्यादिप्रत्ययादविच्छिन्नद्रव्यस्यैव कार्थीभावसिद्धेः, अन्यथा च्चिप्रत्ययार्थस्यैवाघटनादिति भावः । ननु कारणस्य प्राक्कालवृत्तितयैवापेक्षणात् कथमविच्छिन्नस्य कार्याभाव इत्याशङ्कायां दृष्टान्तमाह-स्वभावान्तरानपेक्षणवदिति येन नयेन स्वभावान्तरानपेक्षणं तेन नयेनाविच्छिन्नस्य कारणस्य कार्यतां स्वीकुर्वतः परित्यागायोग इत्यर्थः । (शङ्का) स को वा नय इति चेत्, इमे ब्रूमहे, नाशस्येवोत्पादस्य निर्हेतुकत्ववादी शुद्धपर्यायार्थिक एव, तदाह-उत्पित्सोरपीति हेतुं विनैव वस्तुनो विनाशशीलत्वे हेतुं विनैवोत्पादशीलत्वं न्याय्यम्, तत्र सौगतानामर्द्धजरतीयाश्रयणस्यायुक्तत्वादिति भावः । स्थितावप्येनं न्यायमतिदिशति-एतेनेति वस्तुन उत्पाद
Page #324
--------------------------------------------------------------------------
________________
२९०
अष्टसहस्रीतात्पर्यविवरणम् स्थास्नोः स्वभावान्तरानपेक्षणमुक्तं, विस्रसापरिणामिनः कारणान्तरानपेक्षोत्पादादित्रयव्यवस्थानात्तद्विशेषे एव हेतुव्यापारोपगमात् । यतश्चैवं पर्यायार्थिकनयादेशात्प्रतिक्षणमनन्तपर्यायः क्रमेणाविच्छिन्नान्वयसन्ततिरर्थः प्रतीयते ।
_[सर्वपदार्थाः उत्पादव्ययध्रौव्यात्मकाः सन्तीति प्रतिपादनम्] (भा०) तस्मादयमुत्पित्सुरेव विनश्यति जीवादिः, पूर्वदुःखादिपर्यायविनाशाजहद्वृत्तित्वात्तदुत्तरसुखादिपर्यायोत्पादस्य । (भा०) नश्वर एव तिष्ठति कथञ्चिदस्थास्नो शानुपपत्तेरश्वविषाणवत् सद्रव्यचेतनत्वादिना । (भा०) स्थास्नुरेवोत्पद्यते ।
सर्वथाप्यस्थास्नोः कदाचिदुत्पादायोगात्तद्वत् । ततः प्रतिक्षणं त्रिलक्षणं सर्वम् उत्पादव्ययध्रौव्ययुक्तं सद् इति वचनात् [तत्त्वार्थसूत्रम्-५.३०] । [बौद्धः पृच्छति यत् जीवादेः पदार्थाद् उत्पादादयोऽभिन्ना भिन्ना वा ? उभयत्र दोषारोपणम्]
नन्वेवं स्थित्यादयो जीवादेर्वस्तुनो यद्यभिन्नास्तदा स्थितिरेवोत्पत्तिविनाशौ, विनाश एव स्थित्युत्पत्ती, उत्पत्तिरेव विनाशावस्थाने इति प्राप्तम्, एकस्मादभिन्नानां स्थित्यादीनां भेदविरोधात् । तथा च कथं त्रिलक्षणता स्यात् ? अथ भिन्नास्तर्हि प्रत्येकं स्थित्यादीनां त्रिलक्षणत्वप्रसङ्गः, सत्त्वात्, अन्यथा तदसत्त्वापत्तेः । तथा चानवस्थानान्न समीहितसिद्धिरिति कश्चित, सोऽप्यनालोचितपदार्थस्वभावः, पक्षद्वयस्यापि कथञ्चिदिष्टत्वात् ।
- अष्टसहस्त्रीतात्पर्यविवरणम् विनाशयोः कारणानपेक्षत्वे व्यवस्थितेः स्थितेरपि तत्त्वेन स्वाभाविकत्वं युक्तम्, क्वाचिकत्वस्येव कादाचित्कत्वस्य स्वभावनियतत्वादिति भावः । ननु एवमुत्पादादित्रयस्य कारणानपेक्षत्वे घटोत्पादाद्यर्थे दण्डग्रहणादौ प्रवृत्तिर्न स्यादिति आशङ्कायां आह-तद्विशेष एवेति इत्थं चोत्पादस्य प्रायोगिकवैश्रसिकभेदेन द्विविधत्वाद द्वितीये हेत्वनपेक्षायामपि प्रथमे तदपेक्षाध्रौव्यान्न प्रवृत्त्युच्छेद इति भावः । एतच्चोत्पादद्वैविध्यं
T'उप्पाओ दुविअप्पो पओगजणिओ अ वीससा च [३.३२] इत्यादिग्रन्थेन भगवता
१. उत्पादो द्विर्विकल्पः प्रयोगजनितश्च विस्रसा च । (सम्मति०)
Page #325
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. ११]
२९१
[जैनाचार्याः जीवादेः पदार्थाद् उत्पादयः कथञ्चित् अभिन्ना, भिन्ना चेति मन्यन्ते] तत्र तद्वतः कथञ्चिदभेदोपगमे स्थित्यादीनां । (भा०) स्थितिरेवोत्पद्यते । सामर्थ्याद्विनश्यति च । (भा०) विनाश एव तिष्ठति । सामर्थ्यादुत्पद्यते च । (भा०) उत्पत्तिरेव नश्यति ।
सामर्थ्यात्तिष्ठतीति च ज्ञायते, त्रिलक्षणाज्जीवादिपदार्थादभिन्नानां स्थित्यादीनां विलक्षणत्वसिद्धेः ।
एतेनैव ततस्तेषां भेदोपगमेऽपि प्रत्येकं त्रिलक्षणत्वसिद्धिरुक्ता । न चैवमनवस्था, सर्वथा भेदपक्षे तत्प्रसक्तेः, स्याद्वादपक्षे तु तदसम्भवात् । येन हि स्वभावेन त्रिलक्षणात्तत्त्वादभिन्नाः स्थित्यादयस्तेन प्रत्येकं त्रिलक्षणाः, पर्यायार्पणात्परस्परं तद्वतश्च भिन्ना अपीष्यन्ते, तथा प्रतीतेर्बाधकासम्भवात् । ततो निरवद्यमिदं प्रतिक्षणं त्रिलक्षणं सर्वमिति । एतेन कालत्रयापेक्षयापि त्रिलक्षणमुपदर्शितं,
अष्टसहस्त्रीतात्पर्यविवरणम्
-
सम्मतिकारेणापि भणितमिति नास्मत्सम्प्रदायप्रतिकूलेयं कल्पनेति बोध्यम् । एवं सति कालादिहेतुपञ्चकसामग्र्याः कार्योत्पत्तिमात्रनियतत्वभङ्गेनापसिद्धान्तभीस्तु गौणमुख्यभावेन तदभङ्गाद् वारणीया, उक्तद्वैविध्यस्य प्रयोगविश्रसाप्राधान्येनैव व्यवस्थितेरिति दिग् । तत्र तयोः पक्षयोर्मध्ये, तद्वतः=स्थित्यादिमतः सकाशात्, सामर्थ्यात्= उत्पद्यमानादिद्रव्याभेदसामर्थ्यात् । त्रिलक्षणादिति स्थित्यादौ स्वाभिन्नद्रव्यगतोत्पत्त्यादेर(व्य)भिचारे दोषाभावादित्यर्थः । एतेनैव स्थित्यादौ द्रव्यार्थतयोत्पत्त्यादिव्युत्पादनेनैव, स्याद्वादपक्षे तु तत्र भेदेऽप्यभेदाविरोधादित्यर्थः । येन हीति द्रव्यार्थतयाऽभिन्नाः स्थित्यादयस्वैलक्षण्यं स्वीकुर्वन्त्येव, पर्यायार्थतया तु लक्षणमात्रेण भिद्यन्त एवेति भावः । प्रतिक्षणमिति एकत्रापि क्षणे एकत्र वस्तुनि रूपभेदेन त्रयाविरोधाद्वैश्रसिकानां चोत्पादादीनां प्रतिक्षणमनुपरमादिति भावः । कालभेदेन तु शुद्धैकपर्यायावच्छेदेनापि तदुपपद्यत इत्याह-एतेनेति ।
Page #326
--------------------------------------------------------------------------
________________
२९२
अष्टसहस्त्रीतात्पर्यविवरणम् तस्यान्वितेन रूपेण कालत्रयव्यापित्वादन्यथा त्रुट्यदेकान्ते सर्वथार्थक्रियाविरोधात् कूटस्थैकान्तवत् । ततो द्रव्यपर्यायात्मकं जीवादि वस्तु, क्रमयोगपद्याभ्यामर्थक्रियान्यथानुपपत्तेरिति प्रमाणोपपन्नम् । तथा च
[कालत्रयापेक्षया जीवादिषु उत्पादव्ययध्रौव्यानां सिद्धिः] (भा०) स्थितिरेव स्थास्यत्युत्पत्स्यते विनक्ष्यति । सामर्थ्यात्स्थितोत्पन्ना विनष्टेति गम्यते । (भा०) विनाश एव स्थास्यत्युत्पत्स्यते विनश्यति । स्थित उत्पन्नो विनष्ट इति च गम्यते ।
(भा०) उत्पत्तिरेवोत्पस्त्यते विनक्ष्यति स्थास्यतीति न कुतश्चिदुपरमति ।
सोत्पन्ना विनष्टा स्थितेति गम्यते । स्थित्याद्याश्रयस्य वस्तुनोऽनाद्यनन्तत्वादनुपरमसिद्धेः स्थित्यादिपर्यायाणां कालत्रयापेक्षिणामनुपरमसिद्धिः, अन्यथा तस्यातल्लक्षणत्वप्रसङ्गात्सत्त्वविरोधात् ।
[उत्पादव्ययध्रौव्यापेक्षया वस्तुनि एकाशीतिभेदान् साधयन्ति] एतेन जीवादि वस्तु तिष्ठति स्थितं स्थास्यति, विनश्यति विनष्टं विनक्ष्यति, उत्पद्यते उत्पन्नमुत्पत्स्यते चेति प्रदर्शितं, कथञ्चित्तदभिन्नस्थित्या
अष्टसहस्रीतात्पर्यविवरणम् तस्यान्वितेनेति तस्य=जीवादेरन्वितेन रूपेण किञ्चित्कालानुगतपर्यायेण, अन्यथा क्षणिकपक्षे त्रुट्यदेकान्ते विगच्छत एकान्ते, न कुतश्चिदुपरमतीति=न कुतोऽपि भङ्गान्निवर्त्तत इत्यर्थः । तिष्ठति स्थितमित्यादि स्थित्यादित्रयस्य सहवर्तिनः कालत्रयस्पर्शिद्रव्याभेदोपचारेण नव भङ्गाः प्रत्येकं स्थूलकालकृतवर्तमानत्वादिशालिस्थित्यादौ सूक्ष्मकालकृतावस्थाभेदेन नवेत्येकाशीतिर्भङ्गा भावनीयाः ।
यत्तु आद्यक्रियाप्रागभावं चरमक्रियाध्वंसं चादाय भविष्यत्वमतीतत्वं च वाच्यमिति न वर्तमानक्रियाकाले कालत्रयवाचिप्रत्ययप्रयोगसम्भव इति नैयायिकादीनां मतम्,
Page #327
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. ११]
२९३ दीनामन्यथा स्थास्यतीत्यादिव्यवस्थानुपपत्तेः । तथा चैतेषां नवानामपि विकल्पानां प्रत्येकं नवविकल्पतोपपत्तेरेकाशीतिविकल्पं वस्तूह्यम् ।
[धर्मिणोऽभिन्नेषु धर्मेष्वपि एकाशीतिभेदाः घटन्ते] तदभिन्नस्थित्यादिपर्यायाणामपि तावद्धाविकल्पादनुपरमसिद्धेः । यथा जीवपुद्गलधर्माधर्माकाशकालविकल्पमशुद्धद्रव्यमनन्तपर्यायं सह क्रमाच्च चिन्तितं तथा सन्मानं शुद्धद्रव्यमपि प्रतिपत्तव्यं, तस्यैव द्रव्यत्वविशेषणस्य द्रव्यव्यवहारविषयत्वसिद्धेः ।
[सत्तैव द्रव्यक्षेत्रकालभावरूपास्ति] तथा हि(भा०) भाव एव द्रवति दोष्यत्यदुद्रुवद् ।
इति द्रव्यं, तथा क्षीयन्ते क्षेष्यन्ते क्षिताश्चास्मिन् पदार्था इति क्षेत्रं, कल्यन्ते कलयिष्यन्ते कलिताश्चास्मादिति कालः, भवति भविष्यत्यभूदिति भावः पर्याय इति ।
अष्टसहस्रीतात्पर्यविवरणम्
तत्स्थूलव्यवहारैकान्ताभिनिवेशविजृम्भितम्, नयविशेषेणैकदा त्रैकाल्यस्पर्शस्य सर्वसम्मतत्वात्, अन्यथोत्पत्तिकाले उत्पन्नत्वप्रत्ययस्य भ्रान्तत्वापत्तेः, सामुदायिकोत्पादे स्थूलकालभाविनि' ऐकत्विकोत्पादानां सूक्ष्मकालस्पशिनां त्रैकाल्यस्पर्शे तु न काचिदनुपपत्तिः । न चोत्पत्तिकाले उत्पन्नत्वमस्ति प्राक्काले च पक्वत्वं नास्तीत्यत्र विशेषकारणं पश्यामः । प्रत्युतैवं किञ्चित्पक्वं किञ्चित्पच्यत इति निर्धारणानुपपत्तिः, सिद्धासिद्धसाधारणक्रमाश्रयणपरित्यागेन क्रियाविवेकस्य क्रियावत्रैकाल्यस्पर्शपक्षपातित्वात, तस्माद्वर्त्तमानक्रियाकाले कालस्य स्थूलत्वसूक्ष्मत्वाभ्यां त्रैकाल्यं नयविशेषेण यौक्तिकमेवेति सिद्धा यथोक्तभङ्गाः । सैद्धान्तिकास्तु क्रियाकालनिष्ठाकालयोरभेदात्सभागसन्ततिपतिततया निष्ठाभविष्यत्तयोः समावेशाच्चैकक्षणेऽपि कालत्रयवाचिप्रत्ययार्थाविरोधमादिशन्ति । जीवादिपदार्थेषुक्तभङ्गान् सत्तायामपि योजयति-तथा सन्मात्रमित्यादिना । तस्यैवेति, सत्तायाः स्वरूपेण स्थाष्णुत्वे
१. स्थूल कालाभिनि इति ह० प्र० पाठः । (पत्र ८४, ब पं. ११) २. अभेदासभाग...इति ह० प्र० पाठः । (पत्र ८४, ब पं. १५)
Page #328
--------------------------------------------------------------------------
________________
२९४
अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) सत्तैव विशेष्यते द्रव्यक्षेत्रकालभावात्मना । तस्या एव तथा व्यवहारविषयत्वघटनात् ।
[सत्तायामपि एकाशीतिभेदा घटन्ते] (भा०) ततः परस्परव्यावृत्तस्वभावाननन्तगुणपर्यायान्प्रतिक्षणमासादयन्ती सत्तैव तिष्ठतीत्यादि योज्यं तस्या अप्येकाशीतिविकल्पत्वोपपत्तेः ।
[विश्वव्यापिन्या महासत्तायाः स्पष्टीकरणम्] ( भा०) तथा भेदानेव सन्द्रवन्तीत्यादि प्रतिपत्तव्यम् ।
क्षितान् कुर्वन्ती कलयन्ती भवन्ती च सत्तैव तिष्ठतीत्यादियोजनायाः सम्भवात् । तथा चोक्तं
सत्ता सकलपदार्था सविश्वरूपा त्वनन्तपर्याया ।
स्थितिभङ्गोत्पादार्था सप्रतिपक्षा भवत्येका ॥ इति । [ [पर्यायार्थिकनयापेक्षयैवेतरेतराभावः सम्भवति न तु द्रव्यार्थिकनयापेक्षया]
तदेवं पर्यायार्थिकनयप्राधान्याद् द्रव्यार्थिकनयगुणभावात्सर्वस्य स्वभावान्तरव्यावृत्तिः प्रसिद्धान्यापोहव्यतिक्रममपाकरोतीति किं नः प्रयासेन ? ।
[इतः पर्यन्तमितरेतराभावं प्रसाध्याधुनात्यन्ताभावं साधयन्त्याचार्याः] तथा केषाञ्चित्तत्त्वतो
- अष्टसहस्त्रीतात्पर्यविवरणम्
द्रव्यत्वादिविशेषितत्वेनोत्पत्त्यादिशालित्वात्तदाश्रिताः सर्वेऽपि भङ्गा अविरुद्धा इति भावः । न च विशेषणभेदेन पदार्थभेदे मानाभावाद् एतदनुपपत्तिः, विशिष्टाधारताभेदकल्पनापेक्षया विशिष्टभेदकल्पनस्यैव युक्तत्वात्, भेदाभेदवादे चानन्तपदार्थकल्पनागौरवाद्यनवकाशात् ।
सत्तेति सत्ता महासामान्यरूपा, सकलपदार्था सकलाः पदार्था विद्यन्ते आश्रयत्वेन यस्याः सा तथा । विश्वरूपैः=नानाप्रकारैः सहिता, तुर्विशेषणे, किं विशिनष्टि ? इत्याकाङ्क्षायामाह-अनन्तपर्याया=द्रव्यत्वाद्यनन्तविशेषणविशिष्टानन्तपर्यायैविशेषणभूतैर्विश्व
Page #329
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि० १-का. ११]
२९५ ( भा० ) अत्यन्ताभावापाकृतौ न क्वचित्किञ्चित्कथञ्चिन्न वर्तेत । वर्ततामिति चेत्, (भा०) तथा सर्वं सर्वत्र सर्वथोपलभ्येत ।
न च ज्ञानादिकं घटादावुपलभ्यते, नापि रूपादिकमात्मादौ । न च किञ्चित्स्वात्मनेव परात्मनाप्युपलभ्येत ततः किञ्चित्स्वेष्टं तत्त्वं क्वचिदनिष्टेऽर्थे सत्यात्मनानुपलभमानः कालत्रयेऽपि तत्तत्र तथा नास्तीति प्रतिपद्यते एवेति सिद्धोऽत्यन्ताभावः । [बौद्धो वक्ति यत् प्रत्यक्षानुमानाभ्यां अभावो न गृह्यते इत्युच्यमाने सति तं बौद्धं अस्वस्थं
कथयन्तः तस्य चिकित्सां कुर्वन्त्याचार्याः] (भा०) कथं पुनरभावप्रतिपत्तिः ? कथं च न स्यात् ? । सर्वथा भावविलक्षणस्याभावस्य वास्तवस्य ग्राहकप्रमाणाभावात् । (भा०) प्रत्यक्षस्य रूपादिस्वलक्षणविषयत्वाद् ।
अभावे प्रवृत्त्ययोगात् तस्य तत्कारणत्वविरोधात्, तत्कारणत्वे स्वलक्षणतापत्तेः, अकारणस्याविषयत्वव्यवस्थितेः ।
(भा०) प्रमाणान्तरस्यापि स्वकारणविषयत्वात् ।
तस्य कार्यानुमानत्वे तावदभावस्य कारणत्वप्रसक्तिः, न चासौ युक्तिमती । स्वभावानुमानत्वेऽपि भावात्मकतापत्तिः, अभावस्य स्वभावासम्भवात् ।
- अष्टसहस्त्रीतात्पर्यविवरणम् रूपत्वं विशेष्यते इत्यर्थः । अत एव स्थितिभङ्गोत्पादार्था:=स्थितिभङ्गोत्पादा अर्था लक्षणानि यस्याः सा तथा, स्वरूपेणैका सप्रतिपक्षा च पररूपेण नास्तित्वसमावेशाद्भवतीति संवादकारिकार्थः । केवलाभावप्रतिपत्तौ बौद्धोक्तामनुपपत्तिमुपन्यस्य जात्यन्तरे वस्तुनि तदेकांशत्वान्नेयमिति तं प्रत्यनुशासितुमाह-कथं पुनरित्यादिना । तस्य=अभावस्य, तत्कारणत्वविरोधात्=प्रवृत्तिकारणत्वविरोधात्, तत्कारणत्वे स्वलक्षणतापत्तेरिति अर्थक्रियाकारित्वस्यैव स्वलक्षणलक्षणत्वादिति भावः । प्रमाणान्तरस्यापि कार्यानुमानस्यापि । अस्तु तर्हि स्वभावलिङ्गकानुमानविषयत्वमनुपलब्धिलिङ्गकानुमानविषयत्वं वाऽभावस्य इत्यत्राह-स्वभावनुमानत्वेऽपीत्यादि । स्वभावासम्भवादिति तथा च
Page #330
--------------------------------------------------------------------------
________________
२९६
अष्टसहस्त्रीतात्पर्यविवरणम् ( भा०) असतोऽनुपलब्धेः पर्युदासवृत्त्या वस्तुनि नियमात्
सर्वथाप्यभावाविषयत्वसिद्धिः । तद्विषयोऽपि भावस्वभाव एवाभावः । कस्यचिद्
(भा०) एकस्य कैवल्यमितरस्य वैकल्यमिति ब्रुवन्नपि देवानांप्रियो दुर्विदग्धबौद्धो
(भा०) नावधारयति, भावाभावप्रतिपत्तेरभावाभ्युपगमात् । सोऽयं स्वयं
अनादिवासनोद्भूतविकल्पपरिनिष्ठितः ।
शब्दार्थस्त्रिविधो धर्मो भावाभावोभयाश्रितः ॥ [ ] इति परमार्थतो भावस्याभावस्योभयस्य च प्रतिपत्तेरभावं प्रतिपद्यमानः कथमभावप्रतिपत्तौ प्रकृतपर्यनुयोगं कुर्यात् ? न चेदस्वस्थः परमार्थतः ।
(भा०) स्वपररूपादिभावाभावलक्षणत्वात्सर्वस्य निःश्रेणीपदबन्धाभ्यामिव भावाभावस्वभावाभ्यां प्रतिबन्धात् ।
स्वरूपादिभिरिव पररूपादिभिरपीष्टस्य संविद्द्वयस्य भावे भेदरूपत्वप्रसङ्गात् पररूपादिभिरिव स्वरूपादिभिरपि तस्याभावे स्वयं प्रकाशनविरोधात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
स्वभावहेतोरभावप्रतिबन्धासम्भवान्न तस्य तद्विषयत्वमिति भावः । पर्युदासवृत्त्येति अनुपलब्धेर्वस्त्वन्तरोपलब्धिरूपत्वान्न तल्लिङ्गकानुमानविषयत्वमप्यभावस्येत्यर्थः । सर्वथाऽपीत्यादि सर्वथाऽप्यभावस्य प्रमाणविषयत्वसिद्धिरिति ब्रुवन्नपि देवानांप्रियो दुर्विदग्धबौद्धः । तद्विषयोऽपि प्रमाणविषयोऽपि, भावस्वभावोऽधिकरणात्माऽभावः, कस्यचिदेकस्य भूतलादेः, कैवल्यमितरस्य=घटादेः, वैकल्यमिति स्याद्वादिमतं नावधारयतीति, इतेरावृत्त्योभयत्र सम्बन्धादन्वयः । अस्य वादिनः स्वप्रतिज्ञाविरोध दोषमाह-सोऽयमित्यादिना । वस्तुस्थितिमाह-परमार्थत इति । निःश्रेणीपदबन्धाभ्यामिवेति निःश्रेणीस्थानीयो भावस्वभाव आश्रयत्वात्, पदबन्धस्थानीयश्चाभावस्वभाव आश्रितत्वादिति भावः । आरोहाधिकरणत्वतत्कारणत्वाभ्यां तौल्यं भावनीयम् ।
Page #331
--------------------------------------------------------------------------
________________
२९७
प्रथमो भागः [परि० १-का. ११]
__ (भा०) न किञ्चित्प्रमाणं सर्वात्मना भावमभावं वा ग्रहीतुमर्हति, अनियमप्रसङ्गात् ।
ताथागतानां हि भाव एव प्रमाणविषय इति ।
(भा०) भावप्रमेयैकान्तवादिनामभावप्रतिपत्तिरयुक्तिः । अतो न भावनियमप्रतिपत्तिः.
कस्यचित्क्वचित्कथञ्चिदसत्त्वासिद्धः स्वस्वभावव्यवस्थित्ययोगात् । [यदि बौद्धोऽभावं प्रमाणस्य विषयं न मन्यते तर्हि तस्य प्रमाणद्वयसङ्ख्या न घटते] तेषां
(भा०) तत्प्रमेयतोपसङ्ख्यानं प्रमाणद्वयनियमं विघटयति । भावनैरात्म्यस्य प्रमाणाकारणत्वात्प्रतिबन्धनियमो मा भूत् ।
प्रमाणनैरात्म्ययोस्तादात्म्यानिष्टेस्तदुत्पत्तिप्रतिबन्धस्य विरोधात्, नैरात्म्यात्प्रमाणस्योत्पत्तौ तस्य भावस्वभावत्वप्रसक्तेः, तयोः प्रतिबन्धान्तरोपगमे लिङ्गस्य त्रिविधत्वविरोधात् । तदप्रतिबन्धे प्रमाणान्तरसिद्धः कथं प्रमाणद्वयनियमविघटनं न घटेत् ?, तदुत्पत्त्यभावे प्रत्यक्षस्यानुमानस्य चानुदयात्,
अर्थस्यासम्भवेऽभावात् प्रत्यक्षेऽपि प्रमाणता । प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वयम् ॥ इति वचनात् । [त० श्लो० १.११-२९]
अष्टसहस्रीतात्पर्यविवरणम्
भावधर्मभूताभावानभ्युपगमे भावा एव प्रमेयमित्यवधारणं न स्यात्, एवकारार्थानिरुक्तेः, अवस्तुभूतस्याप्यभावस्य ग्रहार्थं प्रमाणान्तरापत्तेढे एव प्रमाणे इत्यस्य व्याघातश्चेत्याहताथागतानां हीत्यादि ।
__ अर्थस्येति अर्थस्य=विषयस्य, असम्भवेऽभावात् प्रत्यक्षेऽपि प्रमाणता सिद्धा, प्रतिबद्धस्वभावस्य धूमादिव्याप्तिनिरूपकस्वभावस्य वढ्यादेः, तद्धेतुत्वे= अनुमानज्ञानहेतुत्वे, समतुल्यम्, द्वयं =प्रमाणद्वयम्, विषयसत्त्वव्याप्यत्वमेव प्रमाणत्वे प्रयोजकमिति निष्कर्षः । ननु तदुत्पत्त्यभावात् प्रत्यक्षमनुमानं वाऽभावग्राहकं मा भूत्,
Page #332
--------------------------------------------------------------------------
________________
२९८
अष्टसहस्त्रीतात्पर्यविवरणम्
मानसस्य तु नास्तिताज्ञानस्य स्वकारणसामग्रीवशादुत्पन्नस्याभावपरिच्छेदकत्वे तदेव प्रमाणान्तरं, प्रतिबन्धनियमाभावात् इति यथोदितदोषं परिजिहीर्षुणा वस्तुधर्मस्यैवाभावस्य प्रतिपत्तिरभ्युपगन्तव्या, तस्याः प्रतिक्षेपापायात् । ततो न भावैकान्ते समीहितसिद्धिः ॥११॥
अभावैकान्तपक्षेऽपि भावापह्नववादिनाम् ।
बोधवाक्यं प्रमाणं न केन साधनदूषणम् ? ॥१२॥
[ नैरात्म्यवादस्य लक्षणम् ]
भावा येन निरूप्यन्ते तद्रूपं नास्ति तत्त्वतः ।
यस्मादेकमनेकं च रूपं तेषां न विद्यते ॥ [ प्रमाणवार्तिक २.३६०]
इति सर्वनैरात्म्यप्रतिज्ञानमभावैकान्तपक्षः ।
[नैरात्म्यवादे दोषारोपणं]
तस्मिन्नपि बोधस्य स्वार्थसाधनदूषणरूपस्य वाक्यस्य च परार्थसाधनदूषणात्मनोऽ ऽसम्भवात्तन्न प्रमाणम् । ततः केन साधनं नैरात्म्यस्य, स्वार्थं परार्थं वा ? केन दूषणं बहिरन्तश्च भावस्वभावानाम् ? इति सविस्मयं वचनम् । स्वपरपक्षसाधनदूषणोपगमे तु सत्सिद्धिरविप्रतिषिद्धा । तथा हि
( भा० ) बहिरन्तश्च परमार्थसत्, तदन्यतरापायेऽपि साधनदूषणप्रयोगानुपपत्तेः इति प्रकृतार्थपरिसमाप्तौ किं त्रिलक्षणपरिकल्पनया ? ।
अष्टसहस्त्रीतात्पर्यविवरणम्
मानसं नास्तिताज्ञानं तु तथाभवत्केन वार्यते ? इत्यत्राह - मानसस्य त्विति । प्रतिबन्धनियमाभावादिति अयमनुमानभिन्नत्वे हेतुः, अक्षानपेक्षत्वाच्च प्रत्यक्षभिन्नत्वं ध्रुवम तृतीयप्रमाणापत्तिरिति भावः । तस्माद्वस्तुधर्मत्वेनाभावस्य विषयत्वमेष्टव्यमित्युपसंहरति- इति यथोदितदोषमित्यादिना ॥ ११ ॥
बोधवाक्यमिति समाहाराश्रयणाद्बोधो वाक्यं च न प्रमाणम्, तर्हि केन साधनं दूषणं च स्यादिति, साधनदूषणप्रयोगान्यथानुपपत्त्याऽभावैकान्तो निरसनीय इति कारिकोत्तरार्द्धार्थः । भावा येनेत्यादि कारिका धर्मकीर्तेः, किं त्रिलक्षणकल्पनयेति एक
Page #333
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि. १-का. १२]
२९९ [हेतौ त्रिलक्षणाभावेऽपि साध्यसिद्धिप्रकारं दर्शयन्ति] सपक्षसत्त्वाभावेऽपि साध्याभावासम्भूष्णुतानियमनिर्णयैकलक्षणमात्रादेव साधनस्य साध्यसिद्धौ समर्थनत्वोपपत्तेः, सपक्षसत्त्वस्याभावेऽपि सर्वानित्यत्वे साध्ये सत्त्वादेः साधनस्योपगमात्, स्वयमसिद्धर्मिधर्मस्यापक्षधर्मत्वेऽपि प्रमाणास्तित्वे चेष्टसाधनस्य हेतोः समर्थनात् ।
[अविनाभावाभावे हेतुरहेतुरेव] क्वचित्तदभावेऽपि चान्यथानुपपत्तिनियमनिश्चयवैकल्ये हेतुत्वाघटनात् । स्यादाकूतं ते—'न परमार्थतः साधनदूषणप्रयोगो नैरात्म्यवादिनः सिद्धो यतो बहिरन्तश्च परमार्थतः सद्वस्तु साध्यते । न चासिद्धाद्धेतोः साध्यसिद्धिः, अतिप्रसङ्गात्' इति तदपि प्रलापमात्रं, तत्त्वतो नैरात्म्यस्य साध्यत्वायोगादरात्म्यस्य दूष्यत्वायोगवत् ।
(भा०) न हि संवृत्या साध्यसाधनव्यवस्था युक्तिमती ।
परमार्थतोपगमे नैरात्म्यस्य तत्सिद्धरपि सांवृतत्वप्रसङ्गात्, सांवृतात्साधनाद्वास्तवसिद्ध्यसम्भवात् ।
( भा०) शून्यसिद्धेरपरमार्थत्वे पुनरनिराकृतसद्भावस्य सर्वस्याशून्यतानुषङ्गात् तत्साधनं विरुद्धमापद्येत ।
[नैरात्म्यं साधयितुं हेतुप्रयोग आवश्यक एव] स्वरूपस्य वेद्यवेदकभावादिशून्यस्य स्वतोऽगतेः साधनोपन्यासेन तच्च
अष्टसहस्त्रीतात्पर्यविवरणम् लक्षणादेवोक्तानुमानादर्थसिद्धरित्यर्थः । एकलक्षणस्यैव प्रयोगस्य समर्थनत्वं परदृष्ट्या साधयति-सपक्षसत्त्वाभावेऽपीत्यादीना । सर्वं क्षणिकं सत्त्वादित्यत्र दृष्टान्ताभावेन सपक्षसत्त्वाभावः, प्रमाणास्तित्वमस्ति, इष्टसाधनादित्यत्र पक्षधर्मत्वाभावः परैरपीष्यत इति विपक्षव्यावृत्तिरेकमेव लक्षणं हेतोरवशिष्टं, तत्रैवास्माकमन्यथानुपपत्तिशब्देनाग्रह इति तत्त्वम् । अत्र हेत्वसिद्धयुद्भावने नैरात्म्यमपि तत्त्वतो माध्यमिकस्य न सिद्धयेदित्याह-स्यादाकूतं ते
Page #334
--------------------------------------------------------------------------
________________
३००
अष्टसहस्त्रीतात्पर्यविवरणम्
(भा० ) समारोपव्यवच्छेदेऽपि समानम् ।
कुतश्चित्तत्त्वतः समारोपव्यवच्छेदे संवृत्या साध्यसाधनव्यवस्थितेरयोगात्, तत्समारोपव्यवच्छेदस्याप्यपरमार्थत्वे पुनरव्यवच्छिन्नसमारोपस्य बाध्यबाधकभावादिशून्यस्य संविन्मात्रस्य स्वतोऽपि गत्यनुपपत्तेस्तदशून्यत्वप्रसङ्गात् । ततो
(भा० ) हेयोपादेयोपायरहितमयमहीकः केवलं विक्रोशति तत्त्वोपप्लववादिवत् ।
अथ संवृत्या हेयस्य सद्वादस्योपादेयस्य च शून्यस्य तन्निषेधविधानोपायस्य चाभ्युपगमान्न शून्यवादिनो निर्लज्जता नापि विक्रोशमात्रमिति मतिः । तर्हि यदि ( भा० ) संवृत्यास्तीति स्वरूपेणेत्यमर्थस्तदा कृतमनुकूलं, केवलं वक्तात्मनो वैयात्यं सूचयति ।
न्यायबलान्यक्कृतस्यापि स्वार्थसिद्धिविकलं प्रलपतो धाष्टर्यमात्रप्रसिद्धेः स्वरूपेणास्तित्वस्य संवेदनवत्सर्वभावानां स्याद्वादिभिरभीष्टत्वात् तेन तदनुकूलकरणात्संप्रतिपत्तेः ।
( भा० ) अथ पररूपेण नास्ति
इत्ययमर्थस्तथैव स्याद्वादिना ।
( भा० ) नाम्नि विवादात् एतदपि तादृगेव ।
पररूपेण ग्राह्यग्राहकाभावादिविकलसंवेदनवत्सर्वपदार्थानां नास्तित्वे विवादाभावात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
इत्यादिना तत्साधने विरुद्धतामापद्येतेत्यन्तेन । स्वसंवेदनज्ञानमहिम्नैव नैरात्म्यं सेत्यस्यति समारोपव्यवच्छेदार्थं पुनः साधनादर इत्यत्राह भाष्यकृत् - तत्र समारोप - व्यवच्छेदेऽपि समानमिति समानं साधनविरोधदूषणं प्रागुक्तमिति बोध्यम् । उक्तमेव विवृणोति वृत्तिकृत्कुतश्चिदिति समारोपव्यवच्छेदः परमार्थतः कल्पनया वा ? आद्ये प्रमाणान्तरेण तत्सिद्धौ काल्पनिकसाधनप्रयोगो धीविडम्बनामात्रम्, अन्त्ये तत्त्वतः समारोपाव्यवच्छेदादशून्यतेति भावः। संवृतेः स्वरूपररूपाभ्यामस्तित्वनास्तित्वपर्यवसानेन स्वसमयार्थसिद्धिमुद्द्द्घोषयति
Page #335
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि० १ - का० १२]
(भा० ) तदेतेनोभयानुभयविकल्पः प्रत्युक्तः ।
यदि हि संवृत्यास्तीति स्वपररूपाभ्यामस्ति नास्ति चेत्ययमर्थस्तदा न कश्चिद्विवादः । अथाननुभयरूपेणानुभयमित्यर्थस्तदापि न कश्चिद्विवादः, तथाग्रे समर्थयिष्यमाणत्वात् ।
३०१
( भा० ) अथ तदस्ति मृषात्मनेति समानश्चर्चः ।
मृषात्मनास्तित्वस्य स्वपरोभयानुभयरूपास्तित्वविकल्पचतुष्टयेऽप्युक्तदोषा
नुषङ्गात् ।
[विचाराभावः संवृतिरिति मान्यतायामपि दोषः ]
( भा० ) संवृतिर्विचारानुपपत्तिरित्युक्तं, तदभावात् ।
न हि विचारस्याभावे कस्यचिद्विचारेणानुपपत्तिः शक्या वक्तुम् । नापि शून्यवादिनः किञ्चिन्निर्णीतमस्ति यदाश्रित्य क्वचिदन्यत्रानिर्णीतेऽर्थे विचारः प्रवर्तते, तस्य सर्वत्र विप्रतिपत्तेः । तथा चोक्तं तत्त्वार्थश्लोकवार्तिके
किञ्चिन्निर्णीतमाश्रित्य विचारोऽन्यत्र वर्तते ।
सर्वविप्रतिपत्तौ तु क्वचिन्नास्ति विचारणा ॥ इति । [ १.१४० ]
सोऽयं सौगतस्तदभावात्
(भा०) तत्परप्रतिपादनार्थं शास्त्रमुपदेष्टारं वा वर्णयन् सर्वं प्रतिक्षिपतीति कथमनुन्मत्तः ? |
स्वयमुपदिष्टं विचारप्रतिपादनार्थं शास्त्रादिकं प्रतिक्षिपन्नुन्मत्त एव स्यात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
यदीत्यादिना । प्रत्येकपक्षपर्यवसितमुभयानुभयपक्षयोरपि पर्यवस्यतीत्याशयवानाह भाष्यकृत्-तदेतेनेति । न कश्चिद्विवाद इति क्रमार्पितोभयविषयस्य तृतीयभङ्गस्यास्मदभिमतत्वादेवेत्यर्थः । तथाग्र इति प्रत्येकरूपेणोभयभिन्नभेदस्योभयत्रैव पर्यवसानादिति भावस्याग्रे स्फुटीकरिष्यमाणत्वादित्यर्थः । तदस्तीति तदस्ति नास्ति उभयमनुभयं चेत्यर्थः । उक्तदोषानुषङ्गादिति मृषैकान्तस्याप्यघटमानत्वेनानेकान्तसत्यत्वे पर्यवसानादित्यर्थः । न हि विचारस्येत्यादि विप्रतिपत्तिनिरासानुकूलो विमर्शो विचारः शून्यवादिनश्च क्वचिदप्यनिर्णयेन
Page #336
--------------------------------------------------------------------------
________________
३०२
अष्टसहस्त्रीतात्पर्यविवरणम्
[सर्वं जगत् मायोपमं स्वप्नोपमं चेति मन्यमाने का हानि: ? ] अथ मायोपमाः स्वप्नोपमाश्च सर्वे भावा इति सुगतदेशनासद्भावान्न सर्वं प्रतिक्षिपन्नुन्मत्तः स्यादिति मतं तर्हि
(भा०) शौद्धोदनेरेव तावत्प्रज्ञापराधोऽयं लोकातिक्रान्तः कथं बभूवेत्यतिविस्मयमास्महे । तन्मन्ये पुनरद्यापि कीर्तयन्तीति किं बत परमन्यत्र मोहनीयप्रकृतेः ? ।
[भ्रान्तौ भ्रान्तिरस्ति न वेत्युभयपक्षे दोषारोपणम् ।] स्वप्नादिविभ्रमवत्सर्वस्य विभ्रमाददोषः इति चेत्तर्हि विभ्रमे किमविभ्रमो विभ्रमो वा ? तत्राविभ्रमे कथं सर्वविभ्रमः ? विभ्रमेऽपि कुतोऽसौ ? विभ्रमेऽपि विभ्रमे सर्वत्राविभ्रमप्रसङ्गात् । विभ्रमविभ्रमेऽपि विभ्रमोपगमे स एव पर्यनुयोगोऽनवस्था चेति दुरन्तं तमः । तदुक्तं न्यायविनिश्चये
तत्र शौद्धोदनेरेव कथं प्रज्ञापराधिनी ।। बभूवेति वयं तावद् बहु विस्मयमास्महे ॥ [५३-५४] तत्राद्यापि जडासक्तास्तमसो नापरं परम् ।
विभ्रमे विभ्रमे तेषां विभ्रमोऽपि न सिद्धयति ॥ इति । [५४-५५] ततो नाभावैकान्तः श्रेयान्, स्वेष्टस्य दृष्टबाधनाद्भावैकान्तवत् ॥१२॥
परस्परनिरपेक्षभावाभावैकान्तपक्षोऽपि न क्षेमङ्करः, तत एवेत्यावेदयन्ति स्वामिनः
विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥१३॥
अष्टसहस्त्रीतात्पर्यविवरणम्
विचाराभावे तदनुरूपा संवृतिर्दूरोत्सारितैव, विशेषणाभावे विशिष्टाभावादिति भावः । किं बत परमन्यत्र मोहनीयप्रकृतेरिति मोहामहोदोषान्न किञ्चिदधिकं विभ्रमकारणं येन बहुवादिसम्मतमपि पदार्थसद्भावं निरस्य नैरात्म्यं शिक्षयति भिक्षुन शौद्धोदनिरित्यर्थः ॥१३॥
Page #337
--------------------------------------------------------------------------
________________
प्रथमो भाग: [ परि० १ - का० १३ ]
( भा० ) भावाभावयोरेकतरप्रतिक्षेपैकान्तपक्षोपक्षिप्तदोषपरिजिहीर्षया सदसदात्मकं सर्वमभ्युपगच्छतोऽपि वाणी विप्रतिषिध्येत, तयोः परस्परपरिहारस्थितिलक्षणत्वात् । न हि सर्वात्मना कञ्चिदर्थं सन्तं तथैवासन्तमाचक्षाणः स्वस्थः, स्वाभ्युपेतेतरनिरासविधानकरणाच्छून्यावबोधवत् ।
[परस्परनिरपेक्षसदसदात्मकं मन्यमानस्य भाट्टस्य निराकरणम् ]
यथैव हि सर्वथा शून्यमवबुध्यमानः स्वसंवेदनादन्यतो वा स्वाभ्युपेतं शून्यतैकान्तं निरस्यति, अनभ्युपेतं प्रमाणादिसद्भावं विधत्ते तथैव भावाभावयोस्तादात्म्यैकान्तं ब्रुवन् स्वाभ्युपेतं सदसदात्मकं निरस्यति, स्वयमनभ्युपगतं तु भावैकान्तमभावैकान्तं वा विधत्ते, अभावस्य भावेऽनुप्रवेशाद्भावस्य वा सर्वथाभावे, अन्यथा भावाभावयोर्भेदप्रसङ्गात् । ततो नोभयोरैकात्म्यं श्रेयः स्याद्वादं विद्विषां, सदसतोः परस्परपरिहारस्थितिलक्षणविरोधात्, जात्यन्तरस्यैव दर्शनेन सर्वथोभयैकात्म्यस्य बाधनात्तद्वत् ।
३०३
[परस्परनिरपेक्षसदसदुभयैकात्म्यं मन्यमानस्य साङ्ख्यस्य निराकरणम् ।]
तथा साङ्ख्यस्यैवमुभयैकात्म्यं ब्रुवतः
( भा० ) त्रैलोक्यं व्यक्तेरपैति नित्यत्वप्रतिषेधात्, अपेतमप्यस्ति विनाशप्रतिषेधादिति वा तदन्यथापेतमन्यथास्तीति स्याद्वादावलम्बनमन्धसर्प
अष्टसहस्त्रीतात्पर्यविवरणम्
जात्यन्तरस्यैवेति प्रत्येकद्वयरूपो भयाभ्युपगमकृतदोषस्य जात्यन्तरवादेनैव गुडशुण्ठीन्यायेन निराससुकरत्वादिति भावः । तदाहुः श्रीहेमसूरिपादा:
गुडो हि कफहेतुः स्यान्नागरं पित्तकारणम् ।
द्वयात्मनि न दोषोऽस्ति गुडनागरभेषजे ॥ इति, [वीतरागस्तोत्रम् - ८.६]
तत्त्वं चावच्छेदकभेदेनोभयवृत्त्याऽवच्छेदकभेदगर्भितो भयात्मकैकस्वभावेन वा, आद्येऽवच्छेदकद्वयोरपि प्रतीतिबलेन व्याप्यवृत्तित्वादुभयोर्व्याप्यवृत्तित्वम्, अन्त्ये च स्यात्पदोपसन्दानेन भावाभावपदयोर्विशेषपरतेति निरूपितं नयरहस्येऽस्माभिः । तद्वत् = शून्यावबोधवत् । एवं = उपाधिभेदराहित्येन परस्परनिरपेक्षतया, त्रैलोक्यं = प्रधानं व्यक्तेः= महदादेः, नित्यत्वप्रतिषेधादपैति = नश्यति । अपेतं = ध्वस्तम्, अप्यस्ति प्रकृतेर्विनाश
Page #338
--------------------------------------------------------------------------
________________
३०४
अष्टसहस्त्रीतात्पर्यविवरणम् बिलप्रवेशन्यायमनुसरति । त्रैलोक्यस्य व्यक्तात्मनापेतत्वसिद्धेः अव्यक्तात्मनास्तित्वव्यवस्थितेः ।
हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् ।
सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥ [साङ्ख्यकारिका-१०] इति वचनात् ।
परमार्थतो व्यक्ताव्यक्तयोरेकत्वान्न स्याद्वादावलम्बनं कापिलस्येति चेत्, न तथा विरोधस्य तदवस्थानात् । प्रधानाद्वैतोपगमे तु नोभयैकात्म्यमभ्युपगतं स्यात् । तथा स्वयमनभ्युपगच्छतोऽपि कथञ्चिदुभयात्मकतत्त्ववादप्रवेशे कथमन्धसर्पबिलप्रवेशन्यायानुसरणं न स्यात् ? यदृच्छया तदवलम्बनात् । ततो नैवमप्युभयैकान्तः सिद्ध्यति, विरोधात् ।
(भा०) योऽपि पक्षत्रयोपक्षिप्तदोषजिहासया सर्वथाव्यक्तव्यं तत्त्वमवलम्बेत् सोऽपि कथमवक्तव्यं ब्रूयात् ? ।
येनावाच्यतैकान्तेऽप्यवाच्यमित्युक्तियुज्यते । तदुक्तौ कथं परमवबोधयेत् ? स्वसंविदा परावबोधनायोगात् । तदनवबोधने कथं परीक्षितास्य स्यात् ? तस्यापरीक्षकत्वे च कुतोऽन्यस्माद्विशेषः सिद्धयेत ? अपरीक्षिततत्त्वाभ्युपगमस्य सर्वेषां निरङ्कुशत्वात् । [बौद्धः स्वतत्त्वमवाच्यं साधयितुमनेका युक्तीः प्रयुङ्क्ते जैनाचार्यास्ताः निराकुर्वन्ति ।] (भा०) नैष दोषः स्वलक्षणमनिर्देश्यं प्रत्यक्षं कल्पनापोढमित्यादिवत् । सर्वमवाच्यं तत्त्वमिति वचनेऽपि विरोधाभावात् परप्रतिपादनस्यान्यथा
- अष्टसहस्रीतात्पर्यविवरणम् प्रतिषेधात् तत्=त्रैलोक्यम्, अन्यथा महदादिरूपेण अपेतम्, अन्यथा प्रकृतिरूपेणास्तीत्यकामेनापि साङ्ख्येन स्याद्वादे प्रवेष्टव्यमित्यर्थः ।।
अवाच्यतैकान्तं दूषयति-अवाच्यतैकान्त इत्यादिना अवाच्यशब्देनाप्यवाच्यतापत्तेः सर्वथाऽवाच्यत्वं नास्तीत्यर्थः । स्वलक्षणानिर्देश्यत्वादिप्रतिपादकवचनवत् सर्वमवाच्यं तत्त्वमित्यस्य नानुपपत्तिरित्याशङ्कते-स्वलक्षणमित्यादिना । एवमसिद्धनासिद्धं साधयतो
Page #339
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि० १ - का० १३]
नुपपत्ते:, इति कस्यचिद्वचनं,
३०५
( भा० ) तदप्यसत् यदसतः समुदाहृतम् ।
सिद्धसाध्यव्यवस्था हि कथामार्गाः । न च स्वलक्षणस्य सर्वथाप्यनिर्देश्यत्वोपगमे स्वलक्षणमनिर्देश्यम् [ ] इति वचनेन तस्य निर्देश्यत्वमविरुद्धम् । अथ स्वलक्षणं नैतद्वचनेनापि निर्देश्यं स्वलक्षणसामान्यस्यैव तेन निर्देश्यत्वात् स्वलक्षणे निर्देशासम्भवात् न ह्यर्थे शब्दाः सन्ति तदात्मानो वा येन तस्मिन् प्रतिभासमाने तेऽपि प्रतिभासेरन्निति [ ] वचनात् । कल्पनारोपितं तु स्वलक्षणं तद्धर्मो वा निर्देश्यत्वशब्देन निर्दिश्यते, विरोधाभावादिति मतं तर्हि स्वलक्षणमज्ञेयमपि स्यात् ।
( भा० ) यथैवाक्षविषयेऽभिधानं नास्ति तथाक्षज्ञाने विषयोऽपि नैवास्ति ततस्तत्र प्रतिभासमानेऽपि न प्रतिभासेत ।
शक्यं हि वक्तुं 'यो यत्राधेयतया नास्ति तदात्मा वा न भवति स तस्मिन् प्रतिभासमानेऽपि न प्रतिभासते यथाक्षविषये स्वलक्षणे शब्दः । नास्ति चाक्षज्ञाने तथाक्षविषयस्तदात्मा वा न भवति इति ।
[बौद्धस्य निर्विकल्पज्ञानं पदार्थेभ्य उत्पद्य तानेव पदार्थान् जानाति तर्हि तज्ज्ञानमिन्द्रियेभ्योऽपि उत्पद्यते तानीन्द्रियाणि कथं न जानीते ? ]
यदि पुनर्विषयसामर्थ्यादक्षज्ञानस्योत्पादात्तत्र प्रतिभासमाने स प्रतिभासत
अष्टसहस्त्रीतात्पर्यविवरणम्
महातार्किकत्वापत्तिरित्याह भाष्यकृत् - तदप्यसदित्यादिना । यदसतः = अप्रसिद्धस्य, समुदाहृतं भावे क्तप्रत्ययात् समुदाहरणं निदर्शनमिति यावत् । तदप्यसद्=अयुक्तम्, सिद्धेन साध्यव्यवस्थापनस्यैवोदाहरणप्रयोजनत्वादिति भावः तदाह वृत्तिकृत् - सिद्धेत्यादि । अनिर्देश्यशब्देनापि कल्पितं सामान्यरूपं स्वलक्षणं निर्दिश्यते, न तु तात्त्विकम्, अर्थस्य शब्दाविषयत्वात्, सामान्य एव तत्सङ्केतप्रवृत्तेरित्याशङ्कते - अथेत्यादि । एवमर्थास्यावाच्यत्वेऽज्ञेयत्वमपि स्यादित्याह - तर्हीति । यदि पुनरिति स्वलक्षणरूपविषयसामर्थ्यादुत्पन्नत्वान्निर्विकल्पकदर्शने प्रतिभासमाने स्वलक्षणरूपोऽर्थः प्रतिभासत इति युक्तं मतमित्यर्थः ।
Page #340
--------------------------------------------------------------------------
________________
३०६
अष्टसहस्त्रीतात्पर्यविवरणम् एवेति मतं तदप्यसम्यक्, करणशक्तेरपि प्रतिभासप्रसङ्गात् । तथा हि
(भा० ) न केवलं विषयबलाद् दृष्टेरुत्पत्तिः, अपि तु चक्षुरादिशक्तेश्च ।
विषयाकारानुकरणादर्शनस्य । तत्र विषयः प्रतिभासते, न पुनः करणं, तदाकाराननुकरणादिति चेत्,
(भा०) तर्हि, तदर्थवत्करणमनुकर्तुमर्हति, न चार्थं, विशेषाभावात् । दर्शनस्य कारणान्तरसद्भावेऽपि विषयाकारानुकारित्वमेव सुतस्येव पित्राकारानुकरणमित्यपि वार्तं, स्वोपादानमात्रानुकरणप्रसङ्गात् ।
विषयस्यालम्बनप्रत्ययतया स्वोपादानस्य च समनन्तरप्रत्ययतया प्रत्यासत्तिविशेषादर्शनस्य ।
(भा०) उभयाकारानुकरणेऽपि अनुज्ञायमाने,
(भा०) रूपादिवदुपादानस्यापि विषयतापत्तिः, अतिशयाभावात्, वर्णादेर्वा तद्वदविषयत्वप्रसङ्गात् ।
दर्शनस्य (भा०) तज्जन्मरूपाविशेषेऽपि तदध्यवसायनियमाद् बहिरर्थविषयत्व
- अष्टसहस्त्रीतात्पर्यविवरणम् नैवम्, ज्ञानजनकत्वेन ज्ञानभास्यत्वनियमे मानाभावादित्याह=तदप्यसम्यगित्यादिना । करणशक्तेरपि इन्द्रियनिष्ठज्ञानजननशक्तेरपि ज्ञाने तज्जन्यत्वं न तद्भासकत्वनियतं किन्तु तदाकारानुकारित्वमित्याशङ्कते-विषयाकारेत्यादि । तत्रापि तज्जन्यत्वमेव नियामकमित्यतिप्रसङ्ग एवेत्याह भाष्ये-तीति । तज्जन्यताविशेषस्तदाकारानुकरणनियामकोऽस्त्वित्या शङ्कते-तद्दर्शनस्येति । एवं सति तदुपादेयतारूप एव विशेष आश्रीयतां स्वविषयविषयकत्वरूपसंवादार्थं समनन्तरप्रत्ययजन्यताया एवाभ्यर्हितत्वात्, तथा चार्थविषयतोच्छेदइत्यभिप्रायवानाह-स्वोपादानेति । विषयोपादानोभयप्रत्ययत्वेऽप्याकारानुकरणस्य ज्ञाने नियमत उपादानविषयत्वापत्तिरित्याह-विषयस्येत्यादि । वर्णादेः=रूपादेः, तद्वद्=
१. दर्शनस्य इति अष्टसहस्रीसम्मतः पाठः ।
Page #341
--------------------------------------------------------------------------
________________
३०७
प्रथमो भागः [परि०१-का. १३] मित्यसारम् ।
वर्णादाविवोपादानेऽप्यध्यवसायप्रसङ्गात्, अन्यथोभयत्राध्यवसायायोगात् । न हि रूपादावध्यवसायः सम्भवति, तस्य दर्शनविषयत्वोपगमात् ।
(भा०) दर्शनस्यानध्यवसायात्मकत्वात् । तस्याध्यवसायात्मकत्वे स्वलक्षणविषयत्वविरोधात् ।
[बौद्धो निर्विकल्पदर्शनस्य सविकल्पज्ञानहेतुं मन्यते तस्य निराकरणम्] (भा०) अदोषोऽयं, प्रत्यक्षस्याध्यवसायहेतुत्वादित्यनिरूपिताभिधानं सौगतस्य, (भा०) तत्राभिलापाभावात् ।
यथैव हि वर्णादावभिलापाभावस्तथा प्रत्यक्षेऽपि तस्याभिलापकल्पनातोऽपोढत्वादनभिलापात्मकार्थसामर्थ्येनोत्पत्तेः । प्रत्यक्षस्य,
(भा०) तदभावेऽप्यध्यवसायकल्पनायां प्रत्यक्षं किं नाध्यवस्येत् ?
स्वलक्षणं स्वयमभिलापशून्यमपि प्रत्यक्षमध्यवसायस्य हेतुर्न पुना रूपादिरिति कथं सुनिरूपिताभिधानम् ? यदि पुनरविकल्पकादपि प्रत्यक्षाद्विकल्पात्मनोऽध्यवसायस्योत्पत्तिः, प्रदीपादेः कज्जलादिवद्विजातीयादपि कारणात्कार्यस्योत्पत्तिदर्शनादिति मतं, तदा तादृशोऽर्थाद्विकल्पात्मनः प्रत्यक्षस्योत्पत्तिरस्तु, तत एव तद्वत् । जातिद्रव्यगुणक्रियापरिभाषाकल्पनारहितादर्थात्कथं जात्यादिकल्पनात्मकं प्रत्यक्षं स्याद् ? इति चेत्, प्रत्यक्षात्तद्रहिताद्विकल्पः कथं जात्यादिकल्पनात्मकः
- अष्टसहस्रीतात्पर्यविवरणम् - उपादानवत्, प्रत्यक्षस्य=नीलादिदर्शनस्य, अध्यवसायहेतुत्वात्=नामजातियोजनात्मकप्रत्यक्षहेतुत्वात् । यद्यपि एवं नीलाध्यवसायहेतुत्वेन दर्शनस्य नीलविषयत्वं तत्त्वेन च नीलाध्यवसायहेतुत्वमित्यन्योन्याश्रयः स्फुट एवोपढौकते, तथापि अभिलापशून्यत्वेन नाध्यवसायहेतुता रूपादिवदिति स्फुटतरं दूषणमाह-तत्राभिलापाभावादित्यादिना । विकल्पजननशक्तेरविकल्पकेऽपि दर्शने स्वीकारात्तयैव तद्धेतुत्वे दोषाभाव इत्यभिप्रायवानाह-यदि पुनरिति । तस्याः शक्ते रूपाद्यर्थसाधारण्यादविकल्पकोच्छेदापत्तिरत्र दूषण
Page #342
--------------------------------------------------------------------------
________________
३०८
अष्टसहस्त्रीतात्पर्यविवरणम् स्याद् ? इति समानः पर्यनुयोगः । विकल्पस्य जात्यादिविषयत्वाददोष इति चेत्, न प्रत्यक्षवत्तस्य जात्यादिविषयत्वविरोधात् ।
(भा०) यथैव हि प्रत्यक्षस्याभिलापसंसर्गयोग्यता नास्ति तथा तत्समनन्तरभाविनोऽपि विकल्पस्य ।
तस्याप्यभिलपनेनाभिलप्यमानेन च जात्यादिना संसर्गासम्भवात्, स्वोपादानसजातीयत्वात् । कथमिदानीं विकल्पो जात्यादिव्यवसायि ? इति चेत्, न कथमपि ।
(भा० ) तथा हि- किञ्चित्केनचिद्विशिष्टं गृह्यमाणं क्वचिद्विशेषणविशेष्यतत्सम्बन्धव्यवस्थाग्रहणमपेक्षते दण्डिवत् ।
विशेषणं विशेष्यं च सम्बन्धं लौकिकी स्थितिम् ।
गृहीत्वा सङ्कलय्यैतत्तथा प्रत्येति नान्यथा ॥ [ ] इति वचनात् ।
(भा०) न चायमियतो व्यापारान् कर्तुं समर्थः, प्रत्यक्षबलोत्पत्तेरविचारकत्वात् प्रत्यक्षवत् ।
कश्चिदाह(भा०) नैतदेवं दूषणं, प्रत्यक्षादेवाध्यवसायोत्पत्त्यनभ्युपगमात् । (भा०) शब्दार्थविकल्पवासनाप्रभवत्वान्मनोविकल्पस्य ।
- अष्टसहस्रीतात्पर्यविवरणम् मित्याह-तदेत्यादि । तादृशो= विकल्परहितात्, तद्वत्=प्रदीपादेः कज्जलोत्पत्तिवत् । विकल्पस्येति न हि दृष्टेऽनुपपन्नं नामेत्यर्थः । दृष्टेऽपि कारणबाधाद् बाधः स्यादित्याहप्रत्यक्षवदित्यादि प्रत्यक्षवद्=दर्शनवत् तस्य सविकल्पकस्य, स्वोपादानसजातीयत्वादिति प्रत्यक्षलक्षणस्वकीयोपादानसदृशत्वाद्विकल्पस्येत्यर्थः । सुहृद्भावेन पृच्छतिकथमिदानीमिति । सुहृद्भावेनैवोत्तरयति-न कथमपीति क्षणिकवादिदर्शने जात्यादियोजनं विकल्पे न कथमप्युपपद्यते दीर्घकालिकत्वात्तदुपयोगस्येत्यर्थः । एतदेव प्रपञ्चयतितथा हीत्यादिना ।
Page #343
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. १३]
३०९ ___ तद्वासनाविकल्पस्यापि पूर्वतद्वासनाप्रभवत्वादित्यनादित्वाद्वासनाविकल्पसन्तानस्य प्रत्यक्षसन्तानादन्यत्वात्, विजातीयाद्विजातीयस्योदयानिष्टेः, तदिष्टौ यथोदितदूषणप्रसङ्गात् इति, तस्याप्येवंवादिनः शब्दार्थविकल्पवासनाप्रभवात् ।
(भा०) ततस्तर्हि कथमक्षबुद्धेः रूपादिविषयत्वनियमः
सिद्धयेत् ? मनोराज्यादिविकल्पादपि तत्सिद्धिप्रसङ्गात् । अथाक्षबुद्धि सहकारिणो वासनाविशेषादुत्पन्नाद्रूपादिविकल्पादक्षबुद्धे रूपादिविषयत्वनियमः कथ्यते । तत एवाक्षबुद्धिविषयत्वनियमोऽप्यभिधीयताम्, अन्यथा रूपादिविषयत्वनियमोऽपि मा भूदविशेषात् ।
[बौद्धो निर्विकल्पदर्शनं शब्दसंसर्गरहितं मन्यते तस्य विचारः क्रियते] रूपाद्युल्लेखित्वाद्विकल्पस्य तबलात् । (भा०) तदभ्युपगमे वा । प्रत्यक्षबुद्धेः (भा०) अभिलापसंसर्गोऽपि तद्वदनुमीयेत ।
तद्विकल्पस्याभिलापेनाभिलप्यमानजात्याद्युल्लेखितयोत्पत्त्यन्यथानुपपत्तेः, तदनुमिताच्चाक्षबुद्ध्यभिलापसंसर्गाद्रूपाद्यभिलापसंसर्गोऽनुमीयेत इति शब्दाद्वैतवादिमत
अष्टसहस्त्रीतात्पर्यविवरणम् ततो विकल्पात् । मनोराज्यादीति वासनाविशेषप्रभवविकल्पसमानविषयत्वे निर्विकल्पस्याभ्युपगम्यमाने मनोराज्यादिविकल्पकसमानविषयस्यापि दर्शनस्य प्रसङ्गादित्यर्थः । तत एव तदुत्पन्नत्वहेतोरेव, अभिधीयतामिति रूपादिविषयोत्पन्नत्वेन रूपादिशब्दविषयत्ववद्विकल्पस्य समनन्तरप्रत्ययोत्पन्नत्वेन तद्विषयत्वस्य न्यायप्राप्तत्वादिति भावः । व्यतिरेके प्रतिबन्दिमाह-अन्यथेति, तबलात्=विकल्पबलात्, प्रत्यक्षबुद्धेः= निर्विकल्पकदर्शनस्यापि, अभिलापसंसर्गोऽपि= नामविषयकत्वमपि, तद्वद् =रूपादिविकल्पवत् । 'तद्विकल्पकस्य निर्विकल्पकत्वाभिमतज्ञानस्थलीयशब्दार्थविकल्पस्य, अनुमीयेतेति रूपादिकमभिलापसंसर्गवत् शब्दाविषयकज्ञानाविषयत्वादक्षबुद्धिविकल्पादि
१. विकल्पस्येति अष्टसहस्रीसम्मतः पाठः ।
Page #344
--------------------------------------------------------------------------
________________
३१०
अष्टसहस्त्रीतात्पर्यविवरणम् सिद्धिः । न च सौगतो दर्शनस्याभिलापसंसर्गमुपैति ।
(भा० ) तस्मादयं किञ्चित्पश्यन् तत्सदृशं पूर्वं दृष्टं न स्मर्तृमर्हति तन्नामविशेषास्मरणात् । तदस्मरन्नैव तदभिधानं प्रतिपद्यते । तदप्रतिपत्तौ तेन तन्न योजयति । तदयोजयन्नाध्यवस्यतीति न क्वचिद्विकल्पः शब्दो वेत्यविकल्पाभिधानं जगत्स्यात् ।
ननु च नामसंश्रयस्य विकल्पस्य प्रत्यात्मवेद्यत्वात् सर्वेषामभिधानस्य च श्रोत्रबुद्धौ प्रतिभासनात्कथमविकल्पाभिधानं जगदापद्यतेति चेत्, न तत्राप्यध्यवसायासम्भवात् । न च स्वसंवेदनेनेन्द्रियप्रत्यक्षेण वा निर्विकल्पकेन विकल्पोऽभिधानं वा गृहीतं नाम, अतिप्रसङ्गात् ।
(भा० ) तथा हि-बहिरन्तर्वा गृहीतमप्यगृहीतकल्पं क्षणक्षयस्वलक्षणसंवेदनादिवत् । तथा चायातमचेतनत्वं जगतः ।
- अष्टसहस्त्रीतात्पर्यविवरणम्
वदिति प्रयोगस्य सुकरत्वादिति भावः । किञ्चाविकल्पाध्यक्षाभ्युपगमे स्मरणानुपपत्तिरपि सौगतस्येत्याह-न च सौगत इत्यादि । तत्सदृशमिति सदृशार्थदर्शनेन संस्कारोबोधसौलभ्यार्थमुक्तम् । तन्नामविशेषास्मरणात् पूर्वप्रतिपन्ननामाऽस्मरणात्, न च नामविनिर्मुक्तमेव स्मरणं भविष्यतीति शङ्कनीयम्, तस्याप्रसिद्धरित्यर्थः । नैवेति इदमस्य नामेति न प्रतिपद्यत इत्यर्थः । तदप्रतिपत्तौ तेन नाम्ना न तद्वाच्यं योजयति इदमेतत्पदवाच्यमिति । ततो नाध्यवस्यति तदेतदिति शब्देन नाभिलापं शक्नोतीत्यर्थः । तदादेर्बुद्धिस्थत्वादिनाऽनुगतस्य तद्घटत्वादेरिव तद्घटादिनाम्नोऽपि शक्यतावच्छेदकत्वात्, एवं च न क्वचिद्विकल्पशाब्दज्ञानं वाच्यतासम्बन्धेन नामविषयकमध्यक्षपृष्ठभाविज्ञानं वा शब्दो वा तज्जन्यजनकान्यतमः सम्भवेदित्यविकल्पाभिधानस्य जगत आपत्तिः । ननु नामग्रहणं तावत् पटुकरणस्य श्रोत्रेन्द्रियादेव सम्पद्यते, ततोऽर्थज्ञानं च व्युत्पन्नस्य वक्त्रभिप्रायावच्छेदकत्वेनानुमितिरूपमेवेति नोक्तापत्तिरिति आशङ्कते-ननु चेति । नामसंश्रयस्येत्यत्र नाम संश्रयः कारणमस्येति बहुव्रीहिः । दूषयति-तत्रापीत्यादिना । तत्रापि विकल्पश्रोत्रबुद्ध्योरपि, अध्यवसायासम्भवात् तत्त्वेन निश्चयासम्भवादित्यर्थः । तदेतन्नाम्नोः सह स्मृतिपक्षे
१. नाध्यवस्यति इति अष्टसहस्रीसम्मतः पाठः ।
Page #345
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का.१३]
३११
[बौद्धमते स्मृतेर्विचार:] ननु च नास्मन्मते कश्चित्किञ्चिन्नीलादिकं सुखादिकं वा संविदन्पूर्वसंविदितं तत्सदृशं तन्नामविशेषं च क्रमशः स्मरति, पूर्वसंविदितसंवेद्यमाननामविशेषयोः सहैव स्मरणात्, तत्संस्कारयोदृश्यदर्शनादेव सहप्रबोधात् । ततोऽयं किञ्चित्पश्यन्नेव तत्सदृशं पूर्वदृष्टं स्मर्तुमर्हति, तदैव तन्नामविशेषस्मरणात्, ततस्तस्येदं नामेत्यभिधानप्रतिपत्तेः, ततस्तस्य दृश्यस्याभिधानेन योजनाद् व्यवसायघटनान्न किञ्चिद् दूषणमित्यपरः, तस्यापि दृश्यमाननाम्नः पूर्वदृष्टस्य च तत्सदृशस्य
(भा०) सह स्मृतिरयुक्तैव ।
स्वमतविरोधात्, सकृत्स्मृतिद्वयानभ्युपगमात् कल्पनयोर्बाध्यबाधकभावात् । कथमन्यथाश्वं विकल्पयतोऽपि गोदर्शने कल्पनाविरहसिद्धिः ? नाममात्रेऽपि सहस्मृतिरयुक्तैव,
(भा०) तन्नामाक्षरमात्राणामपि क्रमशोऽध्यवसानात् ।
अध्यवसानाभावे स्मृतेरयोगात् क्षणक्षयादिवत् । न च युगपत्तदध्यवसाय: सम्भवति, विरोधात् ।
(भा० ) अन्यथा सङ्कला प्रतिपत्तिः स्यात् ।
नीलमिति नाम्नि नकारादीनां परस्परविविक्तानामप्रतिपत्तेः । किञ्चाभिलापस्य पदलक्षणस्य तदंशानां च वर्णानां नामविशेषस्य स्मृतावसत्यां व्यवसाय: स्यात् सत्यां वा ?
अष्टसहस्त्रीतात्पर्यविवरणम्
योजनासम्भवमाशङ्कते-ननु चेत्यादिना । दूषयति-तस्यापीति । ननु अश्वविकल्पकाले गोविकल्प इदन्त्वावच्छिन्ने तादात्म्येनाश्वज्ञानस्य तादात्म्येन गोज्ञानप्रतिबन्धकत्वादेव माभूत्, दृश्यमानदृष्टनाम्नोः स्मृतिस्तु समूहालम्बनरूपा बाधाभावाद्भवन्ती केन वार्यताम् ? इति अस्वरसादाह नाममात्रेऽपीत्यादि । नकारादीनां नकारेकारलकारानुस्वाराणामानुपूर्वीग्रहोपायश्च निर्विकल्पकक्षणिकज्ञानपक्षे न शोभते, तत्पृष्ठभाविसविकल्पकज्ञानं च नामयोजनापेक्षमिति नामग्रहे तदपेक्षायामन्योन्याश्रयादिदोषा दुर्निवारा इति द्रष्टव्यम् । सविकल्पकनिश्चयमात्रस्य नामयोजनापेक्षत्वे दोषान्तरमाह-किञ्चेत्यादिना ।
Page #346
--------------------------------------------------------------------------
________________
३१२
अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) नाम्नो नामान्तरेण विनापि स्मृतौ केवलार्थव्यवसायः किं न स्यात् ? ।
स्वाभिधानविशेषापेक्षा एवार्था निश्चयैर्व्यवसीयन्ते इत्येकान्तस्य त्यागात्, नाम्नः स्वलक्षणस्यापि स्वाभिधानविशेषानपेक्षस्यैव व्यवसायवचनात् । तदवचने वा न क्वचिद्व्यवसाय: स्यात्, नामतदंशानामव्यवसाये नामार्थव्यवसायायोगात् ।
[बौद्धमते निर्विकल्पदर्शनस्याव्यवसायात्मकत्वे सकलप्रमाणप्रमेयविलोप: स्यात्]
दर्शनेनाव्यवसायात्मना दृष्टस्याप्यदृष्टकल्पत्वात सकलप्रमाणाभावः, प्रत्यक्षस्याभावेऽनुमानोत्थानाभावात् । तत एव सकलप्रमेयापायः, प्रमाणापाये प्रमेयव्यवस्थानुपपत्तेः । इत्यप्रमाणप्रमेयत्वमशेषस्यावश्यमनुषज्येत । तदुक्तं न्यायविनिश्चये
अभिलापतदंशानामभिलापविवेकतः ।
अप्रमाणप्रमेयत्वमवश्यमनुषज्यते ॥ इति, [१.६] अभिलापविवेकत इत्यभिलापरहितत्वादिति व्याख्यानात् । प्रथमपक्षोपक्षिप्तदोषपरिजिहीर्षया
(भा०) तन्नामान्तरपरिकल्पनायामनवस्था ।
नामतदंशानामपि नामान्तरस्मृतौ हि व्यवसाये नामान्तरतदंशानामपि व्यवसायः स्वनामान्तरस्मतौ सत्यामित्यनवस्था स्यात् । तथा च तदेवाप्रमाणप्रमेयत्वमवश्यमनुषज्येत । अत्रापीयमेव कारिका योज्या, अभिलापविवेकतः इत्यभिलापनिश्चयत इति व्याख्यानात् । प्रतिपादितदोषभयात् ।।
(भा०) तदयमशब्दं सामान्य व्यवस्यन् स्वलक्षणमपि व्यवस्येत् । सामान्यलक्षणस्वलक्षणयोर्हि (भा०) भेदाभावात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
तदयमशब्दमिति अशब्दं शब्दयोजनारहितं, व्यवस्यन्=निश्चिन्वन्, व्यवस्येत्=
Page #347
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि. १-का. १३]
३१३ [बौद्धः स्वलक्षणसामान्ययोर्भेदं साधयति] नन्वर्थक्रियाकारिणः परमार्थसतः स्वलक्षणत्वात्, ततोऽन्यस्यानर्थक्रियाकारिणः संवृतिसतः सामान्यलक्षणत्वात्तयोः कथमभेद: स्यात् ? ।
यदेवार्थक्रियाकारि तदेव परमार्थसत् ।
अन्यत्संवृतिसत् प्रोक्ते ते स्वसामान्यलक्षणे ॥ [ ] इति वचनात्, तयोरभेदे सांवृतेतरस्वभावविरोधात् इति कश्चित्, सोऽपि स्वदर्शनानुरागी न परीक्षकः, स्वेनासाधारणेन रूपेण लक्ष्यमाणस्य सामान्यस्यापि स्वलक्षणत्वघटनाद्विशेषवत् । यथैव हि विशेषः स्वेनासाधारणेन रूपेण सामान्यासम्भविना विसदृशपरिणामात्मना लक्ष्यते तथा सामान्यमपि स्वेनासाधारणेन रूपेण सदृशपरिणामात्मना विशेषासम्भविना लक्ष्यते इति कथं स्वलक्षणत्वेन विशेषाद्भिद्यते ? यथा च विशेषः स्वामर्थक्रियां कुर्वन् व्यावृत्तिज्ञानलक्षणामर्थक्रियाकारी तथा सामान्यमपि स्वामर्थक्रियामन्वयज्ञानलक्षणां कुर्वत् कथमर्थक्रियाकारि न स्यात् ? तद्बाह्यां पुनर्वाहदोहाद्यर्थक्रियां यथा न सामान्य कर्तुमुत्सहते तथा विशेषोऽपि केवलः, सामान्यविशेषात्मनो वस्तुनो गवादेस्तत्रोपयोगात् इत्यर्थक्रियाकारित्वेनापि तयोरभेदः सिद्धः । एकस्माद् द्रव्यात्कथञ्चिदभिन्नत्वसाधनाच्च सामान्यविशेषपरिणामयोरभेदोऽभ्युपगन्तव्यः । तथा च सामान्यं व्यवस्यन्नपि कथञ्चित्तदभिन्नस्वलक्षणं न व्यवस्यतीति कथमुपपत्तिमत् ? ।
अष्टसहस्त्रीतात्पर्यविवरणम्
निश्चिनुयात् । सामान्येऽपि स्वलक्षणशब्दप्रवृत्त्यविरोधमुपपादयति-स्वेनेत्यादि । सामान्यविशेषात्मन इति केवलस्य विशेषस्य गवादित्वेनानुपलक्षणात्तत्र प्रवृत्त्ययोगादिति भावः । तदक्तं वाक्यपदीये 'गौः स्वरूपेण न गौ प्यगौौत्वाभिसम्बन्धात्तु गौरिति,' [ ] गोत्वसामान्यक्रोडीकृता व्यक्तिर्गोव्यवहारहेतुरित्येतदर्थः, सामान्यविशेषबशलाकारस्य गोः स्वरूपेण तथात्वमिति तु ज्यायः, अभेदः=तुल्यत्वम्, । एकस्मादित्यादिना चापृथक्त्वमभिहितमिति विशेषः, तदभिन्नं =सामान्याभिन्नम्, इतीत्यनन्तरं सौगतवचनमिति शेषः, कथमुपपत्तिमत् ? =कथं प्रमाणोपपन्नम् ? ।
१. तदभिन्नत्व इति अष्टसहस्रीसम्मतः पाठः ।
Page #348
--------------------------------------------------------------------------
________________
३१४
अष्टसहस्त्रीतात्पर्यविवरणम्
[स्वलक्षणस्य लक्षणं ] __अथ न द्रव्यं नापि तत्परिणाम: सामान्यं विशेषो वा स्वलक्षणम् । किं तर्हि ? ततोऽन्यदेव किञ्चित् सर्वथा निर्देष्टुमशक्यं प्रत्यक्षबुद्धौ प्रतिभासमानं तदनुमन्यते । एवमपि जात्यन्तरं सामान्यविशेषात्मकं वस्तु स्वलक्षणमित्यायातं, तस्यैव परस्परनिरपेक्षसामान्यविशेषतद्वद्रव्येभ्योऽन्यस्य प्रत्यक्षसंविदि प्रतिभासनात्, निरन्वयक्षणक्षयिनिरंशपरमाणुलक्षणस्य सुष्ठप्रत्यक्षेणालक्षणात् । तत्र च व्यवसायोऽक्षजन्मा स्वाभिधानविशेषनिरपेक्षः किन्न स्यात् ? यतोऽयं स्वलक्षणमशब्दं न व्यवस्येत् । ततः,
(भा०) सामान्यवत्स्वलक्षणमध्यवस्यन्नभिलापेन योजयेत् । ततो न किञ्चित्प्रमेयमनभिलाप्यं नाम,
श्रुतज्ञानपरिच्छेद्यं, शब्दयोजितस्य श्रुतविषयत्वोपपत्तेः ।
(भा०) प्रत्यक्षस्यानभिलाप्यत्वे स्मार्तं शब्दानुयोजनं दृष्टसामान्यव्यवसायो यद्यपेक्षेत सोऽर्थो व्यवहितो भवेत् तदिन्द्रियज्ञानात्सामान्यव्यवसायो न स्यात् ।
अष्टसहस्त्रीतात्पर्यविवरणम् जात्यन्तरं= पानकरसन्यायेन सङ्कलनात्मकं, न व्यवस्येत्=नार्थावग्रहरूपतया गृह्णीयात्, नाभिलापेन योजयेत् =ईहिताभिलापवैशिष्ट्येन नावेयात् । श्रुतज्ञानेति श्रुतज्ञानजनितसंस्कारमात्रोपनीतशब्दप्रकारकग्रहविषयस्य श्रुतनिश्रितमतिज्ञानविषयत्वोपपत्तेरित्यर्थः । अर्थाभिधानप्रत्ययास्तुल्यनामधेया इति नयाश्रयणाद् घटत्वेनैव घटतन्नाम्नोमंतिज्ञानेऽभेदभानं, नाम्नः सविकल्पकसामग्रीग्राह्यतया प्रातिस्विकरूपेण वा तद्व्यक्ती तद्व्यक्तिस्वरूपतत्ताया इव नामतदवयवेष्वपि नामतदवयवानामेव स्वरूपतः तत्र प्रकारत्वसम्भवात्, घटोऽयमित्यपायधारणोत्तरं घटनामकत्वेन घटपदवाच्यत्वेन श्रुतज्ञानोदयध्रौव्यमते तु यथाश्रुत एवार्थः । एतत् 'स्वसमयरहस्यमस्मत्कृतज्ञानबिन्द्वादितोऽवसेयम् ।
प्रत्यक्षस्य स्मार्त्तशब्दानुयोजनापेक्षत्वे शब्दाद्वैतवादिनं प्रति यत्सौगतेन दूषणं दत्तं, तत्तं प्रत्यावर्तेतेति वक्तुमुपक्रमते-प्रत्यक्षज्ञानस्येत्यादि स=प्रत्यक्षज्ञानगृहीतोऽर्थः, व्यवहितो भवेत् स्मार्तेन शब्दानुयोजनेनान्तरितः स्यात्, तथा च स्मृतिसामग्रया बल
१. प्रत्यक्षस्य इति अष्टसहस्रीसम्मतः पाठः ।
Page #349
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. १३]
३१५ यथैव हि शब्दसंसृष्टार्थग्राहिसविकल्पकप्रत्यक्षवादिनामर्थोपयोगे सत्यपि स्मार्त्तशब्दानुयोजनापेक्षेऽक्षज्ञाने तदर्थो व्यवहितः स्यात्, स्मार्तेन शब्दानुयोजनेन इति तदर्थादक्षज्ञानं सविकल्पकं न स्यात्, तदभावेऽपि भावात् तद्भावेऽपि चाभावादिति दूषणम्
अर्थोपयोगेऽपि पुनः स्मार्तं शब्दानुयोजनम् ।
अक्षधीर्यद्यपेक्षेत सोऽर्थो व्यवहितो भवेत् ॥ [ ] इति वचनात् समुद्भाव्यते, तथैव शब्दानुयोजनासहितार्थग्राहिविकल्पवादिनामपि सौगतानामिन्द्रियज्ञानमुपयोगे सत्यपि विकल्पोत्पत्तौ स्मार्त्तशब्दानुयोजनं विकल्पो यद्यपेक्षेत तदा तदिन्द्रियज्ञानं स्वविषयनामविशेषस्मरणेन तद्योजनेन च व्यवहितं स्यात् । तथा च नेन्द्रियज्ञानाद् व्यवसाय: स्यात् तदभावे भावात्तद्भावेऽपि चाभावादिति दूषणमुद्भावनीयं ।
ज्ञानोपयोगेऽपि पुनः स्मार्तं शब्दानुयोजनम् ।
विकल्पो यद्यपेक्षताध्यक्षं व्यवहितं भवेत् ॥ इति वक्तुं शक्यत्वात्, अर्थशब्देन प्रत्यक्षस्याभिधानाद्वा, क्वचिद्विषयेण विषयिणो वचनाद् धर्मकीर्तिकारिकाया एव तन्मतदूषणपरत्वेन व्याख्यातुं शक्यत्वात् । यथा च प्रागजनको योऽर्थोऽभिलापसंसृष्टार्थेन्द्रियबुद्धः स पश्चादपि स्मार्तशब्दानुयोजनेऽपि तस्योपयोगाविशेषादजनक एव तेनार्थापायेऽपि नेत्रधीः शब्दाद्वैतवादिनः स्यादिति धर्मकीर्तिदूषणं
___यः प्रागजनको बुद्धरुपयोगाविशेषतः ।।
स पश्चादपि तेन स्यादर्थापायेऽपि नेत्रधीः ॥ [ ] इति वचनात् । तथा यदिन्द्रियज्ञानं स्मार्तशब्दयोजनात्प्रागजनकं सामान्य
अष्टसहस्त्रीतात्पर्यविवरणम्
वत्त्वात्तत्सामान्यप्रत्यक्षं न स्यादेव, तदाह-तदिन्द्रियेति । कारिकाया अपरावृत्तावप्यर्थशब्दस्य प्रत्यक्षपरत्वे नानुपपत्तिरित्याह-अर्थशब्देनेति । यदपि प्रागजनकस्यार्थस्य स्मार्त्तशब्दानुयोजनानन्तरं साभिलापबुद्धावप्यजनकत्वमेवेत्यादि दूषणान्तरं शब्दाद्वैतवादिनं प्रति धर्मकीर्तिना दत्तं तदपि तं प्रत्यावर्त्तत एवेत्याह-यथा चेत्यादिना । अध्यवसायः
Page #350
--------------------------------------------------------------------------
________________
३१६
अष्टसहस्त्रीतात्पर्यविवरणम्
व्यवसायस्य तत् पश्चादप्युपयोगाविशेषात् तेनेन्द्रियज्ञानव्यपायेऽपि सामान्यव्यवसायः
न स्यात्, तस्य
( भा० ) प्रागिवाजनकत्वात्, तदनन्तरेणापि दर्शनमयं गौरिति निर्णय: स्यात् ।
यः प्रागजनको बुद्धेरुपयोगाविशेषतः ।
स पश्चादपि तेनाक्षबोधापायेऽपि कल्पना ॥ [
]
इति प्रतिपादनात् । तदेवं न दर्शनादध्यवसायः सम्भवति येन दर्शनस्य स्वालम्बनसमन्तरप्रत्ययजन्मतत्सारूप्याविशेषेऽपि स्वविषयप्रतिनियमः सिद्ध्येत् ।
किञ्च सौगतानाम्
( भा० ) अनभिलाप्यस्य विशेषस्यानुभवे कथमभिलाप्यस्य स्मृतिः ? अत्यन्तभेदात्
स्वलक्षणात्सामान्यस्य, सह्यविन्ध्यवत् । न हि सह्यस्यानुभवे विन्ध्यस्य स्मृतिर्युक्ता ।
[बौद्धो ब्रूते, विशेषस्यानुभवे सामान्यस्य स्मृतिः स्यात् तस्य विचारः]
विशेषसामान्ययोरेकत्वाध्यवसायाद्विशेषस्यानुभवे सामान्ये स्मृतिर्युक्तैवेति चेत्, कुतस्तयोरेकत्वाध्यवसाय: ? न तावत्प्रत्यक्षात्, तस्य सामान्यविषयत्वात्, नापि तत्पृष्ठभाविनो विकल्पादनुमानाद्वा, तस्य विशेषाविषयत्वात्, तदुभयविषयस्य च कस्यचित्प्रमाणस्यानभ्युपगमात् । तदन्यतरविषयेण तयोरेकत्वाध्यवसायेऽतिप्रसङ्गात् त्रिविप्रकृष्टेतरयोरप्येकत्वाध्यवसायोऽक्षज्ञानात्प्रसज्येत । किञ्च,
अष्टसहस्त्रीतात्पर्यविवरणम्
सम्भवति = निश्चयकार्यं सिद्ध्यति । स्वालम्बनेत्यादि अध्यक्षमूलकाध्यक्षे योजनीयम् । स्वविषयप्रतिनियमः सिद्धयेत् न तु विकल्पवद्भिन्नविषयत्वं स्यादित्यर्थः । अपि च विशेषसामान्ययोर्दर्शनस्मृतिविषयत्वनियमे स्मृत्यनुभवयोः समानविषयत्वनियमभङ्गप्रसङ्गः स्यादित्याह-किञ्चेत्यादिना । विशेषसामान्ययोरिति तथा च घटत्वेन सह गृहीताभेदघटविषयकज्ञानत्वेन घटत्वप्रकारकघटविशेष्यकस्मृतौ हेतुत्वान्न दोष इति भावः । त्रिविप्रकृष्टेतरयोरिति स्वभावदेशकालान्यतरविप्रकृष्टतदविप्रकृष्टयोरित्यर्थः । अस्वाभाविकत्व इति
Page #351
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. १३]
३१७ (भा०) शब्दार्थयोः सम्बन्धस्यास्वाभाविकत्वे कथमर्थमात्रं पश्यन् शब्दमनुस्मरेत् ?
शब्दं शृण्वन् (भा०) तदर्थं वा ? यतोऽयं व्यवसाय:
सौगतस्य सिद्ध्येत् । न हि सह्यमात्रं पश्यन् विन्ध्यस्य स्मरेत् । स्यान्मतं'शब्दस्य विकल्प्येन तदुत्पत्तिलक्षणसम्बन्धोपगमात् तस्य च दृश्येनैकत्वाध्यवसायाद्विशेषस्यानुभवेऽपि शब्दं तदर्थं वा विकल्प्यं स्मर्तृमीष्टे व्यवहारी, प्रवृत्तिदर्शनात्,' इति, तदप्यसम्यक्, कुतश्चिदपि दृश्यविकल्प्ययोरेकत्वाध्यवसायासम्भवस्योक्तत्वात् । ततः स्वत एव व्यवसायात्मकत्वमभ्युपगन्तव्यं प्रत्यक्षस्य न पुनरभिधानजात्यादियोजनापेक्षया ।
(भा०) चक्षुरादिज्ञानस्य कथञ्चिव्यवसायात्मकत्वाभावे दृष्टसजातीयस्मृतिर्न स्यात्, दानहिंसाविरतिचेतसः स्वर्गादिफलजननसामर्थ्यसंवेदनवत् क्षणक्षयानुभवनवद्वा ।।
व्यवसायात्मनो मानसप्रत्यक्षाद् दृष्टसजातीयस्मृतिरिति चेत्, न अव्यवसायात्मनोऽक्षज्ञानात् समन्तरप्रत्ययाद् व्यवसायात्मनो मनोविज्ञानस्योत्पत्तिविरोधाद्विकल्पवत्, निर्विकल्पात्मकत्वान्मानसप्रत्यक्षस्याभिलापसंसर्गयोग्यता
- अष्टसहस्रीतात्पर्यविवरणम् शशविषाणवत्तुच्छत्वे इत्यर्थः । कथमिति अपरसम्बन्धिस्मारकैकसम्बन्धिज्ञानासिद्धरित्यर्थः । विकल्प्येनेति विकल्पोत्पत्तौ तदपहितस्याप्यत्पत्तिरिति मते सिद्धो विकल्प्येन सामान्यादिना शब्दस्य सम्बन्ध इति भावः । अभिधानजात्यादियोजनापेक्षया अभिधानजात्याधुपस्थितिकल्पनामपेक्ष्य । कथञ्चिद् व्यवसायात्मकत्वाभावे अपायधारणात्मना घटत्वादिप्रकारकपरिणामाभावे । दानेति निश्चयत्वेन स्मृत्यहेतुत्वे दानाद्यनुभवे वस्तुतस्तदात्मकस्वर्गप्रापणशक्तिक्षणक्षयानुभवात्तत्स्मृतिः स्यात्, सा च न जायते ततो निर्विकल्पकघटादिदर्शनस्वीकारे तज्जातीयस्मृतिर्न स्यादिति भाष्याक्षरार्थः । उत्पत्तिविरोधादिति अव्यवसायस्य व्यवसायोपादानत्वायोगादित्यर्थः । कारणबाधमुक्त्वा स्वरूपबाधमाह -निर्विकल्पकत्वादिति मानसप्रत्यक्षेणापि हि निर्विकल्पेकेनैव भाव्यम, अन्यत्र प्रत्यक्षयोग्यताभावात्तत्र
१. निर्विकल्पात्मकत्वादिति अष्टसहस्रीसम्मतः पाठः ।
Page #352
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम्
प्रतिभासाभावात् । अव्यवसायात्मनोऽप्यक्षज्ञानाददृष्टविशेषसहकारिणः स्यादुत्पत्तिरिति चेत्, किमेवमक्षज्ञानस्य स्वयं व्यवसायात्मन एवादृष्टविशेषादुत्पत्तिर्नेष्यते ? । तेन नीलादेर्व्यवसाये तत्क्षणक्षयस्वर्गप्रापणशक्त्यादेरपि व्यवसायप्रसङ्गान्नाक्षज्ञानं व्यवसायात्मकमिष्टमिति चेत्, तत एव मानसप्रत्यक्षमपि व्यवसायात्मकं मा भूत् । तस्य क्षणक्षयाद्यविषयत्वान्न तद्व्यवसायित्वमिति चेत्, तत एवाक्षज्ञानस्यापि तन्मा भूत् । तथा सति नीलादेः क्षणक्षयादिरन्यः स्यात्, तद्व्यवसायेऽप्यव्यवसायात् कूटात्पिशाचादिवदिति चेत्, तर्हि मानसप्रत्यक्षेणापि नीलादिव्यवसायेऽपि क्षणक्षयादेव्यवसायात्ततो भेदोऽस्तु तद्वदेव, सर्वथा विशेषाभावात् । कथञ्चिदक्षज्ञानस्य व्यवसायात्मकत्वे तु मानसप्रत्यक्षकल्पनापि न स्यात्, प्रयोजनाभावात्, तत्प्रयोजनस्याक्षज्ञानादेव सिद्धेः । एतेनाव्यवसायात्मकमपि मानसप्रत्यक्षं कल्पयन् प्रतिक्षिप्तः। ननु निर्विकल्पकादप्यक्षज्ञानादभ्यासप्रकरणबुद्धिपाटवार्थित्ववशाद्
३१८
अष्टसहस्त्रीतात्पर्यविवरणम्
चाभिलापसंसर्गयोग्यतायाः शब्दवाच्यतायाः प्रतिभासाभावात्कथं निश्चयत्वं ? नामजात्यादियोजनात्मकस्यैव तत्त्वादिति भावः । सहकारिशक्तिविशेषेणैव प्रतिनियमो भविष्यतीत्याशङ्कते-अव्यवसायात्मनोऽपीत्यादि एवं सति सङ्ग्राहकत्वलाघवात् सप्रकारकप्रत्यक्षत्वमेवादृष्टविशेषजन्यतावच्छेदकमस्तु अनन्तधर्मात्मकस्य वस्तुनो दर्शनेऽपि तदनन्तरापाये क्वचित्कश्चिदेव प्रकार इति नियमार्थं तत्तत्प्रकारकाप्रत्यक्षत्वं तत्तददृष्टजन्यतावच्छेदकमित्येव वा कल्प्यताम्, इत्थं हि सप्रकारकमानसत्वस्यैवादृष्टविशेषजन्यतावच्छेदकत्वपक्षे घटादिचाक्षुषाद् घटादिव्यवहारेऽन्तरा नियमतो घटत्वादिप्रकारकमानसकल्पनाप्रयुक्तं यद् गौरवं तत्परिहृतं भवति । न च यत्र स्थाने त्वया सविकल्पकं चाक्षुषादि कल्पनीयम्, तत्र मया मानसमेवेति क्व गौरवम् ? प्रत्युत सविकल्पके चाक्षुषत्वाद्यकल्पनाल्लाघवमेवेति वाच्यम्, तथापि घटत्वादिना घटं पश्यामीत्यादौ चाक्षुषत्वादिना मानसावगाहित्वांशे भ्रमकल्पनायां गौरवात्, सविकल्पके चाक्षुषत्वाद्यभावकल्पनापेक्षया चाक्षुषत्वादिकल्पनाया एव युक्तत्वादित्यभिप्रायवान् शङ्कितारमाक्षिपतिकिमेवमिति । तेनेति तेन = स्वयं व्यवसायात्मलक्षणेनाक्षज्ञानेन, नीलादेर्व्यवसाये= निश्चये । तत्क्षणक्षयेति तत्र यः क्षणक्षयस्वर्गप्रापणशक्त्यादिर्धर्मस्तस्य ।
निर्विकल्पकादपि दृष्टसजातीयस्मृत्युत्पत्तौ प्रकारान्तरमाशङ्कते-ननु निर्विकल्पकाद
Page #353
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि० १-का. १३]
३१९ दृष्टसजातीये स्मृतिर्युक्ता, सविकल्पकप्रत्यक्षादपि तदभावे तदनुपपत्तेः प्रतिवाद्याधुपन्यस्तसकलवर्णपदादिवत् श्वासोच्छवासादिसङ्ख्यावद्वा । न हि सविकल्पकप्रत्यक्षेण तद्व्यवसायेऽपि कस्यचिदभ्यासाद्यभावे पुनस्तत्स्मृतिनियमतः सिद्धा यतः सविकल्पकत्वप्रकल्पनं प्रत्यक्षस्य फलवत्' इति कश्चित्सोऽप्यप्रज्ञाकर एव, सर्वथैकस्वभावस्य प्रत्यक्षस्य क्वचिदभ्यासादीनामितरेषां च सकृदयोगात् । तदन्यव्यावृत्त्या तत्र तद्योग इति चेत्, न स्वयमतत्स्वभावस्य तदन्यव्यावृत्तिसम्भवे पावकस्याशीतत्वादिव्यावृत्तिप्रसङ्गात्, तत्स्वभावस्य तदन्यव्यावृत्तिकल्पने फलाभावात्, प्रतिनियततत्स्वभावस्यैवान्यव्यावृत्तिरूपत्वात् ।
[ज्ञानं सविकल्पकमेवेति जैनाचार्याः कथयन्ति] सविकल्पकप्रत्यक्षज्ञानवादिनां त्वेषामवग्रहेहावायज्ञानादनभ्यासात्मकादन्यदेवाभ्यासात्मकं धारणाज्ञानं प्रत्यक्षम् । तेषां तदभावे परोपन्यस्तसकलवर्णपदादिष्ववग्रहादित्रयसद्भावेऽपि न स्मृतिः । तत्सद्भावे तु स्यादेव, सर्वत्र
- अष्टसहस्रीतात्पर्यविवरणम् पीत्यादि । तदभावे अभ्यासाद्यभावे, तदनुत्पत्तेः१ सजातीयस्मृत्यनुत्पत्तेः, प्रतिवाद्युपन्यस्तेत्यादि, आद्येऽनभ्यासोऽस्मृतौ हेतुः, द्वितीयेऽर्थित्वाभावादिरिति बोध्यम् । सोऽप्यप्रज्ञाकर एवेति उक्तवादिनः प्रज्ञाकरस्योपहासोऽयम् । सर्वथैकस्वभावस्य=क्षणिकदर्शनैकस्वभावस्य, इतरेषां च प्रकरणादीनाम्, सकृदयोगात्=एकदाऽसम्भवात्, क्रमिकावग्रहादिचतुष्टयपरिणामवदेकोपयोगवादे त्ववग्रहादिदशायामनभ्यस्तत्वादिनाऽस्मारकत्वं धारणादशायां त्वभ्यस्तत्वप्रकरणप्राप्तत्वपटुत्वेष्टत्वयोगात् स्मारकत्वमुपपद्यत इत्यर्थाल्लभ्यते, भूयस्त्वेनाभ्यासत्वं त्वप्रयोजकम्, शतमप्यन्धानां न पश्यतीति न्यायेन भूयसोऽपि दर्शनस्य निश्चयकार्यकारित्वायोगादिति द्रष्टव्यम् । तदन्यव्यावृत्त्या=अनभ्यासादिव्यावृत्त्या, तत्र= प्रकृते, तद्योगो=अभ्यासादिसम्बन्धः, स्वयमिति अतत्स्वभावस्य तदन्यव्यावृत्तिकल्पने पावकस्य शीतस्वभावरहितस्याशीतव्यावृत्तिः स्यान्न चैवमस्ति ततस्तदन्यव्यावृत्त्यवच्छेदकस्तत्स्वभावोऽवश्यमभ्युपगन्तव्य इति किं तुच्छान्यव्यावृत्तिकल्पनेन ? इति भावः । सविकल्पकेत्यादि ये धारणाज्ञानमभ्यासात्मकमवग्रहादिभ्यः पृथगिच्छन्ति तेषां जैनानां
१. तदनुपपत्तेः इति अष्टसहस्रीसम्मतः पाठः । २. वाद्याधु इति अष्टसहस्रीसम्मतः पाठः ।
Page #354
--------------------------------------------------------------------------
________________
३२०
अष्टसहस्त्रीतात्पर्यविवरणम्
यथासंस्कारं स्मृत्यभ्युपगमात् क्वचिदभिलापसंस्कारादभिलापस्मृतिवत् ।
- अष्टसहस्रीतात्पर्यविवरणम् धारणाभावादेव प्रतिवाद्युपन्यस्तवर्णादावस्मृत्युपपत्तिरिति भावः । यथासंस्कारमिति न हि यावद्धारितं तावत्स्मर्यते ।
॥ संस्कारसविषयकत्ववादः ॥ ननु कथमेतदुपपद्यते ? धारणाजन्यतावद्विषयकसंस्कारसत्त्वे यथाधारणमेव स्मृत्युत्पत्तेः सम्भवात्, न च यावदंशे उद्बोधकसम्पत्तिस्तावदंशे एव संस्कारेण स्मृतिजननाद् उक्तोपपत्तिः, उद्बोधकस्य सामान्यत एव हेतुत्वाद्विशिष्य तस्य स्मृतिहेतुत्वे तत एवानातिप्रसङ्गादनुभवादेरपि स्मृतिहेतुत्वानापत्तेरिति चेत्, सत्यम्, परिणामवादे आंशिकोद्बोधकसमवधानतदभावाभ्यामखण्डसंस्कारध्वंसे खण्डसंस्कारोत्पत्तावनुगतसंस्कारसामान्यसत्त्वे चानुपपत्तेरभावात्, तत्रापि संस्कारसामान्यस्यानुभवव्यापारस्यावश्यकत्वात्, इत्थमेव
'चउदसपुव्वी मणुओ देवत्ते तं न संभरड सव्वं । देसंमि होइ भयणा । [ ]
इत्यादि प्रवचनोक्तं सङ्गच्छते । देवजन्मप्रत्ययकर्मणा द्वादशाङ्गार्थविषयसमूहालम्बनसंस्कारस्य देशे सङ्कचितस्यैवोत्पादनादित्यादिकं प्रतिपादितमात्मख्यातावस्माभिः । इत्थमेव रोगकालादिनाप्यांशिकसंस्कारनाशोपपत्तिः, तत्र खण्डसंस्कारोत्पादस्यैवाखण्डसंस्कारनाशत्वेन तस्यार्थसिद्धत्वात् । एतच्च संस्कारसविषयकत्वपक्ष एव युज्यते, तत्तद्रोगादीनां तत्तत्पुरुषीयसंस्कारन्यूनविषयसंस्कारहेतुत्वेनैव तद्व्यवस्थापनात् । न च तत्र भूयःसंस्कारमध्ये कतिपयनाशोपगमाद् उपपत्तिः, पदवाक्यशास्त्रतदर्थज्ञानस्थले पदतदंशादिनानासंस्कारकल्पने गौरवात, विशकलितसंस्कारेभ्यो विशिष्टस्मृत्यनुपपत्तेश्च । यत्त संस्कारस्य निविषयकत्वे घटांशे उपेक्षात्मकाद्भतलं घटवत्पटवच्चेति निश्चयाद घटांशेऽपि स्मृतिप्रसङ्गः, स्वजन्यभावनायाः पटांशस्मृत्यनुरोधेन स्वीकारात्, सर्वांशोपेक्षाजन्यानन्तसंस्कारकल्पनाभयेनोपेक्षान्यत्वेन संस्कारत्वावच्छिन्न एव हेतुत्वादिति, तदसत्, आंशिकोपेक्षाभेदानां स्मृतिहेतुतावच्छेदके सर्वांशोपेक्षाभेदानां च भावनाहेतुतावच्छेदके प्रवेशेनैव सामञ्जस्यात् । न चास्मिन् मते द्विधोपेक्षाभेदप्रवेशे गौरवम् । यतो भावनात्वावच्छिन्ने सर्वांशे उपेक्षामात्रभेदविशिष्टप्रकारकज्ञानत्वेन स्मृतित्वावच्छिन्नं प्रति च भावनात्वेनैक एव हेतुहेतुमद्भावः, तदंशे आंशिकोपेक्षाभेदविशिष्टतद्विशेष्यकतत्प्रकारकनिश्चयत्वेन तादृशस्मृतित्वेन स्मृतावेव चान्ये हेतुहेतुमद्भावाः । अन्यमते त्वनुभवसंस्कारयोः स्मृतिसंस्कारयोश्च
१. छायाः चतुर्दशपूर्वी मनुष्यो देवत्वे तन्न स्मरति सर्वं, देशे भवति भजना ।
Page #355
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि० १-का. १३]
३२१
अष्टसहस्त्रीतात्पर्यविवरणम् नानाहेतुहेतुमद्भावाः कल्पनीया इति तत्रैव गौरवात्, घटत्वादिप्रकारतानिरूपितघटादिविशेष्यतास्थानाभिषिक्तघटाद्याकारतायाः सागारे नाणे हवई इत्याद्यागमस्वारस्येनाखण्डायाः स्वीकारे आकारतासम्बन्धेन स्मृतित्वावच्छिन्ने संस्कारत्वावच्छिन्ने चैकैक एव धारणात्वेन हेतुहेतुमद्भावोंऽशे चोपेक्षारूपं धारणाज्ञानं न स्वीक्रियते एव असमाप्तोपयोगस्यैवोपेक्षात्वात् । संशयेऽपि न धारणात्वम्, धारयामीत्यनुभवेन संशयव्यावृत्तस्यैव तस्य सिद्धत्वादित्युपेक्षान्यत्वसंशयान्यत्वयोः कारणतावच्छेदके प्रवेशप्रयुक्तं तयोविशेषणविशेष्यभावे विनिगमनाविरहादनन्तकार्यकारणभावकल्पनाप्रयुक्तं च गौरवं परिहृतं भवति । अनुमित्यादिस्थले च मानस्यैव धारणया स्मृतिस्तज्जनकतावच्छेदकस्य धारणात्वस्य चक्षुराद्यवगृहीते त्वगादिना धारिते पूर्वदृष्टत्वाद्युपलक्षितविलक्षणतत्ताविषयकस्मृत्यनुत्पत्तये चाक्षुषत्वादिना सार्यवारणाय चाक्षुषत्वादिव्याप्यषड्विधजातिरूपस्य प्रत्यक्षतुरीयभेदावृत्तिताया एवाभियुक्तैरुक्तत्वात् । यदि चाक्षुषाधुपयोगस्थलेऽपि समनन्तरोत्पदिष्णुमानसोपयोगगतधारणयैव स्मृतिरिष्यते, तदा अस्तु सर्वत्र मानसत्वव्याप्यमेकमेव धारणात्वम, अवग्रहत्वादिवद्विषयताविशेषरूपत्वे तु तस्याक्षजन्यधारणाया एव प्रत्यक्षतुरीयभेदत्वाश्रयणादनुमित्यादिवृत्तित्वमपि तस्य न दोषावहमित्यस्मदेकपरिशीलितः पन्थाः ।
केचित्तु समानाकारफलस्य भावनानाशकत्वाद्भावनायाः सविषयकत्वसिद्धिः । न च फलं स्वस्य वाच्यम्, तथा च तत्तद्व्यक्तित्वेन भावनानाशकत्वं युक्तमिति तद्भावनाजन्यचरमफलस्यैव तद्भावनानाशकत्वमस्त्विति वाच्यम्, जनकतया तद्विशेष्यकतत्प्रकारकस्मृतेः प्रतियोगितया तादृशभावनानाशे हेतुत्वस्यानुगतत्वात् । न च तत्पुरुषीयभावनासामान्यनाशं प्रत्येव तत्पुरुषीयचरमस्मृतिव्यक्तेस्तत्त्वेन चरमस्मृतिमात्रस्य वैजात्येन हेतुत्वमस्त्विति वाच्यम्, एवं सति जनितोपेक्षात्मकचरमस्मृतिकानामपि भावनानां सत्त्वोपगमे तेभ्यः स्मृत्युपत्तेः प्रसङ्गादिति आहुः । यत्तु तत्तद्विषयकोपेक्षाज्ञानस्य तत्तत्संशयस्य च तत्तद्विषयकभावनाप्रतिबन्धकत्वाद्भावनायाः सविषयकत्वमिति भट्टाचार्यैरुक्तं तच्चिन्त्यम्, उपेक्षात्मकचाक्षुषज्ञानोत्तरानुपेक्षात्मकस्पार्शनज्ञानस्थले संशयकालीनसाध्यानुमितिस्थले च संस्कारानुत्पत्तिप्रसङ्गात्, तत्रानुपेक्षात्मकतादृशज्ञानस्योत्तेजकत्वकल्पने च गौरवात् ।
नैयायिकैकदेशिनस्तु विशिष्टवैशिष्ट्यविषयित्वावच्छिन्नं प्रति विशेषणतावच्छेदकप्रकारकत्वेनैव हेतुत्वाद्विशिष्टवैशिष्ट्यस्मृत्यर्थं विशेषणतावच्छेदकप्रकारकभावनासिद्धिः । न
१. साकारं ज्ञानं भवति ।
Page #356
--------------------------------------------------------------------------
________________
३२२
अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) प्रत्यक्षेऽभिलापसंस्कारविच्छेदे कुतस्तद्विकल्प्याभिलापसंयोजनं यतः सामान्यमभिलाप्यं स्यात् ? ।
प्रत्यक्षगृहीतमेव हि स्वलक्षणमन्यव्यावृत्तं साधारणाकारतया प्रतिभासमानं सामान्यविकल्पाभिलापयोजनेनाभिलाप्यमिष्यते ।
(भा०) न च ग्राहकप्रत्यक्षस्मृतिप्रतिभासभेदाद्विषयस्वभावाभेदाभावः, सकृदेकार्थोपनिबद्धदर्शनप्रत्यासन्नेतरपुरुषज्ञानविषयवत् ।
यथा हि सकृदेकस्मिन्नर्थे पादपादावुपनिबद्धदर्शनयोः प्रत्यासन्नविप्रकृष्टपुरुषयोञ्जनाभ्यां विषयीकृतस्पष्टास्पष्टप्रतिभासभेदान्न स्वभावभेदः पादपस्य, तस्यैकत्वाव्यतिक्रमात्, तथैव ग्राहकयोः प्रत्यक्षस्मृतिप्रतिभासयोर्भेदेऽपि स्पष्ट
अष्टसहस्त्रीतात्पर्यविवरणम्
च तादृशप्रत्यक्षं प्रति तथाहेतुता, प्रत्यक्षत्वस्य नित्यवृत्तित्वाज्जन्यप्रत्यक्षत्वनिवेशे गौरवात्, रक्तेतरदण्डाभाववान् पुरुष इति ज्ञानसचिवाद्दण्डव्याप्यवान् पुरुष इति परामर्शाद् दण्डो रक्तो न वेति संशयकालेऽपि रक्तदण्डवान् पुरुष इत्यनुमित्यापत्तेश्च । तत्तदुबोधकाभावविशिष्टभावनात्वाभावविशेषणनिवेशाच्च न दण्डो रक्त इत्यनुबुद्धभावनातो निरुक्तानुमित्युपनीतभानाद्यापत्तिः । न चैवं गौरवम्, इयतैव भावनायाः स्मृतिहेतुत्वनिर्वाहात्, उद्बोधकानां विशिष्य स्मृतिहेतुत्वाकल्पनेन चातिलाघवात्, तत्तदुबोधकाभावविशिष्टभावनात्वाभावविशिष्टीयस्वरूपसम्बन्धेन घटत्वप्रकारकत्वस्य कारणतावच्छेदकत्वे तु न गौरवदूषणवार्ताऽपि, सम्बन्धगौरवस्यादोषत्वाद् इत्याहुः । अविच्युतिस्मृतिवासनासाधारणधारणात्वावच्छिन्ने समानविषयकत्वेनापायहेतुत्वात् संस्कारसविषयकत्वसिद्धिरित्यादिकमपि Tज्ञानबिन्द्वादौ विवेचितमस्माभिरिति विस्तरार्थिना तत्तत एवावधार्यम् ।
क्वचिदिति गृहीतशक्तिकेन शब्देनोबोधितार्थसंस्कारेणार्थस्मृतिवत्तादृशार्थग्रहोद्बद्धाभिलापसंस्कारस्थलेऽभिलापस्मतेरपि सम्भवादित्यर्थः । कुत इति प्रत्यक्षादभिलापसंस्कारानुबोधे स्मृतिरूपतद्योजनानुपपत्तेः सामान्यमभिलाप्यं न स्यादेवेत्यर्थः । विशेषात् सामान्यस्य नात्यन्तमतिरिक्तत्वं, किन्तु तत्प्रतिभासात् तत्प्रतिभासस्येति स्पष्टप्रतिभासवेलायां स्वलक्षणस्य शाब्दात्मकमन्दप्रतिभासाविषयकत्वेऽपि तद्योग्यतया कथञ्चिदभिधेयत्वं तस्याबाधितमेवेति निष्कृष्टार्थमाह-'तत्र ग्राहकेत्यादि व्याख्यानग्रन्थेन । तस्मादवाच्यतै
१. न च ग्राहकेति अष्टसहस्रीसम्मतः पाठः ।
Page #357
--------------------------------------------------------------------------
________________
३२३
प्रथमो भाग: [परि०१-का० १३] मन्दतया न तद्विषयस्य भेदः, स्वलक्षणस्यैकस्वभावत्वाभ्युपगमात् ।
(भा०) तथा च मन्दप्रतिभासिनि स्वलक्षणे घटादौ शब्दविकल्पविषये
(भा०) तत्सङ्केतव्यवहारनियमकल्पनायामपि कथञ्चिदभिधेयत्वं वस्तुनः सिद्धम् इत्यलं प्रसङ्गेन ।
रूपादिस्वलक्षणे शब्दाभावादवाच्यमेव तदिति ब्रुवाणस्य प्रत्यक्षेऽर्थस्याभावात्तस्याज्ञेयत्वप्रसक्तेः समर्थनात्, रूपाद्यर्थस्य कथञ्चिज्ज्ञेयत्वेऽभिलाप्यत्वस्यापि साधनात् प्रकृतार्थपरिसमाप्तौ प्रसङ्गस्य निष्प्रयोजनत्वात् पर्याप्तं प्रसङ्गेन । ____ (भा० ) तस्मादवाच्यतैकान्ते यदवाच्यमित्यभिधानं तदसमञ्जसं, स्वलक्षणमनिर्देश्यमित्यादिवत्स्ववचनविरोधात् ।
-
अष्टसहस्त्रीतात्पर्यविवरणम्
