________________
९७
प्रथमो भागः [ परि. १-का. ३] सर्वत्र स्थितस्य बाधानुत्पत्तिसन्देहात्, समीपे बाधानुत्पत्तावपि दूरे बाधोत्पत्तिसम्भावनाच्च ।
[कस्यचित् मनुष्यस्य बाधानुत्पत्तिः सर्वस्य वा ?] किञ्च कस्यचिद् बाधानुत्पत्तिः सर्वस्य वा ? न तावत्कस्यचिद् बाधानुत्पत्तिः संविदि प्रामाण्यहेतुः, विपर्ययेऽपि भावात् । मरीचिकादौ तोयज्ञाने देशान्तरगमनादिना बाधानुत्पत्तावपि प्रमाणत्वाभावात् । सर्वस्य बाधानुत्पत्तिरर्थसंवेदने प्रामाण्यकारणमिति चेत्, न तस्याः किञ्चिज्ज्ञैर्ज्ञातुमशक्तेः शक्तौ वा तस्य सर्वज्ञत्वापत्तेरसर्वज्ञव्यवहाराभावप्रसङ्गात् सर्वदेशकालपुरुषापेक्षया बाधकाभावनिर्णयस्यान्यथानुपपत्तेः, इति न बाधारहितत्वेन संवेदनस्य प्रामाण्यम् ।
[तृतीयेन प्रवृत्तिसामर्थ्यहेतुना ज्ञानस्य प्रमाणत्वनिराकरणम्] (३) नापि प्रवृत्तिसामर्थ्यन, अनवस्थाप्रसक्तेः । प्रवृत्तिसामर्थ्यं हि फलेनाभिसम्बन्धः सजातीयज्ञानोत्पत्तिर्वा ? यदि फलेनाभिसम्बन्धः सोऽवगतोऽनवगतो वा संविदः प्रामाण्यं गमयेत् ? न तावदनवगतः, अतिप्रसङ्गात् । सोऽवगतश्चेत्, तत एव प्रमाणादन्यतो वा ? न तावत्तत एव, परस्पराश्रयानुषङ्गात्, सति फलेनाभिसम्बन्धस्यावगमे तस्य प्रमाणत्वनिश्चयात् तस्मिंश्च सति तेन तदवगमात् । अन्यतः प्रमाणात्सोऽवगत इति चेत्, तदन्यत्प्रमाणं कुतः प्रामाण्यव्यवस्थामास्तिघ्नुते ? प्रवृत्तिसामर्थ्यादिति चेत्, तदपि प्रवृत्तिसामर्थ्य यदि फलेनाभिसम्बन्धस्तदावगतोऽनवगतो वा संविदः प्रामाण्यं गमयेदित्यादि पुनरावर्त्तत इति चक्रकप्रसङ्गः । एतेन सजातीयज्ञानोत्पत्तिः प्रवृत्तिसामर्थ्य संवित्प्रामाण्यस्यागमकं प्रतिपादितं, सजातीयज्ञानस्य प्रथमज्ञानात्प्रामाण्यनिश्चये परस्पराश्रयणस्याविशेषात्, प्रमाणान्तरात्तत्प्रामाण्यनिर्णयेऽनवस्थानुषङ्गात् ।।
- अष्टसहस्त्रीतात्पर्यविवरणम् प्रामाण्यं गृह्यत इत्यनेन योग: । नापि प्रवृत्तिसामर्थ्येनेति अत्रापि प्रामाण्यं गृह्यत इति योजनीयम् । फलेन जलप्राप्त्यादिलक्षणेन, अभिसम्बन्धः =उपधेयोपधायकभावः, तस्याः =संविदः, तस्मिंश्च संविदः प्रमाणत्वनिश्चये च सति, तदवगमात्= फलाभिसम्बन्धावगमात्, पुनरावर्त्तत इति 'चक्रकमिति अन्यतः प्रमाणात् फलाभिसम्बन्धावगमे
१. चक्रकप्रसङ्ग इति अष्टसहस्रीसम्मतः पाठः ।