________________
प्रथमो भागः [परि०१-का. ३]
[तत्वोपप्लववादी आस्तिक्यवादिनां प्रमाणतत्त्वं दूषयति] एवं च तत्र प्रमाणतत्त्वमेव तावद्विचार्यते, कथं प्रमाणस्य प्रामाण्यम् ? (१) किमदुष्टकारकसन्दोहोत्पाद्यत्वेन, (२) बाधारहितत्वेन, (३) प्रवृत्तिसामर्थ्येन (४) अन्यथा वा ?
प्रथमस्य निर्दोषकारणजन्यत्वहेतोनिराकरणम]
(१) यदि अदुष्टकारकसन्दोहोत्पाद्यत्वेन तदा सैव कारकाणामदुष्टता कुतोऽवसीयते ? न तावत्प्रत्यक्षात् नयनकुशलादेः संवेदनकारणस्यातीन्द्रियस्यादुष्टतायाः प्रत्यक्षीकर्तुमशक्तेः । नानुमानात्, तदविनाभाविलिङ्गाभावात् । विज्ञानं तत्कार्यं लिङ्गमिति चेत्, न विज्ञानसामान्यस्य तदव्यभिचारित्वाभावात् । प्रमाणभूतं विज्ञानं तल्लिङ्गमिति चेत्, कुतस्तस्य प्रमाणभूततावसायः ? तददुष्टकारणारब्धत्वादिति चेत्, सोऽयमन्योन्याश्रयः, सिद्धे विज्ञानस्य प्रमाणभूतत्वे निर्दोषकारणारब्धत्वसिद्धिस्तत्सिद्धौ च प्रमाणभूतत्वसिद्धिरिति । किञ्च चक्षुरादिकारणानां गुणदोषाश्रयत्वे तदुपजनितसंवेदने दोषाशङ्कानिवृत्तिर्न स्यात्, गुणदोषाश्रयपुरुषवचनजनितवेदनवत् । गुणाश्रयतयैव तन्निश्चये तदुत्थविज्ञाने दोषाशङ्कानिवृत्तौ पुंसोऽपि कस्यचिद् गुणाश्रयत्वेनैव निर्णये तद्वचनजनितवेदने दोषाशङ्कानिवृत्तेः किमपौरुषेयशब्दसमर्थनायासेन ? अथ पुरुषस्य गुणाधिकरणत्वमेवाशक्यनिश्चयं, परचेतोवृत्तीनां दुरन्वयत्वात् तद्व्यापारादेः साङ्कर्यदर्शनात्, निर्गुणस्याऽपि गुणवत इव व्यापारादिसम्भवा
अष्टसहस्त्रीतात्पर्यविवरणम्
विचारासहत्वेनोन्नीयत इत्यर्थः । नयनकुशलादेरिति इन्द्रियावरणक्षयोपशमादेरित्यर्थः । तदविनाभाविलिङ्गाभावात् = उक्तादुष्टत्वाविनाभाविलिङ्गाभावात्, तत्कार्यं = नयनकुशलादिकार्यम्, लिङ्गमित्यत्रादुष्टताया इत्यनुषञ्जनीयम्, उपधायकतासम्बन्धो व्याप्यतावच्छेदको विशेषणताविशेषश्च व्यापकतावच्छेदक इति बोध्यम् । तदव्यभिचारित्वाभावादिति ज्ञानमात्रस्योपधायकतासम्बधेन दुष्टकारणचक्रेऽपि सत्त्वाद् व्यभिचारादित्यर्थः । प्रमात्वावच्छेदेनादुष्टकारणारब्धत्वव्याप्तिस्वीकारे गुणवत्कारणारब्धत्वव्याप्तिरपि स्यात्, तथा च वेदे गुणवत्पुरुषप्रणीतत्वस्य बलादापत्तेः, तत्रापौरुषेयत्वमनोरथोऽपि तव न पूर्येतेति मीमांसकं प्रत्याह तत्त्वोपप्लववादी-किञ्चेत्यादिना । नापि बाधानुत्पत्त्येति