कान्त इति वेदान्त्यभिमतप्रपञ्चावाच्यत्वपक्षखण्डनमिदम्, स्वलक्षणानिर्देश्यत्ववचनादिविरोधोपदर्शनं तु दृष्टान्तपरम्, बौद्धैः सदेकान्तस्यैव स्वलक्षणेऽभ्युपगमात्, अनिर्वाच्यत्ववचनमात्रेण परेषां ब्रह्मणीव तेषां तत्र सदेकान्तपक्षानिवृत्तेः । अथ वेदान्तिमते प्रपञ्चानिर्वाच्यत्वैकान्तः कथं वारणीयः ? अवाच्यैकान्तेऽवाच्यशब्देनापि वाच्यत्वं न स्यादिति दूषणस्य यौगिकपक्ष एव लब्धावसरत्वम्,' ब्रह्मशशविषाणरूपसदसद्विलक्षणरूढानिर्वाच्यपदार्थोपगमे त्वस्यादूषणत्वात्, रज्जुसर्पदावनिर्वचनीयसत्त्वस्येवानिर्वचनीयावाच्यत्वस्याप्यन्ततः प्रपञ्चे वक्तुं शक्यत्वादिति चेत्, न, अवाच्यत्वेऽनिर्वचनीयत्वस्वीकारे तन्मिथ्यात्वेन वाच्यत्वस्यैव सत्यस्य प्रसङ्गात्, तस्य च कथञ्चिद्भावे कथञ्चिद् वाच्यत्वानुप्रवेशेनाऽनैकान्तस्यैव साम्राज्यात्, निरुक्त्यसहत्वस्यापि कथञ्चिदेव भावेन सर्वथा सत्यत्वविरोधित्वाभावात्, अन्यथा यतो वाचो निवर्तन्ते अप्राप्य मनसा सह [ ] इति श्रुत्या ब्रह्मणोऽप्यवाच्यत्वामननीयत्वाभ्यामसत्यत्वप्रसङ्गात् । (शङ्का) वाङ्मनोजन्यवृत्तिव्याप्यत्वेऽपि तत्प्रयुक्तफलाव्याप्यत्वाद् ब्रह्मणो वाच्यत्वावाच्यत्वे मननीयत्वामननीयत्वे चोपपत्स्येते. तदेवेदं मनसानुद्रष्टव्यम् यन्मनसा न मनुते [ ] इत्यादिश्रुतिस्वारस्यादिति चेत्, आयातोऽसि मार्गेण, एवं हि कथञ्चिदवाच्यत्वामननीयत्वयोरेव ब्रह्मणि सिद्धेः, तद्वदेव ताभ्यां प्रपञ्चेऽपि
१. लब्धावसर इति ह. प्र. पाठः ।
Page #358
--------------------------------------------------------------------------
________________
३२४
अष्टसहस्रीतात्पर्यविवरणम् तदप्यसद्, यदसतः समुदाहृतमिति प्रतिपादनात् । यथैव हि स्वलक्षणमनिर्देश्यमित्यवाच्यतैकान्ते वक्तुमशक्यं तथा प्रत्यक्ष कल्पनापोढमित्यपि, प्रत्यक्षेऽभिलापसंसर्गाभावे विकल्पानुत्पत्तिप्रसङ्गस्य निवेदितत्वात्, तत्सद्भावे सविकल्पकत्वसिद्धः ॥१३॥
तदेवं स्वामिसमन्तभद्रभानवः स्फुटतरविलसदकलङ्कन्यायगभस्तिभिरपहस्तितसमस्तभावैकान्तादिपरमतध्वान्तसन्ततयोऽपि परात्मपक्षनिराकरणसमर्थनायत्तं जयमादिशता भगवताप्तेन किं पुनर्मे शासनं प्रसिद्धेन न बाध्यते इति स्पष्टं पृष्टा इवाहुः
कथञ्चित्ते सदेवेष्टं कथञ्चिदसदेव तत् । तथोभयमवाच्यं च नययोगान्न सर्वथा ॥१४॥
चशब्दात्सदवाच्यमेव कथञ्चिदसदवाच्यमेव तदुभयावाच्यमेवेष्टं ते शासनमिति समुच्चीयते, प्रश्नवशादेकत्र वस्तुन्यविरोधेन विधिप्रतिषेधकल्पना सप्तभङ्गी, इति वचनात् [ ] । नययोगादिति वचनान्नयवाक्यानि सप्तैवेति दर्शयन्ति,
- अष्टसहस्त्रीतात्पर्यविवरणम् सर्वथा सत्यत्वप्रतिक्षेपस्य कर्तुमशक्यत्वात् । अथ प्रमाणराज एव प्रपञ्चस्य सर्वथाऽनिर्वचनीयत्वं ब्रह्मणश्च सर्वथा सत्यत्वमाज्ञपयतीति न वयं तदाज्ञातिक्रमे प्रभविष्णव इति चेत्, न तस्य स्वानुपयुक्तसत्ताप्रतिक्षेपिशुद्धर्जुसूत्रानुगृहीतशुद्धात्मद्रव्यसत्ताग्राहिसङ्ग्रहनयस्वरूपत्वात्तत्तात्पर्यावबोधे दोषलवस्याप्यभावात्, ईदृशतात्पर्यमपुरस्कृत्य प्रवृत्तो वेदान्तदुर्नयो वसन्तराज एव न प्रमाणराज इति वयं जानीमः ॥
इत्येतैर्नयदूषणैर्मतभिदामत्तेभघण्टारणत्कारैस्त्रस्तसमस्तवादितुरगैः किं कर्णकोलाहलैः । यत्तु प्रस्तुतवस्तुबोधनविधौ धत्ते निराकाङ्क्षतां, बूमो मानमनन्तबोधगदितं तत्सप्तभङ्ग्यात्मकम् ॥१३॥ [शार्दूलविक्रीडितम्]
॥ सप्तभङ्गीविमर्शः॥ प्रश्नवशादिति एकत्र वस्तुनि सत्त्वासत्त्वादिसप्तधर्मप्रकारकशाब्दबोधजनकतापर्याप्त्यधिकरणं वाक्यं सप्तभङ्गीति लक्षणे तात्पर्यम्, विरोधस्फूर्ती वाक्यस्याबोधकत्वेनैवा
Page #359
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. १४]
३२५ ततोऽन्यस्य भङ्गस्यासम्भवात् । तत्संयोगजभङ्गस्यापि कस्यचित्तत्रैवान्तर्भावात् कस्यचित्तु पुनरुक्तत्वाद्विधिकल्पनाया एव सत्यत्वात् तयैकमेव वाक्यमिति न मन्तव्यं, प्रतिषेधकल्पनायाः सत्यत्वव्यवस्थापनात् । विध्येकान्तस्य निराकरणात् प्रतिषेधकल्पनैव सत्येत्यपि न सम्यक्, अभावैकान्तस्य निराकरणात् । तदपेक्षयापि नैकमेव वाक्यं युक्तम् । सदर्थप्रतिपादनाय विधिवाक्यमसदर्थकथनार्थं तु प्रतिषेधवाक्यमिति वाक्यद्वयमेव, सदसद्वर्गास्तत्त्वम् इति वचनात् [ ]। प्रमेयान्तरस्य शब्दविषयस्यासम्भवादिति च न चेतसि विधेयं, प्रधानभावार्पितसदसदात्मनो वस्तुनः प्रधानभूतैकैकधर्मात्मकादर्थादर्थान्तरत्वसिद्धेः, सत्त्ववचनेनैवासत्त्वचनेनैव वा सदसत्त्वयोः क्रमार्पितयोः प्रतिपादयितुमशक्तेः । सदसदुभयविषयं वाक्यत्रयमेवेति चायुक्तं, सहो भयवाक्यस्यावक्त व्यत्वविषयस्य व्यवस्थितेः । तथापि वाक्यचतुष्टयमेवेति चायुक्तं, सदसदुभयावक्तव्यत्वविषयस्य वाक्यान्तरत्रयस्यापि भावात्—विधिकल्पना (१), प्रतिषेधकल्पना (२), क्रमतो विधिप्रतिषेधकल्पना (३), सहविधिप्रतिषेधकल्पना च (४), विधिकल्पनासहविधिप्रतिषेधकल्पना च (५), प्रतिषेधकल्पनासहविधिप्रतिषेधकल्पना च (६). क्रमाक्रमाभ्यां विधिप्रतिषेधकल्पना च (७), सप्तभङ्गीति व्याख्यानात् ।
[प्रत्यक्षादिविरुद्धापि सप्तभङ्गी सम्भवति न वा ?] न चैवं प्रत्यक्षादिविरुद्धविधिप्रतिषेधकल्पनापि सप्तभङ्गी स्यादिति शक्यं वक्तुम्, अविरोधेन इति वचनात् । नानावस्त्वाश्रयविधिप्रतिषेधकल्पना सप्तभङ्ग्यपि प्रसज्यते इति च न चिन्त्यम् एकत्र वस्तुनि इति वचनात् ।
अष्टसहस्रीतात्पर्यविवरणम्
विरोधेनेत्यस्य गतार्थत्वात्, प्रश्नस्य च क्वाचित्कत्वाच्छिष्यजिज्ञासयेव क्वचिद् गुरोजिज्ञापयिषयैव सप्तभङ्गीप्रयोगसङ्गतेः प्रश्नवशादित्यस्यापि लक्षणेऽप्रवेशात् । नानावस्तुनि सत्त्वासत्त्वादिबोधकवाक्येऽतिप्रसङ्गवारणायैकत्र वस्तुनीति । एकत्र रूपरसादिधर्मसप्तकबोधकेऽतिप्रसङ्गवारणाय सत्त्वासत्त्वादीति । खण्डवाक्ये तद्वारणाय पर्याप्तिः । प्रमाणसप्तभङ्गीवन्नयसप्तभङ्ग्या अपि लक्ष्यत्वान्न तत्रातिव्याप्तिः, नययोगादिति सूत्रकृद्वचनात् । प्रमाणनयसप्तभङ्ग्योः पृथक् पृथक् लक्ष्यत्वे तु सकलादेशत्वविकलादेशत्वे विशेषणे देये । एकत्र वस्तुन्येकपर्यायनिरूपितविधिनिषेधकल्पनामूलसप्तधर्मप्रकारकोद्देश्यशाब्दबोध
Page #360
--------------------------------------------------------------------------
________________
३२६
अष्टसहस्त्रीतात्पर्यविवरणम्
[सप्तभङ्गी एव कथं ? अनन्तभङ्गी अपि भवेत् का हानिः ?] नन्वेकत्रापि जीवादिवस्तुनि विधीयमाननिषिध्यमानानन्तधर्मसद्भावात्तकल्पनानन्तभङ्गी स्यादिति चेत्, अनन्तानामपि सप्तभङ्गीनामिष्टत्वात्, तत्रैकत्वानेकत्वादिकल्पनयापि सप्तानामेव भङ्गानामुपपत्तेः, प्रतिपाद्यप्रश्नानां तावतामेव सम्भवात्, प्रश्नवशादेव सप्तभङ्गी इति नियमवचनात् । सप्तविध एव तत्र प्रश्न: कुत ? इति चेत्, सप्तविधजिज्ञासाघटनात् । सापि सप्तविधा कुतः ? इति चेत्, सप्तधा संशयोत्पत्तेः । सप्तधैव संशयः कथम् ? इति चेत्, तद्विषयवस्तुधर्मसप्तविधत्वात् ।
___ तत्र सत्त्वं वस्तुधर्मः, तदनुपगमे वस्तुनो वस्तुत्वायोगात् खरविषाणादिवत् । तथा कथञ्चिदसत्त्वं, स्वरूपादिभिरिव पररूपादिभिरपि वस्तुनोऽसत्त्वानिष्टौ प्रतिनियतस्वरूपाभावाद्वस्तुप्रतिनियमविरोधात् । एतेन क्रमार्पितो भयत्वादीनां
अष्टसहस्रीतात्पर्यविवरणम् जनकतापर्याप्त्यधिकरणं वाक्यं सप्तभङ्गी, धर्मिणो देशसर्वभेदेनैकद्विबहुवचनान्ततया चरमपदोन्नीत्या बहुभेदसम्भवेऽपि फलीभूतबोधे सप्तधर्मप्रकारकोद्देश्यताया अक्षतत्वान्नाव्याप्तिरित्यपि केचित् । एतेनेत्यादि एतेन=सत्त्वासत्त्वयोर्वस्तुधर्मत्वप्रतिपादनेन, क्रमापितोभयत्वादीनां क्रमार्पितसदसदुभयत्वसहार्पितावक्तव्यत्वयोस्तदुत्तरधर्मत्रयस्य चेत्यर्थः । अथ सदसत्पदाभ्यां, सत्त्वासत्त्वयोश्चकाराच्चोभयस्योपस्थितेः सदसदुभयत्वं तृतीयभङ्गविषयः केवलसत्त्वासत्त्वयोरतिरिक्तं प्रातीतिकमस्तु, न ह्येकविशिष्टापरत्वमेवोभयत्वम्, अविशिष्टयोरपि गोत्वाश्वत्वयोरुभयत्वप्रत्ययात्, उभयत्वभेदे च कथञ्चिदुभयभेदोऽप्यवर्जनीय एवेति, क्रमार्पितत्वं त्वत्र क्वोपयुज्यते ? क्रमिकशाब्दबोधद्वयेच्छाविषयविषयत्वरूपस्य तस्य पदादनुपस्थितेर्वस्तुधर्माघटकत्वाच्चेति चेत्, न, एकत्वेन गृहीते उभयत्वप्रत्ययस्य भाक्तोभयत्वावगाहित्वात् । तत्र च क्रमार्पितत्वस्यावच्छेदकत्वात्तत्प्रत्ययस्य च द्योतकेन वाचकेन वा स्यात्पदेन सम्भवादनुपपत्त्यभावात्, अनुभूयते च स्यात् सन् स्यादसंश्च घट इति शब्दात् क्रमार्पितसत्त्वासत्त्वोभयधर्मवन्तममुं घटं जानामीति । एतेन सहावक्तव्यत्वादयोऽपि व्याख्याताः तद्व्यवहारविषयतया सिद्धानां तेषां धर्मणां दुरपह्नवत्वात् । न च सहार्पितत्वं नावक्तव्यत्वावच्छेदकमेकदैकपदार्भयबोधो जायतामित्याकारकेच्छाविषयत्वरूपस्य तस्य बाधिते इच्छानुदयेनाप्रसिद्धत्वादिति वाच्यम् । पुत्रनाशेऽपि पुत्रदिदृक्षाया आनुभविकत्वेन क्वचिद् बाधितेऽपीच्छोदयात् । न च एवं भ्रमविषयस्यापि सिद्धयापत्तिः, तन्निष्ठर
Page #361
--------------------------------------------------------------------------
________________
-
प्रथमो भागः [परि०१-का० १४]
३२७ वस्तुधर्मत्वं प्रतिपादितं, तदभावे क्रमेण सदसत्त्वविकल्पशब्दव्यवहारस्य विरोधात्, सहावक्तव्यतदुत्तरधर्मत्रयविकल्पशब्दव्यवहारस्य चासत्त्वप्रसङ्गात् । न चामी व्यवहारा निविषया एव, वस्तुप्रतिपत्तिप्रवृत्तिप्राप्तिनिश्चयात् तथाविधरूपादिव्यवहारवत् । तस्यापि निविषयत्वे सकलप्रत्यक्षादिव्यवहारापह्नवान्न कस्यचिदिष्टतत्त्वव्यवस्था स्यात् । ननु च प्रथमद्वितीयधर्मवत् प्रथमतृतीयादिधर्माणां क्रमेतरार्पितानां धर्मान्तरत्वसिद्धेर्न सप्तविधधर्मनियमः सिद्धयेदिति चेत्, न क्रमार्पितयोः प्रथमतृतीयधर्मयोर्धर्मान्तरत्वेनाप्रतीतेः सत्त्वद्वयस्यासम्भवात्, विवक्षितस्वरूपादिना सत्त्वस्यैकत्वात् । तदन्यस्वरूपादिना सत्त्वस्य द्वितीयस्य सम्भवेऽपि विशेषादेशात्तत्प्रतिपक्षभूतासत्त्वस्यापि परस्य भावादपरधर्मसप्तकसिद्धेः सप्तभङ्ग्यन्तरसिद्धेः कथमुपालम्भः ? एतेन द्वितीयतृतीयधर्मयोः क्रमार्पितयोर्धर्मान्तरत्वमप्रातीतिकं व्याख्यातम् ।
अष्टसहस्त्रीतात्पर्यविवरणम् जताकारप्रतियोगित्वेन कथञ्चित्तद्विषयभेदस्येष्टत्वात्, संवृतस्वाकारसमुपात्तरजताकारायाः शुक्तेरेव भ्रमालम्बनत्वस्याकरसिद्धत्वात्, भ्रमबाधस्य च दुष्टकारणप्रभवत्वादिनैव सिद्धेः, सदुपरागेण सद्भानस्य च भ्रमे न्यायटीकाकृतोऽप्यभिमतत्वात्, तावन्मात्रेणासत्ख्यातेरभावादित्यादिकं व्युत्पादितं लतायामस्माभिः । वस्तुतो जिज्ञासा भङ्गप्रयोजिका, न तु क्वचिदपि भने विषयावच्छेदिका, स्वद्रव्यादीनामेव तत्त्वस्याभियुक्तैरुक्तत्वात्, तथा च चालनीयन्यायेन स्वद्रव्यपरद्रव्यचतुष्टयाभ्यां तृतीयः, समुदितन्यायेन च ताभ्यां तरीयः. विरुद्धघटत्वपटत्वाभ्यां किमपि न वाच्यमितिवत् । इत्थमेव घटत्वपटत्वाभ्यां घटपटौ स्त इति वाक्यस्य तात्पर्यभेदेन प्रामाण्यमप्रामाण्यं च सङ्गच्छते । शेषा भङ्गास्तूक्तयोजनात्मका एवेति न किञ्चिदनुपपन्नम् ।
वस्त्विति वस्तुनः क्रमार्पितोभयादेः प्रतिपतिः=ज्ञानं, प्रवृतिः=अभिलापादिव्यवहारः, प्राप्तिः=उपलम्भोपहिता क्रिया, तासां निश्चयाद्=अविसंवादात् । द्वितीयस्येति न हि द्रव्यादिसत्त्वादतिरिक्तं सत्त्वमेकं नाम नैयायिकादिमतसिद्धं सामान्यमस्मत्सिद्धान्तेऽस्ति, लोकैर्वा प्रतीयते, तस्य चानर्पितस्यैकत्वेऽपि विशिष्यार्पितस्य द्वितीयस्याप्यविरोध एवेति भावः, तत्र च प्रतिपक्षासत्त्वेन सप्तभङ्ग्यन्तरसम्भवान्न प्रकृतसप्तभङ्ग्यामाद्यतृतीयसंयोगेन भङ्गान्तरापत्तिरिति विशदयति -विशेषादेशादिति । प्रथमचतुर्थयोरिति तत्रापि सत्त्वादिद्वयाप्रतीतेरित्यर्थः, सहार्पिताभ्यां सत्त्वासत्त्वाभ्यामवक्तव्यत्वस्य धर्मान्तरस्यैवारम्भात्तेन
Page #362
--------------------------------------------------------------------------
________________
३२८
अष्टसहस्त्रीतात्पर्यविवरणम्
[चरमत्रयभङ्गा वस्तुनो धर्मा न भविष्यन्तीति विचार: ]
प्रथमचतुर्थयोर्द्वितीयचतुर्थयोस्तृतीयचतुर्थयोश्च सहितयोः कथं धर्मान्तरत्वमेवं स्यादिति चेत्, चतुर्थेऽवक्तव्यत्वधर्मे सत्त्वासत्त्वयोरपरामर्शात् । न हि सहार्पितयोस्तयोरवक्तव्यशब्देनाभिधानम् । किं तर्हि ? तथार्पितयोस्तयो: सर्वथा वक्तुमशक्तेरवक्तव्यत्वस्य धर्मान्तरस्य तेन प्रतिपादनमिष्यते । न च तेन सहितस्य सत्त्वस्यासत्त्वस्योभयस्य वाऽप्रतीतिर्धर्मान्तरत्वासिद्धिर्वा ।
[कया कयापेक्षया सप्तभङ्गाः सम्भवन्ति, तस्य स्पष्टीकरणम् ]
प्रथमे भङ्गे सत्त्वस्य प्रधानभावेन प्रतीतेः, द्वितीये पुनरसत्त्वस्य तृतीये क्रमार्पितयोः सत्त्वासत्त्वयोः, चतुर्थेऽवक्तव्यत्वस्य, पञ्चमे सत्त्वसहितस्य, षष्ठे पुनरसत्त्वोपेतस्य, सप्तमे क्रमवत्तदुभययुक्तस्य तत्र शेषधर्मगुणभावाध्यवसायात् । [ वक्तव्यमप्यष्टमो भङ्गो भवेत् का हानि: ? ]
स्यान्मतम्-‘अवक्तव्यत्वस्य धर्मान्तरत्वे वस्तुनि वक्तव्यत्वस्यापि धर्मान्तरस्य भावादष्टमस्य कथं सप्तविध एव धर्मः सप्तभङ्गीविषयः स्याद्' इति, तदप्ययुक्तं, सत्त्वादिभिरभिधीयमानस्य वक्तव्यत्वस्य प्रसिद्धेः, सामान्येन वक्तव्यत्वस्यापि विशेषेण वक्तव्यतायामनवस्थानात् । भवतु वा वक्तव्यत्वावक्तव्यत्वयोर्धर्मयोः सिद्धिः । तथापि ताभ्यां विधिप्रतिषेधकल्पनाविषयाभ्यां सत्त्वासत्त्वाभ्यामिव सप्तभङ्गयन्तरस्य प्रवृत्तेर्न तद्विषयसप्तविधधर्मनियमविघातोऽस्ति यतस्तद्विषयसंशयः सप्तधैव न स्यात्तद्धेतुर्जिज्ञासा वा तन्निमित्तः प्रश्नो वा वस्तुन्येकत्र सप्तविधवाक्यनियमहेतुः, इति सूक्ता सत्त्वादिधर्मविषया गौः सप्तभङ्गी । सा
अष्टसहस्त्रीतात्पर्यविवरणम्
सह सत्त्वादिसंयोगेऽपि नानुपपत्तिः संयोगजविषयासङ्करादित्याह - चतुर्थे इत्यादि । विशेषेणेति वक्तव्यत्वस्य कथंतागर्भत्वेन विशिष्य विश्रान्तत्वाच्छब्दानुगममात्रस्याप्रयोजकत्वात्, सत्त्वादिना वक्तव्यत्वस्य सत्त्वादिसमनियतत्वेन निराकाङ्क्षतया भङ्गान्तरानारम्भकत्वात्, अन्यथाऽसद्भिन्नत्वादिनापि भङ्गान्तरापत्तेरिति भावः । ननु स्याच्छब्दलाञ्छितैर्नयैः सप्तभङ्गीप्रयोगो युक्त इति तत्र तत्र श्रूयते स च सूत्रे नोक्त इति कथं न न्यूनत्वमत आहसा चेति सा च=उक्तसप्तभङ्गी, स्याद्वाद एव यदमृतं तद्गर्भिणी, अमृतपदेन निःशेष
Page #363
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. १४]
३२९ स्याद्वादामृतगर्भिणी स्याद्वचनार्थस्य कथञ्चिच्छब्देन प्रतिपादनात्, तेनानेकान्तस्य द्योतके न वाचके न वा तस्याः प्रतिहतैकान्तान्धकारोदयत्वात् । न चैवं स्याच्छब्दवत्कथञ्चिच्छब्देनैवानेकान्तस्य प्रतिपादनात्सदादिवचनमनर्थकमाशङ्कनीयं, ततः सामान्यतोऽनेकान्तस्य प्रतिपत्तावपि विशेषार्थिना विशेषस्यानुप्रयोगात्, सामान्यतोपक्रमेऽपि विशेषार्थिना विशेषोऽनुप्रयोक्तव्यो, वृक्षो न्यग्रोध इति यथेति वचनात् । द्योतकपक्षे तु न्यायप्राप्तं सदादिवचनं, तेनोक्तस्य कथञ्चिच्छब्देन द्योतनात्, तेनानुद्द्योतने सर्वथैकान्तशङ्काव्यवच्छेदेनाऽनेकान्तप्रतिपत्तेरयोगात्, एवकारावचने विवक्षितार्थाप्रतिपत्तिवत् । नन्वनुक्तोऽपि कथञ्चिच्छब्दः सामर्थ्यात्प्रतीयते सर्वत्रैवकारवदिति चेत्, न प्रयोजकस्य स्याद्वादन्यायाकौशले प्रतिपाद्यानां तदप्रतीतेस्तद्वचनस्य क्वचिदवश्यं भावात् । तत्कौशले वा तदप्रयोगोऽभीष्ट एव, सर्वस्यानेकान्तात्मनो वस्तुनः प्रमाणात् साधने सर्वं सदित्यादिवचनेऽपि स्यात्सर्वं सदेवेत्यादिसंप्रत्ययोत्पत्तेः । इति प्रपञ्चतोऽन्यत्र प्ररूपितमवगन्तव्यम् ।
[बौद्धोऽन्वयरूपमात्मानं न मन्यते, तस्य विचारः] ननु च जीवादिद्रव्यं सदेव कथञ्चिदित्यसिद्धं, दर्शनावग्रहादिविशेषव्यतिरेकेण तस्यानुपलम्भात्, अश्वविषाणवदिति चेत्, न,
- अष्टसहस्रीतात्पर्यविवरणम् संशयविषनिरासकत्वं, गर्भिणीत्यत्र गर्भपदेन च स्याच्छब्दस्य गम्यागम्यसाधारणत्वमभिव्यज्यते-स्याच्छब्दस्येति तथा च सूत्रे कथञ्चिच्छब्देनैव स्याच्छब्दस्य गतार्थत्वान्न न्यूनत्वमिति भावः । न चैवमित्यादि एवं कथञ्चिच्छब्दस्यानेकान्तवाचकत्वे, अनेकान्तस्य नित्यानित्याद्यनेकधर्मशबलवस्तुनः । अनर्थकमिति सत्त्वासत्त्वादिधर्मसप्तकशबलत्वस्याप्यनेकान्तशब्दार्थकुक्षिप्रविष्टत्वादनेकान्तपदादेव तद्बोधोपपत्तेरिति भावः । ततः सामान्यतोऽनेकान्तस्येत्यादि स्यात्पदादनेकान्तपदाद्वा एकान्तबुद्धिविलक्षणबुद्धिविशेषविषयतावच्छेदकत्वेनैवानन्तधर्मघटितसप्तभङ्गीबोधेऽपि प्रातिस्विकरूपेण तद्बोधनार्थं विशेषप्रयोगोऽवश्यमाश्रयणीयो यथा वृक्ष इत्युक्ते वृक्षत्वेन न्यग्रोधबोधेऽपि न्यग्रोधत्वेन तदबोधार्थं विशेषप्रयोग आश्रीयत इति । तेनोक्तस्य सदादिशब्देनोक्तस्य स्वरूपचतुष्टयादिना सत्त्वादिविशिष्टवस्तुनः । कथञ्चिच्छब्देन द्योतनात्=तात्पर्यस्फोरणात् । तेन
१. स्याद्वचनार्थस्य इति अष्टसहस्रीसम्मतः पाठः ।
Page #364
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) अवग्रहेहादेरन्योन्यं स्वलक्षणविवेकैकान्ते जीवान्तरवत्स्वात्मन्यपि सन्तानभेदप्रसङ्गात् ।
अष्टसहस्त्रीतात्पर्यविवरणम् कथञ्चिच्छब्देनानुद्योतने विशिष्टविषयत्वे तात्पर्यास्फोरणे सर्वथैकान्तशङ्काया अवच्छेदकास्फुरणादव्यवच्छेदेनानेकान्तप्रतिपत्तेरधिकृताया अयोगात्, एवाकारावचने विवक्षितार्थस्य सदाद्ययोगव्यवच्छेदादिरूपस्याप्रतिपत्तिवत् ॥
॥निपातार्थनिर्णयवादः ॥ अथ स्याच्छब्दो द्योतको वाचको वेत्यत्र कः पक्षः श्रेयानिति चेत्, अत्र वैयाकरणा: 'प्रादयो द्योतकाश्चादयो वाचका इति नैयायिकमतमयुक्तम्, वैषम्ये बीजाभावात्, येन हेतुना प्रादीनां द्योतकत्वं तेनैव निपातानामपि तत्त्वसिद्धेः । तथाहि- अनुभवतीत्यादावनुभवनादिः प्रतीयमानो न धात्वर्थः, भवतीत्यत्रापि तदवगमापत्तेः, नोपसर्गार्थः, तथा सत्यप्रकृत्यर्थतया तत्राख्यातार्थानन्वयप्रसङ्गात्, प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वव्युत्पत्तेः, अनुगच्छतीत्यादावनुभवादिप्रतीत्यापत्तेश्च, नापि विशिष्टार्थो गौरवादिति । धातोरेव विद्यमानत्वादिवाचकस्यास्त्वनुभवनादौ लक्षणोपसर्गस्य च तत्र तात्पर्यग्राहकत्वं, तदेव हि द्योतकत्वमच्यते, तत चादिष अपि तुल्यम, चैत्रमिव पश्यतीत्यादौ सादृश्यविशिष्ट चैत्रपदलक्ष्यम्, इवशब्दस्तात्पर्यग्राहक इत्यस्य सुवचत्वात्, किञ्च 'उपास्येते हरिहरौ' इत्यत्रोपासनाया उपसर्गार्थत्वे आस्धातोरुपासनारूपफलवाचकत्वाभावात् स्वार्थफलव्यधिकरणव्यापारवाचकत्वरूपं सकर्मकत्वं न स्यादिति ततः कर्मलकारानापत्तिः, विशिष्टार्थत्वे तु गौरवमिति धात्वर्थत्वपर्यवसाने तत्तात्पर्यग्राहकत्वेन यथोपसर्गस्य द्योतकत्वं सिद्धं तथा 'साक्षात्क्रियतेऽलक्रियते उरीक्रियते शिवः' इत्यादावपि धातोस्तत्तदर्थं कर्मणि लकारसिद्ध्यर्थं तत्तदर्थवाचकत्वं वाच्यमिति तत्तात्पर्यग्राहकतया निपातानां सिद्धं प्रादितुल्यतया द्योतकत्वम् । अथ साक्षात्कारादिनिपातार्थोऽस्तु, साक्षात्प्रत्यक्षतुल्ययोः [ ] इति कोशस्वरसात् तदनुकूलो व्यापार एव धात्वर्थोऽस्तु, सकर्मकत्वमपि स्वस्वयुक्तनिपातान्यतरार्थफलव्यधिकरणव्यापारवाचित्वमिति नैकं साधकमस्तीति चेत, न, नामार्थधात्वर्थयोर्भेदेन साक्षादन्वयासम्भवान्निपातार्थधात्वर्थयोरन्वयस्यैवायोगात्, अन्यथा तण्डुलः पचतीत्यत्रापि कर्मतया तण्डुलानां धात्वर्थेऽन्वयापत्तेरिति बोध्यम् । किञ्च प्रादीनां वाचकत्वे 'भूयान् प्रकर्षः कीदृशो निश्चयः' इतिवद् 'भूयान् प्रः कीदृशो निः' इति स्यादिति यथापाद्यते तथा
१. तुलना-वैयाकरणभूषणसार कारिका ४१-४२
Page #365
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. १४]
३३१ तथा च यदेव मया विषयविषयिसन्निपातदशायां किञ्चिदित्यालोकितं तदेव वर्णसंस्थानादिसामान्याकारेणावगृहीतं पुनः प्रतिनियतविशेषाकारेणेहितं तदेवा
- अष्टसहस्रीतात्पर्यविवरणम् निपातानां वाचकत्वेऽपि 'शोभन: समुच्चयो द्रष्टव्य' इतिवद् 'शोभनश्च द्रष्टव्य' इति स्यादित्युभयेषां द्योतकत्वे युक्तिस्तुल्या ।
'किञ्च निपातानां वाचकत्वे काव्यादावन्वयो न स्यात् शरैरुनरिवोदीच्यानुद्धरिष्यन् रसानिव' [ ] इत्यत्र हि उस्रसदृशैः शरै रससदृशानुदीच्यानुद्धरिष्यन्नित्यर्थः । स चोस्रादिशब्दानां तत्सदृशपरत्वे इवशब्दस्य च द्योतकत्वे सङ्गच्छते, अन्यथा प्रत्ययानामप्रकृत्यान्वितस्वार्थबोधकत्वविरोधे इवशब्दस्य सदृशार्थत्वेऽपि तत्र उस्रपदोत्तरकरणतृतीयायाः असङ्गत्यापत्तेः इवशब्दस्य चासत्त्वार्थकतया तदुत्तरं तृतीयाया असम्भवात्, सम्भवे वा श्रवणप्रसङ्गादुस्रपदोत्तरतृतीयानन्वयप्रसङ्गाच्च । एवं वागर्थाविव सम्पृक्तौ पार्वतीपरमेश्वरौ वन्दे [रघुवंश १.१] इत्यत्र वागर्थयोर्वदिकर्मत्वाभावात्तदुत्तरद्वितीयानन्वयप्रसङ्गः, इवार्थे कर्मत्वबोधकायोगश्च । अथ निपातस्यावाचकत्वेऽब्राह्मण इत्यादौ पूर्वपदस्यानर्थकत्वेन तत्पुरुषलक्षणोत्तरपदार्थप्राधान्यानापत्तिरिति चेत्, न, तत्र द्योत्यमर्थमादायैवार्थवत्त्वेन निपातस्य प्रातिपदिकत्वात्, अस्तु वा निपातस्यानर्थकस्य इति [ ] वातिकात्तत्र तत्त्वं, कृत्तद्धितसमासाश्च [पा० १.२.४६] इत्यनुक्तसमुच्चयार्थकचकारेण निपातसङ्ग्रहाद्वेति युक्तं निपातानां द्योतकत्वम्,
उपसर्गेण धात्वर्थो बलादन्यत्र नीयते ।
प्रहाराहारसंहारविहारपरिहारवत् ॥१॥ [ ] इति वृद्धोक्तावुपसर्गपदं निपातस्य धातुपदं च पदान्तरस्योपलक्षणमिति बोध्यम् ।
यद्वा बोधकतारूपशक्तेरबाधान्निपातानां तत्तदर्थवाचकत्वमेवास्तु । अन्यथा पचतीत्यादौ धातोरेव कर्तृविशिष्टभावनायां लक्षणास्वीकारे तत्तात्पर्यग्राहकतया तिङादेरपि द्योतकत्वोपगमापत्तेः, एवं च धात्वर्थप्रातिपदिकार्थयोर्भेदेनान्वयबोधोऽव्युत्पन्न इति समानाधिकरणप्रातिपदिकार्थयोरभेदेनान्वयबोध इत्यपि च निपातातिरिक्तविषयं कल्पनीयम् । न तु नैयायिकोक्तरीत्या प्रादिचादिवैषम्यम्, निपातस्यानर्थकस्य [ ] इति विधिवैयोद्धाराय
१. तुलना-वैयाकरणभूषणसार, कारिका ४४ २. तुलना-वैयाकरणभूषणसार, कारिका-४६
Page #366
--------------------------------------------------------------------------
________________
३३२
अष्टसहस्त्रीतात्पर्यविवरणम् काङ्क्षितविशेषाकारेणावेतं, पुनः कालान्तरस्मृतिहेतुतयावधारितं, तदेव कालान्तरे
- अष्टसहस्त्रीतात्पर्यविवरणम् केषाञ्चिद् द्योतकत्वे केषाञ्चिद्वाचकत्वे स्वीकार्ये, चादयो द्योतकाः प्रादयो वाचका इति वक्तुरपि वदनस्य पिधातुमशक्यत्वात्, सर्वथानर्थकानां पादपूरणमात्रार्थमुपात्तानां सङ्ग्रहाय वार्तिकारम्भस्य कैयटादौ स्पष्टत्वाच्च । किञ्च केवलवृक्षशब्दात् समुच्चयाबोधाच्चकारश्रवणे च तद्बोधाच्चकार एव समुच्चयस्य वाचको न द्योतकः । अपि च द्योतकत्वे पदान्तराणां तत्र शक्तिः कल्प्या, चकारादेश्च द्योतकत्व इत्यतिगौरवं स्यादिति समुच्चयाधिकरणे स्थितम्, तदयमकस्मात् पीतामृतानामिव निपातानां द्योतकत्ववाचकत्वयोरनेकान्तोद्गारः । अस्माकं तु सदापीतानेकान्तामृतानाम्
अनेकमेकात्मकमेव वाच्यं द्वयात्मकं वाचकमप्यवश्यम् [अन्य० १४] इत्यादिवादिनां पदमात्रमेव वाक्यार्थे द्योतकं वाक्यमेव च वाचकमिति निपाते क इव विशेषोऽन्यत्र सञ्ज्ञाकरणात् । न च वाक्यार्थस्यैव प्रवृत्त्यङ्गत्वे वाक्यस्यैव च बोधकत्वे पदशक्तिग्रहानुपयोगः, अन्वयव्यतिरेकाभ्यां वाक्यशक्तिग्रह एव तदुपयोगात्, पदसमुदायात्मकस्य वाक्यस्य बोधकताविधया तु पदानां तत्त्वमयत्नसिद्धमेव, स्वातन्त्र्येण तु नेति सङ्गिरामहे ।
यत्तु पदानि स्वार्थप्रतिपादनमात्रेण निवृत्तव्यापाराणि न वाक्यार्थबोधक्षमाणि, आकाङ्क्षासन्निधियोग्यतावच्छिन्नानां पदार्थानामन्वयव्यतिरेकाभ्यां वाक्यार्थावेदकत्वप्रतिपत्तेः, तथाहि श्वेतरूपं पश्यतो हेषाशब्दं खुरशब्दं च शृण्वतः श्वेतोऽश्वो धावतीति बुद्धिर्भवति, इयं च नाध्यक्षानुमित्यादिरूपेति शाब्द्येव, करणं च तत्र तत्तत्पदार्थस्मरणमेव, । तदुक्तं
पश्यतः श्वेतमारूपं हेषाशब्दं च शृण्वतः ।।
खुरविक्षेपशब्दं च श्वेतोऽश्वो धावतीति धीः ॥ [ इति, सिद्ध पदार्थानां शब्दप्रमाणान्तर्गतत्वम्, तदुक्तं
प्रत्यक्षादिपरिच्छिन्नपदार्थप्रत्ययोद्भवः ।
वाक्यार्थप्रत्ययः सोऽपि, शब्दान्नैव विभिद्यते ॥ इति । [ ]
अपि च कविकाव्यमूलज्ञानं न मानसं, मनसो बहिरस्वातन्त्र्यात् । नाप्यनुमितिः, व्याप्त्याद्यप्रतिसन्धानं विना जायमानत्वात् । किन्तु शाब्दबुद्धिः, तत्र कारणं च न पदज्ञानम्;
Page #367
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि० १ - का० १४ ]
३३३
तदित्याकारेण स्मृतं, पुनस्तदेवेदमित्याकारेण प्रत्यभिज्ञातं, ततो यदित्थं
अष्टसहस्त्रीतात्पर्यविवरणम्
असत्त्वात्, किन्तु चिन्तोद्बुद्धसंस्कारजन्यं तत्तत्स्मरणमिति, सिद्धंः पदार्थः प्रमाणतया, यत्र चापचारान्मानसाच्छृण्वन्नपि पदानि पदार्थान्नावधारयति, तत्र न भवति वाक्यार्थप्रत्यय इति व्यतिरेकबलादपि पदार्था एव वाक्यार्थावेदका इति निर्व्यूढमिति भाट्टैकदेशिमतम्, तदसत्, प्रथमव्यवहाराद्वाक्याभिन्नानां पदानामेव शक्तिकल्पनात् पदार्थे पृथक्शक्तिकल्पने मानाभावात्, काव्यमूलज्ञानस्य च चन्द्रमुखसादृश्यादिस्मृत्युपनीतस्य मानसत्वात्, ईदृशि स्थले मनसो बहि:स्वातन्त्र्यस्याप्यभ्युपगमात्, श्वेतोऽश्वो धावतीति धियश्च दृश्यमानः श्वेतोऽयं धावदश्वः हेषाखुरविक्षेपकर्तृत्वादित्यनुमितिरूपायाः संशयोत्तरप्रत्यक्षरूपाया वा सम्भवात्, अतीतत्वादिना पदार्थानां स्मृतौ शाब्दबुद्धौ वाऽहेतुत्वात् पदार्थस्मृतेश्चाव्यापारत्वान्न प्रमाणत्वमिति नैयायिकः । 'यत्तु पदार्थस्मृतिमात्रस्य शाब्दबुद्धिहेतुत्वे घटः कर्मत्वमानयनं कृतिरित्यादिपदजन्यपदार्थोपस्थितावतिप्रसङ्गः, निराकाङ्क्षपदाजन्यस्मृतेस्तथात्वे तु गौरवमिति सा - काङ्क्षपदज्ञानमेव करणं पदार्थस्मृतिस्तु व्यापार इति नैयायिकैरुक्तं तदयुक्तं, साकाङ्क्षपदार्थस्मृतेरेव फलायोगव्यवच्छिन्नत्वेन करणत्वौचित्यात् । यत्र चापचारादित्यादि यदुक्तम्, तद्विचारासहम्, मानसादपचारात्पदार्थानवगमेन वाक्यार्थप्रतीत्यभावासिद्धेरुपहतमनसो विशिष्टपदसमुदायरूपवाक्यस्यैवानवगमान्निश्चयरूपस्य तदवगमस्यान्त्यपदप्रतिपत्तिकाले स्वार्थविशिष्टपूर्वपूर्वपदपरामर्शस्याविलम्बेन वाक्यार्थप्रतिपत्तिजनकत्वात्, इतरथोपेक्षारूपस्य तादृशपदार्थोपस्थितिवदनादरणीयत्वात्, तदुक्तं सम्मतिवृत्तौ - पूर्वपदानुविद्धं चान्त्यपदं यदा वाक्यं पूर्वपदानि च स्वाभिधेयविशिष्टतयाऽन्त्यपदप्रतिपत्तिकाले परामृश्यमानानि वाक्यार्थप्रतिपत्तिजनकानि, तदा पदार्थानवगमे वाक्यस्यैव स्वार्थाभिसम्बद्धतयाऽनवगमात् कथं ततो वाक्यार्थप्रतीतिर्भवेद् ? इति । अयमिह निःकृष्टार्थः -यावती व्युत्पत्तिः शाब्दबोधे हेतुस्तावद्व्युत्पत्तिसम्बन्धेन स्वार्थविशिष्टवाक्यज्ञानं धारणारूपमेकोपयोगप्रविष्टपदकदम्बकविषयं तत्त्वादेवानुपूर्वीपर्यायेण सर्वत्र प्रत्यक्षं तात्पर्यवशाद्विशेष्ये विशेषणमिति रीत्या विशिष्टे वैशिष्ट्यमिति रीत्या वा कथञ्चिदेकानेकात्मकवाक्यार्थधियं जनयति, पदार्थोपस्थितिद्वारत्वे कथमप्यनुपपत्तेः, घटमानयतीत्यादौ घटादिपदज्ञानाधीनघटादिस्मृतेरमादिपदज्ञानाधीनकर्मत्वादिस्मृतिकाले नाशात् । घटादिस्मृतेरेवामादिपदविषयत्वे त्वव्यवधानेन कर्मत्वादि
१. दिति इति ह० प्र० पाठः (पत्र ९४ - ब पं० २३)
२. मात्र शब्द इति ह० प्र० पाठः (पत्र ९५ अ पं० ०३)
Page #368
--------------------------------------------------------------------------
________________
३३४
अष्टसहस्त्रीतात्पर्यविवरणम्
अष्टसहस्त्रीतात्पर्यविवरणम्
स्मृतेः घटीयं कर्मत्वमिति बोधसम्भवेऽपि तत्काले घटादिस्मृतिनाशादानयनादिबोधासम्भवात्, सर्वेषां पदानां समूहालम्बनस्मृतौ तथैवार्थस्मृत्या खलेकपोतन्यायेन सर्वत्र विशेष्ये विशेषणमिति रीत्यैव शाब्दबोध इत्युपाध्यायमतस्य तु मिश्रैरेव दूषितत्वात् । यत्र विशेषाणां न परस्परमन्वयसम्भवस्तत्रैव 'चैत्रः स्थाल्यां गेहे काष्ठेनौदनं पचति गच्छति जानाति चेष्टते च'इत्यादौ समूहालम्बनस्मृत्यपेक्षाऽन्यत्र त्ववान्तरवाक्यार्थबोधपूर्वक एव महावाक्यार्थबोधः, यथा वाक्यार्थकर्मके कुलकादौ, न हि 'कुलकादावित्युवाच' इत्यादावित्यादिपदोपस्थाप्यवाक्यार्थानुपस्थितावन्वयबोधः, न च तदुपस्थितिरखान्तरवाक्यार्थबोधं विना, न चेदेवं कथं पञ्चाध्यायात्मकमहावाक्यार्थबोधस्याप्युपपत्तिः तावदेकदा ज्ञायते, किन्तु दिने दिने किञ्चित्, अत एव सम्यगवधानासमर्थः स्वल्पं स्वल्पमुच्चार्य योजनया बोध्यते, घटमानयेत्यादौ त्वनियमः सामग्रीद्वयस्यापि पृथक् पृथक् क्लृप्तत्वादिति मिश्रमतस्याप्यनिर्द्धारणेनैव हतत्वात्, अवान्तरवाक्यार्थबोधासाधारण्येन पदजन्यपदार्थोपस्थितित्वेन नियतद्वारत्वाभावात् अनियतोपस्थितेस्तु पदार्थज्ञानोबुद्धसंस्कारप्रभवपदोपस्थितावतिप्रसक्तत्वात्, यथातात्पर्यं गृहीतव्युत्पत्तिकवाक्यज्ञानादेव नियतैकानेकात्मकवाक्यार्थप्रतीतेः सार्वजनीनायाः स्वीकर्त्तुमुचितत्वात् ।
न ह्यध्ययनेन
वाक्यार्थे द्योतकं ह्येवं पदमात्रं व्यवस्थितम् ।
निपाते स्फुटता तस्य केवलस्याप्रयोगतः ॥ [ ]
इति भावनीयं सुधीभिः । वाचकत्वद्योतकत्वयोरनेकान्तस्तु सर्वत्र सिद्धिः स्याद्वादात् [सिद्धहेमशब्दानुशासनम् १.१.२] इति हैमसूत्रसिद्ध एव ।
प्रकृते च
स वाचको विशेषाणां स च तद्द्योतकोऽथवा । [२.११८] इति वाक्यपदीयमपि साक्षीति किमतिविस्तरेण ।
प्रपञ्चतोऽन्यत्रेति एवकारप्रयोगे घटो नील एवेत्यत्र सर्वावयवावच्छिन्ननीलवत् सन्नेवेत्यतः सर्वधर्मावच्छिन्नसत्त्वप्रतीतौ तदपवादाय नियतावच्छेदकस्फोरणार्थं स्यात्पदप्रयोगध्रौव्ये सावधारणः प्रयोगो युक्तोऽन्यथा तु घटः सन्निति निरवधारणप्रयोगादपि व्युत्पन्नस्य स्वद्रव्यादिचतुष्टयावच्छिन्नस्वरूपसत्त्वप्रकारकबोधान्नानुपपत्तिरित्यत्राप्यनेकान्त एव श्रेयानित्यादिकमित्यर्थः । निरूपितं चैतत्तत्त्वमनेकान्तप्रवेशे ऽस्माभिरिति तत एवाव
Page #369
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि० १-का. १४]
३३५ कार्यकृत्तदित्थं सर्वत्र सर्वदेति तर्कितं, ततस्तत्कार्यावबोधनादभिनिबुद्धं, तदेव च शब्दयोजनया विकल्पनिरूपणया वा परार्थं स्वार्थं वा श्रुतमित्यनुसन्धानप्रत्ययवदहमेक एव दृष्टावगृहीतेहितेत्याद्यनुसन्धानबुद्धिरपि न क्वचिदास्पदं बनीयात् । तथाविधवासनाप्रबोधादनुसन्धानावबोधप्रसिद्धिरिति चेत्, साऽनुसन्धानवासना यद्यनुसन्धीयमानदर्शनादिभ्यो भिन्ना तदा सन्तानान्तरे दर्शनावग्रहादिष्विव स्वसन्तानेऽपि नानुसन्धानबोधमुपजनयेत्, अविशेषात् । तदभिन्ना चेत्, तावद्धा भिद्येत, न हि भिन्नादभिन्नमभिन्नं नामेति स्वयमभिधानात् । तथा च तत्प्रबोधात्कथं दर्शनावग्रहादिष्वेकमनुसन्धानज्ञानमुत्पद्येत ? यदि पुनस्तेभ्यः कथञ्चिदभिन्ना वासनानुमन्यते तद्धेतुस्तदा,
(भा०) अहमहमिकयात्मा विवर्ताननुभवन्ननादिनिधनः स्वलक्षणप्रत्यक्षः सर्वलोकानां क्वचिच्चित्रवित्तिक्षणे नीलादिविशेषनिर्भासवदात्मभूतान् परस्परतो विविक्ता-सहक्रमभाविनो गुणपर्यायानात्मसात्कुर्वन् सन्नेव
सिद्धः, तस्यैव वासनेति नामान्तरकरणात् ।
(भा०) तदेकत्वाभावे नीलादिविशेषनियतदर्शननानासन्तानसंवेदनक्षणवच्चित्रसंवेदनं न स्यात् । क्रमवृत्तिसुखादीनामिव दर्शनावग्रहादीनामेकसन्तानिपतितत्वादनुसन्धानमनन
अष्टसहस्त्रीतात्पर्यविवरणम्
गन्तव्यम् ।
अभिनिबुद्धम् = अनुमितम्, शब्दयोजनया= परार्थशब्दप्रयोगेण, विकल्पनिरूपणया स्ववृत्तिशब्दवृत्तिजन्योपस्थित्या, वाकारो वक्तृश्रोतृस्थश्रुतानुसन्धानभेदाभिप्रायेण । इत्यनुसन्धानप्रत्ययभेदवदिति यथोक्तानुसन्धानविषय एकोऽर्थस्तथाऽहमेक एव द्रष्टेत्याद्यनुसन्धानविषय आत्मापि, अन्यथोपदर्शितप्रत्ययनिविषयत्वापत्तेरित्यर्थः । तावद्वा इति तावत्प्रकारैः । तदेकत्वाभावे चित्रवृत्तिक्षणेऽप्यनुभयमानैकत्वापलापे । नीलादीति नीलादिविशेषेषु नियमतो निश्चयतो दर्शनं स्वप्रकाशो येषां ते तथा, नानासंवेदनचित्तक्षणाः नीलादिमात्रविषयकनानाज्ञानानीति यावत्, तद्वत्ते ष्विव, चित्रसंवेदनं चित्रत्वज्ञानं नानारूपसमुदायज्ञाने न स्यात्, विषयितासम्बन्धेन स्वाश्रये तेन वृत्तित्वरूपसामानाधिकरण्येन नीलेतरविशिष्टनीलवत्त्वादिनैव ज्ञाने चित्रत्वव्यवहारादित्यर्थः । अनु
Page #370
--------------------------------------------------------------------------
________________
३३६
अष्टसहस्त्रीतात्पर्यविवरणम्
निबन्धनत्वमनुमतमिति चेत्, तर्हि सन्ततिरात्मैव ।
(भा०) तथा क्रमवृत्तीनां सुखादीनां मतिश्रुतादीनां वा तादात्म्यविगमैकान्ते सन्ततिरनेकपुरुषवन्न
स्यात् । सुखादिमत्यादीनां नैरन्तर्यादव्यभिचारिकार्यकारणभावाद्वास्यवासकभावाच्चापरामृष्टभेदानामेका सन्ततिः, न पुनरनेकपुरुषे, तदभावादिति चेत्, तर्हि, ( भा० ) नैरन्तर्यादेरविशेषात्सन्तानव्यतिकरोऽपि किन्न स्यात् ? न हि नियामकः कश्चिद्विशेषः अन्यत्राभेदपरिणामात् ।
सन्तानिनां भेदपरिणाम एव नाभेदपरिणामः सङ्करप्रसङ्गादिति चेत्, न येनात्मना तेषामभेदस्तेन सद्द्रव्यचेतनत्वादिना संकरस्येष्टत्वात् ।
तेन
(भा०) अप्यसङ्करे हर्षविषादादिचित्रप्रतिपत्तेरयोगात् ।
अस्ति च सैकत्रापि विषये यत्र मे हर्षः प्रागभूत्तत्रैव विषादो द्वेषो भयादिर्वा वर्तते, अहमेव च हर्षवानासं, संप्रति विषादादिमान् वर्ते नान्य इति क्रमतश्चित्रप्रतिपत्तिरबाधा । ततो जीवः सन्नेव । एवं च,
(भा०) यथैकत्र समनन्तरावग्रहादिसदादिस्वभावसङ्करपरिणामस्तथैव सर्वत्र चेतनाचेतनेषु संप्रत्यतीतानागतेषु, तत्स्वभावाविच्छित्तेः अतः कथञ्चित्सदेवेष्टं
जीवादि तत्त्वं, सकलबाधकाभावात् ।
[साङ्ख्यः सर्वं वस्तु सद्रूपमेव मन्यते तस्य विचारः ]
तर्हि सदेव सर्वं जीवादि वस्तु, न पुनरसदिति चेत्, न सर्वपदार्थानां अष्टसहस्त्रीतात्पर्यविवरणम्
सन्धानमनननिबन्धनत्वमिति अनुसन्धानमेकत्वप्रत्यय एव, मननं ज्ञानं, तन्निबन्धनत्वं तत्कारणत्वमित्यर्थः । तादात्म्यविगमैकान्ते= भेदैकान्ते, अपरामृष्टभेदानाम् = अगृहीतभेदानाम्, सन्तानव्यतिरेकोऽपि = भिन्नसन्तानवर्तित्वमपि, चित्रप्रतिपत्तेरयोगादिति भेदसंलुलिताभेदस्यैव तद्विषयत्वादित्यर्थः ।
Page #371
--------------------------------------------------------------------------
________________
३३७
प्रथमो भागः [परि०१-का. १४] परस्परमसङ्करप्रतिपत्तेरसत्त्वस्यापि सिद्धेः, जीवाजीवप्रभेदानां स्वस्वभावव्यवस्थितेरन्यथानुपपत्तेः ।
(भा०) न केवलं जीवाजीवप्रभेदाः सजातीयविजातीयव्यावृत्तिलक्षणाः, किन्तु बुद्धिक्षणेऽपि क्वचिद् ग्राह्यग्राहकयोः सितादिनिर्भासांशपरमाणुसंवित्तयोऽपि, परस्परपरिहारस्थितिलक्षणत्वादन्यथा स्थूलशबलावलोकनाभावात्तदेकांशवत् ।
सर्वथा परस्परमव्यावृत्तानां ग्राह्यग्राहकसितादिनिर्भासावयवपरमाणुसंवित्तीनामेकपरमाणुस्वरूपतापतेः । न चैकपरमाणुः स्थूलतया शबलतया वावलोकयितुं शक्यः, भ्रमप्रसङ्गात् ।
(भा०) तथा च सकलचेतनेतरक्षणपरिणामलवविशेषाः परस्परविविक्तात्मानः
सिद्धाः, स्वस्वभावस्य स्वभावान्तरेण मिश्रणाभावात् ।
(भा० ) तदन्योन्याभावमात्रं जगत् । अन्यथा सर्वथैकत्वप्रसङ्गात् तत्रान्वयस्य विशेषापेक्षणादभावो वा ।
स्वतन्त्रस्य तस्य जातुचिदप्रतिभासनात् ।
(भा०) तदिष्टमसदेव कथञ्चित् । [मीमांसकः सर्वं वस्तु भावाभावात्मकं मन्यते किन्तु परस्परनिरपेक्षं मन्यते अतस्तदभिमतमपि
दोषास्पदमेव] सर्वथा भावाभावोभयात्मकमेव जगदस्तु, तत्र भावस्याभावस्य च प्रमाणसिद्धत्वात् प्रतिक्षेप्तुमशक्यत्वादित्यपरः, सोऽपि न तत्त्ववित्, सुयुक्त्यतिलङ्घनात् ।
अष्टसहस्त्रीतात्पर्यविवरणम् ____ व्याप्यवृत्तिव्यावृत्तिस्वभावं दर्शयित्वाऽव्याप्यवृत्तिं तं दर्शयति-किन्त्विति । सितादीति सितादयो ये निर्भासा ज्ञानाकारास्तथांशपरमाणूनामवयवाणूनां संवित्तयस्ता अपि परस्परव्यावृत्तिलक्षणा इति व्याख्येयम् । परस्परविविक्तात्मान इति अध्याहृतस्य वस्तुनो विशेषणमिदम्, तत्र=जगति, अन्वयस्य सर्वथैकत्वस्य, विशेषापेक्षत्वात्=तत्वतो
Page #372
--------------------------------------------------------------------------
________________
अष्टसहस्रीतात्पर्यविवरणम् ___ (भा०) न हि भावाभावैकान्तयोनिष्पर्यायमङ्गीकरणं युक्तं, यथैवास्ति तथैव नास्तीति विप्रतिषेधात् । ततः कथञ्चित्सदसदात्मकं द्रव्यपर्यायनयापेक्षया ।
द्रव्यनयापेक्षयैव सर्वं सत् पर्यायनयापेक्षयैव च सर्वमसदात्मकम् । (भा०) विपर्यये तथैवासम्भवात् ।
न हि द्रव्यनयापेक्षया सर्वमसत् सम्भवति, नापि पर्यायनयापेक्षया सर्वं सत्, प्रतीतिविरोधात् । भावाभावस्वभावरहितं तद्विलक्षणमेव वस्तु युक्तमित्यपि न सारं ।
(भा०) सर्वथा जात्यन्तरकल्पनायां वा तदंशनिबन्धनविशेषप्रतिपत्तेरत्यन्ताभावप्रसङ्गात् ।
न चासावस्ति, सदसदुभयात्मके वस्तुनि स्वरूपादिभिः सत्त्वस्य पररूपादिभिरसत्त्वस्य च तदंशस्य विशेषप्रतिपत्तिनिबन्धनस्य सुनयप्रतीतिनिश्चितस्य प्रसिद्धः दधिगुडचातुर्जातकादिद्रव्योद्भवे पानके तदंशदध्यादिविशेषप्रतिपत्तिवत् । न चैवं जात्यन्तरमेवोभयात्मकमिति युक्तं वक्तुं ।
(भा०) सर्वथोभयरूपत्वे वा जात्यन्तरप्रतिपत्तेरयोगात्, पानकवदेव ।
