SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३३२ अष्टसहस्त्रीतात्पर्यविवरणम् काङ्क्षितविशेषाकारेणावेतं, पुनः कालान्तरस्मृतिहेतुतयावधारितं, तदेव कालान्तरे - अष्टसहस्त्रीतात्पर्यविवरणम् केषाञ्चिद् द्योतकत्वे केषाञ्चिद्वाचकत्वे स्वीकार्ये, चादयो द्योतकाः प्रादयो वाचका इति वक्तुरपि वदनस्य पिधातुमशक्यत्वात्, सर्वथानर्थकानां पादपूरणमात्रार्थमुपात्तानां सङ्ग्रहाय वार्तिकारम्भस्य कैयटादौ स्पष्टत्वाच्च । किञ्च केवलवृक्षशब्दात् समुच्चयाबोधाच्चकारश्रवणे च तद्बोधाच्चकार एव समुच्चयस्य वाचको न द्योतकः । अपि च द्योतकत्वे पदान्तराणां तत्र शक्तिः कल्प्या, चकारादेश्च द्योतकत्व इत्यतिगौरवं स्यादिति समुच्चयाधिकरणे स्थितम्, तदयमकस्मात् पीतामृतानामिव निपातानां द्योतकत्ववाचकत्वयोरनेकान्तोद्गारः । अस्माकं तु सदापीतानेकान्तामृतानाम् अनेकमेकात्मकमेव वाच्यं द्वयात्मकं वाचकमप्यवश्यम् [अन्य० १४] इत्यादिवादिनां पदमात्रमेव वाक्यार्थे द्योतकं वाक्यमेव च वाचकमिति निपाते क इव विशेषोऽन्यत्र सञ्ज्ञाकरणात् । न च वाक्यार्थस्यैव प्रवृत्त्यङ्गत्वे वाक्यस्यैव च बोधकत्वे पदशक्तिग्रहानुपयोगः, अन्वयव्यतिरेकाभ्यां वाक्यशक्तिग्रह एव तदुपयोगात्, पदसमुदायात्मकस्य वाक्यस्य बोधकताविधया तु पदानां तत्त्वमयत्नसिद्धमेव, स्वातन्त्र्येण तु नेति सङ्गिरामहे । यत्तु पदानि स्वार्थप्रतिपादनमात्रेण निवृत्तव्यापाराणि न वाक्यार्थबोधक्षमाणि, आकाङ्क्षासन्निधियोग्यतावच्छिन्नानां पदार्थानामन्वयव्यतिरेकाभ्यां वाक्यार्थावेदकत्वप्रतिपत्तेः, तथाहि श्वेतरूपं पश्यतो हेषाशब्दं खुरशब्दं च शृण्वतः श्वेतोऽश्वो धावतीति बुद्धिर्भवति, इयं च नाध्यक्षानुमित्यादिरूपेति शाब्द्येव, करणं च तत्र तत्तत्पदार्थस्मरणमेव, । तदुक्तं पश्यतः श्वेतमारूपं हेषाशब्दं च शृण्वतः ।। खुरविक्षेपशब्दं च श्वेतोऽश्वो धावतीति धीः ॥ [ इति, सिद्ध पदार्थानां शब्दप्रमाणान्तर्गतत्वम्, तदुक्तं प्रत्यक्षादिपरिच्छिन्नपदार्थप्रत्ययोद्भवः । वाक्यार्थप्रत्ययः सोऽपि, शब्दान्नैव विभिद्यते ॥ इति । [ ] अपि च कविकाव्यमूलज्ञानं न मानसं, मनसो बहिरस्वातन्त्र्यात् । नाप्यनुमितिः, व्याप्त्याद्यप्रतिसन्धानं विना जायमानत्वात् । किन्तु शाब्दबुद्धिः, तत्र कारणं च न पदज्ञानम्;
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy