________________
प्रथमो भाग: [ परि० १ - का० ५ ]
गतादयः सत्त्वकृतकत्वादेरनित्यत्वादिना व्याप्तिमिच्छन्ति तेषां सिद्धमनुमेयत्वमनवयवेनेति न किञ्चिद् व्याहतमसर्वज्ञवादिनां सर्वज्ञवादिनां च स्वभावादिविप्रकृष्टेष्वर्थेष्वनुमेयत्वव्यवस्थितेः । एतेनात्यन्तपरोक्षेष्वर्थेष्वनुमेयत्वाभावाद्भागासिद्धमनुमेयत्वमित्येतदपि प्रत्याख्यातं, तेषामपि कथञ्चिदनेकान्तात्मकत्वादिस्वभावतयानुमेयत्वसिद्धेः ।
[अनुमेयत्वं श्रुतज्ञानाधिगम्यत्वमित्यपि अर्थो भवितुमर्हति]
अथवानुमेयत्वं श्रुतज्ञानाधिगम्यत्वं हेतुः, मतेरनु पश्चान्मीयमानत्वाद्, अनुमेयाः सूक्ष्मादयोऽर्था इति व्याख्यानान्मतिपूर्वज्ञानस्य श्रुतत्वात्,
श्रुतं मतिपूर्वम् इति वचनात् [ तत्वार्थ० १.२० ] ।
न चैतदसिद्धं प्रतिवादिनोऽपि सर्वस्य श्रुतज्ञानाधिगम्यत्वोपगमात् । चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवंजातीयकमर्थमवगमयितुमलमिति स्वयमभिधानात् । तदुक्तं तत्त्वार्थश्लोकवार्तिके
सूक्ष्माद्यर्थोऽपि चाध्यक्षः कस्यचित्सकलः स्फुटम् । श्रुतज्ञानाधिगम्यत्वान्नदीद्वीपादिदेशवत् ॥
१५७
न हेतोः सर्वथैकान्तैरनेकान्तः कथञ्चन । श्रुतज्ञानाभिगम्यत्वात्तेषां दृष्टेष्टबाधनात् ॥
अष्टसहस्त्रीतात्पर्यविवरणम्
एतेनेत्यादि एतेन=विप्रकर्षिणामनुमेयत्वव्यवस्थापनेन । भागासिद्धमिति विप्रकर्षिणामेवार्थानां पक्षत्वे भागासिद्धत्वमप्रसक्तमिति तन्निषेधोऽयुक्तः 'प्रसक्तमेव प्रतिषिध्यत' इति न्यायात् तथापि पदार्थत्वावच्छेदेन प्रत्यक्षत्वसाधनेऽयमाक्षेपपरिहारश्चतुरस्र इति मन्तव्यम् । अनुमेयत्वहेतोरर्थान्तरेणाप्युभयवादिसिद्धतां प्रदर्शयन्नज्ञानासिद्धि परि जिहीर्षुराह अथवानुमेयत्वमित्यादि । न हेतोरिति सर्वथैकान्तेषु श्रुतज्ञानाधिगम्यत्वमस्ति प्रत्यक्षत्वं च नास्तीति हेतोर्व्यभिचारित्वं नोद्भावनीयम्, यतस्तेषां दृष्टेष्टबाधितत्वमस्ति अबाधितश्रुतज्ञानविषयत्वं च हेतुविवक्षितः स च श्रुताज्ञानविषये नास्तीति । एतेन अत्यन्तासत्यपि इति न्यायेन शाब्दबोधविषये शशशृङ्गादावपि न व्यभिचार इत्युक्तं भवति ।