न हि तत्र दध्यादय एव न पुनर्जात्यन्तरं पानकमित्यभिधातुमुचितं, पानकमिदं सुस्वादु सुरभीति संप्रत्ययात् । तद्वद्वस्तुनि न सदाद्यंश एव प्रतीतिविषयः, तदंशिनो जात्यन्तरस्य प्रतीत्यभावापत्तेः ।
(भा०) तथा चानवस्थादिदोषानुषङ्गः । येनात्मना सत्त्वं तेनासत्त्वस्याभ्युपगमे येन चासत्त्वं तेन कथञ्चित्सत्त्वानुमनने
- अष्टसहस्त्रीतात्पर्यविवरणम् व्यावृत्तिनिरूपणाधीननिश्चयविषयत्वात्, निष्पर्यायम्=अवच्छेदकभेदरहितम् । तदंशेति तदंशौ सत्त्वासत्वे, चातुर्जातकम् एला-लवंग-नागकेसर-तमालपत्राणि । पानकवज्जात्यन्तरत्वमेव सर्वथोभयरूपत्वादिकमुदस्यतीत्याह-सर्वथेत्यादि । प्रत्येकमिति सत्त्वोपाधावपि केनचिद्धर्मेणोभयात्मकतायास्तत्रापि धर्मान्तरेण तत्तायाः स्वीकारेऽनवस्थेत्यर्थः । तथा
Page #373
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. १४] पुनः प्रत्येकमुभयरूपोपगमादनवस्था स्यात् । तथानभ्युपगमे नोभयस्वभावमशेषमिति ते प्रतिज्ञाविरोधः । येनात्मना सत्त्वं तेनैवासत्त्वे विरोधो वैयधिकरण्यं वा शीतोष्णस्पर्शविशेषवत् । सङ्कव्यतिकरौ च, युगपदेकत्र सत्त्वासत्त्वयोः प्रसक्तेः । परस्परविषयगमनाच्च संशयश्च, कथं सत्त्वं कथं चासत्त्वं वस्तुनीति निश्चयानुत्पत्तेः । अत एवाप्रतिपत्तिरभावश्चानुषज्यते । ततः प्रतिपादितदोषान् परिजिहीर्षुभिः सर्वं
वस्तु
(भा०) तदिष्टं स्यादुभयं । न पुनः सर्वथा, स्यात्कारेण जात्यन्तरत्वस्यापि स्वीकरणात् ।
[बौद्धः सर्वं वस्तु सर्वथाऽवक्तव्यमेव मन्यते तस्य विचारः]
तीस्तीति न भणामि, नास्तीति च न भणामि, यदपि च भणामि तदपि न भणामीति दर्शनमस्तु इति कश्चित्सोऽपि पापीयान् । तथाहि
(भा०) सद्भावेतराभ्यामनभिलापे वस्तुनः, केवलं मूकत्वं जगतः स्यात्, विधिप्रतिषेधव्यवहारायोगात् । न हि सर्वात्मनानभिलाप्यस्वभावं बुद्धिरध्यवस्यति । न चानध्यवसेयं प्रमितं नाम, गृहीतस्यापि तादृशस्यागृहीतकल्पत्वात्, मूर्छाचैतन्यवदिति ।
__ न हि निर्विकल्पकदर्शनप्रतिभासि वस्तु व्यवतिष्ठेत येनानभिलपन्नपि तत् पश्येत् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
ऽनभ्युपगमे=धर्मान्तरे उभयरूपताननुसरणे, तत्रैव व्यभिचारात् । नोभयस्वभावमशेषं सिद्धमिति ते उभयस्वभावमेवाशेषमिति प्रतिज्ञाया विरोध इत्यर्थः । स्यात्कारेणेति स्यादुभयमित्यत्र स्यात्कारेण सत्त्वासत्त्वावच्छेदकधर्मयोरेव परामर्शाज्जात्यन्तरत्वस्यार्थसिद्धत्वादिति भावः । अर्थसिद्धत्वं च तस्यौत्तरकालिकमानसबोधात् द्योत्यतावच्छेदककुक्षिप्रविष्टत्वाद्वेत्यन्यदेतत् । अनध्यवसेयम्=अभिलापोपरक्तनिश्चयाविषयः । मूर्छाचैतन्यवदिति मूर्छाचैतन्यगृहीतवदित्यर्थः, यथा मूर्छाचैतन्यगृहीतमप्यगृहीतकल्पं तथा
Page #374
--------------------------------------------------------------------------
________________
३४०
अष्टसहस्त्रीतात्पर्यविवरणम्
[शब्दाद्वैतवादस्य निराकरणम्] न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिवाभाति सर्वं शब्दे प्रतिष्ठितम् ॥१॥ वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥२॥
[वाक्यपदीयम् ब्रह्मकाण्ड-१२३-१२४] इति दर्शनान्तरमप्यनालोचिततत्त्वम् । (भा०) सर्वात्मनाभिधेयत्वेऽपि प्रत्यक्षतराविशेषप्रसङ्गात् ।
चक्षुरादिशब्दादिसामग्रीभेदात्प्रत्यक्षेतरयोविशेष इति चेत्, न प्रत्यक्षादिव शब्दादेरपि वस्तुविशेषप्रतिपत्तेरविशेषसिद्धेः, प्रत्यक्षगोचरविशेषस्य शब्दागोचरत्वेऽनभिधेयत्वापत्तेः । प्रत्यक्षात्मकशब्दगोचरत्वात्तस्याप्यभिधेयत्वमेवेति चेत्, तथैवानुमानागमज्ञानात्मकशब्दविषयत्वमस्तु । ततश्च प्रत्यक्षतरयोः स्पष्टविशेषप्रतिभासित्वसिद्धरविशेषप्रसङ्गः । तयोविशेषे तदात्मकशब्दयोर्भेदप्रसङ्गात्कुतः शब्दाद्वैतसिद्धिः ? । स्यान्मतम्-'अद्वय एव शब्दः, केवलं प्रत्यक्षोपाधिः स्पष्टविशेषप्रतिभासात्मकः, शब्दाधुपाधिः पुनरस्पष्टसामान्यावभासात्मकः, पीतेतरोपाधेः
- अष्टसहस्रीतात्पर्यविवरणम्
ऽभिलापानुपरागेण गृहीतमप्यगृहीतकल्पमित्यर्थः । न सोऽस्तीत्यादिनोक्तं वक्तव्यैकान्तमपि प्रतिक्षिपति-सर्वात्मनेत्यादि सामान्यरूपेणेव विशेषरूपेणापीति सर्वात्मनेत्यस्यार्थः । शब्दागोचरत्वेऽनभिधेयत्वापत्तेरिति शब्दगोचरत्वेऽभ्युपगम्यमाने बाधापत्तेस्तदभ्युपगमस्यायुक्तत्वादित्यर्थः, बाधश्चाध्यक्षविषयो न शब्दविषय इति स्फुट एव । प्रत्यक्षविषये प्रत्यक्षशब्दवाच्यत्वमादाय बाधमाशङ्कते प्रत्यक्षात्मकेत्यादि । तथा सत्यनुमानादिशब्दवाच्यत्वात्तत्र स्पष्टत्वास्पष्टत्वसङ्करे ज्ञानसङ्करः स्यादित्याह-तथैवेत्यादि । विषयविशेषकृतो न प्रत्यक्षेतरविशेषः, किन्तु स्वकारणभेदकृत इत्यत्राह-तयोरिति तयोः प्रत्यक्षेतरयोः, विशेषे =कुतश्चित्कारणाद्भेदे, 'तदात्मकयोः प्रत्यक्षेतरशब्दयोर्भेदात्, शब्दाद्वैतसिद्धिः कुतो ? न कुतश्चिदिति प्रतिज्ञाहानिर्वादिनः। उपाधिभेदान्नायं दोष इत्याशङ्कते
१. तदात्मकशब्दयोरिति अष्टसहस्रीसम्मतः पाठः ।
Page #375
--------------------------------------------------------------------------
________________
प्रथमो भाग: [परि० १-का. १४]
३४१ स्फटिकस्य पीतेतरप्रतिभासित्ववत्' इति, तदसत्, प्रत्यक्षतरोपाधीनामपि शब्दात्मकत्वे भेदासिद्धेः, तदनात्मकत्वे शब्दाद्वैतव्याघातात्, तेषामवस्तुत्वे स्पष्टेतरप्रतिभासभेदनिबन्धनत्वविरोधात् । तत्प्रतिभासस्याप्यभेदे, स एव प्रत्यक्षतराविशेषप्रसङ्गः ।
(भा० ) तथानभिधेयत्वेऽपि सत्येतरयोरभेदः स्यात् ।
यत्सत्तत्सर्वमक्षणिकं, क्षणिके क्रमयोगपद्याभ्यामर्थक्रियाविरोधादित्यादेरिव वाक्यस्य यत्सत्तत् क्षणिकमेव, नित्ये क्रमाक्रमाभ्यामर्थक्रियानुपपत्तेरित्यादेरपि वाक्यस्यासत्यत्वप्रसङ्गाद्विपर्ययानुषङ्गाद्वा, सर्वथार्थासंस्पर्शितत्वाविशेषात्, कस्यचिदनुमानवाक्यस्य कथञ्चिदर्थसंस्पर्शित्वे सर्वथानभिधेयत्वविरोधात् । सोऽयं
सौगतः,
(भा०) स्वपक्षविपक्षयोस्तत्त्वातत्त्वप्रदर्शनाय यत्किञ्चित्प्रणयन् वस्तु सर्वथानभिधेयं प्रतिजानातीति किमप्येतन्महाद्भुतम् । सर्वथाभिधेयरहितेनानुमानवाक्येन सत्यत्वासत्यत्वप्रदर्शनस्य प्रणेतुमशक्तेः ।
साध्याभिधानात्पक्षोक्तिः पारम्पर्येण नाप्यलम् ।
शक्तस्य सूचकं हेतुवचोऽशक्तमपि स्वयम् ॥ [ ] इति वचनात् । स्वयं
(भा०) तत्कृतां वस्तुसिद्धिमुपजीवति, न तद्वाच्यतां चेति स्वदृष्टिरागमात्रमनवस्थानुषङ्गात् ।
वस्तुनोऽनुमानवाक्यवाच्यतानुपजीवने तत्कृतायाः सिद्धरुपजीवनासम्भवात्, अनभिमतप्रतिवादिवचनादपि तत्सिद्धिप्रसङ्गात्, स्वाभिधेयरहितादपि स्ववचना
अष्टसहस्त्रीतात्पर्यविवरणम्
स्यान्मतमित्यादिना । एतद् दूषयति-तदसदित्यादिना, प्रत्यक्षेतरोपाधीनामित्यत्र प्रत्यक्षं चेतरच्चोपाधिश्चेति द्वन्द्वः कार्यः, तेन बहुवचनोपपत्तिरिति द्रष्टव्यम् । वक्तव्यैकान्तपक्षोक्तं दूषणमवक्तव्यकान्तपक्षेऽपि सममित्युपदर्शयति-तथानभिधेयत्वेऽपीत्यादिना । साध्याभिधानादित्यादि साध्याभिधानात्, पक्षोक्तिः साध्यविशिष्टधर्मिण उक्तिः, पारम्पर्येणापि
Page #376
--------------------------------------------------------------------------
________________
३४२
अष्टसहस्त्रीतात्पर्यविवरणम्
तत्त्वसिद्धिरुपजीव्यते, न पुनः परवचनादिति कथमप्यवस्थानासम्भवात् । मद्वचनं वस्तुदर्शनवंशप्रभवं, न पुनः परवचनमिति स्वदर्शनानुरागमात्रं, न तु परीक्षाप्रधानं, सर्वस्य वचसो विवक्षाविषयत्वाविशेषात् ।
[प्रत्येकं वस्तु कथञ्चिदेवावाच्यं न सर्वथा]
ततो न सर्वथाभिधेयं वस्तुतत्त्वं नाप्यनभिधेयं, बाधकसद्भावात् । किं तर्हि ? कथञ्चिदवाच्यमेव तवेष्टं, कथञ्चित्सदेव, कथञ्चिदसदेव, कथञ्चिदुभयमेवेति । तथा चशब्दात्कथञ्चित्सदवाच्यमेव, सर्वथाप्यसतोऽनभिधेयत्वधर्माव्यवस्थितेः, कथञ्चिदसदवाच्यमेव, सर्वथापि सतोऽनभिलाप्यत्वस्वभावासम्भवात् तदभिलाप्यत्वस्यापि सद्भावात्, कथञ्चित्सदसदवाच्यमेव, स्वरूपपररूपाभ्यां सदसदात्मन एवावाच्यत्वधर्मप्रसिद्धरित्यपि भङ्गत्रयं समुच्चितमाचार्यैः, अव्यक्तव्योत्तराः शेषास्त्रयो भङ्गाः स्वहेतुत इत्यग्रे स्वयं समर्थनात् । इह तत्प्रतिज्ञातस्य सिद्धेरप्रतिज्ञातस्य समर्थनाघटनात् कस्यचित्प्रतिज्ञातस्य सामर्थ्याद् गम्यमानस्यापि प्रतिज्ञातत्वोपपत्तेः, इति साधीयसी सप्तभङ्गी प्रतिज्ञा, तथा नैगमादिनययोगात् ॥१४।।
तत्र प्रथमद्वितीयभङ्गयोस्तावन्नययोगमुपदर्शयन्ति स्वामिनः
- अष्टसहस्रीतात्पर्यविवरणम्
नालं नानुमितिजननसमर्था, पक्षज्ञानमात्रस्य तदहेतुत्वात्, हेतुवचस्तु स्वयमनुमितिजननेऽशक्तमपि शक्तस्यानुमितिजननसमर्थस्य हेतोः सूचकम्, इत्थं च पारम्पर्येण हेतुवचनस्यानुमापकत्वमनुज्ञातम्, अत्र हि सूचकता ज्ञानजनकता, ज्ञानं च बाधाभावात् प्रमारूपमित्यनिच्छताऽपि शब्दस्य प्रमापकत्वं तन्निर्वाहाय वाचकत्वं च बौद्धनाश्रयणीयमित्युक्तं भवति । सूचकत्वं तु ज्ञानावच्छेदकार्थानुमापकत्वविधया स्वातन्त्र्येण वेत्यन्यदेतत् । अवाचकशब्दव्यावृत्त्यर्थं प्रामाण्यपरीक्षायां वाचकत्वस्यावश्यंभावाद्वक्त्रभिप्रायसम्भावनाजनकत्वमेव शब्दस्यार्थसूचकं सैव च बहुशो व्यवहारकरीत्याश्रयणे च प्रसिद्धानुमानकार्यस्यापि सम्भावनयैवोपपत्तेः प्रत्यक्षातिरिक्तप्रमाणमात्रसन्न्यासाच्चार्वाकमतप्रवेशो महापापवह: स्यादिति द्रष्टव्यम् ॥१४॥
Page #377
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि. १-का. १५]
३४३ सदेव सर्वं को नेच्छेत् स्वरूपादिचतुष्टयात् ।
असदेव विपर्यासान्न चेन्न व्यवतिष्ठते ॥१५॥ सर्वं चेतनमचेतनं वा द्रव्यं पर्यायादि वा भ्रान्तमभ्रान्तं वा स्वयमिष्टमनिष्टं वा, सदेव स्वरूपादिचतुष्टयात् को नेच्छेत् ? असदेव पररूपादिचतुष्टयात् तद्विपर्ययात्को नेच्छेत् ? अपि तु लौकिक: परीक्षको वा स्याद्वादी सर्वथैकान्तवादी वा सचेतनस्तथेच्छेदेव, प्रतीतेरपह्नोतुमशक्तेः । अथ स्वयमेवं प्रतीयन्नपि कश्चित्कुनयविपर्यासितमतिर्नेच्छेत्, स न क्वचिदिष्टे तत्त्वे व्यवतिष्ठेत । स्वपररूपोपादानापोहनव्यवस्थापाद्यत्वाद्वस्तुनि वस्तुत्वस्य, स्वरूपादिव पररूपादपि सत्त्वे चेतनादेरचेतनादित्वप्रसङ्गात तत्स्वात्मवत. पररूपादिव स्वरूपादप्यसत्त्वे सर्वथा शून्यतापत्तेः, स्वद्रव्यादिव परद्रव्यादपि सत्त्वे द्रव्यप्रतिनियमविरोधात् । संयोगविभागादेरनेकद्रव्याश्रयत्वेऽपि तद्रव्यप्रतिनियमो न विरुद्ध्यते एवेति चेत्, न तस्यानेकद्रव्यगुणत्वेनानेकद्रव्यस्यैव स्वद्रव्यत्वात्, स्वानाश्रयद्रव्यान्तरस्य परद्रव्यत्वात्ततोऽपि सत्त्वे स्वाश्रयद्रव्यप्रतिनियमव्याघातस्य तदवस्थत्वात् । तथा परद्रव्यादिव स्वद्रव्यादपि कस्यचिदसत्त्वे सकलद्रव्यानाश्रयत्वप्रसङ्गादिष्टद्रव्याश्रयत्वविरोधात् । तथा स्वक्षेत्रादिव परक्षेत्रादपि सत्त्वे कस्यचित्प्रतिनियतक्षेत्रत्वाव्यवस्थितेः, परक्षेत्रादिव स्वक्षेत्रादपि चासत्त्वे नि:क्षेत्रतापत्तेः । तथा स्वकालादिव परकालादपि सत्त्वे प्रतिनियतकालत्वाव्यवस्थानात् । परकालादिव स्वकालादप्यसत्त्वे सकलकालासम्भवित्वप्रसङ्गात् क्व किं व्यवतिष्ठेत ? यतः स्वेष्टानिष्टतत्त्वव्यवस्था ।
अष्टसहस्त्रीतात्पर्यविवरणम्
अथ स्वयमेवं प्रतीयन्नपीति सत्त्वासत्त्वोभयधर्मशबलैकवस्त्विति शेषः । अत्र स्वरूपं स्वभावः, पररूपं परभाव इति, शिष्टमादिपदग्राह्यं द्रव्यादित्रयमेव स्थितमिति तदाश्रित्याह-स्वद्रव्यादि वेत्यादि । तदवस्थत्वादिति संयोगस्य स्वद्रव्यापेक्षास्तित्वाभावेऽयं संयोगोऽनयोरेव द्रव्ययो न्ययोरिति प्रतिनियमो व्याहन्यत एवेति दोषस्य प्रागुक्तानतिशायित्वादित्यर्थः । इयांस्तु विशेषोऽव्यासज्यवृत्तिधर्माणामस्तित्वे स्वसमवायिद्रव्यमात्रापेक्षा, व्यासज्यवृत्तिधर्माणां तु स्वपर्याप्तिमद्रव्यापेक्षेति, अत एव तत्प्रमात्वमपि स्वपर्याप्तिमद्विशेष्यकत्वघटितमिति नैको द्वावित्यादेः प्रमात्वम्, तादृशबुद्धिकाले धर्मद्वयावच्छेदेन
Page #378
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम्
[स्वरूपे स्वरूपान्तराभावाद् वस्तुव्यवस्था कथं भवेदिति नैयायिकस्यारेकायां विचारः ]
नन्वेवं स्वरूपादीनां स्वरूपाद्यन्तरस्याभावात्कथं व्यवस्था स्यात्, भावे वानवस्थाप्रसङ्गात् । सुदूरमपि गत्वा स्वरूपाद्यन्तराभावेऽपि कस्यचिद्व्यवस्थायां किमनया प्रक्रियया स्वगृहमान्यया ? यथाप्रतीति वस्तुव्यवस्थोपपत्तेरिति कश्चित्सोऽपि वस्तुस्वरूपपरीक्षानभिमुखो वस्तुप्रतीतेरेव तथा प्ररूपयितुमुपक्रान्तत्वात् । अन्यथा नानानिरङ्कुशविप्रतिपत्तीनां निवारयितुमशक्यत्वात् । वस्तुनो हि यथैवाबाधिता प्रतीतिस्तथैव स्वरूपं न च तत्ततोऽन्यदेव प्रतीयते येन स्वरूपान्तरमपेक्षेत । तथा प्रतीतौ वा तदुपगमेऽपि नानवस्था, यत्राप्रतिपत्तिस्तत्र व्यवस्थोपपत्तेः ।
३४४
[जीवादिवस्तुनः स्वरूपं किम् ? ]
तत्र जीवस्य तावत्सामान्येनोपयोगः स्वरूपं तस्य तल्लक्षणत्वात्, उपयोग लक्षणम्, इति वचनात् [तत्त्वार्थसूत्रम् - २.८] । ततोऽन्योऽनुपयोगः पररूपम् । ताभ्यां सदसत्त्वे प्रतीयेते । तदुपयोगस्यापि विशेषतो ज्ञानस्य स्वार्थाकारव्यवसायः स्वरूपम् । दर्शनस्यानाकारग्रहणं स्वरूपम् । ज्ञानस्यापि परोक्षस्यावैशद्यं स्वरूपम् । प्रत्यक्षस्य वैशद्यं स्वरूपम् । दर्शनस्यापि चक्षुरचक्षुर्निमित्तस्य चक्षुराद्यालोचनं
अष्टसहस्त्रीतात्पर्यविवरणम्
द्वित्वबुद्धेः प्रमात्वं तु स्याद्वादापेक्षया लोकोत्तरमिति न दोषः, लौकिकप्रमाप्रकारस्यैव प्राग् लक्षितत्वादिति दिग् । स्वरूपादौ स्वरूपाद्यन्तराभावात्कथं सत्त्वम् ? तद्भावे वा कथं नानवस्था ? इति नैयायिकादिः शङ्कते - नन्वेवमित्यादिना । स्वरूपादीनां धर्मिसत्त्वादिनियामकानां स्वसत्त्वादिनियामकत्वस्य धर्मिग्राहकमानेन स्वत एव सिद्धत्वान्नयविशेषेण स्वरूपान्तरादिग्रहस्यापि जिज्ञासाधीनत्वाद् यत्रैव न सा तत्रैव विश्रान्तेर्नानवस्थेति समाधत्तेसोऽपीत्यादिना । वस्तुनो हीति तथा च स्वरूपादिघटितमूर्तेरेव सत्त्वादेः प्रतीतेर्भेदनयेऽपि च यथाजिज्ञासं व्यवस्थानान्नानवस्थेति फलितम् । एतेन सत्त्वं नावच्छिन्नम्, अनवच्छिन्नस्यैव सत्तामहासामान्यस्य सर्वैः प्रतीयमानत्वात्, तत्र स्वरूपादेरवच्छेदकस्य कल्पने च तस्यापि सप्तभङ्गीनयेनानवस्थिततद्व्यवस्थार्थमप्यवच्छेदकान्तरमपेक्षणीयम् तत्राप्यन्यदित्येवं ज्ञप्तिप्रतिपन्थिन्यनवस्था दुरुद्धरेति न कथमपि सप्तभङ्गीक्रमेण शाब्दबोधोपपत्तिरिति पशुपालप्रलपितम् अपास्तम् । अनर्पितदृष्ट्याऽनवच्छिन्नेऽप्यर्पितदृष्ट्या
Page #379
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. १५]
३४५ स्वरूपम् । अवधिदर्शनस्यावध्यालोचनं स्वरूपम् । परोक्षस्यापि मतिज्ञानस्येन्द्रियानिन्द्रियनिमित्तं स्वार्थाकारग्रहणं स्वरूपम् । अनिन्द्रियमात्रनिमित्तं श्रुतस्य स्वरूपम् । प्रत्यक्षस्यापि विकलस्यावधिमनःपर्ययलक्षणस्य मनोऽक्षानपेक्षं स्पष्टात्मार्थग्रहणं स्वरूपम् । सकलप्रत्यक्षस्य सर्वद्रव्यपर्यायसाक्षात्करणं स्वरूपम् । ततोऽन्यत् सर्वं तु पररूपम् । ताभ्यां सदसत्त्वे प्रतिपत्तव्ये । एवमुत्तरोत्तरविशेषाणामपि स्वपररूपे तद्विद्भिरभ्यूह्ये तद्विशेषप्रतिविशेषाणामनन्तत्वात् । द्रव्यक्षेत्रकालभावविशेषाणामनेनैव प्रतिद्रव्यपर्यायं स्वपररूपे प्रतिपादिते ।
[जीवादिद्रव्याणां किं स्वद्रव्यं किञ्च परद्रव्यम् ?]
ननु च जीवादिद्रव्याणां षण्णामपि किं स्वद्रव्यं किं वा परद्रव्यम् ? यतः सदसत्त्वे व्यवतिष्ठेते, द्रव्यान्तरस्यासम्भवादिति चेत्, न तेषामपि शुद्धं सद्रव्यमपेक्ष्य सत्त्वस्य तत्प्रतिपक्षमसद्भावमपेक्ष्यासत्त्वस्य च प्रतिष्ठोपपत्तेः । शुद्धद्रव्यस्य स्वपरद्रव्यवस्था कथम् ? तस्य सकलद्रव्यक्षेत्रकालभावात्मकत्वात्,
- अष्टसहस्त्रीतात्पर्यविवरणम्
ऽवच्छिन्नत्वप्रतीतेः सार्वजनीनत्वात्, केनचिन्नयेन स्वरूपादेः स्वरूपतोऽवच्छेदकत्वं निर्णीयैवास्तित्वादिप्रवृत्तेरनवस्थाया अभावाद्, अन्यथा शाखावच्छेदेन कपिसंयोगप्रत्ययोऽपि दुरुपपाद: स्यात्, सम्पूर्णा परमाण्वाद्यवच्छिन्ना वा शाखाऽनवच्छेदिकेति ग्रहे शाखात्वावच्छेदेनावच्छेदकत्वग्रहासम्भवात्, प्रतिनियतावयवावच्छिन्नशाखात्वेन तदवच्छेदकत्वस्य च दुर्ग्रहत्वादित्यादिकमुपपादितं गोपालमतप्रमाथिन्यामनेकान्तव्यस्थायामस्माभिरिति तत एवावधार्यम् । स्वद्रव्यपरद्रव्यादेः सर्वत्र सदसत्त्वव्यवस्थापकत्वनियमभङ्गमाशङ्कते-ननु चेत्यादिना । षण्णामपि इति द्रव्यत्वमुद्देश्यतावच्छेदकमाह, द्रव्यत्वावच्छेदेन सत्त्वासत्त्वादिसप्तभङ्गीसाधने किं स्वद्रव्यं किं वा परम् ? तदवच्छिन्नभेदाप्रसिद्ध्या परत्वस्य तदभावे स्वत्वस्य दुर्वचत्वान्न किञ्चिदित्यर्थः । तत्रापि शुद्धं द्रव्यं स्वं सत्त्वावच्छेदकम्, अशुद्धं च परमसत्त्वावच्छेदकम्, अशुद्धशुद्धत्वे च भेदाभेदप्रधानव्यवहारनिश्चयनयसाक्षिकावखण्डोपाधिविशेषौ, प्रतिभासविशेषादपि तत्सिद्धेस्तत्तेदन्तादौ दर्शनादिति नानुपपत्तिरित्यभिप्रायवानाह-न, तेषामपीत्यादि । तथापि शुद्धद्रव्यत्वावच्छिन्नधर्मिताकसप्तभङ्गीस्थले का गतिः ? इत्याशङ्कते-शुद्धद्रव्यस्येत्यादि । तत्रापि स्वद्रव्यपरद्रव्यशब्दाभ्यां व्यापकत्वाव्यापकत्वोपलक्षणात्तदवच्छिन्नास्तित्वनास्तित्वादिघटितायाः सप्तभङ्गया नानुपपत्तिरित्याहसकलेत्यादि । उक्तप्रकारं शुद्धक्षेत्रकालयोरतिदिशति-एतेनेति । शुद्धभावस्तु शुद्धद्रव्येण
Page #380
--------------------------------------------------------------------------
________________
३४६
अष्टसहस्त्रीतात्पर्यविवरणम् तद्व्यतिरेकेणान्यद्रव्याद्यभावादिति चेत्, न सकलद्रव्यक्षेत्रकालभावानपेक्ष्य सत्त्वस्य, तदभावमपेक्ष्यासत्त्वस्य च व्यवस्थितेः सत्ता सप्रतिपक्षा इति वचनात् [ ] । एतेन सकलक्षेत्रस्य नभसोऽनाद्यनन्ताखिलकालस्य च सकलक्षेत्रकालात्मनः प्रतिनियतक्षेत्रकालात्मनश्च स्वपररूपत्वं निश्चितम् । अतः सदसत्त्वव्यवस्था । स्वरूपादिचतुष्टयादिति प्यखे कर्मण्युपसङ्ख्यानात् का [ ]। स्वरूपादिचतुष्टयमपेक्ष्य को नेच्छेत्सदेव सर्वमित्यर्थः । एतेन विपर्यासादिति व्याख्यातम् ।
[वस्तुनः स्वसत्त्वमेव परासत्त्वमतः स्वपररूपापेक्षया
सत्त्वासत्त्वे कथं स्यातामित्याशङ्कायाः समाधानम्] ननु स्वसत्त्वस्यैव परासत्त्वस्य प्रतीतेन वस्तुनि स्वपरूपादिसत्त्वासत्त्वयोर्भेदो, यतः प्रथमद्वितीयभङ्गौ घटेते, तदन्यतरेण गतार्थत्वात् । तदघटने च तृतीयादिभङ्गाभावात्कुतः सप्तभङ्गीति चेत्, न, स्वपररूपादिचतुष्टयापेक्षाया स्वरूपभेदात्सत्त्वासत्त्वयोरेकवस्तुनि भेदोपपतेः, तयोरभेदे स्वरूपादिचतुष्टयापेक्षयेव पररूपादिचतुष्टयापेक्षयापि सत्त्वप्रसङ्गात्, तदपेक्षयेव स्वरूपाद्यपेक्षयापि वासत्त्वप्रसक्तेः । न चापेक्षाभेदात् क्वचिद्धर्मभेदप्रतीतिर्बाध्यते, बदरापेक्षया बिल्वे स्थूलत्वस्य मातुलिङ्गापेक्षया सूक्ष्मत्वस्य च प्रतीतेर्बाधकाभावात् । सर्वस्यापेक्षिकस्यावास्तवत्वे नीलनीलतरादेः सुखसुखतरादेश्चावास्तवत्वापत्तेविशदविशदतरादिप्रत्यक्षस्यापि कुतस्तात्त्विकत्वं यतो न संविदद्वैतप्रवेशः ? स चायुक्त एव, तद्व्यवस्थापकाभावात् । ततः
(भा०) स्यात्सदसदात्मकाः पदार्थाः सर्वस्य सर्वाकरणात् । न हि
अष्टसहस्रीतात्पर्यविवरणम्
गतार्थ एव, स्वरूपादिचतुष्टयादित्यत्र ल्यब्लोपे पञ्चमी [अष्टाध्यायी १.४.३२ वार्तिकम्] इत्यभिप्रायमाविष्करोति-स्वरूपादीत्यादि । व्याख्यातमिति- विपर्यासादित्यत्रापि विपर्यासमपेक्ष्येत्येवार्थ इति भावः । आपेक्षिकस्य तुच्छत्वे बाधकमाह-सर्वस्येत्यादि । तथा च भावानां परस्परमुत्कर्षापकर्षाभ्यामन्ततः षड्गुणहानिवृद्धिशालित्वेन भावाभावयोश्च परस्परवैलक्षण्येनापेक्षिकतया तुच्छत्वात्तत्त्वोपप्लवे मध्यमसंविन्मात्रे विश्रान्तिः स्यात्, सा च बहुधा दूषितेति व्यवहारतः केचिदर्था निरपेक्षाः केचिच्च सापेक्षा अनुभवबलेनैव श्रद्धेयाः, तथैव पदार्थवैचित्र्यस्य व्यवस्थितत्वात । तदवदाम भाषारहस्यप्रकरणे
Page #381
--------------------------------------------------------------------------
________________
प्रथमो भाग: [ परि० १ - का० १५ ]
३४७
पटादयो घटादिवत्क्षीराद्याहरणलक्षणामर्थक्रियां कुर्वन्ति घटादिज्ञानं वा । तदुभयात्मनि दृष्टान्तः सुलभः ।
सर्वप्रवादिनां स्वेष्टतत्त्वस्य स्वरूपेण सत्त्वेऽनिष्टरूपेणासत्त्वे च विवादाभावात् तस्यैव च दृष्टान्ततोपपत्तेः ।
[एकस्मिन् वस्तुनि सत्त्वासत्त्वधर्मौ परस्परविरुद्धौ स्तः कथं स्यातामस्य विचारः ]
ननु चैकत्र वस्तुनि सत्त्वमसत्त्वं च युक्तिविरुद्धं, परस्परविरुद्धयोर्धर्मयोरेकाधिकरणत्वायोगात्, शीतोष्णस्पर्शवद्भिन्नाधिकरणत्वप्रतीतेरिति चेत्, न तयोः कथञ्चिदर्पितयोर्विरुद्धत्वासिद्धेस्तथा प्रतिपत्तिसद्भावाच्च ।
( भा०) शाब्देतरप्रत्यययोरेकवस्तुविषययोरेकात्मसमवेतयोः कारण
अष्टसहस्त्रीतात्पर्यविवरणम्
ते होंति परावेक्खा वंजयमुहदंसिणो त्ति ण य तुच्छा । दिट्ठमिणं वेचित्तं सरावकप्पूरगंधाणं ॥ इति, [३०]
तत्त्वतस्तु सामान्यदृष्ट्या सर्वे निरपेक्षा विशेषदृष्ट्या च सर्वे सापेक्षा इति व्यापकोऽनेकान्त एव विजयते, व्यञ्जनपर्यायैः सदृशानामप्यर्थपर्यायैर्वैसदृश्यस्य शास्त्रसिद्धत्वात् । तदाह प्रवचनोपनिषद्वेदी महावादी सिद्धसेनः
परपज्जवेहिं असरिसगमेहिं णियमेव णिच्चमवि णत्थि ।
सरिसेहिं पि वंजणओ अस्थि ण पुणत्थपज्जाए ॥१॥ इति, [सम्मति० ३.५]
कथञ्चिदर्पितयोः=स्वपररूपाभ्यां विवक्षितयोः, तथाप्रतिपत्तिसद्भावाच्च तादृशयोस्तयोरेकाधिकरणत्वधीसद्भावाच्च, न च दृष्टेऽनुपपन्नं नाम, भिन्नस्वभावयोरप्येकत्वं दृष्टान्तेन प्रसिद्धेनोपदर्शयति-शाब्देतरेत्यादि । स्पष्टास्पष्टविषयतया भिन्नस्वभावत्वेन सिद्धयोः प्रत्यक्षशाब्दबोधयोर्यथैकविषयत्वमेकद्रव्याश्रयत्वं चाविरुद्धं तथा सत्त्वासत्त्वयोरेकाश्रयत्वमपीति
१. छाया - ते भवन्ति परापेक्षा व्यञ्जकमुखदर्शिन इति न च तुच्छाः । दृष्टमिदं वैचित्र्यं शरावकर्पूरगन्धयोः ॥
=
२. छाया -
परपर्यवैरसदृशगमैर्नियमेन नित्यमपि नास्ति । सदृशैरपि व्यञ्जनः तोऽस्ति न पुनरर्थपर्यायैः ॥
Page #382
--------------------------------------------------------------------------
________________
३४८
अष्टसहस्रीतात्पर्यविवरणम् विशेषवशात्परिवृत्तात्मनोः स्वभावभेदेऽपि कथञ्चिदेकत्वमस्त्येव, विच्छेदानुपलब्धेः ।
न हि शाब्दप्रत्यक्षवेदनयोरस्पष्टेतरप्रतिभासनस्वभावभेदोऽसिद्धः, प्रतीत्यपह्नवप्रसङ्गात् । नापि तयोरेकवस्तुविषयत्वमेकद्रव्याश्रयत्वं चासिद्धं, तत्रानुसन्धानप्रत्ययसद्भावात्, यदेव मया श्रुतं तदेव दृश्यते, य एवाहमश्रौषं स एव पश्यामीति प्रतीतेर्बाधकाभावात् । तयोर्द्रव्यात्मनैकत्वमस्त्येव, विच्छेदस्यानुपलक्षणात् । ननूपादानोपादेयक्षणयोस्तद्भावादेवानुसन्धानसिद्धेविच्छेदानपुलम्भेऽपि नैकत्वसिद्धिः, एकसन्तानत्वस्यैव सिद्धेः, आत्मद्रव्यस्याभावादिति चेत्, न तदभावे तयोरुपादानोपादेयतानुपपत्तेः ।
__ (भा०) उपादानस्य कार्यकालमात्मानं कथञ्चिदनयतश्चिरतरनिवृत्ताविवाविशेषात्कार्योत्पत्तावपि व्यपदेशानुपपत्तेस्तादृशां स्वरूपैकत्वमस्त्येव ।
न च सव्येतरविषाणवत्सर्वथा समानकालतोपादानोपादेययोर्यतस्तद्भावो
- अष्टसहस्त्रीतात्पर्यविवरणम्
तात्पर्यार्थः । न च अध्यक्षशाब्दविषयत्वविरोधः कालभेदेन परिहरणीयः, एककालेऽपि चित्रसंवित्तौ नीलतदितरविषयत्वविरोधपरिहारस्य प्रतीत्येकशरणत्वादिति प्रतिपत्तव्यम् । भावाभावयोविरोधस्यापि तत्तत्प्रतियोगिगर्भत्वेन विशिष्य विश्रान्तत्वाज्जात्यन्तरे वस्तुनि तदेकदेशयोः सत्त्वासत्त्वयोरविरोधकल्पन एव लाघवमिति पुनरस्मदीयो मनीषोन्मेषो नियरहस्यादौ । विच्छेदानुपलम्भेऽपीति अत्र सादृश्यदोषादिति हेतुरुह्यः, तदभावे आत्मद्रव्याभावे, तयो: शाब्देतरप्रत्यययोः, कथञ्चिदुपादानोपादेयानुगतधर्मेण, तेन दध्युत्पत्तिकाले दुग्धत्वरूपेण दुग्धानन्वयात्तयोर्नोपादानोपादेयभावानुपपत्तिः । यद् द्रव्यं यद् द्रव्यध्वंसजन्यं तत्तदुपादानोपादेयमित्यपेक्षया च तत्तदुपादेयमिति व्याप्तिरेव लघीयसी । इयान् परं विशेषः, परेषां समवायसम्बन्धावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारणताशालित्वमुपादानकारणत्वम्, अस्माकं च तादात्म्यसम्बन्धावच्छिन्नकार्यतानिरूपितस्वध्वंसत्वसम्बन्धावच्छिन्नकारणताशालित्वं तदिति । व्यपदेशानुपपत्तेः अस्येदमिति परिणामपरिणामिभावसम्बन्धव्यवहारानुपपत्तेरित्यर्थः । तादृशाम्= उपादानोपादेयभूतानाम्, स्वरूपैकत्वम् = एकद्रव्यतयाऽभेदः । अभेदे उपादानोपादेयभावविरोधमाशङ्क्य परिहरति-न चेत्यादिना मननाद् इत्यन्तेन । तदेव द्रढयति-भाष्ये विशेषापेक्षया तु इत्यादिना । विरोधस्य सहानुपलम्भलक्षणत्वादिति एकज्ञान
Page #383
--------------------------------------------------------------------------
________________
३४९
प्रथमो भाग: [परि०१-का. १५] विरुद्ध्येत, द्रव्यसामान्यापेक्षया तयोरेकत्वमिति मननात् ।
(भा०) विशेषापेक्षया तु नास्त्येव तादृशामेकत्वम् । (भा०) न हि पौरस्त्यः पाश्चात्यः स्वभावः पाश्चात्यो वा पौरस्त्यः ।
नन्वेवमेकत्वं मा भूत् पूर्वापरपरिणामानां, क्रमस्यैवावस्थानादक्रमस्य तद्विरुद्धत्वादिति न मन्तव्यं यस्माद्
(भा०) निरपेक्षस्तत्र क्रमोऽपि प्रतिभासविशेषवशात्प्रकल्प्येत तदेकत्वादक्रमः किन्न स्यात ? ।
प्रतिभासैकत्वेऽपि तदक्रमानुपगमे प्रतिभासविशेषवशात्क्रमः कथमभ्युपगमार्हः स्यात् ? सर्वस्य यथाप्रतिभासं वस्तुनः प्रतिष्ठानात्, प्रतिभासमानयोः क्रमाक्रयोविरोधानवतरणाद्विरोधस्य सहानुपलम्भलक्षणत्वात् । न च स्वरूपादिना वस्तुनः सत्त्वे तदैव पररूपादिभिरसत्त्वस्यानुपलम्भोऽस्ति, येन सहानवस्थानलक्षणो विरोधः शीतोष्णस्पर्शविशेषवत्स्यात् । परस्परपरिहारस्थितिलक्षणस्तु विरोधः सहैकत्राम्रफलादौ रूपरसयोरिव सम्भवतोरेव सदसत्त्वयोः स्यात्, न पुनरसम्भवतोः सम्भवदसम्भवतोर्वा । एतेन वध्यघातकभावोऽपि विरोधः फणि-नकुलयोरिव बलवदबलवतोः प्रतीतः सत्त्वासत्त्वयोरशङ्कनीयः कथितः, तयोः समानबलत्वादित्येतदने प्रपञ्चयिष्यते । [एकस्मिन्नेव वस्तुनि सामान्यविशेषसदसदाधिधर्माः परस्परविरुद्धाः सन्तोऽपि
निरङ्कुशाः सम्भवतीति जैनाचार्याः कथयन्ति] (भा०) तदेकानेकाकारमक्रमक्रमात्मकमन्वयव्यतिरेकरूपं सामान्यविशेषात्मकं सदसत्परिणामं स्थित्युत्पत्तिविनाशात्मकं स्वप्रदेशनियतं
- अष्टसहस्त्रीतात्पर्यविवरणम् प्रतिबन्धकज्ञानविषयत्वमपरस्य विरोधो, न च क्रमाक्रमयोरयमस्ति, एकत्र पर्यायरूपेण क्रमज्ञानकाल एव द्रव्यरूपेण क्रमस्य ज्ञायमानत्वादित्यर्थः । इत्थमेव सत्त्वासत्त्वयोरपि न विरोध इत्याह-न चेत्यादिना । सम्भवतोरेवेति नियमागर्भभिन्नाधिकरणत्वपरस्परपरिहार: स्थितिपदार्थ इत्यभिप्रायेणेदम, भावाभावरूपत्वमेव परस्परपरिहारत्वमित्यर्थे तु तद्विरोधस्य
Page #384
--------------------------------------------------------------------------
________________
३५०
अष्टसहस्रीतात्पर्यविवरणम् स्वशरीव्यापिनं त्रिकालगोचरमात्मानं परं वा कथञ्चित्साक्षात्करोति परोक्षयति वा केशादिविवेकव्यामुग्धबुद्धिवत् । तादृशैकचैतन्यं सुखादिभेदं वस्तु स्वतोऽन्यतः सजातीयविजातीयाद्विविक्तलक्षणं बिभर्ति । अन्यथानवस्थानात् क्वचित्कथञ्चिदनियमः स्यात् ।
सर्वो हि लौकिक: परीक्षकश्च तावदेकमक्रमात्मकमन्वयरूपं सामान्यात्मकं सत्परिणामं स्थित्यात्मकमात्मानं परं वा बहिरर्थसन्तानान्तराख्यं द्रव्यापेक्षया साक्षात्करोति, लिङ्गशब्दादिना परोक्षयति वा, भावापेक्षया पुनरनेकाकारं क्रमात्मकं व्यतिरेकरूपं विशेषात्मकमसत्परिणाममुत्पत्तिविनाशात्मकं, क्षेत्रापेक्षया स्वप्रदेशनियतं निश्चयनयतः, स्वशरीरव्यापिनं व्यवहारनयतः, कालापेक्षया त्रिकालगोचरम् । कथं पुनरीदृशमात्मानं परं वा साक्षात्करोति कथं वा परोक्षयति द्रव्याद्यपेक्षया ? इति चेद्, उच्यते । साक्षात्करणयोग्यद्रव्याद्यात्मना मुख्यतो व्यवहारतो वा विशदज्ञानेन साक्षात्करोति परोक्षज्ञानयोग्यद्रव्याद्यात्मना अनुमानादिप्रमाणेनाविशदेन परोक्षयति ।
प्रत्यक्षं विशदं ज्ञानं मुख्यसंव्यवहारतः ।
परोक्षं शेषविज्ञानं प्रमाणे इति सङ्ग्रहः ॥ [लघीयस्त्रय-३] इति सक्षेपतः प्रत्यक्षपरोक्षयोरेव वस्तुपरिच्छित्तौ व्यापारवचनात् । कथं तर्हि केशादिविवेकव्यामुग्धबुद्धिः पुरुषो दृष्टान्तः समः स्यादिति चेत्, केशमशकमक्षिकादिप्रतिभासात्मना सत्त्वपरिणामं साक्षात्कुर्वन् विवेकाद्यात्मना च कुतश्चिदनु मिन्वन्नुपशृण्वन्वा परोक्षयन्, अविवेकादिव्यामोहप्रतिभासात्मना चासत्त्वपरिणामं कथञ्चित्तु साक्षात्कुर्वन् परोक्षयंश्च सम एव स दृष्टान्तः, तथा
- अष्टसहस्रीतात्पर्यविवरणम्
विशिष्य विश्रान्तत्वादवच्छेदकभेदाश्रयणाद्वा परिहारः कार्य इति भावनीयम् । ननु तैस्तैः पर्यायैरात्मद्रव्यस्य साक्षात्करणे परोक्षीकरणे वा केशादिविवेकव्यामुग्धबुद्धिः पुरुषो दृष्टान्ततया भाष्यकृतोक्तः कथं सङ्गच्छते? भ्रमज्ञाने साध्य एव व्यामुग्धबुद्धेदृष्टान्तत्वसम्भवादिति आशङ्कतेकथं तीति । केशमशकाद्यनुगतसामान्येन सत्त्वं साक्षात्कुर्वन् भेदरूपविवेकात्मना च परोक्षयन् तद्भिन्नरूपेण चासत्त्वं साक्षात्कुर्वन् परोक्षयन् वा पुरुषो दृष्टान्ततयोक्त इति न वैषम्यमित्याशयवान् समाधत्ते-केशेत्यादि । तथा च केशादौ विवेके चार्थात्तदीये व्यामुग्धा=परावर्त्तमानसामान्यविशेषाकारतया विविच्यानिष्ठिता बुद्धिर्यस्य तद्वदित्यक्षरार्थो वाच्यः । ननु चेति निश्चये,
Page #385
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि० १ - का० १६ ]
३५१
वैषम्याभावात् । ननु च तद्वस्तु चैतन्यमेवैकमक्रमादिरूपं बिभर्ति, न पुनः सुखादिभेदमनेकाकारं क्रमाद्यात्मकं, सजातीयाच्चेतनवस्तुनो विजातीयाच्चाचेतनवस्तुनो विविक्तस्वरूपम् । तमेव वा बिभर्ति तादृशं न पुनश्चैतन्यं तत्त्वतः इत्यभ्युपगमयोरेकतरानवस्थानेऽन्यतरस्याप्यनवस्थानादुभयानवस्थितिप्रसङ्गात् क्वचिदभ्युपगते रूपे कथञ्चित्प्रत्यक्षादिप्रकारेण स्वाभ्युपगमादिप्रकारेण च नियमासम्भवात् । सूक्तमीदृशं ' न चेत् न व्यवतिष्ठते' इति ॥१५॥
तदेवं प्रथमद्वितीयभङ्गौ निर्दिश्य तृतीयादिभङ्गान्निर्दिशन्ति भगवन्तः
क्रमार्पितद्वयाद् द्वैतं सहावाच्यमशक्तितः । अव्यक्तव्योत्तराः शेषास्त्रयो भङ्गाः स्वहेतुतः ॥१६॥
क्रमार्पितात्स्वपररूपादिचतुष्टयद्वयात्कथञ्चिदुभयमिति द्वैतं वस्तु, द्वाभ्यां सदसत्त्वाभ्याम् इतस्यैव द्वीतत्वात्, स्वार्थिकस्याणो विधानाद् द्वैतशब्दस्य सिद्धेः । स्वपररूपादिचतुष्टयापेक्षया सह वक्तुमशक्तेरवाच्यं तथाविधस्य पदस्य वाक्यस्य वा कस्यचिदभिधायकस्यासम्भवात् । सदसदुभयभङ्गास्त्ववक्तव्योत्तराः शेषाः पञ्चमषष्ठसप्तमाः, चतुर्भ्योऽन्यत्वात् । ते च स्वहेतुवशान्निर्देष्टव्याः । तद्यथाकथञ्चित्सदवक्तव्यमेव, स्वरूपादिचतुष्टयापेक्षत्वे सति सहवक्तुमशक्तेः । कथञ्चिदसदवक्तव्यमेव, पररूपादिचतुष्टयापेक्षत्वे सति सह वक्तुमशक्तेः । कथञ्चित्सदसदवक्तव्यमेव स्वपररूपादिचतुष्टयापेक्षत्वे सति सह वक्तुमशक्तेः सदसदुभयत्वधर्मेष्वन्यतमापाये वस्तुन्यवक्तव्यत्वधर्मानुपपत्तेः । तेषां तत्र सतामप्यविवक्षायां केवलस्यावक्तव्यत्वस्य भङ्गस्य वचनाद्विरोधानवकाशः ।
[प्रत्येकवस्तु स्वपरारूपाभ्यामेव सदसद्रूपौ नान्यप्रकारेण कथमेतत् ? ]
ननु च क्रमार्पितद्वयात्तावद् द्वैतं वस्तु । तत्तु स्वरूपादित एव सत् पररूपादित एवासत्, न पुनस्तद्विपर्ययादिति कुतोऽवसितमिति चेत्, उच्यते,
अष्टसहस्त्रीतात्पर्यविवरणम्
न तु पूर्वपक्षे । तद्वस्तुत्व इत्यादिना वस्तुस्थितेरेव वक्ष्यमाणत्वात्, क्रमाक्रमोभयनियमसाधनान्यतरनियमखण्डनाभ्यां वस्तुव्यवस्थयैव न चेत् न व्यवतिष्ठत इत्यस्य सूक्ततायाः
Page #386
--------------------------------------------------------------------------
________________
३५२
अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) स्वपररूपाद्यपेक्षं सदसदात्मकं वस्तु, न विपर्यासेन, तथादर्शनात् ।
सकलजनसाक्षिकं हि स्वरूपादिचतुष्टयापेक्षया सत्त्वस्य पररूपादिचतुष्टयापेक्षया चासत्त्वस्य दर्शनं, तद्विपरीतप्रकारेण चादर्शनं वस्तुनीति तत्प्रमाणयता तथैव वस्तु प्रतिपत्तव्यं, अन्यथा प्रमाणप्रमेयव्यवस्थानुपपत्तेः ।
__ (भा०) कल्पयित्वापि तज्जन्मरूपाध्यवसायान् स्वानुपलम्भव्यावृत्तिलक्षणं दर्शनं प्रमाणयितव्यम् । तथा हि- बुद्धिरियं यया प्रत्यासत्त्या कस्यचिदेवाकारमनुकरोति तया तमेवार्थं नियमेनोपलभेत नान्यथा, पारम्पर्यपरिश्रमं परिहरेत् ।
ननु तज्जन्मतद्रूपतदध्यवसायेषु सत्सु नीलादौ दर्शनं प्रमाणमुपलभते, तदन्यतमापाये तस्य प्रमाणत्वाप्रतीतेरिति चेत्, न तदभावेऽपि स्वानुपलम्भव्यावृत्तिसद्भावादेव प्रमाणत्वप्रसिद्धः, तज्जन्मनश्चक्षुरादिभिर्व्यभिचारात्तद्रूपस्य सन्तानान्तरसमानार्थविज्ञानेनानेकान्तात्, तद्वयलक्षणस्य समानार्थसमनन्तरप्रत्ययेनानैकान्तिकत्वात् ।
(भा०) त्रिलक्षणस्यापि विभ्रमहेतुफलविज्ञानैर्व्यभिचारात् ।
कामलाद्युपहतचक्षुषः शुक्ले शङ्के पीताकारज्ञानादुत्पन्नस्य तद्रूपस्य तदाकाराध्यवसायिनोऽपि ज्ञानस्य स्वसमनन्तरप्रत्यये प्रमाणत्वाभावात् ।
- अष्टसहस्त्रीतात्पर्यविवरणम्
समर्थयिष्यमाणत्वादिति बोध्यम् ॥१५।।
भाष्ये त्रिलक्षणस्यापीति तदुत्पत्तितदाकारतदवधारणत्वरूपलक्षणत्रयस्यापीत्यर्थः । विभ्रमहेतुफलविज्ञानैरिति विभ्रमा हेतवो येषां तादृशानि यानि फलीभूतानि विज्ञानानि तैरित्यर्थः । वृत्तौ स्वसमनन्तरप्रत्यय इति, शङ्के पीताकारज्ञान इत्यर्थः । यद्यपि तत्र तस्य ज्ञानाकारांशे प्रमाणत्वमव्याहतमेव, रजतांशे तु तज्जन्माभावादेवाप्रामाण्यम्, तथापि तज्जन्मतद्रूपतदध्यवसायानां प्रामाण्यप्रयोजकत्वे गौरवात्तदध्यवसायित्वस्यैव लाघवात् प्रामाण्यप्रयोजकत्वं युक्तम्, इत्थं च दर्शनमात्रं न प्रमाणम्, किन्तु स्वपररूपानुगमव्यावृत्त्यध्यवसायि ज्ञानमेवेति तदनुरोधेन वस्तूभयात्मकं स्वीकर्तव्यमित्यत्र तात्पर्यम् ।
Page #387
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. १६]
३५३ (भा०) तदनभ्युपगमे स्वाभ्युपगमासिद्धेः किंसाधनः परमुपालभेत ।
यतोऽवश्यं दर्शनं नियतस्वविषयानुपलम्भव्यावृत्तिलक्षणं परं विषयानुपलम्भात्मकं न प्रमाणयेत् । न हि स्वयं प्रमाणानभ्युपगमे स्वार्थप्रतिपत्तिः । न चाप्रतिपन्नमर्थं परस्मै प्रतिपादयितुमीशः परमुपालब्धुं वा, पराभ्युपगतस्यापि प्रमाणस्य प्रतिपत्तेरयोगात्, पराभ्युपगमान्तरात्तत्प्रतिपत्तावनवस्थाप्रसङ्गात् ।
(भा० ) तदेकोपलम्भनियमः स्वपरलक्षणाभ्यां भावाभावात्मानं प्रसाधयति । तदभावे न प्रवर्तेत नापि निवर्तेत प्रमाणान्तरवत् ।
स्वस्यार्थस्य चैकस्यैवोपलम्भो हीतरस्यानुपलम्भः, तस्य विधायक एवान्यस्य निषेधकः, तत्र प्रवर्तक एव वा परत्र निवर्तकः, इति तदेकोपलम्भनियमात्कस्यचित् प्रवृत्तिनिवृत्ती सिद्धयतः । तदभावे सन्तानान्तरप्रमाणादिवत् प्रवर्तकान्न कश्चित्प्रवर्तेत निवर्तकाच्च न निवर्तेत, अप्रमाणात्प्रवृत्तौ निवृत्तौ वा प्रमाणान्वेषणस्य वैयर्थ्यादतिप्रसङ्गाच्च । ततः प्रमाणं प्रत्यक्षमन्यद्वा स्वार्थोपलम्भात्मना परार्थानुपलम्भात्मना च क्रमापितेन सदसदात्मकं सिद्धम् तद्वत्प्रमेयमपि इति सर्वं वस्तु क्रमार्पितद्वयाद् द्वैतं को नेच्छेत् ? सर्वस्य विप्रतिपत्तुमशक्तेरनिच्छतोऽपि तथा संप्रत्ययात् ।
[सर्वं वस्त्ववक्तव्यं कथं ? इति प्रश्ने सति जैनाचार्या उत्तरयन्ति
___ यत् प्रत्येकः शब्द एकमेवार्थं ब्रूते न चानेकान् ।] कथमवक्तव्यं सर्वमिति चेत्, उच्यते ।
(भा०) निष्पर्यायं भावाभावावभिधानं नाञ्जसैव विषयीकरोति, शब्दशक्तिस्वाभाव्यात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
तदनभ्यपगमे=समनन्तरप्रत्ययप्रामाण्यानभ्यपगमे । किंसाधनः=किंप्रमाणकः । तदेकोपलम्भनियमः तस्य दर्शनस्यैकोपलम्भे स्वलक्षणपरिच्छेदे संसर्गतया प्रकारतया वा परलक्षणव्यावृत्तिध्रौव्यम् । अवक्तव्यत्वभङ्गमुपदर्शयितुमुपमक्रमते-कथमवक्तव्यमित्यादिना भाष्ये । निष्पर्यायंक्रमरहितम, अभिधानं वचनं, भावाभावौ, अञ्जसैव परमार्थेनैव, न विषयीकरोति शब्दशक्तिस्वाभाव्यात एकं पदमेकया वृत्त्यैकमेवार्थं बोधयतीति स्वभाव
Page #388
--------------------------------------------------------------------------
________________
३५४
