________________
अष्टसहस्त्रीतात्पर्यविवरणम्
स्यान्मतं-केचिदर्थाः प्रत्यक्षा, यथा घटादयः, केचिदनुमेया ये कदाचित्क्वचित् प्रत्यक्षप्रतिपन्नाविनाभाविलिङ्गाः केचिदागममात्रगम्याः सर्वदा स्वभावादिविप्रकर्षिणो धर्मादयः, तेषां सर्वप्रमातृसम्बन्धिप्रत्यक्षादिगोचरत्वायोगात् । तदुक्तं
सर्वप्रमातृसम्बन्धिप्रत्यक्षादिनिवारणात् ।
केवलागमगम्यत्वं लप्स्यते पुण्यपापयोः ॥ इति । [त० श्लो० वा० १.१८] ततो धर्मादीनामनुमेयत्वमसिद्धमुद्भावयन्नपि नानुमानमुत्सारयति, तस्यानुमेयेऽर्थे व्यवस्थानात् इति, तदसत्, धर्मादीनामप्यनित्यत्वादिस्वभावतयानुमेयत्वोपपत्तेः ।
१५६
[धर्माधर्मादिपर्यायाः अनित्याः सन्ति पर्यायत्वात् इति जैनाः कथयन्ति ।]
तथा हि-यावान्कश्चिद्भावः पर्यायाख्यः स सर्वोऽनेकक्षणस्थायितया क्षणिको यथा घटस्तथा च धर्मादिरिति मीमांसकैरपि कुतश्चित् पर्यायत्वादेरनित्यत्वेन व्याप्तिः साधनीया, तदसिद्धौ प्रकृतेऽपि धर्मादौ पर्यायश्च धर्मादिरित्युपसंहारायोगात् । कथं चायं स्वभावादिविप्रकर्षिणामनुमेयत्वमसिद्धमभिदधानः सुखादीनामविप्रकर्षिणामनुमितेरानर्थक्यं परिहरेत् ? शश्वदविप्रकर्षिणामनुमितेरनिष्टेरदोष इति चेत्, क्व पुनरियमनुमितिः स्यात् ? कदाचिद् विप्रकर्षिणामन्यदा देशादिविप्रकृष्टानां प्रतिपन्नाविनाभाविलिङ्गानामनुमितिरिति चेत्, कथमेवं शश्वदप्रत्यक्षाया बुद्धेरनुमानं यत इदं शोभेत ? ज्ञाते त्वर्थेऽनुमानादवगच्छति बुद्धिम् इति [ ]। अर्थापत्तेर्बुद्धिप्रतिपत्तेरदोष इति चेद्, धर्मादिप्रतिपत्तिरपि तत एवास्तु । यथैव हि बहिरर्थपरिच्छित्त्यन्यथानुपपत्तेर्बुद्धिप्रतिपत्तिस्तथा श्रेयः प्रत्यवायाद्यन्यथानुपपत्त्या धर्माधर्मादिप्रतिपत्तिरपि युक्ता भवितुम् । श्रेयः प्रत्यवायादेरन्यथाप्युपपत्तेः क्षीणार्थापत्तिरिति चेत्, न तदुत्पत्तौ दृष्टकारणव्यभिचाराददृष्टकारणप्रतिपत्तेः, रूपादिज्ञानादिन्द्रियशक्तिप्रतिपत्तिवत्, न चार्थापत्तिरनुमानादन्यैव, अनुमानस्यैवार्थापत्तिरिति नामकरणात् । ततो बुद्ध्यादेः शश्वद्विप्रकर्षिणोऽनुमेयत्वसिद्धौ धर्मादेरपि तत्सिद्धिः । ये तु ताथा
अष्टसहस्त्रीतात्पर्यविवरणम्
धर्मादीनामिति आगमैकगम्यानां धर्मादिपदार्थानामनुमेयत्वासिद्धयुद्भावयितुर्नानुमानमात्रोच्छेदकत्वं पृथगवस्थितेऽनुमेयेऽर्थेऽनुमानप्रवृत्तेरस्खलितत्वादित्यर्थः । तदाहतस्यानुमेयेऽर्थे व्यवस्थानादिति तस्य = अनुमानस्य, व्यवस्थानाद् = लब्धास्पदत्वात् ।