SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ प्रथमो भागः [ परि० १ - का० ३] [कानिचित् वेदवाक्यानि स्वयं स्वस्यार्थं न प्रतिपादयन्त्यतः वेदस्य प्रामाण्यं न सिद्ध्यति ] न च काचिच्छुतिः स्वयं स्वार्थं प्रतिपादयत्यन्यव्यवच्छेदेन कार्ये एवार्थे अहं प्रमाणं न स्वरूपे, स्वरूपे एव वा न कार्येऽर्थे सर्वथेत्यविशेषः सिद्धः । ननु च Tपदानि तावल्लोके येष्वर्थेषु प्रसिद्धानि तेष्वेव वेदे, तेषामध्याहारादिभिरर्थस्यापरिकल्पनीयत्वादपरिभाषितव्यत्वाच्च । सति सम्भवे लौकिकपदार्थज्ञश्च विद्वानश्रुतपूर्व काव्यादिवाक्यार्थमवबुध्यमानो दृष्टः । तद्वच्छ्रुतिवाक्यार्थमपि कश्चित्स्वयमेवाश्रुतपूर्वमवबोद्धुमर्हतीति युक्तं श्रुतेः स्वयमेवान्यव्यवच्छेदेन स्वार्थप्रतिपादनम् इति कश्चित् सोऽपि न परीक्षाचतुरः, सर्वस्याः श्रुतेस्तथाभावाविशेषात् । न च भावनैव नियोग एव वा लौकिकवाक्यस्यार्थः शक्यः प्रतिष्ठापयितुं, येन वैदिकवाक्यस्यापि स एवार्थः स्यात्, नापि सन्मात्रविधिरेव कस्यचिद् वाक्यस्यार्थः शक्यप्रतिष्ठो, येन श्रुतिवाक्यस्यापि स एवार्थोऽन्ययोगव्यवच्छेदेन स्यात्, तत्रानेकबाधकोपन्यासात् । ततः सुगतादिवच्छ्रुतयोऽपि न प्रमाणमित्यायातम् । अष्टसहस्त्रीतात्पर्यविवरणम् किमिति नाद्रियेरन् ? । तदवदाम वेदोक्तत्वान्मनः शुद्धया, कर्मयज्ञोऽपि योगिनः । ब्रह्मयज्ञ इतीच्छन्तः, श्येनयागं त्यजन्ति किम् ॥१॥ [ ज्ञानसार० २८.३] भिन्नोद्देशेन विहितं कर्म कर्मक्षयाक्षमम् । क्लृप्तभिन्नाधिकारं च, पुत्रेष्ट्यादिवदिष्यताम् ॥२॥ इति [ ज्ञानसार० २८.५] ८७ अत्यधिकमेतत्तत्त्वं 'लतायां स्फुटीकृतमस्माभिरिति विशेषार्थिना तत एवावधार्यम् । अपूर्वार्थत्वं पुनरिति लोकप्रमाणाविषयार्थत्वं पुनरित्यर्थः तेन अपूर्वप्रतिपादकत्वेन मीमांसैव प्रमाणं नोपनिषदिति रिक्तं वचः, उपनिषदोऽप्यपूर्वपरमब्रह्मप्रतिपादकत्वेनाविशेषात्, ऐच्छिकविशेषग्रहस्य च पक्षपातमात्रत्वादित्युक्तं भवति । स एवार्थः स्यादिति लोके वेदे च शब्दव्युत्पत्तेस्तुल्यत्वादिति भावः । ये तु प्राभाकरा वेदस्यापौरुषेयतया वक्तृज्ञानानुमानानवकाशात् संसर्गे शब्दस्यैव स्वातन्त्र्येण प्रामाण्यमास्थिषत, लोके त्वनुमानत एव वक्तृज्ञानोपसर्जनतया संसर्गस्य सिद्धेरनुवादकतामात्रं वाक्यस्येति निर्णीतवन्तः तेषां १. द्रष्टव्यं स्याद्वाद - कल्पलता - स्तबक - २ श्लो० ४५-५० ।
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy