________________
प्रथमो भाग: [परि०१-का. १६]
३६९ स्यानित्यत्वासिद्धौ साधनवचनानर्थक्यात् ।
न शब्दस्य परार्थानुमानरूपस्य विकल्पस्य वा स्वार्थानुमानज्ञानरूपस्य सर्वथान्यापोहोऽर्थः श्रेयान् । यत्सत्तत्सर्वमनित्यं नित्ये क्रमयोगपद्याभ्यामर्थक्रियाविरोधादिति साधनवचनेन नित्यत्वसमारोपव्यवच्छेद एव स्वलक्षणस्यानित्यत्वसिद्धिः । अतो न तस्यानर्थक्यमिति चेत्, कथमित्थं सर्वथान्यापोहोऽर्थः समर्थ्यते, स्वलक्षणक्षणक्षयस्य विधानात् ।
[बौद्धनान्यापोहोऽर्थः समर्थ्यते तस्य विचारः] दृश्यविकल्प्ययोः स्वलक्षणसामान्ययोरेकत्वाध्यवसायात् तत्क्षणक्षयस्य विधिः, न पुनर्वस्तुनः सर्वथा विकल्पाभिधानयोर्वस्तुसंस्पर्शाभावादिति चेत्, न स्वलक्षणसामान्ययोरेकत्वाध्यवसायिना विकल्पेन स्वलक्षणस्याग्रहणात्, अगृहीतेन सह सामान्यस्यैकत्वाध्यवसायासम्भवात्, अन्यथातिप्रसङ्गात् । प्रत्यक्षतः प्रतीतेन स्वलक्षणेन तस्यैकत्वाध्यवसानमिति चेत्, नन्वेवं,
(भा०) विकल्पाभिधानयोर्वस्तुसंस्पर्शाभावे स्वलक्षणदर्शनस्याकृतनिर्णयस्य वस्तुसन्निधेरविशेषात्कि केन प्रमितं स्यात् ? न हि मिथ्याध्यवसायेन तत्त्वव्यवस्थापनम् ।
- अष्टसहस्रीतात्पर्यविवरणम्
एव विधिप्रत्यय इति न तस्य शब्दावाच्यत्वमित्याशक्य तदेकत्वग्राहकमेव खण्डयितुमुपक्रमते-दृश्यविकल्प्ययोरित्यादिना । किं केन प्रमितमिति विकल्पाभिधानयोर्वस्त्वविषयत्वादेव तदप्रमापकत्वाद्दर्शनस्य चानिश्चयरूपत्वेन तत्त्वादिति भावः । ननु एकसन्तत्यवच्छिन्नस्वाव्यवहितपूर्ववर्तित्वसम्बन्धेन घटत्वावगाहिनिश्चयविशिष्टघटदर्शनत्वेन प्रामाण्यमङ्गीकरिष्यते तत्राह न हीति घटत्वावगाहित्वमात्रेण निश्चयो न समनन्तरघटदर्शनप्रामाण्याङ्गम्, संशयविपर्ययसाधारण्यादित्यर्थः । वस्तुतोऽर्थक्रियाकारित्वरूपं न तथा, अर्थक्रियाऽव्यवहितप्राक्काले दर्शनस्य प्राङ्नष्टस्याभावाद्विकल्पविशिष्टदर्शनत्वेन दर्शनविशिष्टविकल्पत्वेन वार्थक्रियाहेतुत्वमित्यत्र विनिगमकाभावात्सूक्ष्मेक्षिकायां सन्निहितत्वस्य विकल्पहेतुताया एव विनिगमकत्वाच्च । वस्तुतो रजतार्थिप्रवृत्तौ रजतविशेष्यकज्ञानस्य समानप्रकारकत्वेन हेतुत्वम्, न तु रजतत्वज्ञानविशिष्टरजतज्ञानत्वेन, रजतागृहीतासंसर्गकरजतत्वज्ञानत्वादिना वा गौरवादित्यन्यथाख्यातिसाधने मीमांसकं प्रति या युक्तिरुच्यते