________________
प्रथमो भागः [परि०१-का. ४]
१५१ तथा चात्मनो दोषस्वभावत्वसिद्धिवद् गुणस्वभावत्वसिद्धिः कुतो निवार्येत ? विरोधादिति चेद्, दोषस्वभावत्वसिद्धिरेव निवार्यतां, तस्य गुणस्वभावत्वसिद्धेः । कुतः सेति चेद्, दोषस्वभावत्वसिद्धिः कुतः ? संसारित्वान्यथानुपपत्तेरिति चेत्, संसारित्वं सर्वस्यात्मनो यद्यनाद्यनन्तं तदा प्रतिवादिनोऽसिद्धं, प्रमाणतो मुक्तिसिद्धेः ।
[क्वचिदात्मनि संसारस्याभावो भवतीति जैनाचार्याः साधयन्ति] कुत इति चेदिमे प्रवदामः-क्वचिदात्मनि संसारोऽत्यन्तं निवर्तते तत्कारणात्यन्तनिवृत्त्यन्यथानुपपत्तेः । संसारकारणं हि मिथ्यादर्शनादिकमुभयप्रसिद्धं क्वचिदत्यन्तनिवृत्तिमत्, तद्विरोधिसम्यग्दर्शनादिपरमप्रकर्षसद्भावात् । यत्र यद्विरोधिपरमप्रकर्षसद्भावस्तत्र तदत्यन्तनिवृत्तिमद्भवति, यथा चक्षुषि तिमिरादि । नेदमुदाहरणं साध्यसाधनधर्मविकलं, कस्यचिच्चक्षुषि तिमिरादेरत्यन्तनिवृत्तिमत्त्वप्रसिद्धस्तद्विरोधिविशिष्टाञ्जनादिपरमप्रकर्षसद्भावसिद्धेश्च निर्विवादकत्वात् । कथं मिथ्यादर्शनादिविरोधि सम्यग्दर्शनादि निश्चीयते ? इति चेत्, तत्प्रकर्षे तदपकर्षदर्शनात् । यद्धि प्रकृष्यमाणं यदपकर्षति तत् तद्विरोधि सिद्धम् । यथोष्णस्पर्शः प्रकृष्यमाणः शीतस्पर्शमपकर्षस्तद्विरोधी । मिथ्यादर्शनादिकमपकर्षति च प्रकृष्यमाणं क्वचित्सम्यग्दर्शनादि तत् तद्विरोधि । कथं पुनः सम्यग्दर्शनादेः क्वचित्परमप्रकर्षसद्भावः सिद्धः ? इति चेत्, प्रकृष्यमाणत्वात्, यद्धि प्रकृष्यमाणं तत्क्वचित्परमप्रकर्षसद्भावभाग्दृष्टम्, यथा नभसि परिमाणम् । प्रकृष्यमाणं च सम्यग्दर्शनादि, तस्मात्परमप्रकर्षसद्भावभाक । परत्वापरत्वाभ्यां व्यभिचार इति चेत्, न तयोरपि सपर्यन्तजगद्वादिनां परमप्रकर्षसद्भावभाक्त्वसिद्धः । न चापर्यन्तं जगदिति वक्तुं शक्यं, विशिष्टसन्निवेशत्वात्पर्वतवत् । यत्पुनरपर्यन्तं तन्न विशिष्टसन्निवेशं सिद्धं, यथा व्योम, विशिष्टसन्निवेशं च जगत्, तस्मात्सर्वतः सपर्यन्तमिति निगदितमन्यत्र ।
- अष्टसहस्त्रीतात्पर्यविवरणम् - तावच्छेदकावच्छेदेन तत्त्वं द्रव्यार्थतया निःशेषहानिव्याप्यं, न च बुद्धिपर्यायत्वावच्छेदेन तत्त्वमस्ति स्वलक्षणत्वव्याघाताद्, वस्तुतः शुद्धद्रव्यार्थताया हानिरप्रसिद्धैव, आदिष्टद्रव्यार्थतया त्वज्ञानस्येव बुद्ध्यादेरपि हानेः पर्यार्यार्थतापर्यवसन्नत्वान्न दोषावहत्वं, केवलज्ञानस्यापि जे संघयणाईआ (२.३५) इत्यादिग्रन्थेन भवस्थकेवलिपर्यायतया हाने: