________________
३६६
अष्टसहस्त्रीतात्पर्यविवरणम्
पतित्वेन व्यापारोऽस्त्यपूर्वस्य वा । सर्वथा नित्यस्य सामान्यस्य क्रमाक्रमाभ्यामर्थक्रियाविरोधाच्च न तस्य कस्याञ्चिदर्थक्रियायामुपयोगो यतस्तत्प्रतिपादनाय शब्दप्रयोगः स्यात् । ततो नार्थे कस्यचित्प्रवृत्तिरुपपद्येत ।
[सामान्यं साक्षात् अर्थक्रियां न करोति तथैव परंपरयापि न करोति इति कथयन्ति जैनाचार्याः] (भा०) लक्षितलक्षणया वृत्तिः कथञ्चिदतादात्म्ये न भवेत्, सम्बन्धान्तरासिद्धेः कार्मुकादिवत् ।
न हि यथा कार्मुकपुरुषयोः संयोगः सिद्धस्तथा सामान्यविशेषयोरपि । न च समवायः पदार्थान्तरभूतः, तत्प्रतीत्यभावात् । प्रतीयमानस्तु समवायः कथचित्तादात्म्यमेव, अविष्वग्भावलक्षणत्वात्तस्य । इति शब्देन लक्षितं सामान्यं विशेषान् लक्षयति । ततस्तत्रार्थक्रियार्थिनः प्रवृत्तिरसम्बन्धान्नोपपद्येत संयोगसमवायव्यतिरिक्तस्य सम्बन्धान्तरस्यासिद्धेः । विशेषणविशेष्यभावः सम्बन्धान्तरमिति चेत्, न तस्यापि स्वसम्बन्धिव्यतिरेकैकान्ते सम्बन्धान्तरापेक्षणस्यावश्यंभावादनवस्थाप्रसङ्गात्, तस्य कथञ्चित्स्वसम्बन्धितादात्म्ये स्वसिद्धान्तविरोधात् । एतेनाविनाभावः सम्बन्धस्तयोः प्रत्युक्तः । सामान्यविशेषयोः सामान्यविशेषभाव एव सम्बन्ध इत्यपि मिथ्या, कथञ्चिदतादात्म्ये तदनुपपत्तेः सह्यविन्ध्यवत् । तन्न नित्यसर्वगतामूर्तेकरूपं सामान्यं सर्वथा व्यक्तिभ्यो भिन्नमन्यद्वा वाच्यम्, अर्थक्रियायां साक्षात्परम्परया वानुपयोगात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
इति, यद्यपि आलम्बनत्वेन हेतुतापि नाधिगतत्वं प्रयोजयति किन्तु सहज्ञेयत्वमेव तथापि ज्ञायमानं ज्ञातमिति नयाश्रयणाददोषः । भाष्ये 'तल्लक्षणयेति तेन सामान्येन लक्षणाऽऽक्षेपोऽर्थाद्विशेषस्य, तया वृत्तिः = प्रवृत्तिर्विशेषे, कथञ्चित् तादात्म्येन कृत्वा भवेत्, कार्मुकादिवत् कार्मुकादेरिवेति व्यतिरेके दृष्टान्तः, सम्बन्धान्तरासिद्धेः तादात्म्यातिरिक्तसम्बन्धासिद्धेरित्यक्षरार्थः । वृत्तौ कथञ्चिदतादात्म्ये तदनुपपत्तेरिति यद्यपि कार्यकारणभावदैशिककालिकाधाराधेयभावादीनामतादात्म्येऽपि तत्तत्सम्बद्धव्यवहारकारित्वं दृश्यते, तथापि तत्रापि तत्तद्व्यवहारप्रयोजकशक्त्यात्मना कथञ्चित्तादात्म्याभ्युपगमाददोषः, केवलं
१. लक्षितलक्षणया इति अष्टसहस्रीसम्मतः पाठः ।