________________
प्रथमो भागः [ परि. १-का. १५]
३४३ सदेव सर्वं को नेच्छेत् स्वरूपादिचतुष्टयात् ।
असदेव विपर्यासान्न चेन्न व्यवतिष्ठते ॥१५॥ सर्वं चेतनमचेतनं वा द्रव्यं पर्यायादि वा भ्रान्तमभ्रान्तं वा स्वयमिष्टमनिष्टं वा, सदेव स्वरूपादिचतुष्टयात् को नेच्छेत् ? असदेव पररूपादिचतुष्टयात् तद्विपर्ययात्को नेच्छेत् ? अपि तु लौकिक: परीक्षको वा स्याद्वादी सर्वथैकान्तवादी वा सचेतनस्तथेच्छेदेव, प्रतीतेरपह्नोतुमशक्तेः । अथ स्वयमेवं प्रतीयन्नपि कश्चित्कुनयविपर्यासितमतिर्नेच्छेत्, स न क्वचिदिष्टे तत्त्वे व्यवतिष्ठेत । स्वपररूपोपादानापोहनव्यवस्थापाद्यत्वाद्वस्तुनि वस्तुत्वस्य, स्वरूपादिव पररूपादपि सत्त्वे चेतनादेरचेतनादित्वप्रसङ्गात तत्स्वात्मवत. पररूपादिव स्वरूपादप्यसत्त्वे सर्वथा शून्यतापत्तेः, स्वद्रव्यादिव परद्रव्यादपि सत्त्वे द्रव्यप्रतिनियमविरोधात् । संयोगविभागादेरनेकद्रव्याश्रयत्वेऽपि तद्रव्यप्रतिनियमो न विरुद्ध्यते एवेति चेत्, न तस्यानेकद्रव्यगुणत्वेनानेकद्रव्यस्यैव स्वद्रव्यत्वात्, स्वानाश्रयद्रव्यान्तरस्य परद्रव्यत्वात्ततोऽपि सत्त्वे स्वाश्रयद्रव्यप्रतिनियमव्याघातस्य तदवस्थत्वात् । तथा परद्रव्यादिव स्वद्रव्यादपि कस्यचिदसत्त्वे सकलद्रव्यानाश्रयत्वप्रसङ्गादिष्टद्रव्याश्रयत्वविरोधात् । तथा स्वक्षेत्रादिव परक्षेत्रादपि सत्त्वे कस्यचित्प्रतिनियतक्षेत्रत्वाव्यवस्थितेः, परक्षेत्रादिव स्वक्षेत्रादपि चासत्त्वे नि:क्षेत्रतापत्तेः । तथा स्वकालादिव परकालादपि सत्त्वे प्रतिनियतकालत्वाव्यवस्थानात् । परकालादिव स्वकालादप्यसत्त्वे सकलकालासम्भवित्वप्रसङ्गात् क्व किं व्यवतिष्ठेत ? यतः स्वेष्टानिष्टतत्त्वव्यवस्था ।
अष्टसहस्त्रीतात्पर्यविवरणम्
अथ स्वयमेवं प्रतीयन्नपीति सत्त्वासत्त्वोभयधर्मशबलैकवस्त्विति शेषः । अत्र स्वरूपं स्वभावः, पररूपं परभाव इति, शिष्टमादिपदग्राह्यं द्रव्यादित्रयमेव स्थितमिति तदाश्रित्याह-स्वद्रव्यादि वेत्यादि । तदवस्थत्वादिति संयोगस्य स्वद्रव्यापेक्षास्तित्वाभावेऽयं संयोगोऽनयोरेव द्रव्ययो न्ययोरिति प्रतिनियमो व्याहन्यत एवेति दोषस्य प्रागुक्तानतिशायित्वादित्यर्थः । इयांस्तु विशेषोऽव्यासज्यवृत्तिधर्माणामस्तित्वे स्वसमवायिद्रव्यमात्रापेक्षा, व्यासज्यवृत्तिधर्माणां तु स्वपर्याप्तिमद्रव्यापेक्षेति, अत एव तत्प्रमात्वमपि स्वपर्याप्तिमद्विशेष्यकत्वघटितमिति नैको द्वावित्यादेः प्रमात्वम्, तादृशबुद्धिकाले धर्मद्वयावच्छेदेन