________________
८८
अष्टसहस्त्रीतात्पर्यविवरणम्
[अत्रत्यात् चार्वाकः सर्वज्ञस्याभावं साधयति तस्य निराकरणम्] (भा०) तथेष्टत्वाददोष इत्येकेषामप्रमाणिकैवेष्टिः ।
न कश्चित्तीर्थकरः प्रमाणं, नापि समयो वेदोऽन्यो वा तर्कः, परस्परविरोधात् ।
तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना नैको मुनिर्यस्य वचः प्रमाणम् । धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः ॥ [ ] इति वचनात्
- अष्टसहस्त्रीतात्पर्यविवरणम् लोकवेदसाधारणव्युत्पत्तिबलेनान्विताभिधानं प्रसाधयतां तबलायातप्रतिपादकत्वस्य लोकेऽप्यविशेषादर्द्धजरतीयन्यायापातः, तदुक्तं -
निर्णीतशक्तेर्वाक्याद्धि, प्रागेवार्थस्य निर्णये ।
व्याप्तिस्मृतिविलम्बेन, लिङ्गस्यैवानुवादिता ॥ [न्यायकुसुमाञ्जलि:-३.१४] इति यावती हि वेदे सामग्री तावत्येव लोके भवन्ती कथमिव नार्थमवगमयेत् ? लिङ्गं तु परिपूर्णमप्यवगतमपेक्षणीयव्याप्तिस्मृतिविलम्बात् किं निर्णितुं प्रगल्भताम् ? अन्वयस्य प्रागेव प्रतीतेरनुवादकपङ्क्तिप्रवेशात् । न च लोके वक्तुराप्तत्वनिश्चयोऽपेक्षणीय इति तद्विलम्बादर्थप्रत्यय विलम्बः, लोकेऽप्याप्तोक्तत्वानिश्चयेऽप्यर्थप्रतीतेस्तस्य तदहेतुत्वात्, कथमन्यथा वेदानुकारेण पठ्यमानेषु मन्वादिवाक्येष्वपौरुषेयत्वाभिमानिनो गौडमीमांसकस्यार्थप्रत्ययः ? न चासौ भ्रमः, पौरुषेयत्वनिश्चयेऽपि तदबाधात् । न च अनाप्तोक्तत्वशङ्कानिरासद्वारैव तदुपयोगः स च क्वचिदपौरुषेयत्वनिश्चयात् क्वचिदाप्तोक्तत्वावधारणादिति न दोष इति वाच्यम्, एवं ह्यपौरुषेयत्वस्याप्रतीतौ संदेहे वा वेदो न किञ्चिदभिधत्त इत्याप्तोक्तत्वनिश्चयोत्तरकालं लोके इव वेदेऽप्यपौरुषेयत्वनिश्चयोत्तरकालमनुमानप्रवृत्तावनुवादकत्वाविशेषापत्ते१रुद्धरत्वात् । तदुक्तमुदयनाचार्यैः कुसुमाञ्जलौ
व्यस्तपुंदूषणाशङ्कः, स्मारितत्वात्पदैरमी ।
अन्विता इति निर्णीते, वेदस्यापि न तत् कुतः ? ॥ इति [३.१५] अमी=पदार्थाः, तद्=अनुवादकत्वम् । तस्मादियं प्राभाकरवृद्धकल्पनाज्ञानमूलैवेति मन्तव्यम् । ततः सुगतादिवदिति यथा सुगतादयः परस्परविरुद्धभाषित्वेन न प्रमाणं तथा श्रुतयोऽपि नानावादिविप्रतिपत्तिकवलितार्थाभिधायित्वान्न प्रमाणमित्यर्थः । प्रामाण्यं चात्र प्रमाऽयोगव्यवच्छेदरूपं वाच्यम्, अन्यथा प्रमातृत्वाभिमते सुगतादौ तन्निषेधेऽप्रसक्तप्रतिषेधापत्तेरिति स्मर्त्तव्यम् । चार्वाकमतमुत्थापयितुमाह भाष्यकृत्-तथेष्टत्वादित्यादि । तद्