________________
१५०
अष्टसहस्त्रीतात्पर्यविवरणम्
[ अज्ञानादिदोषाणामभावो कथं भविष्यति ? ]
नन्वेवमज्ञानादेर्दोषस्य पर्यायार्थतया हानिर्निः शेषा सिध्येदावरणवन्न पुनर्द्रव्यार्थतया बुद्धिवत् । ततो दोषसामान्यस्यात्मन्यवस्थानान्न निर्दोषत्वसिद्धिरित्यपरः, सोऽप्यतत्त्वज्ञ एव यतः ।
( भा० ) प्रतिपक्ष एवात्मनामागन्तुको मलः परिक्षयी स्वनिर्ह्रासनिमित्तविवर्द्धनवशात् ।
[आत्मनः परिणामो कतिविध: ?]
द्विविधो ह्यात्मनः परिणामः, स्वाभाविक आगन्तुकश्च । तत्र स्वाभाविकोऽनन्तज्ञानादिरात्मस्वरूपत्वात् । मलः पुनरज्ञानादिरागन्तुकः, कर्मोदयनिमित्तकत्वात्, स चात्मनः प्रतिपक्ष एव ततः परिक्षयी । तथा हि- यो यत्रागन्तुकः स तत्र स्वनिर्ह्रासनिमित्तविवर्द्धनवशात्परिक्षयी, यथा- जात्यहेम्नि ताम्रादिमिश्रणकृतः कालिकादिः, आगन्तुकश्चात्मन्यज्ञानादिर्मलः, इति स्वभावहेतुः । न तावदयमसिद्धः । कथम् ? यो यत्र कादाचित्कः स तत्रागन्तुकः, यथा - स्फटिकाश्मनि लोहिताद्याकारः । कादाचित्कश्चात्मनि दोष इति । न चेदं कादाचित्कत्वमसिद्धं, सम्यग्ज्ञानादिगुणाविर्भावदशायामात्मनि दोषानुपपत्तेः ।
[मीमांसको जीवस्य स्वभावं दोषं मन्यते तस्य निराकरणम् ]
ततः प्राक् तत्सद्भावाद् गुणाविर्भूतिदशायामपि तिरोहितदोषस्य सद्भावान्न कादाचित्कत्वं, सातत्यसिद्धेरिति चेत् न, गुणस्याप्येवं सातत्यप्रसङ्गात्, तथा च हिरण्यगर्भादेर्वेदार्थज्ञानकालेऽपि वेदार्थाज्ञानप्रसङ्गः । ज्ञानाज्ञानयोः परस्परविरुद्धत्वादेकत्रैकदा न प्रसङ्ग इति चेत्, तत एव सकलगुणदोषयोरेकत्रैकदा प्रसङ्गो मा भूत् । पुनर्दोषस्याविर्भावदर्शनाद् गुणकालेऽपि सत्तामात्रसिद्धिरिति चेत्, तर्हि गुणस्यापि पुनराविर्भूतिदर्शनाद्दोषकालेऽपि सत्तामात्रसिद्धिः, सर्वथा विशेषाभावात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
द्रव्यार्थतया हानेरतद्द्रव्यस्वरूपत्वादिति भावः । कादाचित्कश्चात्मनि दोष इति, तथा च कादाचित्कत्वादज्ञानादेर्दोषस्य द्रव्यार्थतया हानिरविरुद्धेति सा चास्मदुक्तविशेषणमुद्रयैव भावनीया । कादाचित्कत्वं च यद्यपि बुद्ध्यादेरप्यस्ति तथापि अधिकृतपर्याय