अष्टसहस्त्रीतात्पर्यविवरणम् सर्वस्य पदस्यैकपदार्थविषयत्वप्रसिद्धः सदिति पदस्यासदविषयत्वात् । असदिति पदस्य च सदविषयत्वात्, अन्यथा तदन्यतरपदप्रयोगसंशयात्, गौरिति पदस्यापि दिगाद्यनेकार्थविषयतया प्रसिद्धस्य तत्त्वतोऽनेकत्वात्सादृश्योपचारादेव तस्यैकत्वेन व्यवहरणादन्यथा सर्वस्यैकशब्दवाच्यत्वापत्तेः प्रत्येकमप्यनेकशब्दप्रयोगवैफल्यात् । यथैव हि शब्दभेदाद् ध्रुवोऽर्थभेदस्तथार्थभेदादपि शब्दभेदः सिद्ध एव, अन्यथा वाच्यवाचकनियमव्यवहारविलोपात् । एतेनैकस्य वाक्यस्य युगपदनेकार्थविषयत्वं प्रत्याख्यातं, स्यात्सदसदेव सर्वं स्वपररूपादिचतुष्टयाभ्यामिति वाक्यस्यापि क्रमार्पितोभयधर्मविषयतयोररीकृतस्योपचारादेवैकत्वाभिधानात् । तत्रोभयप्राधान्यस्य क्रमशो विवक्षितस्य सदसच्छब्दाभ्यां द्वन्द्ववृत्तौ तद्वाक्ये वा स्वपदार्थप्रधानाभ्यामभिधानाद्वा न दोषः, सर्वस्य वाक्यस्यैकक्रियाप्रधानतयैकार्थ
- अष्टसहस्त्रीतात्पर्यविवरणम् – कल्पनादिति योजनार्थः, तदाह वृत्तिकृत्-सर्वस्येत्यादि । पदस्वभावं वाक्येऽप्यतिदिशतिएतेनेति । उपचारादेवैकत्वाभिमननादिति क्रमार्पितोभयविषयत्वं तत्र पदद्वयस्यैकत्वं तु सामूहिकबुद्धिविषयतयेति न पदस्वभावभङ्ग इत्यर्थः । ननु एवं तृतीयभङ्गो विलुप्येत, द्वाभ्यामेव तदर्थसिद्धेः । न च द्वयोर्भङ्गयो.कवाक्यत्वं तृतीयस्य तु तदस्तीति विशेषः, अर्थैकत्वं विनैकवाक्यत्वस्यैवाभावात् । अथैकत्वादेकं वाक्यं साकाङ्क्ष चेद्विभागे स्यात् [मीमांसासूत्र ३.१६.४] इत्यनादिमीमांसाप्रसिद्धः । न च वाक्यस्य तदर्थस्य चोपचारादेवैकत्वाभिमननादत्र विशेषो वक्तुं शक्यः, उपचारबीजस्यैव विचारणीयत्वादिति अस्वरसादाह 'तदुभयप्राधान्यस्येति ।
॥ पदानां उभयपदार्थप्राधान्यबोधकतावादः ॥ द्वन्द्ववृत्तौ रतद्वाक्याद्वेति वाशब्दस्येवार्थत्वाद् द्वन्द्ववृत्ताविव तृतीयभङ्गवाक्यादित्यर्थः, इत्थं च द्वन्द्ववृत्तौ यथा पदानां प्रधानैकस्वार्थबोधकत्वं पदविधया; वृत्तिविधया तु साहित्यसमाहारादिरूपैकोभयपदार्थप्राधान्यबोधकत्वं तथात्रापि पदवाक्यविधया नैकार्थत्वभङ्ग इति प्रत्येकद्वयातिरिक्तोभयप्राधान्यरूपार्थभेदात्तृतीयभङ्गोऽतिरिच्यत एवेति सिद्धम् । उभय प्राधान्यं चोभयकर्तकैकक्रियाप्राधान्यादित्याह-सर्वस्येति अत्र च न हि क्रियारहितं
१. कत्वाभिधानादिति अष्टसहस्रीसम्मतः पाठः । २. तत्रोभय इति अष्टसहस्रीसम्मतः पाठः । ३. तद्वाक्ये वेति अष्टसहस्रीसम्मतः पाठः ।
Page #389
--------------------------------------------------------------------------
________________
प्रथमो भाग: [ परि० १ - का० १६ ]
विषयत्वप्रसिद्धेः, सिद्धमेकार्थनिवेदनशक्तिस्वभावत्वं शब्दस्य,
(भा०) वचनसूचनसामर्थ्यविशेषानतिलङ्घनात् ।
सदिति शब्दस्य हि सत्त्वमात्रवचने सामर्थ्यविशेषो, नासत्त्वाद्यनेकधर्मवचने, स्यादिति शब्दस्य च वाचकस्यानेकान्तमात्रवचने सामर्थ्यविशेषो, न पुनरेकान्तवचने तस्यैव द्योतकस्याविवक्षिताशेषधर्मसूचने सामर्थ्यविशेषो, न पुनर्विवक्षितार्थवचने, तद्वाचकशब्दप्रयोगवैयर्थ्यप्रसक्तेः । न चैवं विधिवचनसूचनसामर्थ्यविशेषमतिक्रम्य अष्टसहस्त्रीतात्पर्यविवरणम्
३५५
वाक्यमस्ति, क्रियाप्रधानमाख्यातम् इति वैयाकरणनये स्यात् सत् स्यादसदेव च सर्वमस्तीत्यतोऽस्तित्वानुकूला भावना कथञ्चित् सदसदुभयसर्वाश्रयकाऽभिनेति धात्वर्थविशेष्यकः शाब्दो बोधो, न्यायनयेन च नामार्थविशेष्यक एव, क्रियारहितस्यापि वाक्यस्याश्रयणादिति विशेषः । इदं तु ध्येयम्, सम्भूयोच्चारणं तावच्छाब्दबोधकारणं मणिकृदादिभिरपीष्यत एव, तच्च पदानां परस्परसहकारेणैकमुख्यविशेष्यताकान्वयबोधतात्पर्यज्ञानमेकमुख्यविशेष्यताकान्वयबोधजनकत्वज्ञानं वा एतज्ज्ञानस्य हेतुत्वेऽन्वयव्यतिरेकानुविधायित्वस्यैव मानत्वात्, गङ्गायां घोष इत्यादौ सम्भूयैकार्थबोधकत्वज्ञानानुरोधादेव लक्षणास्वीकारात्, अन्यथा गङ्गायां जलं तीरे घोष इति पदद्वयाध्याहारादेवोपपत्तौ लक्षणाया अनतिप्रयोजनत्वापत्तेः, अत एव च 'दण्डी चैत्रो द्रव्यं नीलं घटमानय' इत्यादौ 'चैत्रो न दण्डी घटो न नील' इत्यादिबाधधीकाले ‘चैत्रो द्रव्यं घटमानय' इत्यादिशाब्दबोधानुदयः, सम्भूयोच्चारितत्वेन गृहीतानामेकं विनाऽन्यस्याबोधकत्वात्, तत्तदानुपूर्वीज्ञानस्य तादृशतादृशविषयकशाब्दत्वावच्छिन्नं प्रत्येव जनकत्वात्, तथा च तत्तत्पदार्थसंसर्गविशिष्टभावनाया एकत्वादेकक्रियाप्रधानार्थत्वं कर्तृद्वयस्य तुल्यवदेकक्रियान्वयित्वाच्च तदुभयप्राधान्यस्य क्रमशो विवक्षितस्याभिधानं शाब्दिकनयाश्रयिणामस्माकं मते सङ्गच्छते, क्रमशो विवक्षितत्वं ह्युभयपदोपस्थाप्योभयकर्तृकभावनान्वयबोधेच्छाविषयत्वम्, न तु क्रमिकशाब्दबोधद्वयेच्छाविषयत्वमिति बोधविशेषोद्देशात्तृतीयभङ्गस्य सार्थक्यमिति ।
वचनसूचनेति वचनं=वाचकत्वम्, सूचनं=द्योतकत्वम् । ननु सङ्केताधीनं शाब्दज्ञानमिति सह सदसत्त्वयोः कस्यचिच्छब्दस्य सङ्केतकरणात् कुतो न ततस्तद्बोधसम्भवाद्वक्तव्यत्वं स्याद् ? इत्याशङ्कते - स्यान्मतमित्यादिना । सञ्ज्ञाशब्दवदिति यथा
१....... सम्भूयोच्चारणं च शाब्दज्ञानमात्रे कारणानि । (तत्त्वचिन्तामणिशब्दखण्डे शब्दप्रामाण्यवादः)
Page #390
--------------------------------------------------------------------------
________________
३५६
अष्टसहस्त्रीतात्पर्यविवरणम् प्रवर्तमानः शब्दः प्रसिद्धवृद्धव्यवहारेषूलभ्यते यतो निष्पर्यायं भावाभावावभिदधीत । स्यान्मतं-'यथासङ्केतं शब्दस्य प्रवृत्तिदर्शनात्सह सदसत्त्वधर्मयोः सङ्केतितः शब्दस्तद्वाचको न विरुध्यते सजाशब्दवत्,' इति तदयुक्तं,
(भा०) सङ्केतानुविधानेऽपि कर्तृकर्मणोः शक्त्यशक्त्योरन्यतरव्यपदेशार्हत्वाद् अयोदारुवज्रलेखनवत् ।
न हि यथायसो दारुलेखने कर्तुः शक्तिस्तथा वज्रलेखनेऽस्ति, यथा वज्रलेखने तस्याशक्तिस्तथा दारुलेखनेऽपीति शक्यं वक्तुम् । नापि यथा दारुणः कर्मणोऽयसालेख्यत्वे शक्तिस्तथा वज्रस्यास्ति यथा वा वज्रस्य तत्राशक्तिस्तथा दारुणोऽपीति निश्चयः, क्वचित्कस्यचित्कर्तृकर्मणोः शक्त्योरशक्त्योश्च प्रतिनियततया व्यवस्थितत्वात् । तथा शब्दस्यापि सकृदेकस्मिन्नेवार्थे प्रतिपादनशक्तिर्न पुनरनेकस्मिन्, सङ्केतस्य तच्छक्तिव्यपेक्षया तत्र प्रवृत्तेः । सेनावनादिशब्दस्यापि नानेकत्रार्थे प्रवृत्तिः, करितुरगरथपदातिप्रत्त्यासत्तिविशेषस्यैकस्य सेनाशब्देनाभि
- अष्टसहस्त्रीतात्पर्यविवरणम् Tजैनेन्द्रव्याकरणे सदिति सञ्ज्ञाशब्दः सङ्केतविशेषवशात् शतृशानचयोस्तथा कश्चित्सह सदसत्त्वयोः कथं प्रतिपादको न स्यादित्यर्थः । तत्रापि प्रत्ययद्वयोत्पत्तेः क्रमेणैव सम्भवाद् बोधकतारूपशक्तेर्बोध्यबोधकभेदेन भिन्नत्वान्नानार्थशब्दस्थल इव बोध्यभेदे शब्दभेदकल्पनादुपचारेण तदेकत्वाभिमानान्न प्रागुक्तसिद्धिरित्याह-तदयुक्तमित्यादि । अन्यतरव्यपदेशार्हत्वादिति उपचारादुभयशक्तत्वाभ्युपगमेऽपि तत्त्वजिज्ञासायामेकतरशक्तत्वस्यैव तत्र वक्तुमुचितत्वादित्यर्थः ।
॥ शक्तिवादः ॥ (१) सङ्केतस्येति सङ्केतस्य तत्रार्थप्रतिपादने तच्छक्तिव्यपेक्षायास्तच्छक्तिसमाश्रयणाद्धेतोः प्रवृत्तेस्तस्याश्चैकार्थनियतत्वात् स्वातन्त्र्येण सङ्केतस्याहेतुत्वान्नैकदैकस्मादुभयप्रतिपत्तिरित्यर्थः । सेनावनादिस्थले व्यभिचारमाशङ्क्य निराकरोति-सेनेत्यादिना । अत्र यद्यपि प्रत्यासत्तिविशेषस्य सेनादिपदार्थत्वे तदाश्रयालाभः, आक्षेपात् तल्लाभोपगमे जातिशक्तिवादापत्तिः, सेनादिपदेन प्रत्यासत्त्या आश्रयस्यापि बोधोपगमे च एकं पदमेकमेवार्थं बोधयतीति नियमभङ्गात् सकृदुच्चरितमित्यादिन्यायाप्रामाण्यापत्तिः, तथापि सेनादिपदानां प्रत्यासत्तिविशेषस्य शक्यतावच्छेदकत्वात सकदच्चरितमित्यत्र सकविवरणस्यैकमेवेत्यस्यैकधर्मावच्छिन्नमेवेत्यर्थान्न कश्चिद्दोष इति भावनीयम् । अपरे तु सकृदुच्चरितमित्यत्र सकृदित्यस्यैकं वृत्ति
-
Page #391
--------------------------------------------------------------------------
________________
३५७
प्रथमो भागः [परि०१-का. १६] धानात् । वनयूथपङ्क्तिमालापानकग्रामादिशब्दानामप्येतेनैवानेकार्थप्रतिपादनपरत्वं प्रत्याख्यातम् ।
['वृक्षौ' इत्यादि शब्दाः द्विवृक्षादिकं कथं ब्रुवन्ति, अस्य विचार:] कथमेवं वृक्षाविति पदं द्वयर्थं वृक्षा इति च बह्वर्थमुपपद्यते इति चेत्,
अष्टसहस्त्रीतात्पर्यविवरणम्
विषयमेवेत्यर्थः, सेनादिपदार्थोऽपि प्रत्यासत्तिविशेषाश्रय एक एव सेनादिपदेन बोध्यते, तदन्यबोधने त्वावृत्तिरेवाश्रयणीया, अत एव नानार्थे श्लिष्टेऽनेककारकान्वितैकक्रियापदे घटं पटं वाऽऽनयेत्यादौ मुख्यलक्ष्योभयपरे च गङ्गायां घोषमत्स्यौ स्त इत्यादौ गङ्गादिपदे सकदच्चरिते एकदाऽनेकार्थतात्पर्यग्रहेऽपि नैकदोभयोर्बोधः किं त्वावत्त्यैवेति तत्र वाक्यभेदव्यवहारः, एकानुसन्धानादेवोभयार्थबोधे तद्विरोधस्य सर्वैकवाक्यतासिद्धत्वादिति आहः । एतन्मते नराः पचन्तीत्यादावुभयत्रैव सरूपेणैकशेषः । ततश्च पृथगुच्चरितनानापदानामनुसन्धानान्नानार्थबोधः, अक्षणाक्षं पश्यतीत्यादौ तु पदभेदान्न दोष इति मन्तव्यम् । चिन्तामणिकृतस्तु नात्राऽऽवृत्तिः, किं त्वेकदैवार्थबोधः, एकपदस्यैकानुसन्धाने उभयार्थतात्पर्यग्रहस्य यौगपद्येन वा तद्ग्रहस्यावृत्त्या निर्वाहासम्भवात्, सामान्यत उभयतात्पर्यग्रहे प्रथममस्यैव बोधो नान्यस्येति नियन्तुमशक्यत्वाच्च । गङ्गां पश्येत्यादावपि गङ्गापदस्य लक्ष्ये तात्पर्यग्रहे तस्यैव धीरित्यस्य निर्वाहाय नानार्थोपस्थितिकालीनैकार्थबोधे तदितरार्थतात्पर्यज्ञानस्य प्रतिबन्धकत्वकल्पनायां तु तदर्थतात्पर्यज्ञानस्योत्तेजकत्वं वाच्यम् । न चैवं गौरवम्, प्रामाणिकस्य तस्यादोषत्वात्, वाक्यभेदस्त्वर्थभेदात् । तदुक्तम्, अर्थक्यादेकं वाक्यम् इति, [ ] न च एकानुसन्धाने यौगपद्यान्तर्भावेन वा न वक्तुस्तात्पर्यम्, सकृदुच्चरित इत्यादिनियमेन बाधावतारादिति वाच्यम्, बाधितेऽपि क्वचिदिच्छोदयाद्विशेषदर्शनस्यासार्वत्रिकत्वात् सकृदित्यस्य क्रियाविशेषणत्वेन विशेषदर्शनस्यैवायोगाच्च इत्याहुः । एतन्मते तु प्रधानैकार्थमादायैवोक्तपदवाक्यस्वभावः समर्थनीयः ।
निष्कृष्टनयमनालोच्यापाततः शङ्कते-कथमेवमिति । निष्कृष्टनये तु वृक्षपदार्थे वृक्षत्वावच्छिन्ने द्विवचनाद् द्वित्वस्य बहुवचनाच्च बहुत्वस्यान्वयादनुपपत्तिरेव नास्तीति
१. तत्त्वचिन्तामणि: शब्दखण्डे तात्पर्यवादः ।।
२. सामान्यतो भ्युभयतात्पर्य इति ह० प्र० पाठः, तत्र सामान्यतोऽप्युभयतात्पर्य इति पाठः सम्भवति ।
Page #392
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम् केषाञ्चिदेकशेषारम्भात् परेषां स्वाभाविकत्वादभिधानस्येति सङ्गरामहे । तत्रैकशेषपक्षे द्वाभ्यामेव वृक्षशब्दाभ्यां वृक्षद्वयस्य, बहुभिरेव च वृक्षशब्दैर्बहूनां वृक्षाणामभिधानान्नैकस्य शब्दस्य सकृदनेकार्थविषयत्वं, शिष्टलुप्तशब्दयोः सारूप्यादभिधेयसाम्याच्चैकत्वोपचारादेकशब्दप्रयोगोपपत्तेः । स्वाभाविकत्वे त्वभिधानस्य, वृक्षशब्दो द्विबहुवचनान्तः स्वभावत एव स्वाभिधेयमर्थं द्वित्वबहुत्वविशिष्टमाचष्टे, तथा सामर्थ्यादन्यथा शब्दव्यवहारानुपपत्तेः । ननु च वृक्षा इति प्रत्ययवती प्रकृतिः पदम्,
अष्टसहस्त्रीतात्पर्यविवरणम्
३५८
मन्तव्यम् । केषाञ्चिदिति यैरेकशेषः स्वीक्रियते तन्मत इत्यर्थः । स चैकशेषः केषाञ्चिद् द्वन्द्वापवादः । न च द्वन्द्वः क्वचित् पदार्थभेदे क्वचिच्च पदार्थतावच्छेदकभेद इत्यत्र तद्विषयासम्भवो । न च प्रतिपाद्यभेद एवानुगतो द्वन्द्वनियामकः, एकघटाभिप्रायकघटपदद्वयेऽपि द्वन्द्वापत्तेः, प्रतिपाद्यघटघटत्वयोर्भेदादिति शङ्कनीयम्, एकपदप्रतिपाद्यत्वसामानाधिकरण्येनापरपदप्रतिपाद्यत्वावच्छिन्नभेदे एकपदजन्मप्रतिपत्तिविषयितासामान्याधिकरण्येनापरपदजन्यप्रतिपत्तिविषयितात्वावच्छिन्नभेदे वा द्वन्द्वप्रवृत्तेर्नियतत्वात्, घटावित्यादावेकपदप्रतिपाद्येऽपरपदप्रतिपाद्यत्वावच्छिन्नभेदाद्विशेष्यताभेदेन विषयिताभेदाद्वा तदुपपत्तेः, पदार्थतावच्छेदकाभेदेऽपि विषयिताभेदादेव समवायेन गुणत्ववतो विषयितया गुणत्ववतश्च बोधकयोर्मेयवदभिधेयवद् बोधकयोश्च तदादिपदयोर्द्वन्द्वो निरपवादः । गगनाकाशादिपदयोश्च शब्दरूपपदार्थतावच्छेदकस्याननुगतत्वात्तद्भेदेऽपि न द्वन्द्वो विषयित्वाभेदादिति मन्तव्यम् । अन्येषां तु मते तद्धितादिवद् वृत्त्यन्तरमेव सः, न तु द्वन्द्वभेदः, समासान्तरं वा, करौ पन्थानावित्यत्र नपुंसकत्वस्यादन्ततायाश्चापत्तेरिति बोध्यम् । परेषामिति ये नैकशेषमिच्छन्ति तन्मतेनेत्यर्थः, तदनिष्टिश्च द्वन्द्वनियामकनिर्वचने विषयितास्थाने प्रकारिताया एव निवेशादेकार्थे तदसम्भवात्, वृक्षावित्यादौ प्रत्ययार्थद्वित्वान्वयस्य वृक्षपदार्थे एकत्वानवच्छेदेनैव सम्भवात्, सरूपैकशेषस्वीकारे तु तत्रैकत्वावच्छिन्ने द्वित्वबुद्धेः प्रमात्वायोगाद् वृक्षत्वादेर्द्वित्वावच्छेदकत्वे त्वेकत्रापि वृक्षत्वेन द्वित्वधियः प्रमात्वापत्तेः, अत एवेदृशसमभिव्याहारस्येदृशशाब्दबोधजनकत्वे स्वभावशरणानुधावनम् । इत्थमेव हरी इत्यादावगृहीतभेदपदद्वयादेवार्थद्वयबोधाच्छाब्देन द्वित्वेन निर्वाह इति बोध्यम् । अनेकनयमये भगवत्प्रवचने न्यायनयोपग्रहस्यापि क्वचिददुष्टत्वे तु मणिकृन्मतमेवात्रादेयम्, तत्र च नापातत एकार्थत्वे निर्भर:, किन्तु प्रधानैकार्थत्व इति सर्वं समञ्जसम् ।
एवं व्याख्याने ग्रन्थकारः स्याद्वादिसमयविरोधमाशङ्कते - ननु च वृक्षा इतीत्यादिना
Page #393
--------------------------------------------------------------------------
________________
३५९
प्रथमो भागः [परि०१-का. १६] तस्य वाच्यमनेकमेकं च स्याद्वादिभिरिष्यते, न पुनरेकमेव । तथा चोक्तम्
अनेकमेकं च पदस्य वाच्यं, वृक्षा इति प्रत्ययवत्प्रकृत्याः । [ ] इति कश्चित्, सोऽप्येवं प्रष्टव्यः, किमेकमनेकं च सकृत्प्रधानभावेन पदस्य वाच्यमाहोस्विद् गुणप्रधानभावेन ? इति । न तावत्प्रथमः पक्षः, तथा प्रतीत्यभावात । वक्षद्रव्यं हि वक्षत्वजातिद्वारेण वक्षशब्दः प्रकाशयति ततो लिङ्गं सङ्ख्यां चेति शाब्दी प्रतीतिः क्रमत एव । तदुक्तं
स्वार्थमभिधाय शब्दो निरपेक्षो द्रव्यमाह समवेतम् ।
समवेतस्य तु वचने लिङ्गं सङ्ख्यां विभक्तीश्च ॥ [ इति । प्रधानभावेन च वृक्षार्थः प्रतीयते, बहुत्वसङ्ख्या तु गुणभावेनेति न
अष्टसहस्त्रीतात्पर्यविवरणम्
एकानेकात्मकस्य प्रत्ययवत् प्रकृतिरूपपदवाच्यत्वेऽपि सकृदुच्चरितमित्यत्र बोधयतीत्यस्य प्रधानभावेन बोधयतीत्यर्थान्नानुपपत्तिरित्याशयेन समाधत्ते-सोऽप्येवं प्रष्टव्य इत्यादिना । स्वार्थमभिधायेति शब्दो=वृक्षादिशब्दः, स्वार्थं वृक्षत्वादिकम्, अभिधाय निरपेक्षो विभक्त्यपेक्षारहितः, समवेतं समवायेन सम्बद्धम्, द्रव्यं वृक्षादिकम्, आह=आक्षिपति, निराश्रयस्य वृक्षत्वस्यानुपपत्तेरित्यर्थः । समवेतस्य तु द्रव्यस्य वचने=समवेतद्रव्यकथनानन्तरमित्यर्थः, विभक्तिलिङ्गं सङ्ख्यां चाह । अयमर्थोपस्थितिक्रमः पदोपस्थितिक्रमानुरोधी, स्वमते तु दीर्घकालिकशाब्दवाक्यार्थोपयोगघटक एवायं बोध्यः । क्रमिकावग्रहाद्यात्मनः प्रत्यक्षोपयोगस्येव क्रमिकसाकाङ्क्षपदार्थज्ञानात्मन एव शाब्दस्य वाक्यार्थोपयोगस्यैकस्याभ्युपगमात् । तदुक्तं सम्मतिवृत्तौ-गौर्गच्छतीति वाक्यप्रयोगे गोशब्दात् सामान्यविशेषात्माकं गवार्थं गच्छत्याद्यन्यतमक्रियासापेक्षं प्राक् प्रतिपाद्यते, गच्छतीत्येतस्माच्च तं प्रतिनियतगमिक्रियावच्छिन्नमवगच्छति ततः क्रियाद्यवच्छिन्नः सामान्यविशेषात्मको वाक्यार्थो व्यवतिष्ठते, पदसमुदायात्मकाद्वाक्यात्पदार्थात्मकस्यैव तस्य प्रतीतेरिति [ ] । तदिह वृक्षौ वृक्षा इत्यतः प्रत्ययवत्या प्रकृत्या वृक्षत्वतदाश्रयलिङ्गसङ्ख्यादिविषयक्रमिकोपस्थितिपरिणत एवाकाङ्क्षादिसाचिव्येन लिङ्गसङ्ख्यादिप्रकारको वृक्षविशेष्यकः शाब्दबोधो जन्य इति तत्र विशेष्यतया वृक्षस्य प्राधान्यं द्वित्वबहुत्वादिसङ्ख्यायास्तु विशेषणतया गौणत्वमिति प्राधान्येनैकार्थवाचकत्वमेवैकपदस्य नियूँढमित्याह-प्रधानभावेन चेत्यादि प्रधानगुणभावस्यैवाभिमतत्वादित्यनन्तरं द्वितीयपक्षस्त्विष्ट एवेति पूरणीयम् । ननु एवं सर्व
Page #394
--------------------------------------------------------------------------
________________
३६०
अष्टसहस्त्रीतात्पर्यविवरणम् कस्यचिद्विरोधः, प्रधानगुणभावपक्षस्यैवाभिमतत्वात्, स्यादिति निपातेनानेकस्य धर्मस्याकाङ्क्षणेऽनैकस्यैव प्रधानस्य गुणानपेक्षस्यापवदनात्, सर्वस्य वाचकतत्त्वस्य गुणप्रधानार्थत्वात्, वाच्यतत्त्वस्य च तथाभूतत्वात् । तदुक्तम्
आकाक्षिणः स्यादिति वै निपातो, गुणानपेक्षे नियमेऽपवादः । गुणप्रधानार्थमिदं हि वाक्यं, जिनस्य ते तद्विषतामपथ्यम् ॥ [स्वयं० ४४-४५] [प्रमाणवाक्यमशेषधर्मात्मकं वस्तु प्रकाशयति तत् कथं सम्भवेत् जैनमते ?] नन्वेवं प्रधानभावेनाशेषधर्मात्मकस्य वस्तुनः प्रकाशकं प्रमाणवाक्यं कथ
अष्टसहस्रीतात्पर्यविवरणम्
शब्दस्य प्रधानैकार्थत्वे विशेषणवाचकशब्दोच्छेदापत्तिरिति आशङ्कायाम् अवयवधीदशायामापाततो विशेषणविशेष्ये कामचारादिष्टप्राधान्यमविरुद्धम्, वस्तुतः स्याच्छब्दोत्थापिताकाङ्क्षगुणापेक्षत्वमेवैकप्रधानार्थत्वम्, तच्च स्वाभिन्नानन्तधर्मात्मकत्वसंसर्गेण स्वाश्रयविशेष्यकैकधर्मप्रकारकबोधतात्पर्यकत्वं पदे वाक्ये चाविरुद्धमिति व्युत्पादयन्नाह-स्यादिति निपातेनेत्यादिना ।
गुणानपेक्षस्य सदेवेत्यादिना गुणाकाङ्क्षारहितस्य, अपवदनात्=निराकरणात्, तथाभूतत्वाद्=गुणप्रधानभूतत्वात् । उक्तेऽर्थेऽभियुक्तसम्मतिमाह-तदुक्तमित्यादिना गुणानपेक्षे नियमे सन्नेव घट इत्यादिप्रयोगे स्यादिति निपातो वै=निश्चितम्, अपवादः नयरूपस्योत्सर्गस्य स्याद्वादेन बाधनात्, नयात् प्रकृतैकधर्मात्मकत्वस्यैव वस्तुनः सिद्धेः, स्याद्वादात्तु प्रकृतेतरयावद्धर्मात्मकत्वद्योतकस्याच्छब्दमहिम्नाऽनन्तधर्मात्मकस्य वस्तुनः सिद्धिसौधाध्यारोहात् । तदाह-इदं हि प्रकृतं जिनस्य=रागादिशत्रुजेतुः, ते=तव, वाक्यं गुणप्रधानार्थं प्रधानभावेन प्रकृतधर्मात्मकताया गुणभावेन च तदितरसकलधर्मात्मकताया बोधपरम्, तत एव रागादिरोगग्रस्तानामेकान्ताभिनिवेशसन्निपातेन यथातथाप्रलापकारिणां तव द्विषतां परतीथिकानाम, अपथ्यम अरूचिविषयत्वादिति स्ततिवत्तार्थः । नन गणप्रधानार्थमेव सर्वं वाक्यमित्यभ्युपगमे प्रधानभावेनाशेषधर्मात्मकवस्तुप्रतिपादकसकलादेश उच्छिद्यतेति आशकते-नन्वेवमिति प्रमाणवाक्यानां सर्वैः पदैमिलित्वा प्राधान्येनानन्तधर्मात्मकवस्तुबोधन एव तात्पर्यम्, वेदान्तवाक्यानामिवाखण्डब्रह्मबोधने । तथा च स्यादस्त्येव द्रव्यमित्यतः स्वेतरसकलधर्मात्मकत्वसम्बन्धेनास्तित्ववदेव द्रव्यमिति प्राथमिकबोधानन्तरं तस्मादनन्तधर्मात्मकमेव सर्वं वस्त्वित्यौपादानिकबोधः सकलादेशजन्यः स्वी
Page #395
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. १६] मुपपद्येत येन सकलादेशः प्रमाणाधीनः स्यादिति चेत्, कालादिभिरभेदेनाभेदोपचारेण च द्रव्यपर्यायनयापितेन सकलस्य वस्तुनः कथनादिति ब्रूमः । द्रव्याथिकनयात्तावदेकस्यैव द्रव्यस्यानन्तपर्यायात्मकस्यादेशः प्रमाणवाक्यं नानेकार्थं, पर्यायनयाच्च सकलपर्यायाणां कालादिभिरभिन्नानामभेदोपचारादुपचरितमेकमेव वस्तु प्रमाणवाक्यस्य विषयः इति न किञ्चिद्वाक्यं पदवदनेकार्थं सकृत् प्रधानभावेन विभाव्यते, सङ्केतसहस्त्रेणापि वाचकवाच्ययोः कर्तृकर्मणोः शक्त्यशक्त्योरनतिलङ्घनार्हत्वात्कारणकार्यवदित्यनवद्यम् ।।
(भा०) अन्यथा चाक्षुषत्वादयः शब्दादिधर्मा न भवेयुः ।
शक्यं हि वक्तुं, 'रूपवच्चक्षुर्ज्ञानजननशक्तियुक्तः शब्दश्चाक्षुष एव, रसवच्च रसनज्ञानजननसमर्थो रासनो, गन्धादिवच्च घ्राणादिज्ञानजननपटुर्घाणीयादिः' इति न तस्याचाक्षुषत्वारासनत्वाघ्राणीयत्वादयो धर्माः स्युः, अश्रावणत्वादयश्च रसादिधर्मा न भवेयुः ।
(भा०) अतो यावन्ति पररूपाणि तावन्त्येव प्रत्यात्म स्वभावान्तराणि, तथापरिणामात् ।
शब्दादीनामन्यथा स्वरूपायोगात् ।
यदि पुनश्चक्षुरादिविज्ञानोत्पादनाशक्त्यतिक्रमस्य सर्वदाप्यसम्भवादचाक्षुषत्वादयः शब्दादिधर्मा एव श्रावणादिज्ञानजननशक्त्यनतिक्रमाच्छावणत्वादिवदिति मतं तदा सदादिपदस्य सत्त्वाद्येकधर्मप्रतिपादनशक्त्यनतिक्रमात् प्रधानभावार्पितानेकधर्माभिधानाशक्त्यनतिलङ्घनाच्च नानेकोऽर्थः सकृत्सम्भवतीत्यनुमन्यताम् । स्यादवक्तव्यमेव सर्वं, युगपद्वक्तुमशक्तेरिति भङ्गचतुष्टयमुपपन्नम् ।
- अष्टसहस्त्रीतात्पर्यविवरणम् क्रियते, स च द्रव्यार्थिकार्पणयाऽनुपचरितैकविशेष्यताकः पर्यायार्थिकार्पणया चोपचरितैकविशेष्यताक इति तात्पर्यार्थमादाय तत्र न प्रधानैकार्थत्वव्याघातः, सकलादेशान्यार्थ एव गुणप्रधानभावेन बोधकत्वनियमस्य चरितार्थत्वात्, अत एव सकलादेशेऽनन्तत्वान्यधर्मानवच्छिन्नानन्तधर्मप्रकारतानिरूपितसकलवस्तुविषयताशालित्वेन केवलज्ञानतुल्यत्वोक्तिः सङ्गच्छत इत्याशयवान् समाधत्ते-कालादिभिरित्यादि ।
Page #396
--------------------------------------------------------------------------
________________
३६२
अष्टसहस्त्रीतात्पर्यविवरणम्
[पञ्चमषष्ठसप्तमभङ्गानां स्पष्टीकरणम्] (भा०) द्रव्यपर्यायौ व्यस्तसमस्तौ समाश्रित्य चरमभङ्गत्रयव्यवस्थानम् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
॥ शक्तिवादः ॥ (२) अनुमन्यतामिति, ननु कथमेतदनुमन्तव्यम् । एकं द्विकं त्रिकं वापि चतुष्कं पञ्चकं तथा । नामार्थ इति सर्वेऽमी पक्षा: शास्त्रे निरूपिताः ॥१॥ [वैयाकरणभूषणसार: का० २५]
इत्यादिनाऽनेकार्थवाचकतायाः पदानां शास्त्रसिद्धत्वात्, अत्रैकं जातिर्व्यक्तिविशिष्टं वा, द्विकं जातिव्यक्ती, त्रिकं लिङ्गसहिते ते, लिङ्गस्य शब्दधर्मस्यापि व्युत्पत्तिविशेषादुपचारेणार्थेऽन्वयः, चतुष्कं सङ्ख्यासहितानि तानि, पञ्चकं कारकसहितानि तानि । न च अन्वयव्यतिरेकाभ्यां लिङ्गादेः प्रत्ययवाच्यत्वमेव युक्तम्, तत एव तदुपस्थितौ प्रकृतिवाच्यत्वे मानाभावादिति शङ्कनीयम् । प्रत्ययवजिते दधि पश्येत्यादौ प्रत्ययमजानतोऽपि लिङ्गादिबोधात् प्रकृतेरेव तद्वाचकत्वकल्पनात्, तथा लिङ्गानुशासनदर्शनाच्चेति चेत्, मैवम्, अव्यवस्थितत्वेनैतेषु पक्षेषु निर्बन्धस्य कर्तुमशक्यत्वात्, लिङ्गादेः प्रत्ययवाच्यत्वस्यापि शास्त्रसिद्धत्वात्, इत्थमेव
द्योतिका वाचिका वा स्युत्विादीनां विभक्तयः । इति [वा०प०काण्ड २-१६४]
पक्षद्वयव्युत्पादकवाक्यपदीयोपपत्तेः, इत्थं चैतदर्थपञ्चकमध्ये प्राधान्यमेकदैकस्यैवेति पदानां प्रधानैकार्थतानियमाव्याहतेरिति दिग् ।
ननु तथापि यथा पुष्पदन्तपदेन चन्द्रसूर्ययोः प्राधान्येनोपस्थितिस्तथा केनचित्पदेन सदसतोरपि स्यादित्यवक्तव्यत्वं नानुमंस्यत इति चेत्, मैवम्, पुष्पदन्तौ पुष्पवन्तावेकोक्त्या शशिभास्करौ इति [अभिधानचिन्तामणिः देवकाण्ड-३८] कोशस्वरसादेकोच्चारणान्तर्भावेन गृहीतनानार्थशक्तिकपुष्पदन्तादिपदे व्युत्पत्तिवैचित्र्यात्, अत्र पुष्पदन्तादिपदं चन्द्रे सूर्ये च शक्तमित्याकारकः शक्तिग्रहः, तत्कार्यतावच्छेदकं च चन्द्रत्वप्रकारकत्वे सति सूर्यत्वप्रकारकस्मृतित्वम्, तादृशशाब्दत्वं च चन्द्रसूर्योभयनिष्ठाया एकस्याः शक्तेश्चन्द्रत्वसूर्यत्वयोर्व्यासज्यवृत्त्यवच्छेदकतास्वीकारात् । अत एवैकत्रायोग्यताज्ञाने शक्त्या न बोधः, किन्तु लक्षणयेति नैयायिकसम्प्रदायः । वस्तुतः पुष्पदन्तादिपदज्ञानाधीननानार्थानुभवे एकमात्रानुभवे वा तत्पदज्ञाने नानार्थानुभवजनननियमनिश्चयः कारणं प्रतिबन्धकं वा, अत
Page #397
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. १६]
३६३ ___ व्यस्तं द्रव्यं द्रव्यपर्यायौ समस्तौ सहार्पितौ समाश्रित्य स्यात्सदवक्तव्यमेव सर्वमिति वाक्यस्य प्रवृत्तिः, द्रव्याश्रयणे सदंशस्य सहद्रव्यपर्यायाश्रयणे वक्तुमशक्तेरवक्तव्यत्वस्य विवक्षितत्वात् । तथा व्यस्तं पर्यायं समस्तौ द्रव्यपर्यायौ
- अष्टसहस्त्रीतात्पर्यविवरणम्
एव तादृशनिश्चयविरहिणः कदाचिच्छक्त्याप्येकमात्रबोधः, उभयधर्मावच्छेदेन शक्तिग्रहेऽप्युदबोधकवशादेकधर्मावच्छिन्नमात्रस्मृतिसम्भवात् उभयधर्मावच्छिन्नस्मृतावपि योग्यतादिवशादेकधर्मावच्छिन्नस्य शाब्दबोधसम्भवाच्चेति । न चायुक्तं चैतत्, इत्थं शक्यतावच्छेदकताया व्यासज्यवृत्तित्वानुपगमात्, तदुपगमे शक्तेरपि तत्त्वापत्तेः । न वा शक्त्यैक्यम्, सैन्धवादिपदेऽपि तदापत्तेः, सैन्धवादिपदमश्वे लवणे च शक्तमित्याकारकशक्तिग्रहस्याविशेषात्, अश्वत्वेनाश्वः शक्यो न लवणमित्यस्यापि चन्द्रत्वेन चन्द्रः शक्यो न सूर्य इत्यनेन तुल्यत्वात्, एकत्रैकतरधर्मावच्छिन्नस्यापि बोधोऽन्यत्र युगपदुभयधर्मावच्छिन्नस्यैवेत्यस्य चोक्तरीत्यैवोपपत्तेरधिककल्पनायां मानाभावादित्येके । चन्द्रसूर्यो पुष्पवन्तपदजन्यैकबोधविषयौ भवतामित्याकारिकैव शक्तिः एकयोक्त्या पुष्पवन्तौ इत्यादिकोशाल्लाघवाच्च । अत एव न चन्द्रसूर्यपर्यायता, नानार्थे गणनं वा, शक्तितदवच्छेदकतयोासज्यवृत्तितया च चन्द्रत्वेन चन्द्रः शक्यः सूर्यत्वेन च सूर्य इत्यादिर्न धीः, किन्तु चन्द्रत्वेन सूर्यत्वेन च चन्द्रसूर्यौ शक्यावित्येवेति सम्प्रदायमतमेव युक्तमित्यपरे । एकोच्चारणान्तर्भावेन नानार्थशक्तिस्थलेऽपि न सर्वत्र व्यासज्यवृत्तिधर्मावच्छिन्नप्रकारताक एव बोधः, पुष्पदन्तादिपदात्तथा बोधेऽपि तृतीयादेः करणत्वैकत्वादेः प्रातिस्विकरूपावच्छिन्नस्यैव नानार्थस्य बोधात् । तदुक्तं मित्रैः, पुष्पवन्तादिपदे करणत्वैकत्वादिशक्ततृतीयादिपदे चैकोच्चारणेन नानार्थानुभवजननव्युत्पत्तिनिश्चयादेकदैव नानार्थानुभवो नावृतिः इति । युक्तं चैतत्, तृतीयायास्तृतीयात्वेन करणत्वे एकवचनत्वेन चैकत्वे शक्तेः स्मारकशक्त्यै सम्भवादिति वदन्ति । अतिरिक्तशक्तिपक्षे शक्यशक्यतावच्छेदकभेदात्तृतीयादौ शक्तिः, पुष्पवन्तादिपदे तु व्यासज्यवृत्तिरेकैवेति युक्तम् । तदिह पुष्पदन्ततृतीयादिपदवत् सहापितसत्त्वासत्त्वोभयाश्रयबोधकं न किञ्चित्पदं व्युत्पादितमस्ति, प्रत्युत तथाजिज्ञासाया बाधितत्वज्ञाने तथाज्ञानस्य विपरीतव्युत्पत्त्या जायमानस्याप्यनिष्टत्वप्रतिसन्धानान्न तदर्थं कश्चित् प्रामाणिकः पदप्रयोग इति तदाऽवक्तव्यत्वेन ज्ञानस्यैवेष्टत्वात्, तदर्थं तुरीयभङ्गाभिधानं साधु सङ्गच्छते । अत एवैकक्षणे बोधद्वयं जायतामित्यादिस्थलेऽप्यवक्तव्यत्वाभिधानसाम्राज्यम्, बाधितेच्छाविषयत्वावच्छेदेनावक्तव्यत्वव्यवस्थानात् । न चैवं तुरीयभङ्गेऽनुगतावच्छेदकानुपलम्भः, अननुगतानामपि तेषामुपलम्भे स्यात्कारस्यैव कल्पवृक्षत्वात् । वस्तुत एकत्वावच्छिन्ने
Page #398
--------------------------------------------------------------------------
________________
३६४
अष्टसहस्त्रीतात्पर्यविवरणम् चाश्रित्य स्यादसदवक्तव्यमेव सर्वमिति वचनव्यवहारः । व्यस्तौ क्रमार्पितौ समस्तौ सहापितौ द्रव्यपर्यायौ समाश्रित्य स्यात्सदसदवक्तव्यमेव सर्वमिति शब्दप्रवृत्तिः स्याद्वादाश्रयणव्याख्यानादेवमेव चरमभङ्गत्रयस्य व्यवस्थानात् । परमतापेक्षया तु सत्सामान्यमन्वयि द्रव्यमाश्रित्य सदवक्तव्यमेव, स्वलक्षणलक्षणं विशेषं पर्यायमाश्रित्यान्यापोहसामान्यमसदवक्तव्यमेव, सामान्यविशेषौ परस्परमत्यन्तभिन्नौ
- अष्टसहस्रीतात्पर्यविवरणम् सहार्पितधर्मद्वयद्वारकद्वित्वान्वयस्य निराकाङ्क्षत्वादेवावक्तव्यत्वप्रयोगसङ्गतिः 'नाणदंसणट्ठयाए दुवे अहं [ ] इत्यादिवत्, सत्त्वासत्त्वादिनोपचरितं द्वित्वमादाय प्रवृत्तायां सप्तभङ्ग्यामपि निरवच्छिन्ने सत्त्वासत्त्वे एव तदवच्छेदके, न तु सहार्पितत्वविशिष्टे इति । प्रकृते तादृशतदवच्छेदेनान्तर्निगीर्णद्वित्वाश्रयबोधनाशक्तेः स्यादवक्तव्यत्वपक्षसाम्राज्यात् ।एतेन एकपदजन्यसत्त्वासत्त्वोभयप्रकारकशाब्दबोधविषयत्वं न स्यादवक्तव्यत्वशब्दार्थः, प्रतियोग्यप्रसिद्ध्या तदभावाप्रसिद्धेरिति अपास्तम्, सहार्पितसत्त्वासत्त्वोभयावच्छेदेन तृतीयभङ्गजन्यशाब्दबोधविषयत्वाभावस्यैव स्यादवक्तव्यपदार्थत्वात्, तदादिपदेन पुष्पदन्तादिपदप्रतिपाद्यस्येव सहार्पितसत्त्वासत्त्वोभयाश्रयस्य बुद्धिविषयतावच्छेदकावच्छिन्ने गृहीतशक्तिकेनापि तत्तद्धर्माशे उद्बुद्धसंस्कारमहिम्नोपस्थितौ शाब्दबोधविषयत्वाद् अव्याप्तिवारणाय शाब्दबोधे तृतीयभङ्गजन्यत्वोक्तिः, प्रातिस्विकधर्मावच्छिन्नप्रकारताद्वयनिरूपितमुख्यविशेष्यताशालित्वं तदर्थः, विपरीतसङ्केतजन्यशाब्दभ्रमे तूक्तोभयधर्मपर्याप्तावच्छेदकताकैकप्रकारतानिरूपितविशेष्यताशालित्वेन दोषाभावादिति नव्यतर्कपरिष्कृतः पन्थाः । एतेन एव गङ्गायां मत्स्यघोषावित्यत्रेव क्वचिदेकदा वृत्तिद्वयस्याप्यविरोधात् सदादिपदेनैव शक्त्या सत्त्वादेर्लक्षणया चासत्त्वादेरुपस्थितिसम्भवात सहार्पितसत्त्वासत्त्वोभयप्रकारकशाब्दबोधसम्भवे गतमवक्तव्यत्वेनेति निरस्तम् । तृतीयभङ्गजन्यपदमहिम्नैव शक्त्येत्यस्याप्याक्षेपादिति दिग् ।
॥ सामान्यविशेषभेदाभेदवादः ॥ __ शेषं भङ्गत्रयं व्यस्तसमस्तद्रव्यपर्यायार्पणाहेतुकं सुबोधम् । स्याद्वादाश्रयेति उक्तार्पणाभेदस्य स्याद्वादतात्पर्यज्ञं प्रत्येव सम्भवादित्यर्थः । परमतापेक्षयात्विति पक्षत्रयमत्र नैयायिकसौगतमताश्रितं व्याख्येयम् । परैर्यत्केवलं सदुच्यते यच्चासत् यच्च सदसत् तत्सर्वमवक्तव्यमित्युद्देश्यविधेयभावे तात्पर्यम्, भङ्गत्रयेऽप्युद्देश्यस्य प्रसिद्धिः परमताद्; विधेयस्य जैनागमात्, यौगादिभिः सदादिव्यवहारविषयीकृतमस्माभिरवक्तव्यत्वव्यवहार
१. ज्ञानदर्शनार्थतया द्वौ अहं ।
Page #399
--------------------------------------------------------------------------
________________
प्रथमो भाग: [परि०१-का. १६]
३६५ द्रव्यपर्यायौ समुदितौ समाश्रित्य सदसदवक्तव्यमेवेति व्याख्यानमकलङ्कदेवैर्व्यधायि ।
[अद्वैतवादी सत्सामान्यमेव मन्यते तस्य निराकरणम्] तत्र वस्तु सत्सामान्यं कथं सदप्यव्यक्तव्यमिति चेत्, तस्य पराभ्युपगमात् सतोऽपि वचनानुपपत्तेः ।।
(भा०) न खलु सर्वात्मना सामान्यं वाच्यं, तत्प्रतिपत्तेरर्थक्रियां प्रत्यनुपयोगात् । न हि गोत्वं वाहदोहादावुपयुज्यते ।
स्वविषयज्ञानमात्रेऽपि तस्यासामर्थ्यात् । व्यक्तिसहितस्य सामान्यस्य तत्र सामर्थ्येऽपि न प्रतिपन्नसकलव्यक्तिसहितस्य सामर्थ्यम्, असर्वज्ञस्य सकलव्यक्तिप्रतिपत्तेः सकृदसम्भवात् । अप्रतिपन्नाखिलव्यक्तिभिः सहितस्य सामर्थ्य पुनरेकव्यक्तेरप्यग्रहणे सामान्यज्ञानप्रसङ्गः । कतिपयव्यक्तिसहितस्य सामर्थ्य तस्य ताभिरुपकारानुपकारविकल्पद्वयानतिक्रमः । प्रथमविकल्पे सामान्यस्य व्यक्तिकार्यत्वप्रसङ्गः तदभिन्नस्योपकारस्य करणात् । ततो भिन्नस्य करणे व्यपदेशासिद्धिः । तत्कृतोपकारेणापि तस्योपकारान्तरकरणेऽनवस्थानम् । द्वितीयविकल्पे व्यक्तिसहभाववैयर्थ्यम्, अकिञ्चित्करसहकारिविरहात् । सामान्येन सहैकज्ञाने व्यापाराद् व्यक्तीनां तत्सहकारित्वेऽपि किमालम्बनभावेन तत्र तासां व्यापारोऽधिपतित्वेन वा ? प्राच्यकल्पनायामेकानेकाकारं सामान्यविशेषज्ञानं स्यान्न पुनरेकसामान्यज्ञानं, स्वालम्बनानुरूपत्वात्सकलविज्ञानस्य । द्वितीयकल्पनायां तु व्यक्तीनामनधिगमेऽपि सामान्यज्ञानप्रसङ्गः । न हि रूपज्ञाने चक्षुषोऽधिगतस्याधि
- अष्टसहस्रीतात्पर्यविवरणम् सौधमध्यास्यत इत्यकलङ्कदेवाशयः । भाष्ये न खलु सर्वात्मनेति अत्र सर्वात्मनेत्यस्य व्यक्त्यनवच्छेदकत्वरूपस्वातन्त्र्येणेत्यर्थः । किमालम्बनभावेनेति किं विषयविधयेत्यर्थः । अयं च वितर्को यतो व्यक्तिसामान्योभयविषयजनितेन ज्ञानेन नियमत उभयविषयतया भाव्यम्, ततः सामान्यज्ञाने विषयतया व्यक्तीनामपि हेतुत्वौचित्यमित्याशयात् । तत्र= सामान्येन सहैकज्ञाने, तासां=व्यक्तीनाम्, व्यापार:=कार्यजननाभिमुख्यम्, अधिपतित्वेन वेति=आलम्बनभिन्नकारणत्वेन वेत्यर्थः । अनधिगमेऽपीति न चेष्टापत्तिः, महत्त्वोद्भूतयोरप्रवेशलाघवेन द्रव्यान्यद्रव्यसमवेतचाक्षुषे चक्षुःसंयुक्तचाक्षुषसमवायत्वेन परेषां हेतुत्वेन जातिचाक्षुषपूर्वं नियमतो व्यक्तिचाक्षुषकल्पनेन तस्याः कर्तुमशक्यत्वात् । न हि रूपज्ञान
Page #400
--------------------------------------------------------------------------
________________
३६६
अष्टसहस्त्रीतात्पर्यविवरणम्
पतित्वेन व्यापारोऽस्त्यपूर्वस्य वा । सर्वथा नित्यस्य सामान्यस्य क्रमाक्रमाभ्यामर्थक्रियाविरोधाच्च न तस्य कस्याञ्चिदर्थक्रियायामुपयोगो यतस्तत्प्रतिपादनाय शब्दप्रयोगः स्यात् । ततो नार्थे कस्यचित्प्रवृत्तिरुपपद्येत ।
[सामान्यं साक्षात् अर्थक्रियां न करोति तथैव परंपरयापि न करोति इति कथयन्ति जैनाचार्याः] (भा०) लक्षितलक्षणया वृत्तिः कथञ्चिदतादात्म्ये न भवेत्, सम्बन्धान्तरासिद्धेः कार्मुकादिवत् ।
न हि यथा कार्मुकपुरुषयोः संयोगः सिद्धस्तथा सामान्यविशेषयोरपि । न च समवायः पदार्थान्तरभूतः, तत्प्रतीत्यभावात् । प्रतीयमानस्तु समवायः कथचित्तादात्म्यमेव, अविष्वग्भावलक्षणत्वात्तस्य । इति शब्देन लक्षितं सामान्यं विशेषान् लक्षयति । ततस्तत्रार्थक्रियार्थिनः प्रवृत्तिरसम्बन्धान्नोपपद्येत संयोगसमवायव्यतिरिक्तस्य सम्बन्धान्तरस्यासिद्धेः । विशेषणविशेष्यभावः सम्बन्धान्तरमिति चेत्, न तस्यापि स्वसम्बन्धिव्यतिरेकैकान्ते सम्बन्धान्तरापेक्षणस्यावश्यंभावादनवस्थाप्रसङ्गात्, तस्य कथञ्चित्स्वसम्बन्धितादात्म्ये स्वसिद्धान्तविरोधात् । एतेनाविनाभावः सम्बन्धस्तयोः प्रत्युक्तः । सामान्यविशेषयोः सामान्यविशेषभाव एव सम्बन्ध इत्यपि मिथ्या, कथञ्चिदतादात्म्ये तदनुपपत्तेः सह्यविन्ध्यवत् । तन्न नित्यसर्वगतामूर्तेकरूपं सामान्यं सर्वथा व्यक्तिभ्यो भिन्नमन्यद्वा वाच्यम्, अर्थक्रियायां साक्षात्परम्परया वानुपयोगात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
इति, यद्यपि आलम्बनत्वेन हेतुतापि नाधिगतत्वं प्रयोजयति किन्तु सहज्ञेयत्वमेव तथापि ज्ञायमानं ज्ञातमिति नयाश्रयणाददोषः । भाष्ये 'तल्लक्षणयेति तेन सामान्येन लक्षणाऽऽक्षेपोऽर्थाद्विशेषस्य, तया वृत्तिः = प्रवृत्तिर्विशेषे, कथञ्चित् तादात्म्येन कृत्वा भवेत्, कार्मुकादिवत् कार्मुकादेरिवेति व्यतिरेके दृष्टान्तः, सम्बन्धान्तरासिद्धेः तादात्म्यातिरिक्तसम्बन्धासिद्धेरित्यक्षरार्थः । वृत्तौ कथञ्चिदतादात्म्ये तदनुपपत्तेरिति यद्यपि कार्यकारणभावदैशिककालिकाधाराधेयभावादीनामतादात्म्येऽपि तत्तत्सम्बद्धव्यवहारकारित्वं दृश्यते, तथापि तत्रापि तत्तद्व्यवहारप्रयोजकशक्त्यात्मना कथञ्चित्तादात्म्याभ्युपगमाददोषः, केवलं
१. लक्षितलक्षणया इति अष्टसहस्रीसम्मतः पाठः ।
Page #401
--------------------------------------------------------------------------
________________
३६७
प्रथमो भागः [परि० १-का. १६]
(भा०) तादृशोऽनुपलम्भात्सङ्केतोऽपि न सिद्धयेत् । न चासङ्केतितमपि सामान्यं वाच्यं नाम, अतिप्रसङ्गात् ।
(भा०) सतापि तादृशान्यव्यावृत्त्यात्मना भवितव्यम्, अन्यथा विशेषवत्स्वभावहानिप्रसङ्गात् विशेषाणां वा तद्वत्ततो व्यावृत्तेः ।।
परापरसामान्ययोः परस्परं स्वाश्रयाच्च कथञ्चिदव्यावृत्तौ स्वरूपसङ्करात्प्रतिनियतस्वभावहानेरवश्यंभावाद्विशेषवत् तद्वतोऽर्थस्याप्यभाव इति सर्वाभावः प्रसज्येत । सामान्यवादिनां तदभ्युपगममात्रात्सदप्यवक्तव्यमेव सामान्यम् ।
- अष्टसहस्त्रीतात्पर्यविवरणम्
सामान्यविशेषादिसम्बन्धविचारे बहुलमभेदव्यवहारात्तेषामुद्भूतं तादात्म्यमनुद्भूतो भेदः, पृथक्सम्बन्धिस्थले तु वैपरीत्यमिति विशेषो बोध्यः । तादृशः=सर्वथाव्यक्तिव्यतिरिक्तत्वेनाभ्युपगतस्य सामान्यस्य । सतापीत्यादि तादृशा व्यक्तिव्यतिरिक्तेन पराभ्युपगतेन सामान्येन, सतापि= परदृष्ट्या विद्यमानेनापि, अन्यव्यावृत्त्यात्मना स्वातिरिक्तसामान्यव्यावृत्तेन, भवितव्यं=भाव्यम्, अन्यथा इत्थमनभ्युपगमे, विशेषवत् अन्त्यविशेषस्येव सामान्यस्य, स्वभावहानिप्रसङ्गात् यथा विशेषो विशेषान्तरादव्यावर्त्तमानः स्वभावं जह्यात् तथा सामान्यमपि सामान्यान्तरादित्यर्थः । विशेषाणां वा तद्वत् सामान्यवत्, ततः= सामान्याद् अव्यावृत्तेः प्रसङ्गादिति योजनीयम् । भाष्यप्रतीके वृत्तौ परापरेत्यादि सामान्ययोमिथोऽव्यावृत्तौ तत् सङ्करादसङ्कीर्णसामान्यवतो विशेषस्येव तद्वतोऽर्थमात्रस्याभावात् सर्वाभावोऽतिरिक्तसामान्यवादिनां स्यादित्यर्थः । (शङ्का) कल्प्यतां तर्हि सामान्यं सामान्यान्तराद् व्यावृत्तं विशेष इव विशेषान्तरात् स्वभावत एवेति चेत्, तहि द्रव्यत्वादेः स्वाश्रयं प्रत्येव स्वं प्रत्यनुगमकव्यावर्तकतया सामान्यविशेषता स्यात्, तथा च किमपराद्धं वस्तुना ? येनातिरिक्तपदार्थद्वयानपेक्षतया तस्यैव तत्ता नेष्यते, द्रव्यत्वादिकमपि हि जातित्वादिनानुगतं स्वरूपेण च व्यावृत्तमिष्यते, तद्वदाश्रय एव किं तथा न स्यात् । (शङ्का) जातिषु जातिस्वीकारे कल्प्यमानान्तर्भावेन तासु आश्रयीभूतासु अन्यान्यजातिस्वीकारेऽनवस्थापत्तेस्तासु जातित्वमुपाधिरेवानुगमको वाच्यः, द्रव्यादित्रये तु बाधाभावेन सामान्यपदार्थ एव तथेत्यनुभवादेवोपलभामह इति चेत्, तर्खनुभवं पृच्छन्तु, भवन्तो जात्यादयोऽभावान्ता अनन्ताः पदार्थाः स्वभावादनुगच्छन्ति द्रव्यादयस्तु कतिपयेऽतिरिक्तसामान्येनेत्यर्द्धजरतीयं त्वयाऽकस्मादेव कथमुपलब्धम् ? अनवस्थायाश्च मूलमतिरिक्तजातिकल्पनैव, तदुपर्येवान्यान्यजातिकल्पनावतारादुक्ताश्रयस्वभावकल्पनाकुठारेण च तदेव कुतो नोच्छिद्यते ?
