________________
प्रथमो भागः [परि० १-का०६]
१७५ पूर्वाकारेण द्रव्येणात्मसात्क्रियमाणोत्तराकारस्योपादेयत्वनिर्ज्ञानादन्यथातिप्रसङ्गात ।
[भिन्नलक्षणत्वहेतुर्भिन्नभिन्नतत्त्वेन कथं व्याप्त इति प्रश्ने सति समाधानम्]
कथं तत्त्वान्तरभावेन भिन्नलक्षणत्वं व्याप्तमिति चेत्, तदभावेऽनुपपद्यमानत्वात् । किण्वादिमदिरादिपरिणामयोरतत्त्वान्तरभावेऽपि भिन्नलक्षणत्वस्य दर्शनात्तस्य तेनाव्याप्तिरिति चेत्, न तयोभिन्नलक्षणत्वासिद्धेः, किण्वादेरपि मदजननशक्तिसद्भावान्मदिरादिपरिणामवत् । सर्वथा मदजननशक्ति विकलत्वे हि किण्वादेर्मदिरादिपरिणामदशायामपि तद्वैकल्यप्रसङ्गः । नन्वेवं भूतान्तस्तत्त्वयोरपि भिन्नलक्षणत्वं मा भूत्, कायाकारपरिणतभूतविशेषावस्थातः प्रागपि क्षित्यादिभूतानां चैतन्यशक्तिसद्भावादन्यथा तदवस्थायामपि चैतन्योद्भूतिविरोधादिति न प्रत्यवस्थेयं, चेतनस्यानाद्यनन्तत्वप्रसिद्धरात्मवादिनामिष्टप्रतिष्ठानात् । न चैवं चैतन्यं भूतविवर्त्तः, क्षित्यादितत्त्वस्यापि तद्विवर्त्तत्वप्रसङ्गात्, अनाद्यनन्तत्वाविशेषात्, ततो भिन्नलक्षणत्वं तत्त्वान्तरत्वेन व्याप्तं भूतचैतन्ययोस्तत्त्वान्तरत्वं साधयत्येव, इति चैतन्यपरिणामोपादान एवाद्यचैतन्यपरिणामः प्राणिनामन्त्यचैतन्योपादेयश्च जन्मान्तराद्यचैतन्यपरिणामः सिद्धः । पूर्वभवपरित्यागेन भवान्तरपरिग्रह एव च संसारः इति प्रसिद्धेन प्रमाणेन संसारतत्त्वं न बाध्यते । नानुमानेन, नाप्यागमेन, तस्य तत्प्रतिपादकतया श्रुतेः, संसारिणस्त्रसस्थावराः इति वचनात् [तत्त्वार्थसूत्रम् २.१२] ।
[संसारस्य कारणभूततत्त्वानां विचारः] तथा संसारोपायतत्त्वमपि न प्रसिद्धेन बाध्यते, प्रत्यक्षस्य तदबाधकत्वात् ।
- अष्टसहस्त्रीतात्पर्यविवरणम् पूर्वाकारेति द्रव्यार्थिकनयेनात्र देवादिपर्यायध्वंसविशिष्टात्मत्वेन तदव्यवहितोत्तरपर्यायत्वेनोपादानोपादेयभावः, पर्यायार्थिकनयेन तु स्वध्वंसत्वसम्बन्धेन देवादिपर्यायस्य मनुष्यादिपर्यायत्वावच्छिन्ने तादात्म्येनेति विशेषो द्रष्टव्यः । तस्य तेनाव्याप्तिरिति भिन्नलक्षणत्वस्य तत्त्वान्तरभावेन सह व्याप्यव्यापकभावाभाव इत्यर्थः । मदजननशक्तिसद्भावादिति तथा च साजात्यविशेषेण भिन्नलक्षणत्वविरोधादित्यर्थः । इष्टप्रतिष्ठानादिति चैतन्यशक्त्यन्वयिन आत्मद्रव्यस्यैव सिद्धेर्वीतरागजन्मादर्शनन्यायात्तस्य भूतनामकरणेऽपि वस्त्वव्याघातादित्यर्थः । तद्विवर्त्तत्वप्रसङ्गादिति साजात्यविशेषस्य विनिगमकस्यानभ्युपगमादित्यर्थः । कादाचित्कत्वाच्चितो न विवर्त्तवत्त्वं भविष्यतीत्यत आह