________________
३ ४
अष्टसहस्त्रीतात्पर्यविवरणम्
(२) शुद्धा प्रेरणा नियोग इत्यप्यनेनापास्तं नियोज्यफलरहितायाः प्रेरणायाः प्रलापमात्रत्वान्नियोगरूपतानुपपत्तेः ।
(३) प्रेरणासहितं कार्यं नियोग इत्यप्यसम्भाव्यम्, नियोज्यविरहे नियोगविरोधात् ।
(४) कार्यसहिता प्रेरणा नियोग इत्यप्यनेन निरस्तम् ।
(५) कार्यस्यैवोपचारतः प्रवर्त्तकत्वं नियोग इत्यप्यसारम्, नियोज्यादिनिरपेक्षस्य कार्यस्य प्रवर्त्तकत्वोपचारायोगात् । कदाचित्क्वचित्परमार्थतस्तस्य तथानुपलम्भाच्च ।
अष्टसहस्त्रीतात्पर्यविवरणम्
T
केचित्तु इष्टसाधनत्वमेव विध्यर्थः, न तु कृतिसाध्यत्वमपि, यागादौ सर्वत्र लोकत एव तस्यावगम्यमानत्वेनान्यलभ्यत्वात्, अत एव प्रवृत्तिकारणमिष्टसाधनताज्ञानमेव न तु कृतिसाध्यताज्ञानमपि, बलवदनिष्टाननुबन्धित्वज्ञानं च न हेतुः । प्रवृत्तौ कार्यसहभावेन द्वेषस्य प्रतिबन्धकत्वेन तदभावेनान्यथासिद्धत्वात्, आस्तिककामुकस्यागम्यागमनादौ नरकसाधनताज्ञानदशायामप्युत्कटेच्छया द्वेषाभावकालीनप्रवृत्तौ व्यभिचाराच्च । न च उत्कटरागेण नरकासाधनत्वज्ञानमेव कामुकस्य जन्यत इति शक्यं वक्तुम्, आस्तिकत्वव्याघातात् तस्य समानविषयतया द्वेषप्रतिबन्धकत्वकल्पन एव लाघवाच्च ।
तदुक्तं मण्डनमिश्रैः
पुंसां नेष्टाभ्युपायत्वात् क्रियास्वन्यः प्रवर्त्तकः ।
प्रवृत्तिहेतुं धर्मं च प्रवदन्ति प्रवर्त्तनाम् ॥ [विधिविवेकः] इति, इत्याहुः ।
परे तु ममेदं कृतिसाध्यमिति ज्ञानं न प्रवर्त्तकम्, अनागतस्य तस्य ज्ञातुमशक्यत्वात्, किन्तु यादृशस्य पुंसः कृतिसाध्यं यद् दृष्टं तादृशत्वं स्वस्य प्रतिसन्धाय तत्र प्रवर्त्तते प्रेक्षावान्, तथा चौदनकामस्य तत्साधनताज्ञानवतस्तदुपकरणवतः पाकः कृतिसाध्यस्तादृशश्चाहमिति प्रतिसन्धाय पाके प्रवर्त्तत इत्याहुः, तन्न, स्वकल्पितलिप्यादिप्रवृत्तौ यौवने कामोद्भेदादिना सम्भोगादिप्रवृत्तौ च तदभावात् । इदं तु बोध्यम्, इदानीमिष्टसाधनतादिज्ञानं प्रवर्त्तकम्, तेन भावियौवराज्ये बालस्य न प्रवृत्तिः, तदानीं कृतिसाध्यत्वाभावात्, तृप्तस्य च भोजने न प्रवृत्तिः, तदानीमिष्टसाधनत्वाभावादिति ।