Page #402
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम्
[विशेषरूपमेकं सदवक्तव्यमेव तत्त्वमिति मन्यमानस्य बौद्धस्य निराकरणम् ] तथा स्वलक्षणैकान्तवादिनां न स्वलक्षणं वाच्यं तस्यानन्त्यात्सङ्केताविषयत्वादनन्वयाच्छब्दव्यवहारायोग्यत्वात् ।
३६८
[स्वलक्षणं वाच्यं नास्ति किन्तु सामान्यं तु वाच्यमेवेति मन्यमानस्य बौद्धस्य निराकरणम् ] ( भा० ) न चान्यापोहः सर्वथार्थः शब्दस्य विकल्पस्य वा ।
स्वविषयविधिनिरपेक्षस्य गुणभावेनाप्यन्यापोहस्य शब्देन वक्तुमशक्तेर्विकल्पेन च निश्चायनायोगात् । साधनवचनमेव त्रिरूपलिङ्गप्रकाशकं न ततोऽन्यद्वचनं, तस्य विवक्षामात्रेऽपि सम्भावनाया एवोपगमादिति चेत्, न तस्याप्यन्यापोहमात्रार्थत्वात् अपोहः शब्दलिङ्गाभ्यां न वस्तु विधिनोच्यते इति वचनात् [ ] सत्यपि च
( भा० ) साधनवचनेन नित्यत्वसमारोपव्यवच्छेदे [देऽपि] स्वलक्षणअष्टसहस्त्रीतात्पर्यविवरणम्
येनानवस्थावल्ली न वर्द्धेतेति दिग् ।
तस्यानन्त्यादित्यादि अत्र यथोत्तरं हेतुहेतुमद्भावः, आनन्त्यात् सङ्केतकरणशक्तेः सङ्केताविषयत्वम्, ततः सर्वोपसंहारेण शक्तिग्रहायोगादनन्वयः, ततश्च शाब्दबोधादिरूपशब्दव्यवहारायोग इति । स्वविषयविधिनिरपेक्षस्येति स्वस्य शब्दस्य विषयो यो विधिर्गोत्वादिस्तन्निरपेक्षस्य तदसंसर्गीभूतस्येत्यर्थः, तत्सापेक्षो ह्यन्यापोहस्तद्विशिष्टबुद्धौ संसर्गतया भासमानो गुणीभावमवलम्बेतापि, नीलमिदमिति प्रतीतावनीलव्यावृत्तेस्तथानुभवात्, प्राधान्येन तु प्रतियोगिनां दुर्ज्ञानत्वात्तद्ग्रहायोग इति भावः । तदाह - विकल्पेन चेति न च संसर्गांशे गुणतयाऽपि निश्चयो दुर्घटः, प्रकारांश इव संसर्गांशे विपरीतसमारोपव्यवच्छेदकस्य निश्चयत्वव्यवस्थितेरिति बोध्यम् । साधनवचनमेवाभिधायकम्, तच्च विधिरूपं लिङ्गमेवाभिधत्ते, स्वपरत्वेन बुद्धिप्रतिबिम्बपरत्वेन वा तथोपपत्तेः, अन्यच्च वचनं सम्भावनामात्रकरमेवेत्यन्यापोहशक्त्या न कुतोऽपि शब्दान्निर्णय इति शङ्कते - साधनेत्यादिना । एवं सति तवापसिद्धान्तः स्यादित्याह - न तस्यापीत्यादिना एवं च स्वसिद्धान्तादेव परस्यान्यापोहार्थत्वं ध्रुवमित्युक्तं भवति, वस्तुतोऽसौ परसिद्धान्त एवायुक्तः, एवं सति शब्दाद्विपरीतसमारोपव्यवच्छेदसिद्धावप्युद्देश्यविधिरूपार्थासिद्धेस्तदानर्थक्यादर्थतस्तत्सिद्धौ चैकमात्रार्थताव्याघातादित्याह-सत्यपि चेत्यादिना । दृश्यविकल्प्यैकत्वग्रहाधीन
Page #403
--------------------------------------------------------------------------
________________
प्रथमो भाग: [परि०१-का. १६]
३६९ स्यानित्यत्वासिद्धौ साधनवचनानर्थक्यात् ।
न शब्दस्य परार्थानुमानरूपस्य विकल्पस्य वा स्वार्थानुमानज्ञानरूपस्य सर्वथान्यापोहोऽर्थः श्रेयान् । यत्सत्तत्सर्वमनित्यं नित्ये क्रमयोगपद्याभ्यामर्थक्रियाविरोधादिति साधनवचनेन नित्यत्वसमारोपव्यवच्छेद एव स्वलक्षणस्यानित्यत्वसिद्धिः । अतो न तस्यानर्थक्यमिति चेत्, कथमित्थं सर्वथान्यापोहोऽर्थः समर्थ्यते, स्वलक्षणक्षणक्षयस्य विधानात् ।
[बौद्धनान्यापोहोऽर्थः समर्थ्यते तस्य विचारः] दृश्यविकल्प्ययोः स्वलक्षणसामान्ययोरेकत्वाध्यवसायात् तत्क्षणक्षयस्य विधिः, न पुनर्वस्तुनः सर्वथा विकल्पाभिधानयोर्वस्तुसंस्पर्शाभावादिति चेत्, न स्वलक्षणसामान्ययोरेकत्वाध्यवसायिना विकल्पेन स्वलक्षणस्याग्रहणात्, अगृहीतेन सह सामान्यस्यैकत्वाध्यवसायासम्भवात्, अन्यथातिप्रसङ्गात् । प्रत्यक्षतः प्रतीतेन स्वलक्षणेन तस्यैकत्वाध्यवसानमिति चेत्, नन्वेवं,
(भा०) विकल्पाभिधानयोर्वस्तुसंस्पर्शाभावे स्वलक्षणदर्शनस्याकृतनिर्णयस्य वस्तुसन्निधेरविशेषात्कि केन प्रमितं स्यात् ? न हि मिथ्याध्यवसायेन तत्त्वव्यवस्थापनम् ।
- अष्टसहस्रीतात्पर्यविवरणम्
एव विधिप्रत्यय इति न तस्य शब्दावाच्यत्वमित्याशक्य तदेकत्वग्राहकमेव खण्डयितुमुपक्रमते-दृश्यविकल्प्ययोरित्यादिना । किं केन प्रमितमिति विकल्पाभिधानयोर्वस्त्वविषयत्वादेव तदप्रमापकत्वाद्दर्शनस्य चानिश्चयरूपत्वेन तत्त्वादिति भावः । ननु एकसन्तत्यवच्छिन्नस्वाव्यवहितपूर्ववर्तित्वसम्बन्धेन घटत्वावगाहिनिश्चयविशिष्टघटदर्शनत्वेन प्रामाण्यमङ्गीकरिष्यते तत्राह न हीति घटत्वावगाहित्वमात्रेण निश्चयो न समनन्तरघटदर्शनप्रामाण्याङ्गम्, संशयविपर्ययसाधारण्यादित्यर्थः । वस्तुतोऽर्थक्रियाकारित्वरूपं न तथा, अर्थक्रियाऽव्यवहितप्राक्काले दर्शनस्य प्राङ्नष्टस्याभावाद्विकल्पविशिष्टदर्शनत्वेन दर्शनविशिष्टविकल्पत्वेन वार्थक्रियाहेतुत्वमित्यत्र विनिगमकाभावात्सूक्ष्मेक्षिकायां सन्निहितत्वस्य विकल्पहेतुताया एव विनिगमकत्वाच्च । वस्तुतो रजतार्थिप्रवृत्तौ रजतविशेष्यकज्ञानस्य समानप्रकारकत्वेन हेतुत्वम्, न तु रजतत्वज्ञानविशिष्टरजतज्ञानत्वेन, रजतागृहीतासंसर्गकरजतत्वज्ञानत्वादिना वा गौरवादित्यन्यथाख्यातिसाधने मीमांसकं प्रति या युक्तिरुच्यते
Page #404
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम्
संशयविपर्यासकारिणापि दर्शनेन स्वलक्षणस्य प्रमितत्वप्रसङ्गात् । वस्तुसंस्पर्शाभावाविशेषेऽपि निर्णयस्य जनकं दर्शनं स्वलक्षणस्य प्रमाणं, न पुनः संशयादेरिति वदन्नात्मनोऽनात्मज्ञतामावेदयति । ननु च निर्णयेन दर्शनविषयसमारोपस्य व्यवच्छेदात्तज्जनकं दर्शनं प्रमाणं, न तु संशयादेर्जनकं तेन तदव्यवच्छेदात्, असमारोपितांशे दर्शनस्य प्रामाण्यात् ।
३७०
क्वचिद् दृष्टेऽपि यज्ज्ञानं सामान्यार्थं विकल्पकम् । असमारोपिताऽन्यांशे तन्मात्रापोहगोचरम् ॥ [
]
इति वचनान्नोक्तोपालम्भ इति चेत्, न समारोपव्यवच्छेदविकल्पस्य स्वसंवेदनव्यवस्थानेऽपि विकल्पान्तरापेक्षत्वप्रसङ्गान्नीलादिस्वलक्षणदर्शनवन्निर्विकल्पकत्वाविशेषात् ।
( भा० ) वस्तुदर्शनसमारोपव्यवच्छेदयोरन्यतरस्यापि स्वतस्तत्त्वापरिनिष्ठितावितरेतराश्रयदोषः ।
समारोप हि येन व्यवच्छिद्यते स निश्चयः । स्वरूपमनिश्चिन्वन्नपि यदि स्वतः परिनिष्ठापयेत्तदा वस्तुदर्शनमपि, विशेषाभावात् । तथा च किं निश्चयापेक्षया ? वस्तुदर्शनस्य निश्चयापेक्षायां वा निश्चयस्वरूपसंवेदनस्यापि निश्चयान्तरापेक्षणादनवस्था स्यात् । निश्चयाद्वस्तुदर्शनस्य परिनिष्ठितौ वस्तुदर्शनाच्च निश्चयस्वरूपस्य परस्पराश्रयदोषः स्यात् । ततो न विकल्पवच्छब्दस्य सर्वथान्याअष्टसहस्त्रीतात्पर्यविवरणम्
सात्राप्यनुवर्त्तत इति रजतविशेष्यकरजतत्वप्रकारकविकल्पस्यैव प्रामाण्यादलं तज्जनकदर्शनप्रामाण्यप्रत्याशयेति भावनीयम् । वस्तुसंस्पर्शाभावे ऽपीति एतदुत्तरं निर्णयसंशययोरिति शेषः । ननु निर्णयस्य वस्त्वस्पर्शित्वात्तद्विषयविषयकत्वरूपं प्रामाण्यं दर्शनस्य मा सेत्सीत् तस्य दर्शनविषयसमारोपव्यवच्छेदकत्वे तु न विवाद इति तद्व्यवच्छिन्नसमारोपप्रतियोगिविषयकत्वे दर्शनस्य प्रामाण्यं सेत्स्यतीति आशङ्कते - ननु चेति अर्थग्रह इव समारोपव्यवच्छेदेऽपि ज्ञानस्य न स्वातिरिक्तविकल्पापेक्षा, अन्यथा स्वविषयकत्वेऽपि तत्प्रसङ्गात्तथा चानवस्थादिदोषसहस्रीपनिपातस्य दुर्निवारत्वादित्याशयवान् समाधत्ते- समारोपेत्यादिना
१. भावाविशेषे इति अष्टसहस्त्रीसम्मतः पाठः ।
Page #405
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. १६]
३७१ पोहोऽर्थः । एतेनातत्कार्यकारणव्यावृत्तिरेकप्रत्यवमर्शादिज्ञानादेकार्थसाधने हेतुरत्यन्तभेदेऽपीन्द्रियादिवत्समुदितेतरगुडूच्यादिवच्च ज्वरोपशमनादाविति वदन्निराकृतः, सर्वथा ततो वस्तुनि प्रवृत्त्ययोगात् ।
(भा०) समयादर्शिनोऽपि क्वचिदन्वयबुद्ध्यभिधानव्यवहारोऽतत्कार्यकारणव्यतिरेकव्यवस्थायां गुडूच्याद्युदाहरणप्रक्लृप्ति विपर्यासयति, तस्य वस्तुभूतार्थसादृश्यपरिणामसाधनत्वात् । ___न हि गुडूच्यादयो ज्वरोपशमनशक्तिसमानपरिणामाभावे ज्वरोपशमहेतवो न पुनर्दधित्रपुषादयोऽपीति शक्यव्यवस्थं, चक्षुरादयो वा रूपज्ञानहेतवस्तज्जननशक्तिसमानपरिणामविरहिणोऽपि न पुना रसनादय इति निर्निबन्धना व्यवस्थितिः । अतत्कार्यकारणव्यावृत्तिनिबन्धना सेति चेत्, कथं तत्कारणकार्यजन्यजनकशक्तिसमानपरिणामाभावेऽपि केषाञ्चिदतत्कारणकार्यव्यावृत्तिः सिद्धयेदिति प्रकृतमुदाहरणं कर्कादिव्यक्तीनामश्वत्वादिप्रत्ययं तथा समानपरिणामहेतुकं साधयति ? इति विपर्याससाधनमन्यापोहवादिनाम् । ततोऽमीषामन्यापोहसामान्यमसदवक्तव्यमेव ।
- अष्टसहस्रीतात्पर्यविवरणम् एतेन= वस्तुदर्शनस्य स्वतः स्वरूपपरिनिष्ठितत्वव्यवस्थापनेन, अतत्कार्यकारणव्यावृत्तिः=अगोव्यावृत्तिः, एकप्रत्यवमर्शादिज्ञानात् गौौरित्याद्यनुगतानुसन्धानात्, एकार्थसाधने एकव्यवहारसम्पादने, अत्यन्तभेदेऽपीति तस्याः कल्पितत्वेनार्थादभेदासहिष्णुभेदेऽपीत्यर्थः । इन्द्रियादिवत् रूपादिज्ञाने चक्षुरादिवत्, ज्वरोपशमनादौ समुदिता इतरे शुण्ठ्यादय औषधविशेषा यत्र तादृशा ये गुडूच्यादयस्तद्वच्चेति योजनीयम् । अन्वयव्यतिरेकानुविधानं हि हेतुहेतुमद्भावे प्रयोजकं न त्वभेदोऽपीति भावः । समयादर्शिनोऽपि=अतत्कार्यकरणव्यावृत्तौ सङ्केतादर्शिनोऽपि, दर्शनपदं ज्ञानमात्रोपलक्षणम्, अन्वयबुद्ध्यभिधानव्यवहारः अयं गौरयं गौरित्याद्यभिलापात्मा व्यवहारः, अतकार्यकारणव्यतिरेकव्यवस्थायाम्=अतत्कार्यकरणव्यावृत्तेरेकार्थसाधनहेतुत्वनियमे, विपर्यासयति वैधापादनेन विघटयतीति भाष्याक्षरार्थः । वृत्तौ तस्येति तथा च गुडूच्यादेचरोपशमनादौ वस्तुभूतशक्तिसमानपरिणामेन हेतुत्वम्, अन्यापोहस्य तु कल्पनामात्रनिर्वृत्तत्वेन तदभावान्न तथेति व्यक्तो विपर्यास इत्युक्तं भवति । कर्कादिव्यक्तीनां कर्कादिविशेषाणाम्, 'अश्वादिप्रत्ययम्=अश्वाद्यनुगतप्रत्ययम्, तथा समानपरिणामहेतुकं=
१. अश्वत्वादि इति अष्टसहस्रीसम्मतः पाठः ।
Page #406
--------------------------------------------------------------------------
________________
३७२
अष्टसहस्त्रीतात्पर्यविवरणम् एतेन स्वलक्षणान्यापोहद्वयं सदसदवक्तव्यमेव सौगतानामापादितमुन्नेयं, स्वलक्षणस्य
- अष्टसहस्त्रीतात्पर्यविवरणम् प्रतिनियतसमानपरिणामजन्यम्, साधयति तथाविधव्याप्त्युपस्थापनात् । कर्कादिष्वश्वाद्यनुगतप्रत्ययः प्रतिनियतसमानपरिणामहेतुकः अनुगतकार्यत्वात् गुडूच्यादिप्रयुक्तज्वरनाशवदिति प्रयोगसम्भवादिति भावः । विपर्याससाधनमिति अतद्व्यावृत्तिहेतुकत्वसाधनायोपन्यस्तेन प्रकृतोदाहरणेन तद्विपरीतसमानपरिणाहेतुकत्वसाधनादिति भावः । ननु गुडूच्यादिषु शक्तिरूपः समानपरिणामः कारणतावच्छेदक इष्यते प्रकृते त्वनुगतप्रत्ययहेतुत्वं समानपरिणामे साध्यमित्यस्ति तवापि साधनवैषम्यमिति चेत्, न, शक्तिशक्तिमतोरभेदनये शक्तिमतो हेतुत्वे शक्तेरपि तथात्वेन तदभावात् । यद्वा कारणतत्त्वावच्छेदकसाधारणं प्रयोजकत्वमादाय समानपरिणामप्रयोज्यत्वे साध्ये न कोऽपि दोष इति भावनीयम् । अमीषामन्यापोहवादिनां बौद्धानाम्, अन्यापोहसामान्यमसत्=अभावत्वेनाभिमतम्, अव्यक्तव्यमेव विचाराक्षमत्वात्, एवं प्रत्येकमवक्तव्यत्वघटिते भङ्गद्वये समर्थिते क्रमार्पिताभ्यां तृतीयभङ्गः सुघट एवेत्याह-एतेनेत्यादि । सौगतानामिति तन्मते स्वलक्षणान्यापोहयोः सदसत्त्वेनाभिमतयोविवाददशायामवक्तव्यस्यापादयितुं शक्यत्वादित्यर्थः । तदाह-स्वलक्षणस्येत्यादि ।
T॥ श्वेताम्बराभिमतसप्तभङ्गीस्वरूपविमर्शः ॥ अत्रेदं चिन्त्यम् । एवं पराभिमतं सत्त्वमसत्त्वं तदुभयं चोद्देश्यतावच्छेदकीकृत्यावक्तव्यत्वविधानेन चरमभङ्गत्रयसमर्थने वेदान्त्यभिमतमवक्तव्यत्वमुद्देश्यतावच्छेदकीकृत्य तद्विचारासहत्वविधित्सयाऽष्टमोऽपि भङ्गः कुतो न भवेत् ? शब्दसाम्येऽप्यर्थभेदेन भङ्गान्तरस्य दुर्वारत्वात् । (शङ्का) धर्मवक्तव्यत्ववदवक्तव्यादवक्तव्यत्वं न भेदकमिति चेत, न, परमतस्वमताभ्यामुद्देश्यविधेयभावस्यैव भेदकत्वात्, अन्यथा सदवक्तव्यत्वादिकमपि केवलावक्तव्यत्वभङ्गकुक्षौ प्रविश्य न भङ्गान्तरमुत्थापयेत्, किं चैवमाद्यभङ्गचतुष्टयं शुद्धघटत्वावच्छिन्नोद्देश्यताकमन्त्यभङ्गत्रयं च कल्पितसत्त्वाद्यवच्छिन्नघटनिष्ठोद्देश्यताकमिति प्रकृतसप्तभङ्ग्येकवाक्यताभङ्गप्रसङ्गः, प्रकारभेदेनैव तद्भेदस्याभियुक्तैरुक्तत्वात्, प्रकारश्च विधेयधर्मो वोद्देश्यतावच्छेदकधर्मो वेति न कश्चिद्विशेषः । इत्थमेव शुद्धघटादिधर्मिकसप्तभङ्गीतो नीलघटादिधर्मिकायास्तस्या अविगानेन भेद इति । यदि च सत्त्वमसत्त्वं तदुभयं च मतकल्पितमुद्दिश्य पृथगेवावक्तव्यत्वं चरमभङ्गत्रयेणाभिधीयत इति मतं तदा तादृशं नित्यत्वानित्यत्वतर्भयादिकमादाय बहवोऽपि भङ्गाः प्रकृतपर्यायविधिनिषेधकल्पनामूलत्वाभावेनैकवाक्यत्वाभावश्च स्फुट एवेति परमतापेक्षया चरमभङ्गत्रयं व्यवतिष्ठत इत्यकलङ्कदेवोक्तिर्वार्तामात्रम्, किं त्वाद्यभङ्गद्वयघटकनिजपररूपयोः शृङ्गग्राहिकया व्यवस्थापन एव नयभेदो मतभेदो वोपयुज्यते, तृतीयभङ्गस्त्ववक्तव्यत्वलक्षणस्ताभ्यां
Page #407
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि० १ - का० १६ ]
सतोऽप्यन्यापोहस्य चासतोऽपि वक्तुमशक्यत्वात् इति परमतापेक्षया चरमभङ्गत्रय
अष्टसहस्त्रीतात्पर्यविवरणम्
युगपदादिष्टाभ्यां तद्भेदादनेकभेद इत्येते त्रयो निरवयवद्रव्यविषयत्वात् सकलादेशरूपाः, सदसत्त्वसदवक्तव्यत्वादयश्चत्वारस्तु चरमाः सावयवद्रव्यविषयत्वाद्विकलादेशरूपाः, देशभेदं विनैकत्र तु क्रमेणापि सदसत्त्वविवक्षा सम्प्रदायविरुद्धत्वान्नोदेतीति न निरवयवद्रव्यविषयत्वमेषामित्यस्मदभिमतोक्तमेव युक्तमिति मन्तव्यम् । तदेतद्रहस्यं स्वसमयव्युत्पत्तिरसिकमनोविनोदाय सम्मतिगाथाभिरेव व्युत्पादयामः
अत्यंतरभूएहिं णियएहि य दोहिं समयमाईहिं ।
वयणविसेसाईयं दव्वमवत्तव्वयं पडइ ॥ [ काण्ड १.३६ ]
३७३
अर्थान्तरभूतः पटादिः निजो घटादिः ताभ्यां द्वाभ्यां सदसत्त्वं घटवस्तुनः प्रथमद्वितीयभङ्गनिमित्तं प्रधानगुणभावेन भवतीति सोपस्कारं व्याख्येयम् । समयमाईहिं इत्यनन्तरं तुर्गम्यः, द्वाभ्यामिति चानुवर्त्तते, समकमादिरादानं ययोस्ताभ्यां सहार्पिताभ्यां तु द्वाभ्यामित्यर्थः । वचनविशेषातीतं वचनस्य विशेषः शक्तिस्तमतीतमतिक्रान्तं सत् तथाविधवाचकाविषयीभूतमिति यावत् । द्रव्यं घटादि, अव्यक्तव्यम्, पतति अशक्तिभाराद्वक्तव्यताशिखरे स्थातुं न शक्नोतीत्यर्थः । अव्यक्तव्यतां वा पततीति व्याख्येयम्, तथाहि-द्वयोर्धर्मयोः प्राधान्येन गुणभावेन वा प्रतिपादने न किञ्चिद्वचः समर्थम् । वृत्तौ द्वन्द्वस्यैवोभयपदप्रधानत्वात्, तस्य च द्रव्यवृत्तेः प्रकृतेऽनुक्तिसम्भवाद्, गुणवृत्तेरपि गुणानां परार्थत्वेन प्राधान्याघटनात्, प्रत्येकभङ्गस्थले एकधर्मस्यैकधर्म्युपचारेण प्राधान्यसम्भवे विरुद्धत्वेन प्रतीयमानयोर्धर्मयोरेकधर्म्युपचारायोगात्, वाक्यस्यापि वृत्त्यभिन्नार्थत्वेन तदनतिशायित्वात्, न च केवलं पदं वाक्यं वा लोकप्रसिद्धं तथा, तस्यापि परस्परापेक्षद्रव्यादिविषयतया तथाभूतार्थप्रतिपादकत्वायोगात्, न च तौ सदिति शतृशानचोरिव सङ्केतितैकशब्दवाच्यत्वम्, विकल्पप्रभवशब्दवाच्यत्वप्रसङ्गात्, विकल्पानां च युगपदप्रवृत्तेर्नैकदा तयोस्तद्वाच्यतासम्भव इति । एतेन तदादिपदप्रतिबन्धपि निरस्त । तत्तद्विकल्पप्रभवेन तच्छब्देन क्रमेणैवानेकार्थाभिधानात् एकवचनान्तस्याप्येकशेषस्य 'जहा एगो पुरिसो तहा बहवे पुरिसा [ ] इत्याद्यागमसिद्धत्वात् । न च निजार्थान्तरैकताभ्युपगमेऽप्यर्थस्य वाच्यता, तथाभूतस्यात्यन्तासत्त्वेनावाच्यत्वात् । न च घटत्वे घटशब्दप्रवृत्तिनिमित्ते सिद्धेऽसम्बद्ध एव तत्र पटाद्यर्थप्रतिषेध इति द्वितीयभङ्गानवकाशात् तृतीयोऽपि
१. छाया - यथैकः पुरुषस्तथा बहवः पुरुषाः ।
Page #408
--------------------------------------------------------------------------
________________
३७४
अष्टसहस्त्रीतात्पर्यविवरणम्
मुदाहृतम् ॥१६॥
अष्टसहस्त्रीतात्पर्यविवरणम् दूरापास्त इति शङ्कनीयम्, पटादेस्तत्राभावाभावे घटशब्दप्रवृत्तिनिमित्तस्य घटत्वस्यैवासिद्धेः, प्रथमभङ्गोत्थापिताकाङ्क्षया द्वितीयभङ्गस्यावश्यप्रयोज्यत्वात्, तदुभयविषयसहार्पणया तृतीयस्याप्यवर्जनीयत्वात् ।
अथवा सर्वं सर्वात्मकमिति साङ्ख्यमतव्यवच्छेदार्थं तत्प्रतिषेधो विधीयते, तत्र तस्य प्रतीत्यभावात् ॥१॥
यद्वा नाम-स्थापना-द्रव्य-भावभिन्नेषु विधित्सताविधित्सितप्रकारेण प्रथमद्वितीयौ, ताभ्यां युगपदवाच्यम्, तथाभिधेयपरिणामाभावाद्, व्यतिरेके प्रतिनियतव्यवहारोच्छेदो बाधकस्तर्कः, एवमग्रेऽपि ॥२॥
अथवा स्वीकृतप्रतिनियतप्रकारे तत्रैव नामादिके यः संस्थानादिस्तत्स्वरूपेण घटः, इतरेण चाघट इति प्रथमद्वितीयौ, ताभ्यां युगपदभिधातुमशक्तेरवाच्यः ॥३॥
___ यद्वा स्वीकृतप्रतिनियतसङ्ख्यानादौ मध्यावस्था निजं रूपं कुशूलकपालादिलक्षणे पूर्वोत्तरावस्थे अर्थान्तररूपं ताभ्यां सत्त्वासत्त्वयोराद्यद्वितीयौ, युगपत्ताभ्यामभिधातुमसामर्थ्यादवाच्यत्वलक्षणस्तृतीयः ॥४॥
अथवा तस्मिन्नेव मध्यावस्थारूपे वर्तमानावर्त्तमानक्षणरूपतया सत्त्वासत्त्वाभ्यां प्रथमद्वितीयौ, ताभ्यां युगपदनभिधेयत्वादवक्तव्यत्वाख्यस्तृतीयः ॥५॥
यद्वा क्षणपरिणतिरूपे लोचनजप्रतिपत्तिविषयत्वाविषयत्वाभ्यां निजार्थान्तरभूताभ्यां सत्त्वासत्त्वाभ्यामाद्यद्वितीयौ, ताभ्यां युगपदादिष्टोऽवाच्यः ॥६।।
अथवा लोचनजप्रतिपत्तिविषये तस्मिन्नेव घटे घटशब्दवाच्यता निजं रूपं कुटशब्दाभिधेयत्वमर्थान्तररूपं ताभ्यामाद्यद्वितीयौ, सहार्पणया तृतीयः ।।७।।
अथवा घटशब्दाभिधेये तत्रैव घटे हेयोपादेयान्तरङ्गबहिरङ्गोपयोगानुपयोगरूपतया सदसत्त्वादाद्यद्वितीयौ, ताभ्यां युगपदादिष्टोऽवाच्यः ॥८॥
अथवा तत्रैवोपयोगेऽभिमतार्थावबोधकत्वानभिमतार्थानवबोधकत्वतः सत्त्वासत्त्वाभ्यामाद्यद्वितीयौ, सहार्पणयाऽवाच्यः ॥९।।
अथवा सत्त्वमसत्त्वं चार्थान्तरभूतम्, निजं घटत्वम्, ताभ्यामाद्यद्वितीयौ, अभेदेन
Page #409
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. १६]
३७५ नन्वस्तित्वमेव वस्तुनः स्वरूपं, न पुनर्नास्तित्वं, तस्य पररूपाश्रयत्वादन्य
अष्टसहस्त्रीतात्पर्यविवरणम्
ताभ्यां निर्दिष्टो घटोऽवक्तव्यो भवति, सत्त्वमनूद्य घटत्वविधाने सत्त्वस्य घटत्वेन व्याप्ततया घटस्य सर्वगतत्वापत्त्या तथाभ्युपगमे प्रतिभासव्यवहारविलोपात्, असत्त्वमसूद्य घटत्वविधानेऽप्यभावमात्रस्य घटत्वप्रसङ्गो, घटत्वमनूद्य सदसत्त्वविधानेऽपि घटमात्रस्य सदसत्त्वे, पटादीनां प्रागभावादीनां चाभावप्रसक्तिरिति विशेषणविशेष्यभावलोपात् सन्नसन्नित्येवं घटोऽवाच्य एव, अनेकान्तपक्षे तु कथञ्चिदवाच्यत्वान्न दोषः । न च अनया रीत्या नीलोत्पलमित्यादावपि विशेषणविशेष्यभावखण्डनादवाच्यत्वप्रसङ्ग इति दूषणं देयम् । तत्रापि स्यात्पदमध्याहृत्यैव तत्कृतप्रतिनियमेन विशेषणविशेष्यभावव्यवस्थितेः, एकान्तपक्षे त्ववाच्यत्वस्वीकारादेव । न च नीलोत्पलमित्यादेः सम्भवाभिप्रायेणैव प्रयोगाद् अदोषः, तथापि नियमाभिप्रायेण स्यादवाच्यत्वाक्षतेः सम्भवनियमाभ्यां प्रथमद्वितीययोरेव भङ्गयोरारम्भे तृभाभ्यामवाच्यत्वाक्षतेरिति दिग् ॥१०॥
यद्वा व्यञ्जनपर्यायोऽर्थान्तरभूतस्तदतद्विषयत्वात्तस्य, घटार्थपर्यायस्त्वन्यव्यावृत्तेनिजः, ताभ्यामाद्यद्वितीयौ, अभेदेन ताभ्यां निर्देशेऽवक्तव्यः, अन्यतरमनूद्यान्यतरविधाने व्यवस्थितरूपविपर्यासेन व्यवहारविलोपप्रसङ्गात्, अनेकान्तपक्षे तु युगपदभिधातुमशक्यत्वात् कथञ्चिदवक्तव्यः ॥११॥
यद्वा सत्त्वमर्थान्तरभूतम्, अन्त्यविशेषो निजः, तदुभयं प्रवृत्तिनिवृत्त्यविषयत्वादनन्वयाच्चावाच्यम्, प्रत्येकावक्तव्याभ्यां ताभ्यामादिष्टो घटोऽवक्तव्यः, अनेकान्तपक्षे तु कथञ्चिदवक्तव्यः ॥१२॥
अथवा सन्द्रुतरूपाः सत्त्वादयो घट इत्यत्र दर्शनेऽर्थान्तरभूता रूपादयः, निजं सन्द्रुतरूपम्, ताभ्यामादिष्टो घटोऽवक्तव्यः, अरूपादिव्यावृत्त्या रूपादिव्यवस्थायामरूपाद्यात्मकघटताया रूपादीनामवाच्यत्वात्, अरूपादिरूपत्वे च रूपादीनां तत्स्वरूपस्यैवाभावे के सन्द्रुतरूपतया विशेष्या ये घटरूपतामास्कन्देयुः ? इत्येवमप्यवाच्यः । अनेकान्तवादे च कथञ्चिदवाच्यः ॥१३॥
इयमेव रीतिरसन्द्रुतरूपा रूपादयो घट इति पक्षेऽपि भावनीया । तत्र रूपादीनामर्थान्तरभूतत्वादसन्द्रुतरूपत्वस्य च निजत्वात्ताभ्यामादिष्टस्यावक्तव्यतायाश्च प्राग्वद्विशेष्यलोपादेव सिद्धेः । कथञ्चित्पक्षस्य च जैनानां सर्वत्राप्यदुष्टत्वात् । पूर्वपक्षे रूपादिषु घटत्वं पर्याप्तमत्र तु रूपादिप्रत्येकवृत्ति नाना तत्, कथञ्चित्सौसादृश्याच्चैकत्वव्यवहार इत्येतावान्
Page #410
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम्
३७६ थातिप्रसङ्गादिति वदन्तं वादिनं प्रत्याहुराचार्या:
अष्टसहस्त्रीतात्पर्यविवरणम्
विशेष इति सम्भावयामः ॥१४॥
यदि वा रूपादयोऽर्थान्तरभूता मतुबर्थो निजस्ताभ्यामादिष्टो घटोऽवक्तव्यः, विना कल्पनाशिल्पं भिन्नप्रतीतिविषये विशेषणविशेष्यभावाभावात्, अनेकान्ते तु कथञ्चिदवाच्यः ॥१५॥
अथवा बाह्योऽर्थान्तरभूत उपयोगस्तु निजस्ताभ्यामादिष्टोऽवक्तव्यः । य उपयोगः स घट इत्युक्तौ उपयोगमात्रस्य घटत्वप्रसक्तेः, यो घट: स उपयोग इत्युक्तावुपयोगस्यार्थत्वप्रसक्तेर्घटस्यावाच्यत्वात्, अनेकान्ते तु कथञ्चिदवाच्यत्वे दोषाभावादिति दिग् ॥१६।।
भङ्गाः षोडश योगतर्कवदिमे भूयो विचारक्षमाः, साकल्येन च तैर्नियम्यत इदं भङ्गत्रयं वस्तुनि । तेनैतान् सुधियो वदन्ति सकलादेशान् विवक्षावशादेशस्थांश्चतुरः परांस्तु विकलादेशान्निदेशाद् गुरोः ॥१॥ [शार्दूल०] एतदन्यतरेणैव सप्तभङ्ग्यैक्यमिष्यते । शब्दसाम्येन नैकत्वं तत्त्वतः षोडशैव ताः ॥२॥ इहार्थे कोटिशो भङ्गा निर्दिष्टा मल्लवादिना ।
मूलसम्मतिटीकायामिदं दिङ्मात्रदर्शनम् ॥३॥ एत एव सप्तभङ्गाः स्यात्पदलाञ्छनविरहिणोऽवधारणैकस्वभावा विषयाभावाढुर्नया भवन्ति । धर्मान्तरोपादानप्रतिषेधाकरणात, स्वार्थमात्रप्रतिपादनपराः स्यात्पदमहिम्ना विवक्षितैकधर्मावधारणपरा वा सुनया इति विभागः ।
एवं निरवयववाक्यात्मकं भक्त्रयं प्रतिपाद्य सावयववाक्यरूपं चतुर्थं भङ्गं प्रतिपादयितुमाह
अह देसो सब्भावे देसोऽसब्भावपज्जवे णियओ । तं दवियमत्थिणत्थि य आएसविसेसियं जम्हा ॥२॥ [काण्ड १-३७]
अथेति यदा देशो वस्तुनोऽवयवो धर्मो वा, सद्भावेऽस्तित्वे, नियतो विवक्षितः, देशाश्चापरोऽसद्भावे नास्तित्वे, तदा तद् द्रव्यमस्ति च नास्ति चेति देशाभेदद्वारेण वाच्यम् । अक्षिपाणिगतकाणकुण्टत्वयोगात् काणकुण्ट इव देवदत्तः, तदाह-यस्मात्तद्
Page #411
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि० १-का. १६]
३७७
अष्टसहस्त्रीतात्पर्यविवरणम्
द्रव्यमादेशविशेषितम् = उभयप्रधानावयवाभेदेनापितं स्वाश्रयसमवायित्वरूपपरम्परासम्बन्धावच्छिन्नधर्मद्वयप्रकारतानिरूपितकविशेष्यताकौपादानिकबोधेच्छाविषयीकतमिति यावत् । यथाश्रुते घटपदस्य देशपरस्यावृत्त्याः प्रकारताद्वयनिरूपितविशेष्यताद्वयशालिन एव बोधस्य जननादौपादानिकबोधपर्यन्तमनुधावनम्, एवमग्रेऽपि बोध्यम् । उक्तन्यायेन पञ्चमभङ्गप्रदर्शनायाह
सब्भावे आइट्ठो देसो देसो य उभयहा जस्स ।
तं अस्थि अवत्तव्वं च होइ दवियं विअप्पवसा ॥ [का० १.३८]
सद्भावे अस्तित्वे यस्य घटादेर्धर्मिणो देश आदिष्टो देशश्चापर उभयथाऽस्तित्वनास्तित्वप्रकाराभ्यामेकदैव विवक्षितः तद् द्रव्यं अस्ति चावक्तव्यं च भवति, विकल्पवशाद=उक्तोभयधर्माक्रान्तदेशद्वारेण धर्मिणो विवक्षावशात्, तेन प्रथमतृतीयभङ्गसंयोगेनान्यथासिद्धिव्युदासः, केवलधर्मविवक्षाया देशाविशेषितद्रव्य एव सम्भवात, देशद्वारा द्रव्ये उभयधर्मविवक्षाया एव युक्तत्वादिति बोध्यम् । षष्ठं भङ्ग दर्शयितुमाह
आइट्ठो सब्भावे देसो, देसो य उभयहा जस्स ।
तं णत्थि अवत्तव्वं च होइ दवियं विअप्पवसा ॥ [का० १.३९] यस्य वस्तुनो देश एकोऽसत्त्वे नियतोऽपरश्च सत्त्वासत्त्वाभ्यां युगपद् आदिष्टः तद् द्रव्यं तथा विकल्पवशान्नास्ति चावक्तव्यं च भवति, केवलद्वितीयतृतीयभङ्गव्युदासः प्राग्वद्भाव्यः । सप्तमं प्रदर्शयति
सब्भावासब्भावे देसो, देसो य उभयहा जस्स ।
तं णत्थि अवत्तव्वं च होइ दवियं विअप्पवसा ॥ [का० १.४०]
यस्य देश एक: सद्भावे अपरो असद्भावे अन्यश्चउभयथा नियतस्तद् द्रव्यं तथाविकल्पवशादस्ति नास्त्यवक्तव्यं च भवति, विशिष्टविवक्षया केवलभङ्गत्रयव्युदासः । न चात्राष्टमवचनविकल्पपरिकल्पनापि सम्भवदवतारा, तन्निमित्ताभावात्, सावयवात्मकस्य निरवयवात्मकस्य तन्निमित्तस्य चतुर्थादिषु प्रथमादिषु चान्तर्भावात्, गत्यन्तरस्य चासत्त्वात् ।
Page #412
--------------------------------------------------------------------------
________________
३७८
अष्टसहस्त्रीतात्पर्यविवरणम्
अष्टसहस्रीतात्पर्यविवरणम्
न चावक्तव्यत्ववद्वक्तव्यत्वेनाष्टमेन भवितव्यम्, सप्रतिपक्षमौलभङ्गजिज्ञासामूलजिज्ञासाविषयत्वेनावक्तव्यत्वाश्रयणेऽपि तद्विपर्ययेण वक्तव्यत्वानाश्रयणात्, अत एवावक्तव्यत्वसप्तभङ्ग्यामपि मौलभङ्गद्वयोत्थापिताकाङ्क्षाविषयस्यावक्तव्यत्वस्यान्यस्यैव तृतीयभङ्गे प्रवेशान्न न्यूनत्वमिति वदन्ति, तेन व्यवस्थितः सप्तविधो वचनमार्गः ।
अत्र नयविभागप्रदर्शनार्थमाह
एवं सत्तविअप्पो वयणपहो होइ अत्थपज्जाए।
वंजणपज्जाए पुण सविअप्पो णिव्विअप्पो य ॥ [का० १.४१] एवं उक्तप्रकारेण सप्तविकल्पः सप्तभेदो वचनपथः अर्थपर्याये=अर्थनये सङ्ग्रहव्यवहारर्जुसूत्रलक्षणे भवति । तत्र प्रथमः सङ्ग्रहे सामान्यग्राहिणि, द्वितीयो व्यवहारे विशेषग्राहिणि, तृतीयपक्ष ऋजुसूत्रे सूक्ष्मवर्तमानक्षणग्राहिणि, एकदोभयार्पणाया वर्तमानक्षणनियतत्वात्, चतुर्थः सङ्ग्रहव्यवहारयोः, पञ्चमः सङ्ग्रहर्जुसूत्रयोः, षष्ठो व्यवहारर्जुसूत्रयोः, सप्तमः सङ्ग्रहव्यवहारर्जुसूत्रेषु । व्यञ्जनपर्याये विषयिलक्षणया शब्दनये सविकल्प: साम्प्रताख्यभेदे, पर्यायशब्दवाच्यताविकल्पसद्भावात्, निर्विकल्पः समभिरुद्वैवंभूतयोः पर्यायक्रियाभेदभिन्नार्थत्वात् तयोः । तथा च स्यादस्ति स्यान्नास्तीत्यत्र घटपदेन यावद्घटवाचकपदावाच्यत्वावच्छिन्नो धर्म्युपादेयः, तस्य फलतः प्रथमशब्दभेदे सत्त्वम्, द्वितीयततीययोश्चासत्त्वमिति भेदद्वयं सिद्धयति । सविअप्पणिव्वियप्पं [१.३५] इत्यादिसिद्धसविकल्पकत्वनिर्विकल्पकत्वभङ्गद्वयोपादाने प्रकृतसप्तभङ्गीमुपक्रम्य धर्मान्तरसप्तभङ्गीसाधनेऽर्थान्तररूपनिग्रहस्थानप्रसङ्गादित्यस्माकमनेकान्तव्यवस्थादौ' मनीषोन्मेषः ।
न च यथोक्तव्याख्यानेऽपि धर्मितावच्छेदकभेदात् सप्तभङ्गीभेदप्रसङ्ग आवश्यकः, एकत्र धर्मिणीत्यस्यैकधर्मितावच्छेदकावच्छिन्न इत्येवार्थादिति शङ्कनीयम्, तद्धर्मितावच्छेदकसमनियतधर्मावच्छिन्नविशेष्यतास्थले सप्तभङ्गीभेदाभावाद्, अन्यथा कम्बुग्रीवादिमान् स्यादस्तीत्यादावपि घटविशेष्यकसप्तभङ्गीभेदापत्तेरिति विभावनीयं सूरिभिः । साम्प्रतसमभिरूद्वैवंभूतान्यतमविषययोर्युगपत् जिज्ञासायां तृतीयः, प्रथमद्वितीयसंयोगे चतुर्थः, प्रथमद्वितीयचतुर्थेष्वनभिधेयसंयोजनया पञ्चमषष्ठसप्तमाः ।
यद्वा अस्या गाथाया' भिन्नस्तात्पर्यार्थो वृत्तिकृद्भिरुद्भावितः, तथाहि-अर्थनय एव
१. सम्मतिप्रकरणस्य ‘एवं सत्त' (का० १.४१) इत्यादि गाथायाः ।
Page #413
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि० १ - का० १६ ]
३७९
अष्टसहस्त्रीतात्पर्यविवरणम्
सप्तभङ्गाः, शब्दादिषु तु त्रिषु नयेषु प्रथमद्वितीयावेव भङ्गौ, वक्त्रभिप्रायो हि सङ्ग्रहादिरर्थप्रधानोऽर्थनयः, परार्थशब्द श्रवणोद्गतः शब्दादिश्रोत्रभिप्रायश्च शब्दप्रधानार्थोपसर्जनत्वात् शब्दनयः । तत्र शब्दसमभिरूढापेक्षया सविकल्पको वचनपथः, सञ्ज्ञाक्रियाभेदेनाभिन्नार्थप्रतिपादकत्वेऽपि भेदजिज्ञासारूपविकल्पसाहित्यात्, एवंभूतस्तु क्रियाभेदाद्भिन्नमेवार्थं तत्क्षणे स्थापयतीति निर्विकल्पकः, तदुत्तरं भेदजिज्ञासारूपविकल्पविरहादिति भङ्गद्वयमेवावतिष्ठते, अवक्तव्यत्वभङ्गस्तु व्यञ्जननये न सम्भवत्येव, तस्यार्थप्रतिपत्तुः शब्दश्रवणोद्गताभिप्रायविशेषत्वात्, अवक्तव्यत्वस्य तु शब्दाभावविषयत्वादिति । शब्दानुपलब्धिगम्यस्याप्यवक्तव्यत्वस्यानुमानादिगम्यार्थस्येव प्रमाणसंप्लववादिनां शब्दप्रमाणविषयत्वं नायुक्तिमत् व्यञ्जनपर्याये सप्तभङ्ग्यभावे च तस्या व्यापकत्वप्रवादस्याप्रामाणिकत्वापत्तिः, तथापि वक्तव्यत्वरूपे व्यञ्जनपर्याये प्रतिपक्षेणावक्तव्यत्वेन सह भङ्गद्वयमेव भवति, अवक्तव्यत्वोपाधीनां बुद्धिविशेषानुगतानां यावतामेव स्यात्पदेनोपस्थितिसम्भवे तृतीयभङ्गस्यानतिप्रयोजनत्वात् सप्तभङ्ग्या व्यापकत्वप्रवादस्यार्थपर्यायमादायैवोपपत्तेरेवमवक्तव्यत्वसप्तभङ्ग्यामपि तृतीयभङ्गस्य प्रथमभङ्गे प्रवेशाद् भङ्गद्वयपरिशेषो व्याख्येयः, तस्यापि व्यञ्जनपर्यायत्वात्, व्यञ्जनपर्यायशब्देन व्यञ्जनपर्यायनिष्ठप्रतियोग्यनुयोगिभावसम्बन्धाश्रयस्यैव ग्रहणात् । न च भङ्गद्वये स्याद्वादहानिः, सप्तभङ्ग्या एव स्याद्वादत्वादिति शङ्कनीयम्, "को जीव ?' इत्यादिप्रश्ने 'स्यादौपशमिकादिभावयुक्तो जीव' इत्याद्येकभङ्गोत्तरेऽपि स्यात्कारलाञ्छनतया स्याद्वादत्वस्य मलयगिरिप्रभृतिभिरभियुक्तैः समर्थितत्वात् । उत्थाप्याकाङ्क्षया यथाकथञ्चित्सप्तभङ्ग्यवतारस्य सुलभतायाश्चास्माभिर्नयोपदेशादौ प्रदर्शितत्वादिति युक्तं पश्यामः । एतेन
इच्छइ विसेसियतरं पच्चुप्पण्णं णओ सद्दो । [ विशेषावश्यकभाष्यं २१८४]
इति नियुक्तिप्रतीके ऋजुसूत्राद्विशेषिततरत्वं शब्दस्य सप्तभङ्ग्याक्रान्ततया यन्महाभाष्यादावुपदर्शितं तदविरुद्धमित्युक्तं भवति, वक्तव्यत्वातिरिक्तस्थले तत्सावकाशताया न्याय्यत्वात्, शब्दावच्छिन्नार्थग्राहित्वेन च शब्दनयस्यार्थनयत्वानापत्तेरिति भावनीयम् ॥१६॥
१. पच्चुप्पन्नग्गाही उज्जुसुओ नयविहो मुणेयव्वो । इच्छइ विसेसियतरं पच्चुप्पन्नं नओ सद्दो || छाया - (प्रत्युत्पन्नग्राही ऋजुसूत्रो नयविधिर्ज्ञातव्यः । इच्छति विशेषिततरं प्रत्युत्पन्नं नयः शब्दः ||)
Page #414
--------------------------------------------------------------------------
________________
३८०
अष्टसहस्त्रीतात्पर्यविवरणम् अस्तित्वं प्रतिषेध्येनाविनाभाव्येकर्मिणि । विशेषणत्वात्साधर्म्यं यथा भेदविवक्षया ॥१७॥
- अष्टसहस्त्रीतात्पर्यविवरणम्
यद्वा व्यञ्जनपर्याये=व्यञ्जनपर्यायग्राहिणि शुद्धशब्दनये एवंभूताख्ये देशप्रदेशकल्पनारहिताखण्डवस्त्वभ्युपगमपरे देशाश्रितोत्तरभङ्गचतुष्टयायोगादाद्येषु त्रिष्ववस्थितेषु एकसम्बन्धिज्ञानेऽपरसम्बन्धिस्मरणमिति न्यायेन पदज्ञानोपस्थितानामर्थानामिवार्थज्ञानोपस्थितानां पदानामपि शाब्दबोधप्रवेशध्रौव्येऽवक्तव्यत्वभङ्गस्य मूलत एव लोपात् सविकल्पो =व्यतिरेकसहितो निर्विकल्पश्च तद्रहितो वचनमार्ग इत्येवमाद्यभङ्गद्वयमेवावशिष्यत इति व्याख्येयम् ॥२॥
यद्वा व्यञ्जनपर्याये= विशेषापेक्षया स्थूलव्यञ्जनपर्यायग्राहिणि व्यवहारकृतभेदसङ्कोचपरे सङ्ग्रहनये, सविकल्पो निर्विकल्पश्चेत्याद्यभङ्गद्वयात्मक एव वचनमार्गः, यैरुपाधिभिरवक्तव्यं तैरसत्त्वस्यैवाश्रयणात, इत्थमेव विरुद्धघटत्वपटत्वाभ्यामभावस्य केवलान्वयित्वप्रवादोपपत्तेः । तथा जिज्ञापयिषया गुरोरपि शिष्यं प्रति तृतीयभङ्गस्थाने द्वितीयभङ्गस्यैव प्रयोगार्हत्वात्, आद्यभङ्गे सामान्यबुबोधयिषारूपतया भङ्गद्वय एव वाक्यपर्याप्तौ च सञ्जिघृक्षारूपतया वक्त्रभिप्रायात्मकसङ्ग्रहव्यापारद्वैविध्योपपत्तेर्महावाक्यावान्तरवाक्यरूपनिमित्तभेदात् देशाश्रिता भङ्गा अपि चात्र देशिनिष्ठतया सङ्ग्राह्याः, अन्यथैकवचनबहुवचनादिनाऽऽधिक्यापत्तेरिति सर्वमनवद्यम् ॥३॥
मतद्वयेऽपि व्याख्यातां, सप्तभङ्गीमिमां मया । बुधाः ! सुधावदास्वाद्य, सन्तु सौहित्यशालिनः ॥ अमुष्मिन्नेतावत्यखिलनयसम्मर्दगहने, महातर्के कस्य प्रभवति परिच्छेदधिषणा । तथाप्यन्तः श्रीमन्नयविजयविज्ञांहिभजने, न भग्ना भक्तिश्चेत् कथय किमसाध्यं मम सखे ! ॥२॥ [ शिखरिणी]
॥ सप्तभङ्गीविमर्शः पूर्णः ॥ अथ प्रकृतं-अस्तित्वमिति अस्तित्वं प्रतिषेध्येन= नास्तित्वेन, एकधर्मिण्यविनाभावीति साध्यम्, एककालेऽविनाभावेन सिद्धसाधनवारणार्थमेकधर्मिणीति, विशेषणत्वादिति हेतुः, अस्तित्वनास्तित्वोभयघटितधर्मिविशेषणत्वादित्यर्थः । अन्यथा
Page #415
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. १७]
३८१ एको धर्मी जीवादिः । तत्रास्तित्वं नास्तित्वेन प्रतिषेध्येनाविनाभावि, न पुनर्भिन्नाधिकरणं, विशेषणत्वात् । यथा हेतौ साधर्म्य वैधhण भेदविवक्षया सर्वेषां हेतुवादिनां क्वचिदनुमानप्रयोगे प्रसिद्धम् ।
[अन्वयहेतुर्व्यतिरेकेण सहाविनाभावी अस्ति न वास्य विचारः] सर्वस्य नित्यत्वानित्यत्वादिसाधने हेतौ साधर्म्यस्य व्यतिरेकाविनाभाविनोऽसम्भवादयुक्तमुदाहरणमिति चेत्, न तत्रापि तदुभयसद्भावात् । तथा हि
(भा० ) सर्वमित्थमनित्थं वेति प्रतिज्ञयाभिप्रेत्य वा प्रमेयत्वादिहेतूपादानेऽपि व्यतिरेकोऽस्त्येव, प्रमेयत्वस्य वस्तुधर्मत्वात् ।।
परिणामी जीवः शब्दादिर्वा नापरिणामीति वा, सर्वं चेतनमचेतनं वा विवादापन्नमित्थमनित्थं वा प्रतिज्ञाप्रयोगवादी प्रतिपाद्यानुरोधतः प्रतिज्ञाय, सौगतप्रतिपाद्याशयतोऽभिप्रेत्य वा प्रमेयत्वात् सत्त्वाद्वस्तुत्वादर्थक्रियाकारित्वादित्यादिहेतूनामुपादानेऽपि वादिप्रतिवादिप्रसिद्धेऽर्थेऽन्वयवत्खपुष्पादौ साध्यधर्मनिवृत्तौ साधनधर्मनिवृत्तिलक्षणो व्यतिरेकोऽस्त्येव ।
[गगनकुसुमादयाः प्रमेयाः सन्ति न वेत्यस्य विचारः] (भा०) खपुष्पादयोऽपि तत्र व्यवहारमिच्छता प्रमेयाः प्रतिपत्तव्या इति न किञ्चित्प्रमाणं प्रमेयाभावस्यापि तथाभावानुषनेणाव्यवस्थाप्रसङ्गात् । न चैतद्विरुद्धं स्वलक्षणमनिर्देश्यमित्यादिवत् । न हि स्वलक्षणस्यानिर्देश्यस्याप्यनिर्देश्यशब्देन निर्देशे विरोधोऽस्ति । नापि
- अष्टसहस्त्रीतात्पर्यविवरणम् नीलादावुत्पलादिविशेषणे चैतन्ये च जीवविशेषणेऽनीलाचैतन्याविनाभावस्य धर्मिण्यप्रसिद्ध्या लोकदृष्ट्या व्यभिचारस्य स्पष्टत्वात्पररूपेण तदविनाभावस्य च साध्यसमत्वादिति द्रष्टव्यम् । यत् स्वस्वेतरयदुभयघटितयद्धर्मिविशेषणं तत्तत्र तेनाविनाभावि, यथा अन्वयव्यतिरेकव्याप्तिद्वयघटितव्याप्यविशेषणमन्वयव्याप्तिरूपं साधर्म्य व्यतिरेकव्याप्तिरूपवैधhणाविनाभावीति दृष्टान्तप्रदर्शनम् । भेदविवक्षयेति साधोपन्यासनियमार्थम्, बहिर्व्याप्तिरूपभेदविवक्षया हि साधर्म्यमुपन्यस्यते, अन्तर्व्याप्तिरूपाभेदविवक्षया तु वैधर्म्यमिति । भाष्ये व्यतिरेकोऽस्त्येवेति तथा चैतन्नये केवलान्वयी नास्त्येवेति भावः ।
Page #416
--------------------------------------------------------------------------
________________
३८२
अष्टसहस्त्रीतात्पर्यविवरणम् प्रत्यक्षं कल्पनापोढमपि कल्पनापोढत्वेन कल्पयतः किञ्चिद्विरुध्यते, सर्वथा तद्व्यवहारापह्नवप्रसङ्गात् । तथैव खपुष्पादयोऽप्रमेया इति व्यवहरतोऽपि न तेषामप्रमेयत्वं विरुध्यते, तत्प्रमितौ प्रमाणाभावात्प्रमेयाभाववत् । तदभावेऽपि खपुष्पादीनां प्रमेयत्वे प्रमेयाभावस्यापि प्रमेयत्वानुषङ्गः । तथा च प्रमेयतदभावव्यवस्था कथमास्थीयेत ? । एतेन खपुष्पादयः प्रमेयाः शब्दविकल्पविषयत्वाद् घटदिवदित्यनुमानं प्रत्युक्तं, हेतोः प्रमेयाभावेन व्यभिचारात् । प्रत्यक्षानुमानाभ्यां प्रमीयमाणत्वात्प्रमेयाः खपुष्पादय इति चेत्, न, असिद्धत्वात्साधनस्य तथा हि- ते न प्रत्यक्षेण प्रमीयमाणाः, तत्र स्वाकारानर्पकत्वात् । नाप्यनुमानेन, स्वभावकार्यप्रतिबन्धाभावात् । स्वभावेन केनचित्तेषां प्रतिबन्धे निःस्वभावत्वविरोधात्, कार्येण च प्रतिबन्धेऽनर्थक्रियाकारित्वव्याघातात् सन्तः खपुष्पादयो व्यवह्रियेरन् ।
(भा०) दर्शने स्वाकारमनर्पयता स्वभावकार्यप्रतिबन्धाभावे प्रमेयत्वं प्रमाणान्तरमवश्यमाकर्षति । ततो विप्रतिषिद्धमेतत्,
खपुष्पादीनां प्रमेयत्वं, प्रमाणद्वयनियमविरोधात् । न च प्रमाणान्तरेणापि प्रमीयमाणास्ते, प्रमाणविषयत्वधर्मस्यानाश्रयत्वात् । अन्यथा वस्तुत्वापत्तेः सदसद्व्यवस्थानुपपत्तेस्तद्व्यवहाराभावः ।
- अष्टसहस्त्रीतात्पर्यविवरणम्
तथैवेति अप्रमेयत्वव्यवहारस्य प्रमाणजन्यज्ञानविषयत्वरूपप्रमेयत्वासाधकत्वादेवेत्यर्थः । न च व्यवहारेण ज्ञेयत्वसिद्धौ प्रमेयत्वसिद्धिध्रौव्यम्, एतन्नये ज्ञेयत्वस्य प्रमेयत्वाव्याप्यत्वात्, अनादिविपरीतवासनाजन्यविकल्पविषये व्यभिचारादिति । सन्तः खपुष्पादयो व्यवहियेरन्निति खपुष्पादिषु सत्त्वव्यवहारः प्रसज्येतेति भावः । विप्रतिषिद्धमेतदिति भाष्यप्रतीके किमित्याकाङ्क्षायामाह वृत्तिकृत्-खपुष्पादीनां प्रमेयत्वमिति खपुष्पं प्रमेयं चेति वचनं परस्परविरुद्धमित्यर्थः । कस्मादित्याह-प्रमाणद्वयनियमविरोधादिति । तर्हि प्रमाणान्तरेण तेषु प्रमेयत्वं सेत्स्यतीत्याशङ्कायामाह-न चेत्यादि न च 'अत्यन्तासत्यपीत्यादिश्रीहर्षोक्तरीत्या खपुष्पादावसत्त्वादिना शाब्दप्रमाविषयत्वाविरोधः, अवस्तुनि तत्सम्बन्धायोगात्, खपुष्पम
१. नैवं प्रतीतिरेव न स्यादिति चेत्, न, शाब्द्याः प्रतीतेः सम्भवात् । आकाङ्क्षादिमद्भिः पदैः प्रतिस्वं संसर्गबोधात् 'अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि' [श्लो० वा० चोदनासूत्र-६] खण्डनखण्डखाद्यम् चतुर्थपरिच्छेदः भावलक्षणखण्डनम् ।
Page #417
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि. १-का. १७]
३८३ (भा०) न च स्वलक्षणमेवान्यापोहः सर्वथा विधिनियमयोरेकतानत्वासम्भवात् ।
पुष्परहितं खमेव खे पुष्पाभावः, शशादय एव च विषाणरहिताः शशादिषु विषाणाभाव इत्येकविषयौ खशशादितत्पुष्पविषाणविधिनियमौ सम्भवत एवेति चेत्, न गगनशशादीनां भावाभावस्वभावभेदाद्विधिनियमोपलब्धेश्च, अन्यथानुभवाभावात् । शब्दविकल्पविशेषात्सङ्केतविशेषापेक्षादेकत्र विषये विधिनियमयोः सम्भव इति चेत्, न, सङ्केतविशेषस्य वस्तुस्वभावविशेषनिबन्धनत्वात् ।
(भा०) तत्स्वभावभेदाभावे च सङ्केतविशेषानुपपत्तेरभिधानप्रत्यय विशेषोऽपि मा भूत्तदन्यतरवत् ।
नन्वनिन्द्रस्वभावेऽपि पदार्थे व्यवहर्तृसङ्केतविशेषादिन्द्राभिधानप्रत्ययविशेषदर्शनान्न वस्तुस्वभावभेदनिबन्धनः सङ्केतविशेषः सिद्धो यतो वस्तुस्वभावभेदाभावे सङ्केतविशेषानुपपत्तिः, ततोऽभिधानप्रत्ययविशेषश्च न स्यात्, खमस्ति, तत्पुष्पं नास्तीति, तस्यानादिवासनोद्भूतविकल्पपरिनिष्ठितत्वात्, इति कश्चित् ।
[सर्वे शब्दाः सर्वानर्थान् प्रतिपादयितुं शक्नुवन्तीति जैनाचार्या ब्रुवन्ति]
सोऽप्यननुभूतवस्तुस्वभावः, शब्दस्य सर्वार्थप्रतिपादनशक्तिवैचित्र्यसिद्धेः, पदार्थस्य च सर्वस्य सर्वशब्दवाच्यत्वशक्तिनानात्वात् प्रधानगुणभावादभि
अष्टसहस्रीतात्पर्यविवरणम्
सदित्यादेर्वाक्याद्वैज्ञानिकसम्बन्धेन कथञ्चिद्विशिष्टे वैशिष्ट्यमिति रीत्या बोधोपपत्तावपि तस्याश्रयाश्रयिभावसम्बन्धेन भ्रमत्वध्रौव्यात्, भ्रमस्य च वस्त्वसाधकत्वात्, वस्तुतः खवृत्तित्वाभाववत् पुष्पमित्येव तत्तात्पर्यादिति भावः । आकाशाद्यात्मकस्वलक्षणं खपुष्पाद्यभाव इति न प्रतियोगिनः प्रमेयत्वव्याघात इति सौगतमतमाशङ्कते-न च स्वलक्षणमेवेत्यादि । एकतानत्वाऽसम्भवाद् =एकाश्रयत्वासम्भवात्, तथा चास्य विकल्पस्य पारम्पर्येणापि स्वलक्षणाविषयत्वान्न प्रामाण्यं भ्रमाच्च न वस्तुसिद्धिरित्युक्तं भवति, विधिनियमौ= भावाभावौ । खमस्ति तत्पुष्पं च नास्तीति निषेध्यप्रत्ययविशेषाकारप्रदर्शनम् । तस्यानादीत्यादि अनेन वस्तुस्वभावभेदनिबन्धनत्वनिषेधो दृढीकृतः । प्रधानगुणभावादिति इन्द्रशब्दस्येन्द्रे प्रधानभावेन प्रवृत्तिरनिन्द्रे च गुणभावेनेत्यर्थः । न च
Page #418
--------------------------------------------------------------------------
________________
३८४
अष्टसहस्त्रीतात्पर्यविवरणम्
धानव्यवहारप्रसिद्धेः । क्वचित्पदार्थे ऽनिन्द्र स्वभावेऽपीन्द्रशब्दवाच्यत्वशक्तिसद्भावाद्व्यवहर्तृसङ्केतविशेषादिन्द्राभिधानप्रत्ययविशेषसिद्धेर्वस्तुस्वभावभेदनिबन्धन एव सङ्केतविशेष इति न तदभावे भवितुमुत्सहते, यतः प्रत्ययविशेषः स्यात् । कथमन्यथा खपुष्पवत्खेऽपि नास्तीति प्रत्ययो न भवेत् ? खवद्वा खपुष्पेऽप्यस्तीति प्रत्ययः कुतो न स्यात् ? तयोरन्यतरत्रोभावपि प्रत्ययौ कुतो न स्याताम् ? सङ्केतविशेषस्य सर्वथा वस्तुस्वभावभेदानपेक्षस्य सम्भवात् । प्रतिनियतश्च विधिनियमप्रत्ययविशेषः सकलबाधकविकलः संलक्ष्यते ।
( भा० ) ततो यावन्ति पररूपाणि प्रत्येकं तावन्तस्ततः परावृत्तिलक्षणाः स्वभावभेदाः प्रतिक्षणं प्रत्येतव्याः ।
स्वलक्षणमेवान्यापोह इति व्यवस्थापयितुमशक्तेः, तस्य सम्बन्ध्यन्तरापेक्षत्वात् । न च सम्बन्ध्यन्तराणि स्वलक्षणस्य स्वरूपभूतान्येव, तेषां पररूपत्वादन्यथा ततः परावृत्तेरनुपपत्तेः । पररूपाण्यपि,
( भा० ) यदि सम्बन्ध्यन्तराणि भावस्वभावभेदकानि न स्युस्तदा नित्यत्वेऽपि कस्यचित्सम्बन्ध्यन्तरेषु कादाचित्केषु क्रमशोऽर्थक्रिया न वै
अष्टसहस्त्रीतात्पर्यविवरणम्
एवं सर्वत्र नानार्थत्वापत्तिः, इष्टत्वाद्, व्यवहारविशेषस्य च कोशादिनियन्त्रितत्वेनानतिप्रसङ्गात्, अत एव न लक्षणोच्छेदः कोशादिनियन्त्रितशक्त्यभावे तदवकाशस्याविरुद्धत्वादिति द्रष्टव्यम् । पररूपाणीति परत्वापादकानीत्यर्थः, तेन पररूपावच्छिन्नाभाववद् व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिताकाभावा अपि सङ्गृहीता भवन्ति । स्वभावभेदा इति भाववदभावस्य स्वभावत्वात्तस्य च प्रतियोगितावच्छेदकरूपसम्बन्धादिभेदेन भिन्नत्वादित्यर्थः । `यत्तु पररूपावच्छिन्नाभावो व्यधिकरणसम्बन्धावच्छिन्नाभावेनैव गतार्थ इति भवदेवमतम्, तद् गतार्थमेव, विनिगमकाभावात्प्रतीतिशरणप्रथमकल्पनाया उभयत्र तौल्यात्, भूतले घटत्वेन पटो नास्ति न तु घट इत्यस्यायोग्यतापत्तेश्च, घटवत्यपि घटत्वसम्बन्धेन तदभावाक्षतेरित्यधिकं लतायाम् । अधिकरणस्वरूपाभावैकान्तवादं सौगतस्य निरस्यति-स्वलक्षणमेवेत्यादि तस्य = अन्यापोहस्य, सम्बन्ध्यन्तरापेक्षत्वात् = सम्बन्ध्यन्तरनिरूपणाधीननिरूपणत्वात्, तथा च सापेक्षनिरपेक्षत्वाभ्यां भेद आवश्यक इति भावः । सम्बन्ध्यन्तराणां वस्तुस्वभावाभेदकत्वे क्षणिकत्वसाधकमूलयुक्तिविरोध इत्याह-यदी -
Page #419
--------------------------------------------------------------------------
________________
प्रथमो भाग: [ परि०१-का० १७]
३८५ विप्रतिषिध्येत । शक्यं हि वक्तुं-क्रमवर्तीनि कारणानि तत्तन्निर्वर्तनात्मकानीति नित्यं स्वभावं न वै जहाति क्षणिकसामग्रीसन्निपतितैकतमवत् । तदेतत्तदा तत्तत्कर्तुं समर्थमेकं स्वभावमविचलितं बिभ्राणं सहकारिकारणानि स्वभावस्याभेदकानि नानाकार्यनिबन्धनानि कादाचित्कानि प्रतीक्षते इति ।
न चैवं वचने विषममुदाहरणं, क्षित्युदकबीजातपादिसामग्र्यामन्त्यक्षणप्राप्तायां सन्निपतितस्यैकतमस्य कारणस्य शेषेषु कारणेषु यवाङ्करादिकार्यनिर्वर्तनात्मकेषु सत्स्वपि स्वभावाभेदस्य क्षणिकवादिनः सिद्धत्वात् ।।
[सर्वेऽपि पदार्था विधिनिषेधधर्माभ्यां सम्बद्धाः सन्ति, इति जैनाचार्याः कथयन्ति]
(भा०) तदिमेऽर्था विधिप्रतिषेधाभ्यां संप्रतिबद्धा न प्रतिबन्धमतिवर्तन्ते, वस्तुत एव । ततो न संवृतिस्तद्व्यवहाराय भेदमावृत्त्य तिष्ठतीति युक्तं ।
विधिप्रतिषेधसम्बन्धशून्यस्य भेदस्य स्वलक्षणलक्षणस्य साक्षादध्यक्षतोऽनुपलक्षणात् तथानुमानादप्यप्रतिपत्तेविधेः प्रतिषेधस्य चापह्नवे व्यवहाराघटनात्, संवृतेस्तमावृत्त्य स्थितिविरोधात्, परमार्थत एव भावस्यानेकस्वभावस्य प्रतीतेः ।
(भा०) तदनेकस्वभावाभावे विनिर्भासासम्भवादात्मनि परत्र चासम्भविनमाकारमादर्शयतीति मुग्धायते सर्वत्रासहायरूपानुपलब्धेः । जातुचिन्निरंशरूपोलब्धौ हि नानारूपोपलब्धिः संवृतिरात्मनि परस्मिंश्चाविद्य
- अष्टसहस्रीतात्पर्यविवरणम् त्यादिना । कारणानि=सहकारिकारणानि, तत्तन्निवर्त्तनात्मकानि=तत्तत्कार्योत्पादनस्वभावानि । इष्टापत्तिमाशङ्क्याह-न चैवमिति अविषममित्यकारप्रश्लेषेण व्याख्येयम् । स्वभावभेदस्येति' कुशूलनिहितबीजादङ्करोन्मुखबीजस्य क्षणिकत्वादिना भेदाभ्युपगमादित्यर्थः । प्रतिबन्धम्=अविनाभावं वस्तुत:=परमार्थतः, भेदं स्वलक्षणं निरंशम् । तं स्वलक्षणाख्यं भेदम् । तदनेकस्वभावाभावे तस्य वस्तुनोऽनेकस्वभावानभ्युपगमे, विनिर्भाससम्भवात्=सम्भवद्विनि सबलात्, आत्मनि परत्र च=विधौ प्रतिषेधे च,
१. स्वभावाभेदस्य इति अष्टसहस्रीसम्मतः पाठः । २. विनिर्भासासम्भवाद् इति अष्टसहस्रीसम्मतः पाठः ।
Page #420
--------------------------------------------------------------------------
________________
३८६
अष्टसहस्त्रीतात्पर्यविवरणम् मानमाकारं दर्शयतीति युक्तं वक्तुं, नान्यथा, अतिप्रसङ्गात् । यदि पुनरनाद्यविद्योदयादखिलजनस्यासहायरूपानुपलब्धिर्जाततैमिरिकस्यैकचन्द्रानुपलब्धिवदिति मतं
तदा
गुणानां सुमहद्रूपं न दृष्टिपथमृच्छति । यत्तु दृष्टिपथप्राप्तं तन्मायेव सुतुच्छकम् ॥ [प्रमाणवातिकालङ्कार-४५७] सर्वं पुरुष एवेदं नेह नानास्ति किञ्चन ।
आरामं तस्य पश्यन्ति न तं कश्चन पश्यति ॥ [ इत्यपि किन्न स्यात् ? सर्वथाप्यविशेषात् ।
(भा०) तदियं संवृतिः सामान्यसामानाधिकरण्यविशेषणविशेष्यभावादिव्यवहारनिर्भासान्बिभ्रती स्वयमनेकरूपतां प्रतिक्षिपन्तं व्यवस्थापयति,
तामन्तरेण सामान्यादिव्यवहारनिर्भाससंवृत्यनुपपत्तेः ।
(भा०) तद्वद्भावान्तराणामनेकान्तात्मकत्वे वास्तवी साधर्म्यवैधादिस्थितिरविशेषेण विकल्पबुद्धेर्मिथ्यात्वं प्रतिजानन्तं प्रतिक्षिपत्येव ।
- अष्टसहस्रीतात्पर्यविवरणम्
आदर्शयति संवृतिरिति शेषः । मुग्धायते इन्द्रजालायते । गुणानामिति गुणानां= सत्त्वरजस्तमसाम्, सुमहद्=व्यापकं साम्यावस्थाख्यम्, रूपं न दृष्टिपथमृच्छतिन दर्शनकर्मी भवति, तद्व्याप्तचक्षुर्वृत्त्ययोगात्, यच्च दृष्टिपथप्राप्तं ग्रामारामादि, तद्विकारित्वान्मायेव= इन्द्रजालमिव, सुतुच्छकं बाढं मिथ्येति साङ्ख्यमते व्याख्यानम् । वेदान्तिमते तु गुणानां नामरूपाख्यानाम्, सुमहत्=सर्वाधिष्ठानत्वेन महत्तरम्, रूपम्= अस्तित्वभासमानत्वप्रियत्वोपलक्षितमखण्डं ब्रह्म, न दृश्यतामायाति, वृत्तिव्याप्यत्वेऽपि तस्य फलाव्याप्यत्वादिति व्याख्येयं पूर्वार्द्धम्, उत्तरार्द्ध प्राग्वत् । आराम=भेदप्रपञ्चम्, तम्= अखण्डं पुरुषम् ।
व्यवहारनिर्भासान् व्यवहारनियामकान् भेदान्, व्यवस्थापयति=विरुद्धत्वेनावस्थापयति निराकरोतीत्यर्थः । तामन्तरेण अनेकरूपतां विना, सामान्यादिव्यवहारनिर्भासभृतः संवृतेरनुपपत्तेरिति योजनीयम् । संवृतेश्चानेकात्मकत्वेऽभ्युपगते तदृष्टान्तेन भावानां तदनिवारितमेवेत्याह-तद्वदिति । अशक्तेरिति अर्थक्रियाकारित्वे संवृतेमिथ्यात्वेनानेक
Page #421
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि० १ - का० १७ ]
३८७
संवृतेः स्वरूपेऽनेकान्तात्मकत्वं, न तु ततोऽन्येषां भावानामिति विभावयि– तुमशक्तेः । ततो न स्वलक्षणमेवान्यापोहः सम्भवति येन खपुष्पादयः प्रमेयाः स्युः ।
( भा० ) यत्पुनरेतदन्यतो व्यावृत्तिरनात्मिकैवेति तन्न, चक्षुरादिज्ञानस्य निर्व्यवसायात्मकस्य स्वयमभूताविशेषात्, निर्णयस्य भावस्वभावासंस्पर्शिनः सर्वथा वस्तुतत्त्वापरिच्छेदादिदमित्थमेवेति स्वयमेकान्तानुपपत्तेः ।
सोऽयं चक्षुरादिज्ञानाद्वस्तुतत्त्वमध्यवस्यन्सकलविकल्पाध्यवसेयामन्यव्यावृत्तिं सर्वथानात्मिकामाचक्षाणः कथमिदमेव वस्तुतत्त्वमित्थमेवेति वा स्वयं प्रतिपद्येतान्यं वा प्रतिपादयेदिति सविस्मयं नश्चेतः ।
[प्रमेयत्वादिहेतौ वैधर्म्यं विद्यते एवेति जैनाचार्याः समर्थयन्ति ]
(भा०) अतोऽयं भावः स्वभावभेदान्विधिप्रतिषेधविषयान्बिभ्राणः प्रत्यक्षेतरप्रमाणसमधिगतलक्षणः प्रतीयेत
प्रमेयः, खपुष्पादयस्त्वप्रमेया इति प्रमेयत्वादिहेतावपि व्यतिरेको विद्यते एव । सर्वस्य परिणामित्वादौ साध्ये सपक्षेऽन्वयो न सम्भवत्येवेति चेत्, न अन्तर्व्याप्तिलक्षणस्य तथोपपत्तिरूपस्यान्वयस्य सद्भावादन्यथानुपपत्तिरूपव्यतिरेकवत् । न हि दृष्टान्तधर्मिण्येव साधर्म्यं वैधर्म्यं वा हेतोः प्रतिपत्तव्यमिति नियमो युक्तः, सर्वस्य क्षणिकत्वादिसाधने सत्त्वादेरहेतुत्वप्रसङ्गात् । यतश्चैवं सर्वत्र हेतौ साधर्म्यं वैधर्म्येणाविनाभावि प्रसिद्धमुदाहरणम् ।
( भा० ) तस्माद्यद्विशेषणं तत्प्रतिषेध्याविनाभावि क्वचिद्धर्मिणि, यथा साधर्म्यं भेदविवक्षया कृतकत्वादौ, विशेषणं चास्तित्वं, ततः प्रतिषेध्यधर्मप्रतिबन्धि
इत्यनुमानमनवद्यमवतिष्ठते, हेतोरसिद्धताद्यनुपपत्तेः साध्यसाधनधर्मवैकल्याभावाच्च निदर्शनस्य प्रत्यक्षादिविरोधाभावाच्च पक्षस्येति प्रतिपत्तव्यम् ||१७||
अष्टसहस्त्रीतात्पर्यविवरणम्
स्वभावापर्यनुयोज्यताया दुर्वचत्वादिति भावः । प्रमेयाः स्युः इत्यनन्तरमभावत्वेनेति शेषः । एतदन्यतः=एतस्मादन्यतः । निर्व्यवसायात्मकस्येति अतद्व्यावृत्त्यनवगाहितया
Page #422
--------------------------------------------------------------------------
________________
३८८
अष्टसहस्त्रीतात्पर्यविवरणम् भवतु तावदस्तित्वं जीवादौ नास्तित्वेनाविनाभावि, नास्तित्वं तु कथमस्तित्वाविनाभावि, खपुष्पादौ कथञ्चिदप्यस्तित्वासम्भवादिति मन्यमानान्प्रत्याहुः
नास्तित्वं प्रतिषेध्येनाविनाभाव्येकर्मिणि ।
विशेषणत्वाद्वैधर्म्यं यथाभेदविवक्षया ॥१८॥
कृतकत्वादौ हेतौ शब्दानित्यत्वादौ साधने सधर्मणा साधर्म्यणाविनाभावि विशेषणं विपक्षे वैधर्म्यमुदाहरणं प्रसिद्धं तावत्तज्जीवादावेकर्मिणि पररूपादिभिर्नास्तित्वं स्वरूपादिभिरस्तित्वेनाविनाभावि साधयत्येव, विशेषणत्वसाधनस्यानवद्यत्वात्, पक्षीकृते नास्तित्वे विशेषणत्वस्य भावादस्तित्ववत्, विपक्षे च स्वप्रतिषेध्याविनाभावरहिते क्वचिदप्यभावात्, तथा तस्य विशेषणत्वानुपपत्तेरित्यसिद्धविरुद्धानैकान्तिकत्वदोषाभावात्, दृष्टान्तस्य च साध्यसाधनवैकल्यादिदोषासम्भवात्, साधर्म्यस्येव हेतौ भेदविवक्षया, वैधर्म्यस्याभेदविवक्षयाविनाभावित्वनिश्चयात्, तत्र भेदविवक्षावदभेदविवक्षायाः परमार्थसद्वस्तुनिबन्धनत्वात् ।
[भेदाभेदविवक्षे अवस्तुनिमित्तके इति मन्यमाने दोषानारोपयन्ति जैनाचार्याः]
(भा०) भेदाभेदविवक्षयोरवस्तुनिबन्धनत्वे विपर्यासोऽपि किं न स्यात् ? ।
शब्दानित्यत्वसाधने कृतकत्वादिहेतौ घटादिभिर्भेदविवक्षा गगनादिभिरभेदविवक्षा हि विपर्यासः । स च परैर्नेष्यते एव । तदिष्टौ शब्दनित्यत्वसाधनाद्धेतोविपर्यासः स्यात्, विरुद्धत्वोपपत्तेः । सोऽयं कृतकत्वादेः साधनस्याविरुद्धत्वमुपयंस्तत्र भेदाभेदविवक्षयोविपक्षेतरापेक्षयोर्वस्तुनिबन्धनत्वमुपगन्तुमर्हति ।
- अष्टसहस्त्रीतात्पर्यविवरणम्
ऽव्यवसायात्मन इत्यर्थः । निर्णयस्य=दर्शनोत्तरभाविनो विकल्पस्य ॥१७॥
नास्तित्वमित्यादिकारिका प्राग्वद् व्याख्येया, अभेदविवक्षया=अन्वयविवक्षया, व्यतिरेकव्याप्तिर्यथैकत्रान्वयव्याप्त्यविनाभाविनी तथा नास्तित्वमस्तित्वेनेत्यर्थः । विपक्षेतरापेक्षयोः वस्तुसद्भेदाभेदापेक्षयोरित्यर्थः । हेताविति साधर्म्यणाविनाभावीति शेषः । तथा
Page #423
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. १८]
३८९ (भा०) ततः समञ्जसमेतत्, यत्किञ्चिद्विशेषणं तत्सर्वमेकत्र प्रतिपक्षधर्माविनाभावि यथा वैधय॑मभेदविवक्षया हेतौ, तथा च नास्तित्वं विशेषणम्,
इत्यनुमानं, साध्यसद्भावे एव साधनस्य सद्भावनिश्चयात् । [वस्तुन्यस्तित्वधर्म एव वास्तविको न च नास्तित्वधर्म इति मन्यमाने दोषानाहुराचार्याः] (भा०) अन्यथा व्यवहारसङ्करप्रसङ्गात् ।
करभत्वस्य करभवद् दन्यपि सद्भावानुषङ्गात् दधित्वस्य च दनीव करभेऽपि प्रसक्तेः । दधि खादेति चोदितः करभमभिधावेत् करभवद्वा दध्न्यपि नाभिधावेत्, अदधित्वस्याकरभत्वस्य च क्वचिदप्यभावाद् इति प्रवृत्तिनिवृत्तिलक्षणो व्यवहारः सङ्कीर्येत, सर्वस्य सर्वथा सद्भावात् । यदि पुनर्दनि स्वरूपेण दधित्वं न करभरूपेण करभे च स्वरूपेण करभत्वं न दधिरूपेण यतः प्रवृत्त्यादिव्यवहारसङ्करः प्रसज्येतेति मतं, तदा सिद्धं दधित्वमदधित्वेन प्रतिषेध्येनाविनाभावि करभत्वं चाकरभत्वाविनाभावि, तद्वत्तत्सर्वं विशेषणं स्वप्रतिषेध्येनाविनाभावि इति सिद्धान्यथानुपपत्तिः, विपक्षे बाधकसद्भावात् । [हेतोरन्यथानुपपत्तिसिद्धायां धर्ममिव्यवस्थाकल्पितैव अनुमानस्य कल्पितत्वात्
ततः कथं समञ्जसमित्यारेकायामुत्तरं] (भा० ) न हि स्वेच्छाप्रक्लृप्तधर्मर्मिव्यवस्थायां परमार्थावतार: स्यात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
च नास्तित्वं विशेषणमित्यस्तित्वेनाविनाभावीत्यर्थः । स्वरूपेणास्तित्वस्य पररूपेण नास्तित्वाविनाभावव्यतिरेके बाधकमाह-अन्यथेत्यादि । तदा सिद्धमिति ननु कथमेतत् ? यावता प्रवृत्तिविषयेऽनिष्टतावच्छेदकरूपवैशिष्ट्यज्ञानस्य प्रवृत्तिप्रतिबन्धकत्वात्करभत्वाभावो दध्नि प्रवृत्त्यङ्गतयोपयुज्यताम्, न तु करभरूपेण दधित्वाभाव इति चेत्, न, अनिष्टतावच्छेदकरूपसार्यज्ञानस्यापि प्रवृत्तिप्रतिबन्धकत्वेन करभरूपेणादधित्वस्यापि दनि प्रवृत्त्यङ्गताया न्यायप्राप्तत्वात् । ननु च हेतोरन्यथानुपपत्तिसिद्धावपि धर्मधर्मिव्यवस्थायाः कल्पितत्वादनुमानस्यापि कल्पितत्वेन कथं सामञ्जस्यं स्यादिति आशङ्कायामाह-स्याद्वादसिद्धान्ती भाष्ये-न हि स्वेच्छेत्यादि तथा च सर्वसिद्धत्वाद्धर्मधर्मिभावो नाप्रामाणिक इति
Page #424
--------------------------------------------------------------------------
________________
३९०
अष्टसहस्त्रीतात्पर्यविवरणम् यतः सर्व एवायमनुमानानुमेयव्यवहारो बुद्ध्यारूढेन धर्मधर्मिन्यानेन बहि: सदसत्त्वमपेक्षते इति युक्तं भवेत् ।
(भा०) तदसमीक्षिततत्त्वाथैर्लोकप्रतीतिवशाद्भेदाभेदव्यवस्थितिस्तत्त्व प्रतिपत्तये समाश्रीयते इति बालाभिलापकल्पं, भावस्वभावोपरोधात्,
सर्वत्र भेदाभेदव्यवस्थितेः, अन्यथा ततस्तत्त्वप्रतिपत्तेरयोगात् ॥१८॥
ननु चास्तित्वं नास्तित्वं च विशेषणमेव, न तु विशेष्यम् । ततो न साध्यसाधनधर्मयोः परमार्थसतोरधिकरणं येन प्रकृतमनुमानद्वितयं वास्तवं धर्मधर्मिन्यायेन स्यादित्येके । न तत्सर्वथाभिलाप्यं, वस्तुरूपस्यानभिलाप्यत्वादिति चान्ये । जीवादेर्वस्तुनोऽत्यन्तमर्थान्तरमेव तत्, प्रतिभासभेदाद् घटपटवत् । न पुनरस्तित्वनास्तित्वात्मकं वस्तु, धर्मर्मिसङ्करप्रसङ्गादिति चापरे । तान्प्रत्याचार्याः प्राहुः
विधेयप्रतिषेध्यात्मा विशेष्यः शब्दगोचरः । साध्यधर्मो यथा हेतुरहेतुश्चाप्यपेक्षया ॥१९॥
विधेयमस्तित्वम्, प्रतिषेध्यं नास्तित्वम्, विधेयं च प्रतिषेध्यं च विधेयप्रतिषेध्ये, ते आत्मानौ स्वभावौ यस्य स विधेयप्रतिषेध्यात्मा, अर्थः सर्वो जीवादिरिति पक्षः । विशेष्यत्वादिति हेतुः, विशेष्य इति हेतुनिर्देशात्, गुरवो
- अष्टसहस्रीतात्पर्यविवरणम् भावः । तदाह-यत इत्यादि । बुद्ध्यारूढेन=कल्पितेन, बहि: सदसत्त्वं स्वलक्षणान्यव्यावृत्तिरूपम् । तदेवं परेषां भेदाभेदादितिरस्करणं बालोक्तितुल्यमित्याह भाष्यकृत्-तदसमीक्षितेत्यादि ॥१८॥
साध्यसाधनधर्मयो:=प्रतिषेध्याविनाभावित्वविशेषणत्वयोः । प्रकृतं पूर्वकारिकाद्वयप्रोक्तम्, द्वितीये तत्=विशेष्यं, तृतीये तत् =अस्तित्वं नास्तित्वं च । हेतुनिर्देशादिति हेतुगर्भविशेषणनिर्देशादित्यर्थः । तत्र दृष्टान्तमाह-गुरव इत्यादि, तत्रापि हि गुरव इति हेतुगर्भविशेषणमहिम्नैव गुरुत्वाद्राजमाषा न भक्षणीया इति लभ्यते, तद्वत्प्रकृते विशेष्य इति हेतुगर्भो विशेषणनिर्देशो द्रष्टव्य इत्यर्थः । साध्यस्याग्न्यादेर्धर्मत्वं हेतो
Page #425
--------------------------------------------------------------------------
________________
प्रथमो भाग: [परि०१-का. १९]
३९१ राजमाषा न भक्षणीया इति यथा । साध्यो धर्मी, साध्यधर्माधारतया तस्य साध्यव्यपदेशात्, तथोपचारस्य दृष्टान्तधर्मिव्यवच्छेदार्थत्वात् । तस्य धर्मो विवर्त उत्पत्तिमत्त्वादिः । स यथा हेतुरनित्यत्वसाध्यापेक्षया, नित्यत्वसाध्यापेक्षयाहेतुश्च, गमकत्वागमकत्वयोगात्, तथा साध्याविनाभावेतरसद्भावादिति दृष्टान्तः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
झुमादेर्दुर्घटमिति प्रसिद्धार्थबाधाद्विशेषपरतया व्याचष्टे-साध्यो धर्मीत्यादिना, धर्मी पक्षः पर्वतादिर्जीवादिर्वा । गमकत्वागमकत्वयोगादिति यथाऽनित्यत्वसाध्यापेक्षयोत्पत्तिमत्त्वं गमकत्वाद्धेतुर्नित्यत्वसाध्यापेक्षया चागमकत्वादहेतुस्तथा जीवादेदृष्टान्तीभूतस्यापेक्षया सत्त्वेतरात्मकत्वं सिद्धयतीति समुदायार्थः ।
॥ अहेतोरगमकत्ववादः ॥ अथ किमगमकत्वमहेतोः ? (i) न पक्षे साध्यप्रत्ययाजनकत्वम्, अहेतुनापि हेतुत्वेन ज्ञानदशायां पक्षे साध्यभ्रमजननात्, अव्याप्यपक्षधर्मादिना व्याप्यपक्षधर्मत्वादिना ज्ञातेन वस्तुतः साध्यवत्पक्षावगाहितया क्वचित् साध्यप्रमाया अपि जननाच्च, कदाचित्तदजनकत्वस्य सद्धेतावपि सत्त्वात् । न च (ii) एतत्काले साध्यविशिष्टपक्षज्ञानाजनकत्वं तत्, न हि दूषणत्वज्ञानकाले पक्षे भ्रमरूपाप्यनुमितिरिति वाच्यम्, सत्प्रतिपक्षत्वज्ञानकाले पक्षे साध्यविशिष्टप्रत्ययाजनकत्वमस्तीत्यनन्तरमसत्प्रतिपक्षतादशायामपि हेतोरगमकत्वप्रसङ्गाद्, दूषणत्वस्यागमकत्वतुल्ययोगक्षेमत्वाच्च । नापि (iii) एतत्कालीनैतत्पक्षीयत्वावच्छिन्नप्रतियोगिकैतत्साध्यप्रमाकरणत्वाभावस्तत्, एतत्कालीनत्वैतत्पक्षीयत्वयोwधिकरणयोरेव प्रतियोगितावच्छेदकत्वाच्च न विशिष्टप्रतियोग्यप्रसिद्धिरिति वाच्यम, सद्धेतोरेव कदाचित्तादृशप्रमाकरणत्वाभावेनागमकत्वापत्तेः । (iv) नापि अनुमितिहेतुभूताभावप्रतियोगिज्ञानविषयत्वं तत्, सद्धेतावपि कदाचिद् व्यभिचारित्वादिज्ञानस्यानुमितिप्रतिबन्धकस्य सद्भावात् । नापि (v) अनुमितिप्रतिबन्धकप्रमाविषयत्वं तत्, सद्धेतौ च व्यभिचारादिभ्रमस्य प्रतिबन्धकत्वान्नातिव्याप्तिरिति वाच्यम, सत्प्रतिपक्षयोविरुद्धयोर्वास्तवतुल्यबलवत्त्वाभावेन तद्भमस्याप्रतिबन्धकत्वात् । नापि (vi) समीचीनसाध्यपक्षविषयानुमित्यजनकत्वं तत्, बाधविरुद्धासिद्धेषु साध्यानधिकरणे पक्षे सत्यसाध्यप्रतीत्यसिद्धेः, वह्निमति बाष्पे धूमभ्रमावल्यनुमितेः सत्यत्वाच्च । न चान्य एव वह्निस्तत्र भासते, मानाभावात्, तद्वह्वेरेव प्रत्यभिज्ञानात्, एकव्यक्तिके तदभावाच्च । न च साऽनुमितिलिङ्गविषयत्वेन भ्रमः, अनुमितौ नियमतो लिङ्गभाने मानाभावात् । अथ यथा कूटलिङ्गे वह्निव्याप्याभेदः प्रतीयते
Page #426
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम्
इत्यनुमानात् सत्वेतरात्मकः कथञ्चिज्जीवाद्यर्थः सिद्ध्यत्येव । हेतोर्विशेष्यत्वस्य
अष्टसहस्त्रीतात्पर्यविवरणम्
३९२
तथा वह्नौ कूटलिङ्गव्यापकाभेदोऽपीति सानुमितिरसत्येति चेत्, न कूटलिङ्गस्यानुमितौ साध्याप्रकारकत्वेन तदभेदस्यासंसर्गत्वात्, वह्निव्याप्यालोके धूमारोपाद्यत्रानुमितिस्तत्रासिद्धभेदेऽसत्यत्वाभावापत्तेश्च, आलोकव्यापके धूमव्यापकाभेदसाम्राज्यात् । एतेन परामृश्यमानलिङ्गव्यापकाभिन्नीयत्वविशिष्टसंसर्गेण साध्यस्यानुमितौ भानाभ्युपगमेऽपि न क्षतिः । 'लिङ्गोपहितलैङ्गिकभानवादेऽपि च दैवात्तत्र धूमसत्त्वे कथं तदंशेऽप्यसत्यता, अत एवार्द्रेन्धनप्रभववह्नेरेव धूमव्यापकत्वात्तद्रूपेण वह्नेरनुमितौ भानाभ्युपगमेऽपि न कूटलिङ्गजानुमितेरसत्यत्वम्, दैवात्तत्र धूमसत्त्वेन सत्यत्वादिति चेत्, अत्र वदन्ति
(१) स्वज्ञानदशायां पक्षे साध्यप्रत्ययाजनकत्वमगमकत्वम्, भवति हि विरुद्धत्वादिज्ञानकालीनं लिङ्गं पक्षे साध्यप्रत्ययाजनकम्, विरुद्धत्वादिति पक्षविशेषणमहिम्ना तद्दशायां पक्षे साध्यप्रत्ययाजनकत्वसिद्धिः, साध्यप्रत्ययाजनकत्वं=साध्यप्रत्ययजनकतावच्छेदकरूपविरहः, स च कदाचित् सत्प्रतिपक्षोत्तीर्णेऽपीति स्वज्ञानकालीनत्वं विशेषणम्, स च न तादृशोऽन्यदा तज्ज्ञानरूपविशेषणाभावेन विशिष्टाभावात्, स्वज्ञानकालस्य पक्षतावच्छेदकत्वेन साध्यमध्येऽप्रवेशाद्विरुद्धत्वादेः स्वज्ञानविरहकाले विशिष्टाभावान्न व्यभिचारित्वम् । न च कदाचिदजनकत्वादेः केवलान्वयित्वमादाय व्यर्थविशेषणता, विवक्षितसाध्यस्यासार्वत्रिकत्वात् । न च सर्वो वह्निव्याप्यवान् वह्निमान् तत्त्वादित्यनुमानेन स तदभाववान् मेयत्वादित्यादिना सत्प्रतिपक्षेण सर्वस्यैव सत्प्रतिपक्षितत्वात्तस्य सार्वत्रिकत्वमेवेति वाच्यम्। सर्वत्र सर्वस्यैवमवताराभावात् ।
(२) यद्वाऽनुमितिप्रतिबन्धकतावच्छेदकरूपवत्त्वं तत्, तद्वत्त्वं च तद्वर्त्तमानत्वमतो न सत्प्रतिपक्षोत्तीर्णोऽतिप्रसङ्गः, तस्यासार्वत्रिकत्वाच्च न विरुद्धत्वादौ व्यर्थविशेषणता, तच्च रूपं ज्ञाने विषयतयाऽनैकान्तिकत्वादिकमेवेत्यनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकरूपवत्त्वमगमकत्वमिति पर्यवसितोऽर्थः । न च साध्याप्रसिद्धावव्यापकमिदमिति शङ्कनीयम्, स्वज्ञानदशायामिति वचनादेव तदसद् ग्राह्यत्वलाभात्, तस्याः शुद्धापार्थकमध्ये परिगणनेन हेत्वाभासेभ्यः पृथक्करणात् ।
(३) नायं पन्थाः, एवं सति हेत्वाभासत्वमेवागमकत्वमित्यस्य प्राप्तेः, सोपाधिकत्वादिना ज्ञातेऽगमकत्वव्यवहारानापत्तेः, किन्तु सर्वानुगतमखण्डमेव तत्, तच्चानैकान्तिकत्वादिनानुमीयते, सत्प्रतिपक्षविषये तदुत्तीर्णे च गमकागमकत्वस्वभावभेदविरोधः स्याद्वा
Page #427
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि० १-का. १९]
३९३
अष्टसहस्त्रीतात्पर्यविवरणम्
दाश्रयणादेव निरसनीयः, अस्तु वा सत्प्रतिपक्षोत्तीर्णेऽगमकत्वस्य कालविशेषघटितस्वरूपसम्बन्धाभाव एव, घटानयनदशायां भूतले घटाभावस्येवेति युक्तम् ।
अत्र चाऽहेतोरगमकतागमकत्वेन सदुत्तरत्वं, जात्यादीनां च स्वासाधकतासाधारण्येन परासाधकतासाधकतया स्वव्याघातकत्वादसदुत्तरत्वमिति विभागं वदन्ति तार्किकाः। न च विरुद्धत्वादिज्ञानादेव स्वानुमितेरिव परानुमितेरपि प्रतिबन्धे किमसाधकतानुमानेन ? यद्वचसि वाद्युक्तदूषणावगतिः स निगृहीत इति समयबन्धेन कथाप्रवृत्तौ हि दूषणमात्रमुद्भाव्यं, न त्वन्यत् साधनीयमर्थान्तरापत्तेरिति वाच्यम्, परेण यामनुमितिमुद्दिश्य प्रयोगः कृतस्तत्प्रतिबन्धेन स्थापनायामसाधकतासाधनेन च द्विधा दूषणत्वव्यवस्थितेः, आद्यस्य दूषणमात्रज्ञानादुपपत्तावपि द्वितीयस्यालिङ्गत्वज्ञापनं विनाऽसम्भवात् । यद्यपि असाधकतानुमितिरनावश्यकी, तदभावेऽपि स्वपक्षसिद्धेस्तव्याघातकतया च परानुमितेः प्रतिबन्धकोपन्यास एवावश्यकः, तथापि दूषणत्वप्रकारान्तरापेक्षायां क्वाचित्कस्तदुपन्यासः सामयिक इति निगर्वः । अथ अगमकतासाधने नियमतः पञ्चावयवप्रयोगापेक्षा स्यात्, अन्यथा न्यूनत्वापत्तिरिति चेत्, न, दूषणस्यासाधकताव्याप्यत्वमङ्गीकृत्य कथेति तत्पक्षधर्मतामात्रस्यैवोद्भाव्यत्वात्, अन्यथाऽऽकाङ्किताधिकाभिधानेनार्थान्तरापत्तेः । अथ असाधकत्वव्याप्तिप्रतिसन्धानमगमकत्वेनातन्त्रम्, अनुमितिप्रतिबन्धकतावच्छेदकत्वरूपदूषणत्वविषयस्यैव तत्र तन्त्रत्वात्, न च अनुमितिप्रतिबन्धकतावच्छेदकमनमित्यभावनियतं यज्ज्ञानं तद्वत्त्वम्, तथा च यत्र विरुद्धत्वादिज्ञानं तत्रानुमित्यभाव इति व्याप्तिज्ञानध्रौव्यमिति वाच्यम्, अनुमित्यभावस्यासाधकतारूपत्वाभावात्, अनुमित्यभावप्रयोजकज्ञानविषयतावच्छेदकरूपस्यैव तत्त्वात्तद्व्याप्तेश्चाप्रतिसंहितत्वादिति चेत्, न, तद्रूपस्य विरुद्धत्वादिना सहचारधीध्रौव्येण व्याप्तिग्रहावश्यकत्वमित्यत्र तात्पर्यात् । अत एव साध्यनिश्चये सत्यनुमित्साधीनया पक्षतया तदनुमितिरिति ग्रान्थिकाः । हन्तैवं कृतकत्वेनानित्यत्वानुमानेऽपि व्याप्ति भिधेया, तस्या उभयसिद्धत्वादिति चेत्, न, कथादशायां समयविषयतया दूषणेष्वगमकताव्याप्त्युपस्थितिध्रौव्यात्, कृतकत्वेनानित्यत्वानुमाने तु तथानियमाभावात्तद्व्याप्तिमनङ्गीकृत्यापि कथासम्भवात् । यस्तु कथारम्भे बाधकस्यासाधकत्वव्याप्ति नाङ्गीकरोति, तं प्रति तद्दषणत्वं प्रसाध्य पञ्चावयवप्रयोगः कर्त्तव्य एव । तदव्याप्त्युपगमनियतसमयबन्धे तु न पञ्चावयवप्रयोगश्चारुतामञ्चतीति ।
वयं तु ब्रूमः-साधकत्वेऽसाधकत्वेऽन्यत्र वानुमेयेऽवयवप्रयोगः प्रतिपाद्यानुसारेणैव
Page #428
--------------------------------------------------------------------------
________________
३९४
अष्टसहस्रीतात्पर्यविवरणम् असिद्धिरिति चेत्, न, विशेष्योऽसौ, शब्दगोचरत्वात् तद्वदित्यनुमानात्तस्य विशेष्यत्वहेतोः साधनात् । शब्दगोचरत्वमसिद्धमर्थस्येति चेत्, शब्दगोचरो जीवादिः, विशेष्यत्वात्तद्वदित्यनुमानात्तस्य साधनात् । न चैवमितरेतराश्रयदोषः, सर्वथानभिलाप्यवस्तुवादिनः प्रति शब्दगोचरत्वे साध्ये विशेष्यत्वस्य हेतुत्ववचनात्, सर्वथा वाविशेष्यत्ववादिनः प्रति शब्दगोचरत्वस्य साधनत्वाभिधानात्, तदुभयासत्त्ववादिनस्तु प्रति वस्तुत्वस्योभयप्रसिद्धस्य हेतोः सामर्थ्यतः प्रयोगात् । विधेय
अष्टसहस्त्रीतात्पर्यविवरणम्
विधेयः, अत एवैकावयवाद्या दशावयवान्ता जघन्यमध्यमोत्कृष्टभेदभिन्ना कथा प्रसिद्धा, तथा चास्माकमाकरग्रन्थ:
लिङ्गं केवलमेव यत्र कथयन्त्येषा जघन्या कथा, द्वयादीन् यत्र निवेदयन्त्यवयवानेषा भवेन्मध्यमा । उत्कृष्टा दशभिर्भवेदवयवैः सा जल्पितैवेत्यमी, जैनैरेव विलोकिताः कृतधियां वादे त्रयः सत्पथाः ॥ इति । [ ]
यदा हि प्रतिपाद्यः क्षयोपशमविशेषान्निर्णीतपक्षो गृहीतव्याप्तिकश्च भवति, तदा तं प्रति हेतुप्रतिपादनमेव कार्य, धूमोऽत्र दृश्यत इति । यदा त्वस्य नाद्यापि पक्षनिर्णयस्तदा तं प्रति पक्षोऽपि प्रयुज्यतेऽग्निरत्र धूमान्यथानुपपत्तेरिति । यः प्रतिबन्धग्राहिप्रमाणस्य न स्मरति तं प्रति दृष्टान्तोऽप्युपदिश्यतेऽग्निरत्र धूमाद्, यत्र धूमस्तत्राग्निर्यथा महानस इति । दार्टान्तिके हेतुं योजयितुमजानानं प्रत्युपनयः, एवमपि साकाङ्क्ष प्रति निगमनम् । पक्षादिस्वरूपविप्रतिपन्नं प्रति पक्षशुद्धयादयश्चेति । तत्केयं प्रक्रियाऽसाधकतानुमाने यथा विप्रतिपत्त्यवयवप्रयोगोऽन्यत्र तु पञ्चावयवप्रयोग एवेति ? प्रतिपाद्यानुरोधेनैकादिप्रयोगस्यापि सम्भवात्, अवयवान्तरैकवाक्यत्वादेस्तत्रार्थिकस्यैव सम्भवात्, पञ्चावयवैकवाक्यताया अपि यथाकथञ्चिदेव दीधित्यादावुक्तत्वात्, अवयवप्रयोगे स्याद्वादस्यैवाश्रयणीयत्वात्, तदिदमाहुः
अन्यथानुपपत्त्येकलक्षणं लिङ्गमिष्यते ।
प्रयोगपरिपाटी तु, प्रतिपाद्यानुसारतः ॥१॥ इति [ ]
समयबन्धोऽपि प्रसिद्ध्यप्रसिद्धी एवानुरुणद्धीति शिवम् । तदेवमपेक्षया गमकागमकस्यैकस्य हेतुत्वाहेतुत्ववज्जीवादेरपेक्षया सत्त्वेतरात्मकत्वं नियूंढम् ।
प्रकृतं प्रस्तुमः-तद्वदिति हेतुवदित्यर्थः, वस्तुत्वस्योभयप्रसिद्धस्येति विशेषण
Page #429
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि०१-का. १९]
३९५ प्रतिषेध्यात्मकत्वस्यापि तान्प्रति तत एव सिद्धिः, इति समासतः कारिकार्थः समवतिष्ठते ।
[बौद्धो ब्रूते यत् प्रत्यक्षज्ञाने स्वलक्षणमेव प्रतिभासते न पुनरस्तित्वादिविशेषणं तस्य विचार:]
ननु च प्रत्यक्षबुद्धौ वस्तु स्वलक्षणमेव प्रतिभाति, न पुनरस्तित्वादिविशेषणं, तस्य सकलविकल्पविकलत्वात्, विकल्पबुद्धौ तद्व्यवहारप्रसिद्धेरिति चेत्, न वस्तुनोऽस्तित्वाद्यनेकविकल्पात्मकस्य सांशस्यैव प्रतीतेः ।
(भा०) किञ्चित्केनचिद्विशिष्टं गृह्यमाणं विशेषणविशेष्यतत्सम्बन्धलोकस्थितिसङ्कलनेन गृह्येत नान्यथेत्यभिनिवेशेऽपि वस्तुनो विधिप्रतिषेधस्वभावयोः प्रत्येकं दर्शनमवश्यंभावि ।।
वस्तुन एव दर्शनं न तद्विधिप्रतिषेधस्वभावयोविशेषणयोरिति वक्तुमशक्ते: सदसत्स्वभावशून्यस्य स्वलक्षणस्य दर्शने तत्पृष्ठभाविविकल्पेनापि सदसत्त्वयोरध्यवसायायोगात् पीतदर्शनपृष्ठभाविना विकल्पेन नीलत्वाध्यवसायायोगवत् ।
(भा०) ततो विधिप्रतिषेधावात्मानौ विशेषस्य सविकल्पकत्वं साधयतः ।
सर्वथा तस्य भेदाभावे सदिदमसदिदमिति प्रत्येकं दर्शनाभावानुषङ्गात्, इदमुपलभे नेदमिति विकल्पोत्पत्तिविरोधात् ।
(भा० ) ततः सामान्यविशेषात्मकं वस्तु स्वलक्षणम्,
न पुनः सकलविकल्पातीतं विशेषमानं सामान्यमानं वा परस्परनिरपेक्ष, तदुभयं वा स्वलक्षणं, तस्य तेन रूपेणाव्यवस्थितत्वात्, सामान्यविशेषात्मन एव जात्यन्तरस्य वस्तुस्वरूपत्वात् तेनैव लक्ष्यमाणस्य स्वलक्षणत्वप्रसिद्धः
- अष्टसहस्रीतात्पर्यविवरणम् विशेष्यभावविपर्यासादुभयप्रसिद्धस्य वस्तुत्वस्य हेतोरित्यर्थः सामर्थ्यतः= पक्षदृष्टान्तवचनप्रयुक्ताक्षेपात्, तान् प्रति तदुभयासत्त्ववादिनः प्रति, तत एव जीवाद्यर्थो विधेयप्रतिषेध्यात्मा वस्तुत्वादित्यनुमानादेवेत्यर्थः । विकल्पबुद्धौ=सविकल्पकज्ञाने, तद्व्यवहारप्रसिद्धेः=व्यवहारौपयिकतदाकारोपलम्भात्, सांशस्य विधिनिषेधविशेषणविशिष्टस्य । सविकल्पकत्वं साधयत इति ज्ञानमात्रस्य विधिनिषेधान्यतमविशिष्टविषयकत्वनियमा
Page #430
--------------------------------------------------------------------------
________________
३९६
अष्टसहस्त्रीतात्पर्यविवरणम् सकलबाधकवैधुर्यात् ।
[विधिनिषेधयोधर्मी कः इत्यादिप्रश्ने सति विचारः क्रियते जैनाचार्यैः]
कः पुनर्विधेयप्रतिषेध्ययोधर्मी स्यादाश्रयभूतः कश्च तयोस्तेन सम्बन्धो येन विशेषणविशेष्यभावः स्याद् इति चेद, उच्यते,
(भा० ) अस्तित्वनास्तित्वयोधर्मि सामान्यम् । तत्र तादात्म्यलक्षणः सम्बन्धः, सम्बन्धान्तरकल्पनायामनवस्थाप्रसङ्गात् । तन्नैतत्सारं जात्यादिमतामेतन्न सम्भवत्येवेति, तदभावे एवासम्भवात् ।
विशेषणविशिष्टवस्तुग्रहणस्य विशेषणं सत्त्वादिसामान्यं पूर्वं गृहीत्वा तदनन्तरं विशेष्यं गृह्णाति, ततस्तत्सम्बन्धं समवायं लोक स्थितिं च विशेषणविशेष्यव्यवहारनिबन्धनां, ततस्तत्सङ्कलनेन सदिदं वस्तु इति प्रतीतिक्रमस्यैव दुर्घटत्वात्, विशेषणविशेष्यात्मकस्य सामान्यविशेषरूपस्य वस्तुनो जात्यन्तरस्य यथाक्षयोपशमं प्रत्यक्षे परोक्षे च विज्ञाने निर्बाधमनुभवात्तद्विपरीतस्य जातुचिदप्रतीतेः ।
(भा० ) तथा सति नैकान्तेन दर्शनविकल्पाभिधानानां विषयभेदोऽस्ति कथञ्चित्प्रतिभासभेदेऽपि प्रत्यासन्नेतरपुरुषदर्शनवत् ।
प्रतिभासभेदाद्विषयभेदे योगीतरप्रत्यक्षयोरेकविषययोरपि विभिन्नविषयत्व
- अष्टसहस्त्रीतात्पर्यविवरणम्
दित्यर्थः, तस्य स्वलक्षणस्य, भेदाभावे विशेषणोपरागाभावे, सामान्यम्=ऊर्ध्वतासामान्यं विशेषादेशे घटादिद्रव्यम्, एतत् = प्रत्यक्षेण ग्रहणम्, असम्भवादित्यस्य ग्रहणस्येत्यनेनान्वयः । इति प्रतीतिक्रमस्यैवेति सौगतायुक्तस्येति गम्यम्, निर्बाधम् इत्यनन्तरमादित एवेति शेषः । तद्विपरीतस्य=विशेषणविशेष्यभावादिशून्यस्य, जातुचिदप्रतीतेरिति निर्विकल्पकस्य निरासादित्यर्थः, येन च तत् स्वीक्रियते तस्य सविकल्पकोत्पत्तिकाले तदापत्तिर्दुर्निवारा । न च निर्विकल्पकत्वस्य कार्यतानवच्छेदकत्वात् नैवम्, तथाऽप्यर्थवशात् तदापत्तेः, निर्विकल्पके घटत्ववद् द्रव्यत्वपृथिवीत्वसत्त्वादीनामपि सम्भृतसामग्रीकतया भानाभ्युपगमे घटसविकल्पके नियमात्तावद्धर्मभानापत्तेश्च, तत्तन्नियतप्रकारकप्रत्यक्ष एव क्षयोपशमविशेषहेतुताकल्पने तु विशेषहेत्वभावादेव न निर्विकल्पकमिति
Page #431
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि. १-का. १९]
३९७ प्रसङ्गात् । एतेन धूमादिकृतकत्वादिसाध्यमिधर्मस्य साध्येतरापेक्षया हेतुत्वाहेतुत्वविशेषणात्मकस्य निदर्शनतयोपन्यस्तस्य प्रत्यक्षविषयत्वं निवेदितम् ।
[धूमादिकृतकत्वादिहेतवोऽपेक्षाकृतो हेतवोऽहेतवश्च भवन्ति] (भा०) तथा हि- धूमादयः कृतकत्वादयो वा क्वचिदग्निसलिलयोविनाशेतरयोर्वा साधनेतरस्वभावाभ्यां साक्षाक्रियेरन्, इतरथा विशेष्यप्रतिपत्तेरयोगात् ।
न हि धूमादीनामग्न्यादौ साध्ये साधनत्वं सलिलादावसाधनत्वं च विशेषणमप्रतिपद्यमानो विशेष्यान्धूमादीन् प्रतिपद्यते नाम, नापि कृतकत्वादीनां विनश्वरत्वे साध्ये साधनत्वमविनश्वरत्वे चासाधनत्वं विशेषणमप्रतीयन् कृतकत्वादिहेतून्विशेष्यान्प्रत्येतुमीशो यतोऽग्न्यादिविनश्वरशब्दादीन् साध्यानपि विशेष्यान्प्रतिपद्येत, प्रत्येति च तान्, ततोऽवश्यं साक्षात्कुर्वीत तद्धेतून्, साध्येतरापेक्षायां सत्यां साधनेतरस्वभावाभ्यां तत्साक्षात्करणे विरोधाभावात् ।
(भा०) अनपेक्षायां तु विरोधः ।
क्वचिदेकत्र साध्ये हेतूनां साधनत्वेतरयोरनुपलम्भात् । यतश्चैवं प्रसिद्धमुदाहरणं, वादिप्रतिवादिनोर्बुद्धिसाम्यात् ।
(भा०) तस्माद्यदभिधेयं तद्विशेष्यम् ।
यथोत्पत्त्यादिरपेक्षया हेतुरहेतुश्च साध्येतरयोः । तथा च विमत्यधिकरणं सत्त्वाभिधेयत्वादि, तस्मात्साध्यसाधनधर्मविशेषणापेक्षया विशेष्यम्, इत्यनुमानादेकस्य विशेषणविशेष्यात्मकत्वविरोधनिरासः ।
(भा०) यद्वा विशेष्यं तदभिलाप्यम् । यथोत्पत्त्यादि, विशेष्यं चास्तित्वादिवस्तुरूपं, तस्मादभिलाप्यम्, इति
अष्टसहस्त्रीतात्पर्यविवरणम् । दिग् । प्रत्यासन्नेतरपुरुषदर्शनवदिति, अत्रैकपादप इति शेषः । एतेन=सामान्यविशेषात्मकवस्तुनः प्रत्यक्षत्वप्रतिपादनेन, साध्यमिधर्मस्य= पक्षस्य, तस्मादिति यदभिधेयं तद्विशेष्यमित्यनया व्याप्त्या यथा जीवादेर्धर्मित्वं तथाऽस्तित्वादिविशेषणस्यापि
Page #432
--------------------------------------------------------------------------
________________
३९८
अष्टसहस्त्रीतात्पर्यविवरणम्
वस्तुस्वरूपस्यानभिलाप्यत्वव्युदासः ।
( भा० ) यद्वा वस्तु तत्सर्वं विधेयप्रतिषेध्यात्मकं, यथोत्पत्त्यादिरपेक्षया हेतुरहेतुश्च साध्येतरयोः, तथा च विमत्यधिकरणं सत्त्वाभिधेयत्वादि ।
इत्यन्तदीपकं सर्वत्र योज्यं साधनं वस्तु च जीवादि । तस्माद्विधेयप्रतिषेध्यात्मकम् । इति क्रमार्पितसदसत्त्वो भयात्मकत्वसाधनम् ॥१९॥
शेषभङ्गाः कथं नेतव्याः सूरिभिरित्याहु:
शेषभङ्गाश्च नेतव्या यथोक्तनययोगतः ।
न च कश्चिद्विरोधोऽस्ति मुनीन्द्र ! तव शासने ॥२०॥
( भा०) स्यादस्ति स्यान्नास्तीति भङ्गद्वयमुपयुक्तम् । तदपेक्षया शेषत्वं भङ्गत्रयापेक्षं वा ।
विधेयप्रतिषेध्यात्मेत्यनेन तृतीयभङ्गस्य स्वप्रतिषेध्येनाविनाभाविनोऽसाधने साधने चापेक्ष्यमाणे इत्यर्थः ।
(भा०) यथोक्तनययोगत इति विशेषणत्वादीनाक्षिपति । तदनभिलाप्यादयोऽपि क्वचिद्धर्मिणि प्रत्यनीकस्वभावाविनाभाविनः प्रतीयन्ते, विशेषणत्वादिभ्यः । पूर्वोक्तमुदाहरणम् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
तदापादितं बोध्यम् । अन्तदीपकं अन्तस्थं सर्वत्रान्वयं प्रकाशयतीति हेतोः, सर्वत्र योज्यं साधनमिति धर्मिणं विविच्येत्यर्थः तथाहि यदभिधेयं तद्विशेष्यमित्यत्रास्तित्वं धर्मि यद्वा विशेष्यं तदभिलाप्यमित्यत्राभिधेयं धर्मि, यद्वा वस्तु तत्सर्वं विधेयप्रतिषेध्यात्मकमित्यत्र विमत्यधिकरणसत्त्वाभिधेयत्वादिशब्देन लब्धं जीवादीति, तेषु धर्मिष्वभिधेयत्वविशेष्यत्ववस्तुत्वहेतवो योजनीयाः । निगमयति-वस्तु चेति ॥१९॥
असाधने साधने चापेक्ष्यमाण इत्यर्थ इति विधेयप्रतिषेध्यात्मकत्वसाधनानपेक्षायां तृतीयादिभङ्गस्तोमस्य तदपेक्षायां च तुर्यादिभङ्गस्तोमस्य शेषत्वं विवक्षणीयमित्यर्थः । पूर्वोक्तमुदाहरणमिति साधर्म्यं यथा वैधर्म्येण वैधर्म्यं च साधर्म्येणाविनाभावीत्यर्थः,
Page #433
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि. १-का. २१]
३९९ [को भङ्गः केन भनेन सहाविनाभावो विधत्ते ?] यथैव हि वस्तुनोऽस्तित्वं नास्तित्वं तदुभयं च प्रतिषेध्येन स्वप्रत्यनीकेनाविनाभावि विशेषणत्वाद्विशेष्यत्वाच्छब्दगोचरत्वाद्वस्तुत्वाच्च साधर्म्यवद्वैधर्म्यवत्क्वचिद्धेतौ हेतुत्वेतरत्ववच्च साध्यते, तथैव चावक्तव्यत्वं वक्तव्यत्वेन प्राच्यभङ्गत्रयरूपेण, सदवक्तव्यत्वमसदवक्तव्यत्वेनासदवक्तव्यत्वमपि सदवक्तव्यत्वेन, सदसदवक्तव्यत्वमपि पञ्चमषष्ठभङ्गात्मनानुभयावक्तव्यत्वेनाविनाभावि साधनीयं, यथोक्तानां हेतूदाहरणरूपनयानां घटनात् ।
(भा०) न चैवं सति किञ्चिद्विप्रतिषिद्धं, अन्यथैव विरोधात् ।
अवक्तव्यत्वादेः स्वप्रत्यनीकस्वभावाविनाभावाभावप्रकारेणैव हि प्रत्यक्षादिविरोधः समनुभूयते, तथा सकृदप्यनुपलम्भात् । तदनेन न च कश्चिद्विरोधोऽस्ति मुनीन्द्र ! तव शासने, अन्यशासनेष्वेव विरोधसाधनादिति व्याख्यातं प्रतिपत्तव्यम् ॥२०॥
साम्प्रतमव्यवस्थितानेकान्तात्मकं वस्तु सप्तभङ्गीविधिभागर्थक्रियाकारि, न पुनरन्यथेति स्वपरपक्षसाधनदूषणवचनमुपसंहरन्तः प्राहु:
एवं विधिनिषेधाभ्यामनवस्थितमर्थकृत् ।
नेति चेन्न यथा कार्य बहिरन्तरुपाधिभिः ॥२१॥ एवं प्रतिपादितनीत्या सप्तभङ्गीविधौ विधिनिषेधाभ्यामनवस्थितं जीवादि वस्तु सदेवासदेव वेत्यव्यवस्थितमर्थकृत् कार्यकारि प्रतिपत्तव्यम् । नेति चेदेवं वस्तु परैरभ्युपगम्यते तर्हि यथाभ्युपगतं कार्य बहिरन्तरुपाधिभिः सहकार्युपादान
अष्टसहस्त्रीतात्पर्यविवरणम्
अनुभयावक्तव्यत्वेनेति उभयावक्तव्यत्वरूपसप्तमभङ्गार्थपर्युदासशालिनेत्यर्थः । हेतूदाहरणरूपनयानां हेतूदाहरणस्वरूपविमर्शानाम् ॥२०॥
अव्यवस्थितानेकान्तात्मकं= परोक्तै कान्तव्यवस्थारहितम्, अव्यवस्थितपदस्यकान्तव्यवस्थाराहित्यार्थत्वे तस्य कथञ्चिदवस्थितत्वाविनाभावित्वादलवणा यवागरित्यत्रे
Page #434
--------------------------------------------------------------------------
________________
अष्टसहस्त्रीतात्पर्यविवरणम् कारणैर्निर्वर्त्यं तथा न स्यात्, भावाद्येकान्ते सर्वथा कार्यप्रतिक्षेपात् । तत एवैवं व्याख्यानान्तरमुपलक्ष्यते । एवं प्रतिपक्षप्रतिक्षेपप्रकारेण विधिनिषेधाभ्यामनवस्थितं कथञ्चिद्विधिप्रतिषेधावस्थितमेवार्थकृत् नेति चेत्, न यथा कार्यं (च) बहिरन्तः स्यादुपाधिभिरनन्तविशेषणैर्विशिष्टं, सर्वथा निरंशवस्तुनि सकलविशेषणाव्यवस्थितेः ।
४००
[कमपि एकं भङ्गमाश्रित्य वस्त्वर्थक्रियां कुर्यात् का बाधा ? इति प्रश्ने सत्याचार्या उत्तरयन्ति ] सत्त्वाद्यन्यतममात्रे एव भङ्गे समवस्थितं कुतो नार्थकृदिति चेत्, उच्यते, ( भा० ) सप्तभङ्गीविधौ स्याद्वादे विधिप्रतिषेधाभ्यां समारूढं वस्तु सदसदात्मकमर्थक्रियाकारि, कथञ्चित्सत एव सामग्रीसन्निपातिनः स्वभावातिशयोत्पत्तेः सुवर्णस्येव केयूरादिसंस्थानम् ।
सुवर्णं हि सुवर्णत्वादि द्रव्यार्थादेशात् सदेव केयूरादिसंस्थानपर्यायार्थादेशाच्चासदिति तथापरिणमनशक्तिलक्षणायाः प्रतिविशिष्टान्त: सामग्र्याः सुवर्णकारकव्यापारादिलक्षणायाश्च बहि: सामग्र्याः सन्निपाते केयूरादिसंस्थानात्मनोत्पद्यते । ततः सदसदात्मकमेवार्थकृत् । तद्वज्जीवादिवस्तु प्रत्येयम् ।
( भा० ) नेति चेदित्यादिनैकान्तेऽर्थक्रियां प्रतिक्षिपति । न तावत्सतः पुनरुत्पत्तिरस्ति,
तत्कारणापेक्षानुपरमप्रसङ्गात् ।
( भा० ) न चानुत्पन्नस्य स्थितिविपत्ती,
सर्वथाप्यसत्त्वात्,
(भा० ) खपुष्पवत् । नाप्यसतः सर्वथोत्पत्त्यादयस्तद्वत् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
वेषदर्थेन नञा कथञ्चिदवस्थितार्थपरतयापि व्याख्यानं घटत एवेत्याह- तत एवम् इत्यादिना । एकान्तव्यवस्थायां कुतो नार्थक्रियाकारित्वम् ? इति शङ्कते - सत्त्वाद्यन्यतमेत्यादिना। सिद्धान्तयति - उच्यत इत्यादिना । सौगतः शङ्कते - यदि पुनरित्यादिना
१. तत एवैवम् इत्यष्टसहस्रीसम्मतः पाठः ।
Page #435
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि० १ - का० २१]
स्यात्
४०१
तस्मान्न सदेकान्तेऽसदेकान्ते चार्थक्रिया सम्भवति ।
[प्रागसतो जन्म भवेत् का बाधा ? इति बौद्धस्याशङ्कायां प्रत्युत्तरयन्त्याचार्याः]
( भा० ) यदि पुन: सामग्रयाः प्रागविद्यमानस्य जन्म स्यात् को दोषः
? ।
तन्निरन्वयविनाशेतरपक्षयोस्तदैकान्ताभावः प्रसज्येत ।
( भा०) तस्या निरन्वयविनाशे निष्कारणस्य तथैवोत्पत्तिर्न स्यात् । न
अष्टसहस्त्रीतात्पर्यविवरणम्
स्यादित्यन्तेन । स्याद्वाद्युत्तरयति - तन्निरन्वयेत्यादिना तस्य प्रागविद्यमानोत्पन्नस्य निरन्वयनाशाभ्युपगमे आदावन्ते चेत्यादिन्यायात्तस्यैकान्ततोऽभावः स्यात्, कथञ्चिद्विनाशरूपेतरपक्षाभ्युपगमे च कथञ्चिदुत्पाद एवार्थतः सिद्ध्यतीत्यसदेकान्ताभावप्रसङ्गः स्फुट एवेति भावः । भाष्ये तस्याः= सामग्र्याः, निरन्वयविनाशेऽभ्युपगम्यमाने, निष्कारणस्य सतः, तथैव=असामग्रीस्थलविधयैव, उत्पत्तिर्न स्यात् न च प्राक्काले कारणाभाव एव कार्याभावप्रयोजको, लाघवव्यवहाराभ्यां यदा कारणाभावस्तदा कार्याभाव इत्येव क्रियमाणं कृतमिति नये व्याप्त्यभ्युपगमात्, कारणमिह परिणामि ग्राह्यं तेन न दण्डादौ व्यभिचारः । न च क्षणैकशेषं तेणेह कज्जमाणं इत्यादिमहाभाष्यपर्यालोचनया कार्यस्य किञ्चित्कालस्थायिन एव ग्रहणाद्व्यवहारानुगृहीतर्जुसूत्रस्यायं विषय इति दिग् । न हि निराधारेति तथा च यथा स्थिते: पूर्वक्षणव्याप्यस्थितिकत्वं तथोत्पत्तेरपि स्वपूर्वक्षणव्याप्योत्पत्तिकत्वमिति व्याप्तेर्नासदेकान्त इति भावः । न च पूर्वापरीभूतावयवा साध्यमानस्वरूपा क्रियाऽभिधीयते सा चोत्पत्त्यादिर्न सम्भवति, क्षणिकतादृशक्रियास्वरूपस्य दुरधिगमत्वादित्यपि शङ्कनीयम्, उत्पत्तेर्विपत्तेर्वा स्थितिवद्वस्तुधर्मत्वेनैव क्रियात्वस्य प्रत्यक्षसिद्धत्वात्, बुद्धिप्रकल्पिताभेदः क्रमिकव्यापारसमूहः क्रिया [ ] इति शाब्दिकाभिधानस्यापि द्रव्यार्थतयाऽभेदसत्त्व एव तत्प्रकल्पनासम्भवसाक्षिण एकान्त
१. तेणेह कज्जमाणं नियमेण कयं कयं तु भयणिज्जं ।
किंचिदिह कज्जमाणं उवरयकिरियं च हुज्जाहि । [वि० आ० भा० २३२०] (छाया - तेनेह क्रियमाणं नियमेन कृतं कृतं तु भजनीयम् । किञ्चिदिह क्रियमाणमुपरतक्रियं च भवेत् )
Page #436
--------------------------------------------------------------------------
________________
४०२
अष्टसहस्रीतात्पर्यविवरणम् हि निराधारोत्पत्तिविपत्तिा, क्रियारूपत्वात्स्थितिवत् । नैतन्मन्तव्यं 'नोत्पत्यादिः क्रिया, क्षणिकस्य तदसम्भवात् । ततोऽसिद्धो हेतुः' इति, प्रत्यक्षादिविरोधात् ।
प्रत्यक्षादिविरोधस्तावत् (भा०) प्रादुर्भावादिमतश्चक्षुरादिबुद्धौ प्रतिभासनात् तबुद्ध्या प्रादुर्भावविनाशावस्थानक्रियारहितसत्तामात्रोपगमस्य बाधनात् ।
(भा०) अन्यथा तद्विशिष्टविकल्पोऽपि मा भूत् । न हि दण्डपुरुषसम्बन्धादर्शने दण्डीति विकल्प: स्यात् ।
तथाविधपूर्वतद्वासनावशात्प्रादुर्भावाद्यदर्शनेऽपि तद्विशिष्टविकल्प इति चेत्, न नीलसुखादेरदर्शनेऽपि तद्विकल्पप्रसक्तेः ततस्तद्व्यवस्थापनविरोधात् । निरालम्बनविज्ञानमात्रोपगमेऽपि सन्तानान्तरस्वसन्तानपूर्वापरक्षणाज्ञानेऽपि तद्विकल्पोत्पत्तौ कुतस्तद्व्यवस्था ? संवेदनाद्वैतोपगमेऽपि संविदद्वैताभावेऽपि तद्वासनाबलात्संवित्स्वरूप्रतिभाससम्भवात्कथं स्वरूपस्य स्वतो गतिः सिद्धयेत् ? सत एव संवित्स्वरूपस्य तथावासनामन्तरेण स्वतो गतौ स्वसन्तानापूर्वापरक्षणसन्तानान्तरबहिरर्थजन्मादिक्रियाविशेषाणां सतामेव दर्शनाद्विकल्पोत्पत्तिर्युक्ता, इति नोत्पत्त्यादीनां क्रियात्वमसिद्धं यतस्तन्निराधारत्वप्रतिषेधो न सिद्धयेत् । ततो न प्रागसतोऽप्युत्पत्तिः सम्भवति । निरन्वयमविनाशो प्रागसत उत्पत्तिरित्ययमपि पक्षो न क्षेमङ्करः,
अष्टसहस्त्रीतात्पर्यविवरणम्
क्षणिकपक्षशिरस्येव वज्रदण्डप्रहारदायित्वादित्यभिप्रायवानाह-नैतन्मन्तव्यमित्यादि नैतन्मन्तव्यमित्यस्य ततोऽसिद्धो हेतुरित्यनन्तरमन्वय इति नासङ्गतिः । अन्यथा प्रादुर्भावादेश्चक्षुरादिबुद्धावप्रतिभासमानत्वेन, निरालम्बनविज्ञानमात्रोपगमेऽपि= योगाचाराभिमतबाह्यार्थनिरपेक्षसाकारज्ञानवादेऽपि, तद्विकल्पोत्पत्ताविति अनन्तरं स्वीक्रियमाणायामिति शेषः । कुतस्तव्यवस्था सन्तानान्तरस्वसन्तानपूर्वापरक्षणव्यवस्था, तदनुरोधेन तद्वास्तवत्वाङ्गीकारे चोत्पादादिविशिष्टानुभवव्यवस्थानुरोधेनोत्पादादेरपि वास्तवत्वं बलादेव सिद्ध्यति । संवेदनाद्वैतोपगमेऽपि माध्यमिकदृष्ट्या सन्तानान्तरस्वसन्तानाद्यन्तक्षणरहितमध्यमक्षणमात्रविश्रान्तज्ञानस्वीकारेऽपि । स्वतो गताविति, अभ्युपगम्यमानाया
Page #437
--------------------------------------------------------------------------
________________
४०३
प्रथमो भागः [परि० १-का० २१] स्याद्वादाश्रयणप्रसङ्गात्, असत्कार्यवादविरोधात् ।
(भा० ) ततः सूक्तं 'यदेकान्तेन सदसद्वा तन्नोत्पत्तुमर्हति, व्योमवन्ध्यासुतवत्' इति ।
न ह्येकान्तेन सद् व्योमोत्पद्यते, नाप्येकान्तेनासन् वन्ध्यासुत इति न साध्यसाधनविकलमुदाहरणम् । ____ (भा०) कथमिदानीमनुत्पन्नस्य गगनादेः स्थितिरिति चेत्, अनभ्युपगमात् ।
सर्वथा गगनाद्यनुत्पादस्य । केवलमिह व्योम्नो (भा०) द्रव्यनयापेक्षया परप्रसिद्ध्या चोदाहरणं
प्रतिपादितम् । ततो न पूर्वापरविरोधः, पूर्वं सर्वथानुत्पत्तिमतः स्थितप्रतिषेधसाधनात्, द्रव्यतोऽनुत्पद्यमानस्यैव स्थितिघटनात् । [यद्वस्त्वर्थक्रियाकारि तद्विधिप्रतिषेधकल्पनया सप्तभङ्गीविधिसहितमिति समर्थयन्त्याचार्याः]
ततो यदर्थक्रियाकारि तद्विधिप्रतिषेधकल्पनोपकल्पितसप्तभङ्गीविधौ समारूढं विध्येकान्तादौ वानवस्थितं, सदायेकान्ते सर्वथार्थक्रियाविरोधादिति सूरिमतम् ।
नन्वेवं सुनयापितस्य विध्यंशस्य निषेधांशस्य चार्थक्रियाकारित्वे तेन व्यभिचारी हेतुः, तस्य सप्तभङ्गीविधावसमारूढत्वादन्यथानवस्थानात्, तस्यानर्थक्रियाकारित्वे सुनयस्यावस्तुविषयत्वप्रसक्तेः, वस्तुनोऽर्थक्रियाकारित्वादिति कश्चित्, तदयुक्तं, सुनयार्पितस्यापि विधेरनिराकृतप्रतिषेधस्यार्थक्रियाकारित्वादन्यथा दुर्नयार्पितत्वापत्तेः । न चासौ सप्तभङ्गीविधावसमारूढः, भङ्गान्तराप्रतिक्षेपात् । तथा च
अष्टसहस्त्रीतात्पर्यविवरणम् मिति गम्यम् । निरन्वयमविनाश इति सान्वयविनाशस्वीकार इत्यर्थः । कथमिदानीमिति न चानुत्पन्नस्य स्थितिविपत्ती इति पूर्वमुक्तत्वादिति भावः । अन्यथानवस्थानादिति सनयार्पितस्यैकस्यैव भङ्गस्य सप्तभङ्गीत्वप्राप्तौ मर्यादालक्षणस्यावस्थानस्याभावादित्यर्थः, यद्वा विधावपि विध्यन्तरादिविकल्पप्राप्तावनवस्थानं बोध्यम् । न चासौ सप्तभङ्गीविधावसमारूढ इति यद्यपि सप्तभङ्गीविधिसमारूढत्वं सुनयापितत्वं वा नार्थक्रिया
Page #438
--------------------------------------------------------------------------
________________
४०४
अष्टसहस्त्रीतात्पर्यविवरणम् नानवस्था नाम, विधावपि विध्यन्तरादिविकल्पनाऽभावात् । केवलं विधिभङ्गे नास्तित्वादिभङ्गान्तरगुणीभावाद्विधिप्राधान्यं प्रतिषेधभङ्गे चास्तित्वादिभङ्गान्तरगुणीभावात्प्रतिषेधप्रधानतेति प्रमाणार्पितप्रधानरूपाशेषभङ्गात्मकवस्तुवाक्यान्नयवाक्यस्य विशेषः प्ररूपितप्राय एव ।
[बौद्धो ब्रूते प्रथमभङ्गेनैव जीवादिपदार्थस्य ज्ञानं भवति
पुनः शेषभङ्गकथनं व्यर्थमेव इत्याशङ्कायामाचार्या उत्तरयन्ति] यदप्याह-जीवादिवस्तुनि सत्त्वद्वारेण प्रथमभङ्गात्प्रतिपन्ने द्वितीयादिभङ्गानामानर्थक्यम्, असत्त्वादिधर्माणामपि तदात्मनां तत एव प्रतिपत्तेरन्यथा तेषां वस्तु नोऽन्यत्वापत्तेः, विरुद्धधर्माध्यासात्पटपिशाचवत् । तथा च तस्येति व्यपदेशाभावः, सम्बन्धाभावात । सत्त्वादिधर्माणां धमिणा सहोपकार्योपकारकभावे धर्मिणोपकारो धर्माणां धर्मेर्वा धर्मिणः स्यात् ? प्रथमपक्षे किमेकया शक्त्या धर्मी धर्मानुपकुरुतेऽनेकया वा ? यद्येकया स्वात्मनोऽनन्यया धर्मी धर्मानुपकुरुते तदैकधर्मद्वारेण नानाधर्मोपकारनिमित्तभूतशक्त्यात्मनो धर्मिणः प्रतिपत्तौ तदुपकार्यस्य सकलधर्मकलापस्य प्रतिपत्तेः सकलग्रहः स्यात्, उपकार्याप्रतीतौ तदुपकारकप्रतीत्ययोगात् । एतेनानेकया स्वात्मनोऽनन्यया शक्त्या धर्मी धर्मानुपकरोतीति पक्षान्तरमपि प्रतिक्षिप्तम् । धर्मी धर्मैरुपक्रियते इत्यस्मिन्नपि पक्षे किमेकोपकार्यशक्त्यात्माऽनेकोपकार्यशक्त्यात्मा वेति पक्षद्वितयमप्यनेनैव निरस्तं, सकल
- अष्टसहस्त्रीतात्पर्यविवरणम् कारितावच्छेदकम्, तद्रूपाज्ञानेऽपि पुरोवर्तिनीष्टतावच्छेदकरूपवैशिष्ट्यज्ञानादेव रजतादौ प्रवृत्तिदर्शनात् । नापि सप्तभङ्गीविधिसमारूढत्वनियतं रजतारजतोभयरूपत्वं तथा,
सर्वस्योभयरूपत्वादिष्टानिष्टाव्यवस्थितौ ।
अप्रवृत्तिनिवृत्तीदं जातं सर्वत्र ही जगत् ॥ इति [ मण्डनमिश्रकृतपूत्कारप्रत्युत्तरादानेन तस्यारण्यरुदितत्वप्रसङ्गात् । स्वरूपपररूपाभ्यामसरोक्त्या तत्पत्कारनिवारणे च नियतैकरूपस्यैवार्थक्रियाकारितावच्छेदकत्वव्यवस्थितेः, तथापि सर्वस्य ज्ञानस्य प्रवर्तकत्वेऽगहीताप्रामाण्यकत्वस्य तन्त्रत्वात प्रवर्तकज्ञानाप्रामाण्यविघटनाय सप्तभङ्गीविधिसमारूढत्वमुपयुज्यत इति युक्तं पश्यामः । यद्यपि प्रामाण्येऽपि लोकसिद्धे तद्वति तत्प्रकारकत्वमात्रं तन्त्रम्, न तूक्तं सप्तभङ्गीविधि
Page #439
--------------------------------------------------------------------------
________________
प्रथमो भागः [परि० १-का० २१]
४०५ धर्मकलापस्योपकारकस्याप्रतिपत्तौ तदुपकार्यशक्त्यात्मनो धर्मिणः प्रतिपत्त्यघटनात्, सकलनिश्चयस्याविशेषात् । तदुक्तं
नानोपाध्यपकाराङ्गशक्त्यभिन्नात्मनो ग्रहे । सर्वात्मनोपकार्यस्य को भेदः स्यादनिश्चितः ॥ एकोपकारके ग्राह्ये नोपकारास्ततोऽपरे ।।
दृष्टे यस्मिन्नदृष्टास्ते तद्ग्रहे सकलग्रहः ॥ इति । [ ]
यदि पुनर्धर्माणामुपकारिकाः शक्तय उपकार्याश्च धर्मिणो भिन्ना एव तदा ताभिस्तस्योपकारः कश्चित्तेन वा तासां क्रियते न वेति पक्षद्वयम् । तत्र न तावदुत्तरः पक्ष: तद्व्यपदेशविरोधात् । प्रथमपक्षे तु शक्तिभिः शक्तिमत उपकारेऽनर्थान्तरभूते स एव कृतः स्यात् । तथा च न शक्तिमानसौ, तत्कार्यत्वात् । ततोऽर्थान्तरभूतेऽनवस्थाप्रसङ्गः, तव्यपदेशसिद्ध्यर्थमुपकारान्तरपरिकल्पनात् । शक्तिमता शक्तीनामुपकारे शक्त्यन्तराणां कल्पनेऽनवस्थैव । तदकल्पने प्राच्यशक्तीनामप्यव्यवस्थितिः, इति न शक्तिशक्तिमद्व्यवहारः सिद्धयेत् । तदप्युक्तं
धर्मोपकारशक्तीनां भेदे तास्तस्य किं यदि ?
नोपकारस्ततस्तासां तथा स्यादनवस्थितिः ॥ इति । [ ] ॥२१॥ तदपि सर्वमपाकुर्वन्तः सूरयः प्राहु:
अष्टसहस्रीतात्पर्यविवरणम्
समारूढत्वम्, तथापि लोकोत्तरप्रामाण्ये सप्तभङ्गबोधकतापर्याप्त्यधिकरणत्वस्य तन्त्रत्वात् सर्वत्र तदाश्रयणं युक्तमिति तत्र तत्र व्यवस्थापितमस्माभिरिति सर्वमवदातम् । नानोपाधीति नानोपाधीनां सत्त्वादिधर्माणामुपकाराङ्गभूता या शक्तिस्तदभिन्न आत्मा स्वरूपं यस्य तादृशस्य धर्मिणो ग्रहे, सर्वात्मना=धर्मिणा, उपकार्यस्य धर्मकलापस्य, को भेदोऽनिश्चितः स्यात् न कश्चिदित्यर्थः । एकस्य सत्त्वादिधर्मस्य उपकारके ग्राह्ये तस्मिन् दृष्टे सर्वे उपकारा दृष्टाः । ततोऽपरे उपकारा न सन्ति, ये 'तस्मिन् दृष्टे न दृष्टा इति, तद्ग्रहे= एकोपकारकग्रहे, बलात् सर्वोपकार्यग्रह: स्यात् । धर्मोपकारेत्यादि धर्माणां या उपकारशक्तयस्तासां भेदे अङ्गीक्रियमाणे, तास्तस्य धर्मिणः, किं स्युः न स्युरित्यर्थः । यदि
१. यस्मिन्निति अष्टसहस्रीसम्मतः पाठः ।
Page #440
--------------------------------------------------------------------------
________________
४०६
अष्टसहस्त्रीतात्पर्यविवरणम् धर्मे धर्मेऽन्य एवार्थो धर्मिणोऽनन्तधर्मणः ।
अङ्गित्वेऽन्यतमान्तस्य शेषान्तानां तदङ्गता ॥२२॥ धर्मी तावदनन्तधर्मा जीवादिः, प्रमेयत्वान्यथानुपपत्तेः । ननु च धर्मेण व्यभिचारः, तस्यानन्तधर्मत्वाभावेऽपि प्रमेयत्वसिद्धेः । तस्याप्यनन्तधर्मत्वे धर्मित्वप्रसङ्गान्न धर्मो नाम । तदभावे न धर्मीत्युभयापायः ।।
[बौद्धो ब्रूते प्रमेयत्वहेतुर्व्यभिचारी भवति किन्तु जैनाचार्याः समादधते] प्रमेयत्वस्य च साधनधर्मस्यानन्तधर्मशून्यत्वे तेनैवानेकान्तः । तस्यानन्तधर्मत्वे धमित्वेन पक्षान्तःपातित्वान्न हेतुत्वम्, इत्युपालम्भो न श्रेयान्, धर्मस्यैव सर्वथा कस्यचिदसम्भवात्तेन व्यभिचाराभावात् साधनस्य । न हि स्वधर्म्यपेक्षया यो धर्मः सत्त्वादिः स एव स्वधर्मान्तरापेक्षो धर्मी न स्याद्यतोऽनन्तधर्मा न भवेत् । न चैवमनवस्थानं, अनाद्यनन्तत्वाद् धर्मधर्मिस्वभावभेदव्यवहारस्य वलयवदभव्यसंसारवद्वा । न च धर्मिणो जीवादेरपोध्रियमाणो धर्मः प्रमेयः, तस्य नयविशेष
- अष्टसहस्त्रीतात्पर्यविवरणम् ततो धर्मिणः सकाशात्, तासां धर्मोपकारशक्तीनाम्, उपकारो न, तथोपकारे च स्वीक्रियमाणे, उपकारशक्ति-परम्पराकल्पनेनानवस्थितिः=अनवस्था स्यादित्यर्थः ॥२१॥
धर्मस्यैवेति द्रव्यभिन्नपदार्थान्तरीभूतधर्माभ्युपगम एव हि व्यभिचार: स्यात्, स तु नास्माकं विवक्षानुसारित्वाद्धर्मधर्मिभावस्येति नोक्तदोषोपनिपात इति भावः । न हीति न च एवं सत्त्वादीनां प्रमेयत्वाद्यपेक्षया धर्मित्वे निर्गुणा गुणा [कारिकावली-८६] इति प्रवादो व्याहन्येतेति वाच्यम्, द्रव्यत्वनियामकसम्बन्धेन गुणे गुणाभावेऽपि सम्बन्धान्तरेण तदुपगमे दोषाभावात् । न च अभेदैक्ये सम्बन्धाविशेषः, घटाभावे घटाभाव इतिवत् घटे घट इति प्रतीत्यभावेन यथाप्रतीत्यभेदशक्तीनामपि नानात्वोपगमादिति द्रष्टव्यम् । न चैवमिति एवं धर्मस्यानन्तधर्मप्रकारैर्धर्मित्वे धर्मिणश्चानन्तधर्म्यपेक्षया धर्मत्वे इत्यर्थः । वलयवदिति भ्रमणकाले वलयस्य पूर्वभागो यथा भवत्यपरोऽपरश्च पूर्वस्तद्वदित्यर्थः, अभव्यसंसारवद्वेति यथाऽभव्यस्य तत्तत्संसारपर्यायैर्गृहीतमुक्तै नवस्थितिस्तद्वदित्यर्थः, अनेन दृष्टान्तद्वयेन धर्मधर्मभावानवस्थायाः प्रामाणिकत्वाददोषत्वमित्युक्तं भवति । धर्मिणो बुद्ध्या पृथक्कृते धर्मे व्यभिचारमाशक्य निषेधति-न च धर्मिण इति । तत्र नेयत्वेऽपि प्रमेयत्वाभावान्न
Page #441
--------------------------------------------------------------------------
________________
प्रथमो भाग: [ परि०१-का. २२]
४०७ विषयतया प्रमाणाविषयत्वात्, इति न तेनानेकान्तः । एतेन प्रमेयत्वस्य धर्मस्य नयविषयस्य नेयत्वेनाप्रमेयत्वात्तेन व्यभिचारो निरस्तः । प्रमाणविषयस्य तु प्रमेयत्वस्य हेतोः स्वधर्मापेक्षयानन्तधर्मत्वेन धर्मित्वात्पक्षत्वेऽपि न हेतुत्वव्याघातः, स्वपरानन्तधर्मत्वे साध्येऽन्यथानुपपत्तिसद्भावात् । ततोऽनन्तधर्मा धर्मी सिद्धयत्येव । तस्य धर्मे धर्मोऽस्तित्वादौ भिन्न एवार्थः प्रयोजनं विधानादिः प्रवृत्त्यादि तदज्ञानविच्छित्तिर्वा, न पुनरेक एव येन प्रथमभङ्गादेवानन्तधर्मात्मकस्य वस्तुनः प्रतिपत्तेः शेषधर्मानामानर्थक्यं प्रसज्येत । न च धर्मा धर्मिणोऽनर्थान्तरभूता एव, नाप्यर्थान्तरमेव येन तत्पक्षभाविदूषणप्रसङ्गः, कथञ्चिद्भेदाभेदात्मकत्वार्मिधर्माणां तदात्मकवस्तुनो जात्यन्तरत्वाच्चित्राकारैकसंवेदनवत. तत्र विरोधादेरप्यनवकाशात । केवलमङ्गित्वे प्रधानत्वेऽस्तित्वादिषु धर्मेष्वन्यतमस्यान्तस्य धर्मस्य, शेषान्तानां स्याच्छब्दसूचितान्यधर्माणां तदङ्गता तद्गुणभावः, तथा प्रतिपत्तुर्विवक्षाप्रवृत्तेरर्थित्वविशेषात् । ततो भङ्गान्तरप्रयोगो युक्त एव, प्रतिधर्मं धर्मिणः
- अष्टसहस्रीतात्पर्यविवरणम्
व्यभिचार इत्यर्थः । अनयैव रीत्या प्रमेयत्वेऽपि न व्यभिचारः, विशिष्टधर्मावच्छिन्नाधिकरणताकाभावाभ्युपगमान्नेयत्वविशिष्टप्रमेयत्वे प्रमेयत्वाभावाद् व्यभिचारलक्षणे साध्याभावतद्ववृत्तित्वयोरेकावच्छेदप्रवेशेन चानतिप्रसङ्गान्नयदृष्ट्या वैज्ञानिकसम्बन्धगर्भत्वाद्वा तस्येत्यभिप्रायवानाह-एतेनेति । शुद्धप्रमेयत्वस्य तु पक्षान्तर्भूतत्वादेव तत्र न व्यभिचार इत्याह-प्रमाणविषयस्य त्विति । इदमापाततः, निष्कृष्टरीत्या शुद्धेऽपि तत्राव्यभिचारादिति बोध्यम् । पक्षत्वेऽपि हेतुत्वाव्याहतौ प्रकारमाह-स्वपरानन्तेत्यादि साध्यान्यथानुपपन्नत्वमेव हेतुत्वप्रयोजकम्, न तु पक्षबहिर्भूतत्वमपि, पृथिवीत्वस्येव तादात्म्येन पृथिव्याः पृथिवीतरभेदहेतुत्वप्रसिद्धेरिति न कोऽपि दोष इति भावः । विधानादिः=अभिलापादिः, प्रवृत्त्यादिः तत्प्रकारकेच्छाप्रयोज्यप्रयत्नादिः, तदज्ञानविच्छित्तिः=संस्कारविशेषाधानम्, तद्गुणभावः सामान्यस्य धर्मित्वे प्रकृतेतरानन्तधर्मात्मकत्वस्य संसर्गतया भानात् संसर्गघटकत्वेनाप्रधानत्वम्, स्वेतरानन्तधर्मसंवलितत्वेन प्रकृतधर्मभानाभ्युपगमे तु विशेषणतया तेषामेवापोद्धारेण धमित्वविवक्षायां तु प्रकारतयाऽभासमानत्वेनेति बोध्यम् । स च प्रतिपत्तृविवक्षाधीन इति तत्त्वम् । युक्त एवेति प्रकारभेदेन भङ्गान्तरबोधस्य वैलक्षण्यात् स्वजन्यबोधसमानाकारबोधवैधुर्यलक्षणाया आकाङ्क्षाया अक्षतत्वादिति भावः, तदाहप्रतिधर्ममिति स्वभावभेदोपपत्तेरिति अर्थेनैव धियां विशेष इति न्यायात्, तथाप्रकार
Page #442
--------------------------------------------------------------------------
________________
४०८
कथञ्चित्स्वभावभेदोपपत्तेः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
[धर्मिणः प्रतिधर्मं यदि स्वभावभेदो न भवेत्तर्हि वस्तुव्यवस्थैव न स्यात् ]
( भा० ) यदि पुनः प्रत्युपाधि परमार्थतः स्वभावभेदो न स्यात्तदा टेऽभिहिते वा प्रमाणान्तरमुक्त्यन्तरं वा निरर्थकं स्यात्, गृहीतग्रहणात् पुनरुक्तेश्च ।
तथा हि- साक्षादुपलब्धे शब्दादौ क्षणिकत्वाद्यनुमानं स्वार्थं न स्यात्, धर्मिप्रतिपत्तौ कस्यचिदप्रतिपन्नस्वभावस्य साध्यस्याभावात्, सर्वथा
( भा० ) स्वभावातिशयाभावात् ।
परार्थं चानुमानं वचनात्मकं न युज्यते, धर्मिवचनमात्रादेव साध्यनिर्देशसिद्धेः, साधनधर्मोक्तिसिद्धेश्च । तद्वचने पुनरुक्तताप्रसङ्गः, तस्य स्वभावातिशयाभावादेव । तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः ।
भ्रान्तेर्निश्चीयते नेति साधनं संप्रवर्तते ॥ [ प्रमाणवार्तिक ३-४४]
इत्येतदप्यनालोचितवचनमेव, दृष्टस्य स्वभावस्य स्वभावातिशयाभावेऽखिलगुणदर्शनस्य विरोधात् धर्मिमात्रेऽप्यभ्रान्तौ साध्ये स्वभावे भ्रान्त्ययोगात् तद्भ्रान्तौ वा शब्दसत्त्वादावपि भ्रान्तिप्रसक्तेः कुतः साधनं संप्रवर्तेत यतोऽर्थनिश्चयः स्यात् ?, शब्दसत्त्वादौ निश्चये कथमनित्यत्वादावनिश्चयः ? स्वभावातिशयप्रसङ्गात्,
अष्टसहस्त्रीतात्पर्यविवरणम्
स्वभावभेदे सत्येव तथाप्रकारिस्वभावज्ञानोपपत्तेरित्यर्थः । व्यतिरेके बाधकमाह-यदि पुनरित्यादिना, भ्रान्तैः'=भेदवासनाजनितभ्रमशालिभिः । विरोधादिति एकधर्मिविषयज्ञाने अनेकगुणाभेदविषयकत्वस्यैकत्र धर्मिण्यनेकगुणात्मकत्वस्य च विरोधग्रस्तत्वादिति भावः । वस्तुगत्याऽखिलगुणात्मकस्यैकस्य भावस्य दृष्टावपि तत्त्वेनादर्शनान्न विरोध इत्याशङ्क्याह- धर्मिमात्रेऽपीत्यादि न हि शब्ददर्शने धर्म्यंशेऽभ्रान्तत्वं क्षणिकत्वाद्यंशे च भ्रान्तत्वमिति तत्साधनाय प्रवृत्तिरिति वक्तुं युक्तम्, निरंशे वस्तुन्यांशिकभ्रमत्वप्रमात्वयोर्दुवचत्वादिति भावः । स्वभावातिशयप्रसङ्गादिति ज्ञानाकारभेदस्यार्थाकार
१. भ्रान्तेः इति अष्टसहस्रीसम्मतः पाठः ।
Page #443
--------------------------------------------------------------------------
________________
४०९
प्रथमो भागः [परि०१-का. २२] निश्चितानिश्चितयोरेकस्वभावत्वे सर्वथातिप्रसङ्गात् ।
। [यद्यपि वस्तुनि स्वतः स्वभावभेदो नास्ति तथापि विजातीयभेदात्स्वभावभेदो भवेदिति बौद्धस्यारेकायां समादधते आचार्या:]
(भा०) सदुत्पत्तिकृतकत्वादेः प्रत्यनीकस्वभावविशेषाभावाद् यावन्ति पररूपाणि तावन्त्यस्ततस्ततो व्यावृत्तयः प्रत्येकमित्येषापि कल्पना मा भूत् ।
न हि किञ्चिदसदनुत्पत्तिमदकृतकादि वा वस्तुभूतमस्ति सौगतप्रसिद्ध पररूपं यतो व्यावृत्तं परमार्थतोऽस्वभावभेदमपि शब्दादिस्वलक्षणं सदुत्पत्तिकृतकत्वादिस्वभावभेदवत्परिकल्प्यते । पराभ्युपगमात्सिद्धमस्तीति चेत्, न तस्याप्रमाणसिद्धत्वात् । कल्पनारोपितं तदस्तीति चेत्, कुतस्तत्कल्पनाप्रसूतिः ? अनाद्यविद्योदयादिति चेत्, तत एव सत्त्वादिधर्मकल्पनास्तु, किमसत्त्वादिव्यावृत्त्या ? ।
[व्यावृत्तिकल्पनया सदकृतकादयः सन्तीति बौद्धमान्यतायां विचार:]
सदेव किञ्चिद्गुणीभूतविधिस्वभावं निषेधप्राधान्यादसदुच्यते, सदन्तरविविक्तस्य सत एवासत्त्वव्यपदेशात् । तथोत्पत्तिमदन्तरविविक्त मुत्पत्तिमदेव किञ्चिदनुत्पत्तिमत्, कृतकान्तरविविक्तं कृतकमेवाकृतकं, वस्त्वन्तरविविक्तं वस्त्वेवावस्तु व्यवहृतिपथमुन्नीयते इति चेत्, न, परमार्थतः सत्त्वादिवस्तुस्वभावभेदप्रसिद्धः, नि:स्वभावभेदवस्तुरूपाभ्युपगमविरोधात् ।
अष्टसहस्त्रीतात्पर्यविवरणम् भेदनियतत्वादिति भावः । यद्यपि पदार्थस्य स्वतः स्वभावातिशयो नास्ति तथापि विजातीयभेदात् स्वभावातिशयो भविष्यतीत्याशङ्कायामाह भाष्यकृत्-सदुत्पत्तीत्यादि । तत एवेति असत्त्वादिव्यावृत्त्यपेक्षया लाघवात् सत्त्वादेरेवाविद्याविशेषजन्यत्वकल्पनौचित्यादिति भावः । अत एव त्रिविधं सत्त्वमौपनिषदानामिष्टमिति मन्तव्यम् । यदि च तत्त्वज्ञानदशायामपि सत्त्वाद्यनुभवान्न तस्याऽविद्यकत्वम्, तदा अस्तु प्रमाणसिद्ध एवानन्तगुणात्मकस्वभावभेदो धर्मिणः, तत्त्वज्ञानिभिस्तथानुभवादिति बोध्यम् । सदन्तरेति सदन्तरं यद् घटवद्भूतलं ततो विविक्तस्य, केवलस्य भूतलस्य, असत्त्वव्यपदेशात् घटाभावत्वेन व्यवहारादित्यर्थः, तथा च शब्दाद्यात्मनानुत्पत्तिमद् घटादि प्रसिद्धं तद्व्यावृत्त्योत्पत्तिमत्त्वं शब्दे सुवचमिति भावः । एवमग्रेऽप्यतव्यावृत्तिप्रसिद्धिर्विशेषादेशेन वाच्या । नि:स्वभावेति निषेधस्य विध्यवच्छिन्नत्वाद्विधिस्वभावभेदाभावे निषेधस्वभावभेदस्य दुरापास्तत्वादिति
Page #444
--------------------------------------------------------------------------
________________
४१०
अष्टसहस्त्रीतात्पर्यविवरणम्
(भा०) सतां हि स्वभावानां गुणप्रधानभावः स्यात्, पादोत्तमाङ्गवत्, न पुनरसतां शशाश्वविषाणादीनामविशेषात् ।
(भा०) ततः परिकल्पितव्यावृत्त्या धर्मान्तरव्यवस्थापनं परिफल्गुप्रायं, वस्तुस्वभावाभावप्रसङ्गात् ।
शक्यं हि वक्तुं, न किञ्चिद्वस्तु नामास्ति, तस्यावस्तुव्यावृत्त्या व्यवहरणात् परिकल्पितवस्तुव्यावृत्त्या चावस्तुव्यवहारसिद्धः । परस्पराश्रयणान्नैवमिति चेत्, तर्हि कल्पितासत्त्वादिव्यावृत्त्या सत्त्वादयस्तद्व्यावृत्त्या चासत्वादिधर्मपरिकल्पनमित्यपि मा भूत्, परस्पराश्रयणाविशेषात् । स्ववासनासामर्थ्यात्सत्त्वेतरादिकल्पनयोरुत्पत्तेस्तव्यवहारस्यैव परस्परापेक्षत्वान्न परस्पराश्रयणं, सकलधर्मधमिविकल्पशब्दानां स्वलक्षणाविषयत्वात् परिकल्पिततदन्यव्यावृत्तिविषयत्वसिद्धेरिति चेत्, न,
(भा०) तथेन्द्रियबुद्धयोऽपि स्वलक्षणविषया मा भूवन् । केवलं व्यावृत्तिं पश्येयुः, अदृष्टे विकल्पायोगादतिप्रसङ्गाच्च ।
यथैव हि नीले पीतादीनामदृष्टत्वान्न तद्विकल्पोत्पत्तिर्नीलस्य, दृष्टत्वानीलविकल्पस्यैवोत्पत्तिस्तथैवासत्त्वादिव्यावृत्तिमपश्यतस्तद्विकल्पोत्पत्तिर्मा भूत्, स्वलक्षणदर्शनात्स्वलक्षणविकल्पोत्पत्तिरेवास्तु, न चैवं, तदन्यव्यावृत्तावेव विकल्पोत्पत्तेः । यदि पुनरसत्त्वादिव्यावृत्तीनामदर्शनेऽपि तदनादिवासनावशादेव तद्विकल्पोत्पत्तिरुररीक्रियते तदा नीलादिरूपादर्शनेऽपि तद्वासनासामर्थ्यादेव नीलादिविकल्पोत्पत्तेस्ततो नीलादिरूपव्यवस्था मा भूत् । तद्वत्सुखादिव्यवस्थितिरपि कुतः सम्भाव्येत ? स्वसंवेदनव्यवस्था च तन्निश्चयोत्पत्तेर्दुर्घटैव । तदनुत्पत्तौ सुतरां
अष्टसहस्त्रीतात्पर्यविवरणम्
भावः । सतां हीति गुणप्रधानभावो हि वैवक्षिकः, विवक्षा च सत्येव वस्तुनि नासतीति विधेयनिषेधयोरन्यतरप्रधानगुणभाव उभयस्वभावभेदमेवाक्षिपतीति भाष्यप्रतीकार्थः । तद्व्यवहारस्यैवेति व्यवहारान्योन्याश्रयश्चानादित्वाददोषः, यत्प्रतियोगिकत्वं यत्र नोपस्थितं तत्र विश्रामण ज्ञप्त्यप्रतिबन्धाद्वेति मन्तव्यम् । ततो नीलादिविकल्पोत्पत्तेः, तद्वत्=नीलादिरूपव्यवस्थावत्, सुखादिव्यवस्थितिरपि कुतः सम्भाव्येत ?, न कतश्चित. असतोऽपि नीलादेः सुखादेश्चासत्त्वादिव्यावृत्तिवद्वासनावशाद्विकल्पोत्पत्तेः सम्भवादित्यर्थः । दुर्घटैवेति
Page #445
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि० १ - का० २३]
४११
तदव्यवस्था स्वर्गप्रापणशक्त्यादिवद्वेद्याकारविवेकवद्वा । स्वरूपस्य स्वतो गतिरित्यपि तथा निश्चयानुत्पत्तौ न सिद्धयेद् ब्रह्माद्वैतादिवत् । ततः कुतश्चिन्निश्चयाद्वस्तुस्वभावभेदव्यवस्थायां सत्त्वादिनिश्चयाद्वस्तुनि परमार्थतः सत्त्वादिधर्मभेदव्यवस्थितिरभ्युपगन्तव्या, अन्यथा क्वचिदपि व्यवस्थानासिद्धेः । परमार्थतः सत्त्वादिधर्मव्यवस्थितौ च सत्यां साधीयसी सत्त्वादिसप्तभङ्गी, सुनयार्पितत्वात् ॥२२॥ सम्प्रत्येकानेकत्वादिसप्तभङ्गयामपि तामेव प्रक्रियामतिदिशन्तः सूरयः प्राहु:
एकानेकविकल्पादावुत्तरत्रापि योजयेत् ।
प्रक्रियां भङ्गिनीमेनां नयैर्नयविशारदः ॥२३॥
स्यादेकमेव स्यादनेकमेवेति विकल्प आदिर्यस्य स एकानेकविकल्पादिः । तस्मिन्नुत्तरत्रापि स्याद्वादविशेषविचारेऽपि प्रक्रियामेनामन्वादिष्टां भङ्गिनीं सप्तभङ्गाश्रयां नयैर्यथोचितस्वरूपैर्योजयेत् युक्तां प्रतिपादयेन्नयविशारदः स्याद्वादी, ततोऽन्यस्य तद्योजनेऽनधिकारात् ।
[एकानेकादौ सप्तभङ्गौँ ब्रुबन्तो जैनाचार्याः प्रथमभङ्गं सयुक्तिकं स्पष्टयन्ति]
तद्यथा
(भा०) स्यादेकं सद्द्द्रव्यनयापेक्षया ।
न हि सत्पर्यायनयापेक्षया सर्वथा वा सर्वमेकमेवेति युक्तं, प्रमाणविरोधात् । ननु च सद्द्रव्यनयार्पणादपि जीवादिद्रव्यमेकैकश एवैकं सिद्धयेत्, न तु नानाद्रव्यं, प्रतीतिविरोधात्, तत्रैकत्वप्रत्यभिज्ञानाभावात् सर्वत्रैकत्वस्य तन्मात्रसाध्यत्वादन्यथातिप्रसङ्गादिति कश्चित् । तं प्रत्येके समादधते 'सदेव द्रव्यं सद्द्रव्यम् । तद्विषयो नयः सङ्ग्रहः परमः । तदपेक्षया सर्वस्यैकत्ववचनाददोष:' इति । अपरे तु 'सद्रव्यमेव अष्टसहस्त्रीतात्पर्यविवरणम्
स्वसंवेदनत्वप्रकारकनिश्चयस्याप्यदृष्टासद्विषयकत्वसम्भावनादित्यर्थः । तदनुत्पत्तौ सुतरामिति स्वसंवेदनत्वप्रकारकनिश्चयाभावे तदंशे दर्शनाप्रामाण्यस्य स्फुटत्वादिति भावः । तदाहस्वर्गप्रापणेत्यादि ॥२२॥
परम इति परैर्ज्ञानिभिर्मीयत इति परमः सर्वशुद्ध इति यावत् । तदपेक्षयेति तथा च व्यवहारैकत्वस्य प्रत्यभिज्ञामात्रप्रमाणकत्वेऽपि तदभावेऽपि सङ्ग्रहबुद्धिकृतस्य सर्वद्रव्य
Page #446
--------------------------------------------------------------------------
________________
४१२
अष्टसहस्त्रीतात्पर्यविवरणम् नयः, नीयमानत्वाद्धेतोः, तदपेक्षया सर्वमेकं, जीवादीनां षण्णां तद्भेदप्रभेदानां चानन्तानन्तानां तत्पर्यायत्वात् ‘एकं द्रव्यमनन्तपर्यायम्' [ ] इति सङ्क्षपतस्तत्त्वोपदेशात्, तस्य सर्वत्र सर्वदा विच्छेदानुपलक्षणात् प्रतीतिविरोधाभावादेकत्वप्रत्यभिज्ञानस्यापि सदेवेदमित्यबाधितस्य सर्वत्र भावात्, अभावस्यापि तत्पर्यायत्वान्न किञ्चिद् दूषणम्' इति समाचक्षते ।।
[जीवादिविशेषाः परस्परभिन्नस्वभावाः कथमेकं द्रव्यमित्यारेकायां समाधानम्]
ननु च जीवादयो विशेषाः परस्परं व्यावृत्तविवर्त्ताः कथमेकं द्रव्यं विरोधादिति चेत्, न कथञ्चिदेकत्वेन विरोधाभावात् कथञ्चिद्विशिष्टप्रतिभासात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
गतैकत्वस्य न दुष्टत्वमित्युक्तं भवति । अत्र च व्यवहाररूपापेक्षाधीकृतमेकत्वं तद्व्यक्तित्वावच्छिन्नम्, सङ्ग्रहकृतं च तवृत्तिजात्यवच्छिन्नम्, प्रतियोग्यनुयोगिवाचकपदसत्त्वेऽन्यथा च शुद्धं सामान्यधर्मिणि प्रतीयते, 'सोऽयं' 'तज्जातीयोऽयं' 'सर्वो घट एकः' सर्वमेकं' इत्यादिप्रयोगादिति विवेकः । अथ सङ्ग्रहबुद्धिकृतमेकत्वं कथं सङ्ग्रहबुद्धेविषयः स्यादिति चेद्, अनादित्वेनायं दोषः परिहरणीयः । पूर्वपूर्वसङ्ग्रहबुद्धिकृतस्यैकत्वस्योत्तरोत्तरसङ्ग्रहबुद्ध्या विषयीकरणसम्भवात्, द्वित्वादिवदस्यैकत्वस्यापेक्षाबुद्धिव्यङ्ग्यत्वपक्षे तु नात्राशङ्कापदप्रसरोऽपि, ग्यथा चैकत्वद्वित्वादेः कथञ्चिदपेक्षाबुद्धेर्व्यङ्ग्यत्वं जन्यत्वं च तथा व्यवस्थापितमस्माभिर्नयामृततरङ्गिण्यां महता प्रबन्धेनेति तत एव तदवगन्तव्यम् । अपरे त्विति न परेऽपरे सङ्ग्रहनयमवलम्ब्यातिपरिणामेन प्रवृत्ता वेदान्तिन इत्यर्थः । तन्मत एव सकलभेदप्रपञ्चस्य बाधावधीभूतसद्ब्रह्मोपादानकत्वादिति ध्येयम् । स्याद्वादावष्टम्भे पुनरेतन्मतं न क्षोदक्षमम्, जीवादिभेदानां त्रैलक्षण्यान्वितत्वेन कथञ्चित्कार्यत्वे तदुपादाने सतीष्यमाणे तदन्तर्भावेनापि कार्यत्वस्य सदन्तरोपादानत्वस्य च कल्पनायामनवस्थाप्रसङ्गादूर्ध्वतासामान्यस्यैकस्य खण्डशो भावेऽपि व्याप्त्या तदयोगात्, अन्यथा तस्य जीवाजीवोभयात्मकत्वेन तृतीयराशिप्रसङ्गात् । यदि चेदमेकत्वं न द्रव्यत्वापादकं किन्तु सर्वाधारत्वापादकमिति नोक्तदोष इति विभाव्यते, तदा प्राचीनमतस्यैवायं पुनः प्रसवः, बुद्धिप्रत्यासत्त्या नगरादिवदेकत्वेन विवक्षितस्य सद्रव्यस्य जीवादिभेदाधिष्ठानत्वोपपादनात्, एवं सत्यनपेक्षितद्रव्यार्थिकनयाभिमतं वर्तनाहेतुः कालाख्यमेव सद्रव्यमुपतिष्ठते । युक्तं चैतत, कालस्वरूपेश्वरवादिनये सकलभेदोपादानत्वेन कालस्वरूपस्य सदद्रव्यस्येश्वरत्वोक्तौ सकलनयमये भगवत्प्रवचने दोषाभावात्, विवेचितं चैतत्तत्त्वं तर्कानुसारिण्यां तत्त्वार्थ
Page #447
--------------------------------------------------------------------------
________________
प्रथमो भागः [ परि० १-का. २३]
४१३ (भा०) यद्यपि ते विशेषाः परस्परव्यावृत्तपरिणामाः कालादिभेदेऽपि सद्रूपाविशिष्टाश्चित्रज्ञाननीलादिनिर्भासवत् ।
यथा हि चित्रप्रतिभासाप्येकैव बुद्धिः, बाह्यचित्रविलक्षणत्वात् । शक्यविवेचनं हि बाह्यचित्रमशक्यविवेचनाश्च बुद्धिर्नीलाद्याकारा इति चित्रज्ञानमशक्यविवेचनं नीलादिनिर्भासभेदेऽप्येकमिष्यते तथा जीवादिविशेषभेदेऽप्येकं सद्रव्यं, कालभेदेऽपि सद्रूपादशक्यविवेचनत्वात्, देशभेदेऽपि वा ततस्तेषां विवेचयितुमशक्तेराकारभेदवत्, ततस्तेषां कदाचित्क्वचित्कथञ्चिदपि विवेचने स्वरूपाभावप्रसङ्गात् । सामान्यविशेषसमवायवत्प्रागभावादिवद्वा सद्रूपाद्विवेचनेऽपि जीवादीनां नाभाव इति चेत्, न तेषामपि सद्विवर्तत्वात् सद्रूपविवेचनासिद्धेरन्यथा प्रमेयत्वायोगादवस्तुत्वप्रसक्तेः सर्वथा सत्त्वाद्भिन्नस्यासत्त्वनिर्णयात् । ततो जीवादिविशेषाः कालादिभेदेऽपि स्यादेकं द्रव्यं, सद्रूपाविशिष्टत्वान्नीलादिनिर्भासभेदेऽपि ज्ञानरूपाविशिष्टत्वादेकचित्रज्ञानवत् । इति प्रथमो भङ्गः ।
[द्वितीयं भङ्गं विशेषेण वर्णयन्त्याचार्याः]
तथा जीवादिविशेषाः,
(भा०) स्यादनेकत्वमास्कन्दन्ति भेदेन दर्शनात् सङ्ख्यासङ्ख्यावदर्थवत् ।
अष्टसहस्रीतात्पर्यविवरणम्
टीकायामस्माभिः । कथञ्चिद्विशिष्टप्रतिभासात् बौद्धेकत्वानुविद्धभेदप्रतिभासादित्यर्थः । विशिष्यत इति विशिष्टं भेदः, उक्तमेव कथञ्चित्प्रतिभासं भाष्येण समर्थयन्नाह-यद्यपीति यद्यपीत्युक्तेः कालादिभेदेऽपीत्यत्र तथापीति गम्यम् । बाह्यचित्रविलक्षणत्वात् = ग्राह्यनानारूपभिन्नत्वात्, शक्यविवेचनं हीति भिन्नर्मिकत्वादेकत्रापि च धर्मिणि स्फुटावच्छेदकभेदादित्यर्थः । अशक्यविवेचनाश्चेति अस्फुटावच्छेदकत्वादित्यर्थः । विवेचने सत्त्वात् पृथक्कृत्य विवक्षणे, सामान्येति पराभिमतसामान्यादिवदित्यर्थः । यथा हि पराभिमतः सामान्यादिपदार्थः सत्त्वाभावान्निःस्वरूपस्तथा सत्त्वाद्विविक्तो जीवादिः स्यादिति तत्त्वम् । सद्विवर्त्तत्वात् सद्विशेषत्वात्, विशेषे च सर्वथा सामान्यभेद
Page #448
--------------------------------------------------------------------------
________________
४१४
अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) न हि सङ्ख्यासङ्ख्यावतोर्भेदेनादृष्टौ विशेषणविशेष्यविकल्पः कुण्डलिवत् क्षीरोदकवदतद्वेदिनि,
यतः सौगतस्तयोरभेदं मन्येत ।
(भा०) न च भेदैकान्ते तद्वत्तास्ति, व्यपदेशनिमित्ताभावात् ।
सङ्ख्यावानर्थ इति व्यपदेशनिमित्तं समवाय इति चेत्, न तस्य कथञ्चित्तादात्म्यरूपत्वे भेदैकान्तासिद्धवैशेषिकमतविरोधात् । पदार्थान्तरत्वे सङ्ख्यासङ्ख्यावतोः समवाय इति व्यपदेशनिमित्ताभावः । विशेषणविशेष्यभावो व्यपदेशनिमित्तमिति चेत्, न तस्यापि ततो भेदे व्यपदेशनिमित्तान्तरापेक्षणात्पर्यनुयोगानिवृतेः ।
(भा० ) अनवस्थाप्रसङ्गाच्च । तस्मादयं कथञ्चिदेव सङ्ख्यासङ्ख्यावतोः स्वभावभेदं पश्यति, तद्विशिष्टविकल्पनात्क्वचिन्निर्णयेऽप्यन्यत्र संशयाद्वर्णरसादिवदिति ।
- अष्टसहस्त्रीतात्पर्यविवरणम्
स्यासम्भवादित्यर्थः । 'विशेष्यविकल्पः= इदमेतदिदं चैतदिति विभज्य निश्चयः । व्यपदेशनिमित्ताभावः पदार्थान्तरभूतस्य समवायस्यैकत्वेनाभ्युपगमात् सङ्ख्यावत्येव सङ्ख्यासमवायो नान्यत्रेति नियामकाभावादित्यर्थः । विशेषणविशेष्यभावः=आधाराधेयभावः, तथा च समवायस्यैकत्वेऽपि समवायसम्बन्धावच्छिन्नतत्तदाधारताया अतिरिक्तत्वान्नातिप्रसङ्ग इति भावः, तस्या अप्यतिरिक्तत्वे तत्सम्बन्धान्तरगवेषणयाऽनवस्था, अनतिरिक्तत्वे तु तादात्म्यमेव सम्बन्धतयाऽवश्यमाश्रयणीयमित्यभिप्रायवानाहतस्यापीत्यादि । अयं सौगतौ वैशेषिको वा । वर्णरसादिवदिति यथैकत्र मातुलिङ्गे वर्णरसयोर्भेदेन सत्त्वमेकस्य निर्णयेऽप्यन्यस्य संशयात्तथा सङ्ख्यासङ्ख्यावतोरित्यर्थः,
१. विशिष्य इति अष्टसहस्रीसम्मतः पाठः ।
Page #449
--------------------------------------------------------------------------
________________
४१५
प्रथमो भागः [परि० १-का. २३]
तदेवं सर्वं सिद्धं स्यादनेकम् । इति द्वितीयो भङ्गः ।
[जैनाचार्यास्तृतीयादिशेषभङ्गानपि स्पष्टयन्ति]
क्रमार्पितद्वयात् स्यादुभयम् (३) । सहावक्तव्यं, वक्तुमशक्तेः (४) । स्यादेकावक्तव्यं, स्वलक्षणस्यैकस्य वक्तुमशक्यत्वात् (५) । स्यादनेकावक्तव्यं, तस्यानेकस्यापि वक्तुमशक्तेः (६) ।
तत एव स्यादुभयावक्तव्यम् (७) ।
इति सप्तभङ्गीप्रक्रियायोजनमतिदेशवचनसामर्थ्यादवसीयते । तत एव चैकत्वमेकर्मिणि स्वप्रतिषेध्येनानेकत्वेनाविनाभावि, विशेषणत्वाद्वैधाविनाभाविसाधर्म्यवद्धतौ । अनेकत्वं स्वप्रतिषेध्येनैकत्वेनाविनाभावि, विशेषणत्वात् साधाविनाभाविवैधर्म्यवद्धतौ । एवं तदुभयादयोऽपि स्वप्रतिषेध्येनाविनाभाविनो विशेषणत्वाद्विशेष्यत्वाच्छब्दगोचरत्वाद्वस्तुत्वाद्वा स्वसाध्येतरापेक्षया हेत्वहेत्वात्मकसाधनधर्मवदित्यपि नययोजनमविरुद्धमवबोद्धव्यम् । विशेषणत्वादेः साधनधर्मस्यापि स्वविशेष्यापेक्षया विशेषणस्य स्वप्रतिषेध्येनाविनाभावित्वसिद्धेर्न तेन विशेषणत्वादिहेतोर्व्यभिचारः । नापि विशेष्यत्वस्य, स्वविशेषणापेक्षया विशेष्यस्यापि स्वप्रतिषेध्येनाविनाभावित्वात् । शब्दगोचरत्वस्य च शब्दान्तरागोचरस्य स्वप्रतिषेध्येनाविनाभावित्वात्, वस्तुत्वधर्मस्य च वस्त्वंशत्वेन वस्तुत्वरूपस्य तत एव व्यभिचारित्वाशङ्कापि न कर्तव्या, अनेकान्तवादिनां तथाप्रतीतेविरोधाभावात् । एवमेकत्वाने कत्वाभ्यामनवस्थितं सप्तभङ्गयामारूढं जीवादिवस्तु, कार्यकारित्वान्यथानुपपत्तेः । सर्वथैकान्ते क्रमाक्रमाभ्यामर्थक्रियाविरोधादित्याद्यपि
अष्टसहस्त्रीतात्पर्यविवरणम्
क्रमार्पितद्वयात् स्यादुभयमित्यादि भङ्गयोजनं प्राग्वदुपयुज्य विधेयमिति श्रेयः ॥२३॥
Page #450
--------------------------------------------------------------------------
________________ 416 अष्टसहस्त्रीतात्पर्यविवरणम् योजनीयम् // 23 // प्रज्ञाधीशप्रपूज्योज्ज्वलगुणनिकरोद्भूतसत्कीर्तिसम्पद्विद्यानन्दोदयायाऽनवरतमखिलक्लेशनिर्णाशनाय स्ताद् गौः सामन्तभद्री दिनकररुचिजित्सप्तभङ्गीविधीद्धा भावाद्येकान्तचेतस्तिमिरनिरसनी वोऽकलङ्कप्रकाशा // [स्रग्धरा] इत्याप्तमीमांसालङ्कृतौ प्रथमः परिच्छेदः / अष्टसहस्त्रीतात्पर्यविवरणम् विततविधिनिषेधैकत्वनैकत्वमार्गप्रसृतनयतरङ्गा सप्तभङ्गी श्रवन्ती / इयमुरुगमभङ्गोत्क्षिप्तबाधद्रुमौघाः, जयति मुनिमरालैः सर्वतः सेव्यमाना // 1 // (मालिनी) इति श्रीमदकब्बरसुरत्राणप्रदत्तजगद्गुरुबिरुदधारकभट्टारकीहीरविजयसूरीश्वरशिष्य मुख्यमहोपाध्यायश्रीकल्याणविजयगणिशिष्यावतंसपण्डितश्रीलाभविजयगणि शिष्याग्रेसरपण्डितश्रीजितविजयगणिसतीर्थ्यालङ्कार पण्डितश्रीनयविजयगणिचरणकमलचञ्चरीकेण पण्डितश्रीपद्मविजयगणिसहोदरेण महोपाध्यायश्रीयशोविजयगणिना विरचितेऽष्टसहस्त्रीतात्पर्यविवरणे प्रथमः परिच्छेदः //